किञ्चोपाधिरात्मन..

उपाधेर्भेदकारित्वस्य निरासः

मूलम्

- किञ्चोपाधिरात्मन एकदेशं ग्रसत्युत सर्वमात्मानम् । एकदेशाङ्गीकारे सावयवत्वम् । सावयवस्य चानित्यत्वं तैरङ्गीकृतम् । सर्वग्रासे च नोपाधिर्भेदकः स्यात् । उपाधिकृतांशकल्पने तदुपाधिकृतत्वे आत्माश्रयत्वम् । उपाध्यन्तर-कल्पनेऽनवस्था ।

तत्त्वमञ्जरी

अथोपाधिग्रासार्थं उपाधिकृतांशकल्पने । तत्र चोद्यम्- किं तेनैवोपाधिना कृतोऽशः आहोस्वित् उपाध्यन्तरेणेति ।

टीका 

एवमुपाधेर्भेदकत्वमङ्गीकृत्य सुखदुःखादिव्यवस्था बद्धमुक्तव्यवस्था च परपक्षे न सम्भ-वत इत्युक्तम् । इदानीमुपाधेर्भेदकारित्वमेव नोपपद्यत इति प्रतिपादयितुमाह- किञ्चेति ।। अन्यच्चाभेदवादिनां दूषणमुच्यत इत्यर्थः । तद्वक्तुं विकल्पेन पृच्छति- उपाधिरिति ।। किमित्यनु-वर्तते । अथ वा किञ्चोपाधिरित्यादिकमेव वाक्यम् । तत्र किंशब्दः प्रश्ने चशब्दो दूषणसमुच्चये । आत्मन इति ब्रह्मणो जीवस्य वा    असंयुक्तस्य भेदकत्वेऽतिप्रसङ्गात्संयुक्त एव भिनत्तीति वाच्यम् । तत्रोपाधिनाऽऽत्मनः संयोगः किमात्मनः प्रदेशवृत्तिरुत व्याप्यवृत्तिरित्यर्थः ।

नन्वात्मनि निरंशे प्रश्न एवायं नोपपद्यते । मैवम् । न हि परो निरंशत्वमेवाङ्गीकरोतीत्यतः प्राक्प्रसक्तम् । तथाऽपि संयोगस्य प्रदेशवृत्तित्वं प्रसिद्धमिति विकल्पानुपपत्तिः । न । गुणेषु प्रकारद्वयदर्शनात्पराङ्गीकारस्य चानिश्चितत्वाद्विकल्पोपपत्तेः ।

उतशब्दः पक्षान्तरे । आत्मानं ग्रसतीति वर्तते । ग्रसति आत्मन्यन्तर्भावयति । तदेकदेशेन कृत्स्नेन वा तेन संयुज्यत इत्यर्थः । आद्ये दोषमाह- एकदेशेति ।। एकदेशग्रासाङ्गीकार इत्यर्थः । सावयवत्वमात्मनः प्रसज्यत इति शेषः । एकदेशोऽवयव इति परमतेऽनर्थान्तरत्वात् ।

ननु संयोगस्यैकदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वम् । तत्कथमयं प्रसङ्गः । मैवम् । भावाभावयोरेकाधिकरणत्वे सर्वत्र तयोर्विरोधाभावप्रसङ्गेन जगति विरोधमात्राभावप्रसङ्गात् सर्वविरोधानां तन्मूलत्वात् । भावाभावयोर्हि परस्परप्रतिक्षेपात्मकत्वेन साक्षाद्विरोधः । तद्द्वारा त्वन्येषामिति स्थितिः । अतस्तद्विरोधस्थित्यै स्वाभाविको वौपाधिको वैकदेशोऽङ्गीकार्य एव ।

अस्त्वात्मनः सावयवत्वं, ततः को दोष इति चेत् । सावयवत्वेनानित्यत्वप्रसङ्ग इति ब्रूमः । सावयवत्वेऽप्यनित्यत्वं कुत इति चेत् । पराभ्युपगतव्याप्त्या परस्याऽपादनमिति भावेनाऽह- सावयवस्य चेति ।। प्रसङ्गसमुच्चये चशब्दः । तैः अस्मदतिरिक्तैर्वादिभिः । यथाऽऽहुः- ‘कृतसावयवत्वादि प्रयुक्ता च विनाशिता’ इति ।

ननु द्रव्योपादानं द्रव्यमवयव उच्यते । यथा पटस्य तन्तवः । ततः सावयवं नामोपादानवत् । तस्यानित्यत्वं सर्वैरप्यङ्गीकर्तव्यम् । तस्मात्तैरित्यनुपपन्नम् । उच्यते । उपादानव्यतिरिक्तोऽप्येक-देशोऽस्मन्मतेऽङ्गीक्रियते । पटस्य खलूपादानं तन्तवः । तद्व्यतिरिक्ताश्च हस्तवितस्त्यादिपरिमिता एकदेशा दृश्यन्ते । तेऽप्युपादानमिति चेन्न । आरभ्यारम्भकत्वप्रसङ्गेन परैस्तदनभ्युपगमात् । किञ्च निरुपादानस्याप्याकाशस्यैकदेशा दृश्यन्ते । तदाश्रयेण च संयोगस्य प्रदेशवृत्तित्वं युज्यते । अतो नास्मन्मते तन्मात्रेणानित्यत्वं प्रसज्यते । परैस्तूपादानातिरिक्तस्यैकदेशस्यानङ्गीकृतत्वा-दुपाधिसंयोगस्यैकदेशवृत्तित्वाङ्गीकारे सोपादानत्वमेवाङ्गीकृतं स्यादिति तेषामेवानित्यत्वप्रसङ्गः। अनित्यत्वे च मोक्षाभावात् पुनर्बद्धमुक्तव्यवस्थाऽभाव एवेति ।

द्वितीये दोषमाह- सर्वेति ।। न हि सर्वस्मिन् पटे महारजनेन लिप्ते भेदबुद्धिरुत्पद्यते । एकदेशसम्बन्धेऽनित्यत्वप्रसङ्गाद्व्याप्यवृत्तित्वेऽङ्गीकार्ये नोपाधेर्भेदहेतुत्वमित्यभिप्रायः । ननूपाधि-संयोगः प्रदेशवृत्तिरेव । तथात्वे सावयवत्वापत्तिरिति चेन्न । इष्टत्वात् । न चानित्यत्वप्राप्तिः । तस्याप्यंशस्योपाधिकृतत्वाङ्गीकारात् । स्वाभाविकस्यैवांशवत्त्वस्यानित्यत्वेन व्याप्तत्वादिति चेत्तत्र वक्तव्यम्    किमेतेनैवोपाधिसंयोगेन  कृतेऽशेऽयमेवोपाधिसंयोगः,  उतोपाधिसंयोगान्तरेण कृते । आद्ये दोषमाह- उपाधीति ।। तदुपाधिकृतत्वे तदुपाधिसंयोगकृतत्वेऽशस्येति शेषः । आत्माश्रयत्वम् एतदुपाधिसंयोगसिद्ध्यर्थमेतदुपाधिसंयोगस्यापेक्षितत्वात् । द्वितीयं दूषयति- उपाध्यन्तरेति ।। तस्याप्युपाधिसंयोगस्यांशवृत्तित्वेनोपाधिसंयोगान्तरापेक्षत्वादनवस्था । उपाधिसंयोगद्वयाङ्गीकारेऽन्योन्याश्रयत्वम् । त्रयाद्यङ्गीकारे चक्रकमिति च स्फुटत्वान्नोक्तम् । पूर्वपूर्वसंयोगेनैवांशभेदस्य कृतत्वे सत्युत्तरोत्तरसंयोगवैयर्थ्यञ्च । यद्यप्यत्रांशे संयोगपक्षे भेदकत्वा-नुपपत्तिः कृतस्य करणायोगाद्वक्तुं शक्यत एव । तथापि सा शिष्यैरेवोह्यतामिति भावेन सावयवत्व-मापाद्य तस्य चाऽत्माश्रयानवस्थादिप्रसङ्गेनैवौपाधिकत्वनिरासेन स्वाभाविकत्वमापाद्यानित्यत्व-मेवाऽपादितम् ।

ननु च दण्डकुण्डलाद्युपाधिकृतो देवदत्तस्य भेदो दृश्यते । तत्कथमुपाधिकृतो भेदो नास्तीत्यु-च्यते । मैवम् । न दण्डादिना देवदत्तस्य भेदः क्रियते । किन्तु दण्डादिविशेषणसम्बन्धेन देवदत्तो विशिष्टरूपं द्रव्यान्तरमुत्पादयति । व्यावृत्तिरेव वैशिष्ट्यमिति मतेऽपि दण्डादिकं प्राक् स्थितामेव व्यावृत्तिं बोधयति । न ह्यवस्थान्तरापादनमेव भेदकत्वमत्र विवक्षितं तस्य व्यवस्थाऽनुपयोगि-त्वात् । किं नाम युगपदनेकत्वहेतुत्वमिति ।

भावबोधः

ब्रह्मणो जीवस्य वेति ।। अज्ञानरूपोपाधेर्ब्रह्मसम्बन्धस्य, देहादिरूपोपाधेर्जीवसम्बन्धस्य परेणाङ्गीकृतत्वादिति भावः । भावाभावयोरिति ।। प्रतियोगितत्संसर्गाभावयोरेकस्मिन् काल इत्यर्थः । आरभ्यारम्भकत्वेति ।। हस्तवितस्त्यादीनां पटोपादानत्वे उपादानस्य प्राक्तनत्वनियमेन हस्तवितस्त्यादय आदौ स्वयमुत्पद्य पश्चात्पटारम्भका भवेयुरित्यारभ्यारम्भकत्वप्रसङ्गेनेत्यर्थः । अथ वा हस्तवितस्त्याद्युपा-दानस्यान्यस्याभावात्तन्तूनामेवोपादानत्वे तन्तूनां हस्तवितस्त्यादीन् आरभ्य उत्पाद्य पटारम्भकत्वप्रसङ्गेनेत्यर्थः।

भावदीपः

दूषणसमुच्चय इति ।। व्यवस्थानुपपत्तिरूपप्रागुक्तदूषणेनास्येत्यर्थः । ब्रह्मण इति ।। ‘तदेवोपाधि-वशान्नानाजीवभावमापद्यते’ इति, यदि चैकमेवेत्यत्रोक्तत्वाद्धस्तपादाद्युपाधिवशाज्जीवो नानांशभावमापद्यत इति ‘हस्तपादाद्युपाधिभेदेऽपि’ इत्यादिना ज्ञापनाज्जीवस्येत्युक्तम् । विकल्पायोगो हि प्रष्टव्यार्थविरोधिनः पूर्वत्र प्रसक्तत्वाद्वा अनिर्वचनीयस्यैव सर्वथाऽलीकत्वेन वा । नाऽद्य इत्याह- न हीति ।। अतः प्रागिति ।। इतः भावदीपः

पूर्वमित्यर्थः । अन्त्य आह- तथापीति ।।  विरोधिप्रसक्त्यभावेऽपि । प्रसिद्धमिति न विकल्पानुप-पत्तिरिति योजना । तावता कथं विकल्पः, कोटिद्वयप्रसिद्ध्या भाव्यत्वादित्यत आह- गुणेष्विति ।। संयोगादौ प्रदेशवृत्तित्वस्य रूपादौ व्याप्यवृत्तित्वस्य चेत्येवंप्रकारद्वयस्येत्यर्थः । उपाधिसंयोगस्य च गुणत्वादिति भावः । पराङ्गीकारस्येति ।। निरंशत्वाङ्गीकारस्येत्यर्थः । प्रसङ्गसमुच्चय इति ।। सावयवत्वानित्यत्वापादनयोस्समुच्चय इत्यर्थः । आरभ्यारम्भकत्वेति ।। हस्तवितस्त्यादीनामुपादानत्वे स्वयम् आरभ्य पटात्पूर्वमुत्पाद्य पश्चात् पटारम्भकत्वप्रसङ्गेनेत्यर्थः । ननूपाधेर्भेदकत्वानुपपत्तिं वक्तुमारभ्य कथं सावयवत्वाद्यापादनं क्रियत इत्यतस्तत्रैव पर्यवसानमाह- एकदेशसम्बन्ध इति ।। उत्तरोत्तरसंयोगवैयर्थ्यं चेति ।। तत्कृत्यस्यांशसम्पादनस्य  प्रागेव जातत्वादिति भावः । अनुपपत्तिरिति ।। वक्तुं शक्यत एवेत्यन्वयः । भ्रान्तश्चोदयति- ननु च दण्डेति ।। अस्त्वेवं प्रकृतेऽपि सुखदुःखादिव्यवस्थापकमवस्थान्तरकरणमुपाधिनेत्यत आह- न ह्यवस्थान्तरेति ।। उपाधेर्भेदकत्वायोगः ।

वाक्यार्थदीपिका

(श्री.टि)

भेदकत्वं भेदकारित्वम् । अनुवर्तत इति ।। किञ्चेति पूर्ववाक्यादित्यर्थः । ब्रह्मणो जीवस्य वेति ।। अज्ञानरूपोपाधेर्ब्रह्मसम्बद्धत्वस्य देहादिरूपोपाधेर्जीवसम्बद्धत्वस्य परेणाङ्गीकृतत्वादिति भावः । अति-प्रसङ्गादिति ।। काश्मीरस्थेन महारजनेन केरलदेशवर्तिवाससोऽवच्छेद प्रसङ्गादित्यर्थः । अतः प्रागिति ।। ‘किञ्चोपाधिः’ इति ग्रन्थात्प्रागित्यर्थः । येन प्रश्नो नोपपद्येतेति भावः । प्रकारान्तरेण प्रश्नानुपपत्तिं शङ्कते- तथापीति ।। प्रसिद्धमितीति ।। तथा च सन्देहायोगेन तन्मूलकविकल्पप्रश्नानुपपत्तिरिति भावः । परिहरति- नेति ।। गुणेष्विति ।। केचिद्रूपादयो गुणा व्याप्यवर्तिनः प्रसिद्धाः । शब्दो विभागश्चाव्याप्यवर्तिनौ प्रसिद्धौ । संयोगश्च गुणः । अतो व्याप्यवृत्तिरव्याप्यवृत्तिर्वेति सन्देहसम्भवेन युक्तस्तन्मूलको विकल्पप्रश्न इत्यर्थः ।

ननु तथाऽपि परेण संयोगस्य प्रदेशवृत्तित्वमङ्गीकृतमिति । निश्चितत्वेन पुनः प्रश्नानुपपत्तिरित्यत उक्तम्- पराङ्गीकारस्य चेति ।। नन्वेकदेशग्रासाङ्गीकारे आत्मनः सावयवत्वं कुतः प्रसज्यत इत्यत आह- एकदेशोऽवयव इति ।। सिद्धान्ते पटे उपादानभूततन्तुव्यतिरिक्तानामपि हस्तवितस्त्यादिरूपैकदेशानामङ्गीकारात् परमत इत्यु-क्तम् । तत्कथमिति ।। एकदेशवृत्तित्वस्य प्रदेशवृत्तित्वरूपत्वे हि सावयवत्वापादनं सङ्गत स्यान्न चैवमिति भावः । एकाधिकरणत्व इति ।। संयोगस्य स्वात्यन्ताभावसामानाधिकरण्याङ्गीकारे भावाभावयोरेकाधिकरणत्व-प्राप्तेरित्यर्थः । सर्वविरोधानां ज्ञानवाक्यस्ववचनस्वन्यायविरोधानाम् । तन्मूलत्वादिति ।। भावाभावविरोध-मूलकत्वादित्यर्थः । तदेवोपपादयति-भावाभावयोर्हीति ।। परस्परप्रतिक्षेपात्मकत्वेन परस्परविरुद्धरूपत्वेन । तद्द्वाराऽन्येषामिति ।। घटतदभावयोर्विरुद्धत्वादेव ज्ञानतदभावयोर्घटोऽस्ति घटो नास्तीति घटतदभाव-प्रतिपादकवाक्ययोश्च विरोधः ।  एवमन्यत्रापीति भावः ।  तद्विरोधस्थित्यै भावाभावयोर्विरोधस्थित्यै । विरोधस्थितौ सत्यामिति यावत् । तच्छान्त्यर्थमिति शेषः । स्वाभाविक इति ।। तथा च संयोगस्य स्वात्यन्ताभावसामानाधि-करण्यमङ्गीकुर्वताऽपि विरोधपरिहाराय स्वाभाविक औपाधिको वा एकदेशोऽङ्गीकार्य एवेत्यर्थः । अत एवाऽऽहुः (श्री.टि.)

पदार्थविदः-  ‘अग्रे वृक्षः कपिसंयोगीति मूले नेति प्रतीतेरवच्छेदकभेदेनाविरोधः’ इति  । तत्रावच्छे-दकशब्देन प्रदेशस्यैवाभिप्रेतत्वादित्यवधेयम् । प्रसङ्गसमुच्चय इति ।। सावयवत्वापादनेन सहानित्यत्वापादनस्य समुच्चय इत्यर्थः । कृतेति ।। द्वन्द्वान्ते श्रूयमाणस्य त्वप्रत्ययस्य प्रत्येकं सम्बन्धः । तथा च कृतं कृतत्वम् । कृतकत्वमित्यर्थः । एवं च विनाशिता अनित्यता कृतकत्वसावयवत्वादिप्रयुक्तेति तदर्थो द्रष्टव्यः ।

शिष्यश्शङ्कते- नन्विति ।। द्रव्यमवयव इत्युक्ते घटादेरप्यवयवत्वं स्यादत उक्तम्- द्रव्योपादानमिति ।। तावत्युक्ते सिद्धान्ते शब्दरूपगुणस्याप्याकाशं प्रत्युपादानत्वेनावयवत्वं स्यादत उक्तम्- ‘द्रव्यमिति’ इति सम्प्रदायविदः ।। तस्येति ।। स्वोपादानकद्रव्यस्येत्यर्थः । सर्वैरिति ।। भवदादिभिरपीत्यर्थः । आरभ्यारम्भ-कत्वप्रसङ्गेनेति ।। तन्तूनामिवेति शेषः । तन्तुवद्धस्तवितस्त्यादिपरिमितैकदेशानामपि पटोपादानत्वे हस्त-वितस्त्यादिपरमितैकदेशोपादानस्यान्यस्याभावेन तन्तूनामेव तदुपादानत्वे वाच्ये तन्तूनामादौ हस्तवितस्त्यादि-परिमितैकदेशानामारभ्योत्पाद्य पटारम्भकत्वप्राप्त्या विरम्य व्यापारप्रसङ्गेनेत्यर्थः । पटोत्पादने प्रवृत्तानामस्माकं न हस्तवितस्त्याद्येकदेशोत्पादनेनैव चारितार्थ्यं किन्तु पटोऽप्यस्माभिः करणीय इति मत्वा हस्तवितस्त्यादीनुत्पाद्य पश्चात्पटस्तन्तुभिरारब्धव्य इत्येवं स्थित्वा व्यापाररूपो विरम्यव्यापारश्चेतनधर्मो नाचेतनेषु तन्तुषु सम्भवतीति भावः । आकाशस्य अव्याकृताकाशस्य । दृश्यन्त इति ।। साक्षिणेति शेषः । इह विहङ्गमः पततीत्यादिप्रत्ययस्य साक्ष्युपनीताव्याकृताकाशैकदेशाधिकरणकत्वस्यान्यत्र समर्थितत्वादिति भावः  । तदाश्रयेण तादृशैकदेशा-श्रयेण । तन्मात्रेण तादृशैकदेशवृत्तितामात्रेण । अङ्गीकृतं स्यादिति ।। आत्मन इति शेषः । तेषां परेषाम् । अत एवानित्यत्वप्रसङ्गो नास्मन्मत इत्यर्थः । अनित्यत्वापादने इष्टापत्तिं परिहरति- अनित्यत्वे चेति ।। तथात्व इत्यनन्तरम् आत्मन इति शेषः । तस्यापीति ।। उपाधिसंयोगो यदंशवृत्तिस्तस्यापीत्यर्थः । तर्हि अनित्यत्वप्राप्तिः कथं परिहृतेत्यत आह- स्वाभाविकस्यैवेति ।। न तूपाधिकृतांशस्येत्यर्थः । एतेनैवेति ।। जीवब्रह्मभेद-हेतुभूतेनैवेत्यर्थः । अपेक्षितत्वादिति ।। तथा च स्वापेक्षया स्वस्यैव पूर्वभावित्वप्राप्त्या आत्माश्रयत्वमिति भावः । अपेक्षत्वादिति ।। अंशस्येति शेषः । अनवस्थेति ।। अंशोपाधिसंयोगपरम्परयाऽनवस्थेत्यर्थः । नन्वेतदुपाधिसंयोगकृतेऽशे उपाध्यन्तरसंयोगः । उपाध्यन्तसंयोगकृतेऽशे एतदुपाधिसंयोग इत्युपाधिसंयोगद्वयाङ्गी-कारान्नानवस्थेति चेत्तर्ह्यन्योन्याश्रयस्स्यादित्याह- उपाधिसंयोगद्वयेति ।। त्रयादीति ।। उपाधिसंयोग-त्रयाद्यङ्गीकार इत्यर्थः । पूर्वपूर्वेति ।। एतदुपाधिसंयोगस्यांशवृत्तित्वोपपत्त्यर्थं ये उपाध्यन्तरसंयोगा ब्रह्मणि कल्प्यन्ते ते पूर्वपूर्वसंयोगाः । तदन्ये उत्तरोत्तराः । तथा च पूर्वोपाधिसंयोगेनैवांशभेदस्य प्राप्तत्वाद् उत्तरोपाधि-संयोगकल्पनावैयर्थ्यमित्यर्थः । संयोगपक्षे उपाधिसंयोगपक्षे । भेदकत्वानुपपत्तिः उपाधेर्भेदकारित्वानुपपत्तिः । तत्र हेतुः- कृतस्येति ।। उपाधिसंयोगस्यांशवृत्तित्वाङ्गीकारे उपाधिसंयोगात् प्रागेवांशः सिद्धः । अन्यथा तस्यैतद्- वृत्तित्वकथनायोगात् । तथा चांशसिद्ध्या तद्भेदस्यापि सिद्धत्वेनोपाधिना पुनस्ततत्करणायोगादित्यर्थः । इति वक्तुं शक्यत एवेति ।। तथा च सावयवत्वापादनं व्यर्थमिति भावः । सेति ।। उपाधेर्भेदकत्वानुपपत्तिः । (श्री.टि.) तस्य चावयवस्यौपाधिकत्वनिरासेनेत्यन्वयः । तत्र हेतुः- आत्माश्रयेत्यादि ।। ‘तदुपाधिकृतत्वे’ इत्यादिनोक्तरीत्येत्यर्थः । दण्डादिना दण्डाद्युपाधिना । देवदत्तस्य विशेष्यभूतदेवदत्तस्वरूपस्य । तर्ह्युपाधेः कृत्याभावाद्वैयर्थ्यमित्याशयेन शङ्कते- किन्त्विति ।। उत्तरमाह- दण्डादीति ।। उत्पादयतीत्यनन्तरम् इत्येवेति शेषः । तथा च विशेष्यभूतो देवदत्तो विशिष्टं प्रत्युपादानं विशिष्टशुद्धयोश्च भेदाभेदौ । एवं च विशेष्यभूतदेवदत्तस्य विशिष्टाकारेण परिणामे दण्डाद्युपाधिसम्बन्धो निमित्तमित्येव न तु देवदत्ते भेदकारीत्यर्थः ।

ननु दण्डाद्युपाधिस्तावद्  देवदत्ते वैशिष्ट्यमुत्पादयति    अदण्ड्यादिव्यावृत्तिरेव वैशिष्ट्यमित्यङ्गीकृतं वैशेषिकैः । व्यावृत्तिरेव च भेदः । एवं च दण्डाद्युपाधेर्व्यावृत्त्यपरपर्यायवैशिष्ट्याख्यभेदकारित्वं प्राप्तमेवेति कथमुपाधिकृतो भेदो नास्तीत्युच्यत इत्यत आह- व्यावृत्तिरेवेति ।। प्राक्स्थितामेवेति ।। अदण्ड्यादि-व्यावृत्तेरन्योन्याभावरूपाया नित्यत्वेन वैशेषिकैरङ्गीकाराद् दण्डाद्यभावदशायामपि देवदत्तेऽदण्डिव्यावृत्ति-सद्भावेन दण्डाद्युपाधिसम्बन्धस्य प्राक्स्थितादण्ड्यादिव्यावृत्तिज्ञापकत्वमेव न कारकत्वमिति भावः ।

नन्वदण्डित्वदशायामदण्डिव्यावृत्तिः कथम् । अन्योन्याभावस्य प्रतियोगितावच्छेदकेन सह विरोधाद् अदण्डित्ववत्यदण्डिव्यावृत्तेरयोगादिति चेदुच्यते- अत्यन्ताभाववदन्योन्याभावस्याप्यव्याप्यवृत्तित्वात् । न चात्यन्ताभावस्याव्याप्यवृत्तित्वेऽपि तस्य प्रतियोगिसामानाधिकरण्याविरोधघटकावच्छेदकभेदवदिहान्योन्या-भावस्याव्याप्यवृत्तित्वे प्रतियोगितावच्छेदकसामानाधिकरण्याविरोधघटकं किमपि नास्तीति वाच्यम् । काल-भेदस्यैवेह सत्त्वात् । पूर्वमदण्डिनोऽपि पश्चाद्दण्डसम्बन्धदशायामदण्डिव्यावृत्तेरपि सत्त्वेनादण्डित्वादण्डि-व्यावृत्त्योः कालभेदेनाविरोधोपपत्तेः । यद्वा यथाऽनित्योऽपि घटात्यन्ताभावो भूतले घटसद्भावदशायां भूतला-संसर्गितयाऽवृत्तिन्यायेनास्ति ततो न विरोधः । घटापसरणे तु भूतलघटसम्बन्धध्वंसरूपव्यञ्जकसम्पत्त्या प्रतीयत इत्यङ्गीकृतं तार्किकैः    एवमदण्डित्वदशायां नित्यभूतादण्डिव्यावृत्तिरपि देवदत्तासंसर्गितयाऽस्त्येवातो न विरोधः । सा च दण्डसम्बन्धरूपव्यञ्जकसमवधाने सति प्रतीयत इति द्रष्टव्यमिति । ननु दण्डाद्युपाधिसम्बन्धेन देवदत्ते पूर्वमविद्यमानं दण्डित्वादिरूपमवस्थान्तरं जायत इत्यनुभवसिद्धम् । एवं चावस्थान्तरापादकत्वमेव  भेदकत्वमित्युपाधेरवस्थान्तररूपभेदकारित्वसिद्धिरित्यत  आह- न हीति  ।। अत्रेति ।। सुखदुःखादि-व्यवस्थोपपादनरूपे प्रकृत इत्यर्थः । कुतो न हि विवक्षितमित्यत आह- तस्येति ।। यथैकस्मिन् देहे बाल्ययौव-नाद्यवस्थान्तरापत्तौ न देवदत्तयज्ञदत्तगतसुखदुःखादिव्यवस्थोपपत्तिरेवमेकस्यैव शरीरलक्षणोपाधेर्देव-दत्तेऽवस्थान्तरापादकत्वप्राप्तावपि न तेन देवदत्तयज्ञदत्तयोस्सुखदुःखादिव्यवस्था सिद्ध्यतीत्येवमवस्थान्त-रापादकत्वरूपभेदकत्वस्य सुखदुःखादिव्यवस्थानुपयोगित्वादित्यर्थः । तर्हि व्यवस्थोपयोगिभूतं भेदकत्वं कीदृशमिति पृच्छति - किं नामेति ।। उत्तरमाह- युगपदिति ।।  यद्युपाधिर्युगपदनेकत्वरूपभेदहेतुः स्यात् तर्ह्येवैतादृशोपाधिकृतभेदेनोक्तव्यवस्थोपपत्तिर्नान्यथा । एवं च दण्डाद्युपाधिर्देवदत्ते न युगपदनेकत्वरूपभेद-हेतुरतो न  दण्डादेर्देवदत्तादौ युगपदनेकत्वरूपभेदहेतुत्वस्याभावादुपाधिकृतो भेदो नास्तीत्युक्तं युक्तमिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

पूर्वोत्तरविरोधं परिहरति- एवमिति ।। ब्रह्मणो जीवस्य वेति ।। अज्ञानरूपोपाधेर्ब्रह्मसम्बन्धस्य देहादिरूपोपाधेर्जीवसम्बन्धस्य च परेणाङ्गीकृतत्वादिति भावः । प्रश्न एव नोपपद्यत इति ।। सिद्धार्थतायाः प्रश्नदूषणत्वादिति भावः । परकीयस्तदङ्गीकारः कुतः सिद्ध इत्यतस्तद्वचनादेवेति भावेन तदुदाहरति- यथाऽऽहु-रिति ।। आरभ्येति ।। तन्त्वतिरिक्तत्वे हस्तवितस्त्याद्यवच्छेद्यानामंशानां पटारम्भकत्वे आरम्भकस्य कार्यारम्भात्प्राक्सत्त्वनियमेन हस्तवितस्त्याद्यवच्छेद्यांशाः पूर्वमुत्पद्य पश्चात्पटारम्भकाः स्युरित्यारभ्यारम्भकत्व-प्रसङ्गेनेत्यर्थः । यद्वा हस्तवितस्त्याद्यवच्छेद्यांशानामारम्भकान्तरस्याभावात्तन्तूनामेव हस्तवितस्त्याद्यवच्छेद्यांशा-नारभ्य पश्चात्पटारम्भकत्वप्रसङ्गेनेत्यर्थः । ‘उपाधिकृतांशकल्पने’ इत्युत्तरवाक्ये शङ्कासमाधाने न युक्ते, अनित्यत्वप्रसङ्गेन दूषिततया पुनः शङ्कोदयासम्भवादित्याशङ्क्याभिप्रायकथनपूर्वकं तद्ग्रन्थमवतारयति- ननूपा-धीति ।। अंशस्य तदुपाधिकृतत्वेऽपि तत्संयोगकृतत्वाभावेन तत्संयोगार्थं तत्संयोगस्यापेक्षाया अभावात् कथमात्माश्रयत्वमित्यतस्तदुपपादकतया मूलं योजयति- तदुपाधिकृतत्व इत्यादिना ।। उपाध्यन्तरकृतत्वेऽनव-स्थाप्रसङ्गादन्योन्याश्रयादिप्रसङ्गस्यापि वक्तव्यत्वात्तदनुक्तिरयुक्तेत्यतो निमित्तोक्त्या तदनुक्तिमुपपादयति- उपाधिसंयोगद्वयाङ्गीकार इत्यादिना ।।

लघुप्रभा

(व्या.टि.)

उच्यत इति शेषोक्तिः । किमितीति ।। ननु कथमस्यानुवृत्तिः । प्रागवृत्तत्वात् । किञ्चेतिपदवृत्तत्वेऽपि पदस्य ह्यनुवृत्तिः न तदेकदेशस्य । ‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम्’ इति ‘सूत्रेष्वदृष्टं पदम्’ इति च पदस्यैवानुवृत्त्युक्तिः । प्रकृते तु किञ्चेत्येकं पदं न किमिति । अतः कथमनुवृत्तिरुक्तेति चेत्, मैवम् । महाभाष्ये ‘सदिरप्रतेः’ इत्यत्र प्रसाद इत्यादौ षत्वव्यावृत्तये ‘इण्कोः’ इत्यादौ समासरूपपदैकदेशस्यापि प्रत्येकमपि पदत्वेन इण्इत्यस्यानुवृत्त्या इण्णन्तादुपसर्गादित्युक्तेरिहापि किञ्चेतिनिपातसमुदायैकदेशस्य किमोऽपि पदत्वेना-नुवृत्तिर्युक्तैवेति रहस्यम् । अज्ञानादिलक्षणो देहादिलक्षणश्चोपाधिर्ब्रह्मणो जीवानाञ्च भेदक इत्यभिप्रेत्याऽत्मपदं द्वेधा व्याचश्व्े- ब्रह्मणो जीवस्येति ।। असंयुक्तस्यापि भेदकत्वे संयुक्ते एव विकल्पो न युज्यत इत्यत आह- असंयुक्तस्येति ।। तथाऽपि विकल्पो न युज्यते । आकाङ्क्षाविरहेणासङ्गतेः व्याहतेर्वा प्रश्नदोषत्वात् । यथोक्तमनुव्याख्याने-

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।

सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ।।’

इति भावेन शङ्कते- नन्विति ।। अत इति ।। एतस्माद्विकल्पादित्यर्थः । प्रसक्तमिति ।। येनासङ्गतिः स्यादिति वाक्यशेषः । ननु संयोगत्वस्याव्याप्यवृत्तिताव्याप्यस्य पक्षे दर्शनेन सिद्धार्थत्वात्प्रश्नो नोपपद्यते । असङ्गतेरिव सिद्धार्थताया अपि प्रश्नदोषतया परिगणितत्वादित्याशयेन शङ्कते- तथाऽपीति ।। निषेधति- नेति ।। संशय-बीजमुज्जीवयति- गुणेष्विति ।। ननु गणित्वस्य साधारणधर्मत्वेऽपि न संशयबीजोज्जीवनम् । साधारणधर्म-दर्शनमात्रं न संशयबीजं किन्त्वन्यतरकोटिव्याप्यादर्शनसचिवम् । अत्र च व्याप्यवृत्तित्वव्याप्यसंयोगत्वं प्रकृतेऽवगतं (व्या.टि.) न वा । नेति पक्षेऽनुवादायोगादवगतमित्येव वक्तव्यम् । तत्र च संशयानुपपत्तिरिति । मैवम् । भावानवबोधात् । (न)तत्र गुणत्वं साधारणधर्मतयोपात्तम् । किन्तु विमतिविषयतावच्छेदकतयाऽपि । संयोगत्वं तु नावगतम् । अनुवादस्तु सम्भावनयेति न दोषः । विमतिं विदर्शयति- प्रकारद्वयेति ।। संयोगे प्रदेशवृत्तित्व-मितरेषु व्याप्यवृत्तित्वमिति प्रकारद्वयेत्यर्थः । अथ वा संयोगत्वं धर्मितावच्छेदकम् । तस्मिंश्च प्रदेशवृत्तित्वं न निश्चितं गुणेषु प्रकारद्वयदर्शनादित्यर्थः । पराङ्गीकारोऽपि न प्रश्नविरोधीत्याह- पराङ्गीकारस्येति ।। अनेन कः पक्षोऽत्र पक्षीक्रियत इति मूले शेषं सूचयति- अनिश्चितत्वादिति ।। अन्यतरकोट्यङ्गीकारस्यानिश्चितत्वात् संशयोपपत्तिरिति भावः । आत्मानमित्यतः परमित्यतः परमिति शेषः । विकल्पदूषणयोः सामानाधिकरण्याय ग्रस्यमानवाच्येकदेशपदं ग्रासोपलक्षणमित्याह- एकदेशग्रासाङ्गीकार इति ।। साधने बाधनिरासायाऽह- प्रसज्यत इतीति ।। कथं प्रसज्यप्रसञ्जकभाव इत्यत आह- एकदेश इति ।। परग्रहणेन स्वमतेऽर्थान्तरत्वं ध्वनयति । न्यायनयमभिनीय दर्शयति- नन्विति ।। समानाधिकरणत्वमेवेति ।। नावयववृत्तित्वमित्यर्थः । कथमिति ।। आपादकाभावादिति भावः । भावाभावयोरिति ।। तथाभूतयोः संयोगतदभावयोरित्यर्थः । सर्वत्रेति ।। भावाभावसामान्येऽपीत्यर्थः । प्रसङ्गेनेति ।। विशेषे तथाभावे विनिगमकाभावादित्यर्थः । विरोध-मात्रेति ।। सहानवस्थानलक्षणविरोधमात्रेत्यर्थः । प्रयोज्यप्रयोजकभावमुपपादयति- सर्वेति ।। क्वचिद्भावयोरेव, क्वचिदभावयोरेव, क्वचिद्भावाभावयोः, क्वचिद्व्याप्ययोरित्येवं सर्वसम्बन्धिनामित्यर्थः । न तु यथाश्रुतः । वध्यघातुकभावस्य तन्मूलत्वाभावादिति द्रष्टव्यम् । आशयं प्रकाशयति- परस्परेति ।। तदुक्तमनुव्याख्याने-

असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।

जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि’ इति ।

प्रसङ्गं विपर्यये पर्यवसाययति- अत इति ।। वेत्यनास्थायाम् । ‘कृतास्त्रमकृतास्त्रं वा’ इति रामायणे विश्वा-मित्रवचोवत् । अस्त्विति ।। तस्य स्वतोऽनिष्टत्वाभावादिति भावः । चशब्दं भिन्नवाक्यतया योजयितुं तत्समुच्चयप्रसङ्गं दर्शयति- सावयवत्वेनेति ।। मूलं प्रसङ्गमूलव्याप्त्युपपादकतया व्याचश्व्े-सावयवत्वेऽपीति ।। न च प्रसङ्गपरपदाभावः । चशब्दस्य समुच्चयवाचकत्वेऽपि समुच्चेयपदाभावेन समुच्चायकत्वासम्भवादित्यत आह- प्रसङ्गसमुच्चय इति ।। अनित्यत्वप्रसङ्गसमुच्चय इत्यर्थः । अनेनेदं सूचयति । यथा प्रादयः क्रियासंयोगे तदर्थातिशायकाः । तदभावे तु ससाधनक्रियामाहुः । प्राचार्य इत्यादौ । तथा चशब्दोऽपि समुच्चेयपरपदसमभिव्याहारे समुच्चयमात्रपरः । तदभावे तु समुच्चेयसमुच्चयमाचिनोति इति । सैकदेशत्वरूपसावयवत्वेऽनित्यत्वं नास्मान् प्रसञ्जयति । उपादानातिरिक्तैकदेशाभ्युपगमेन सोपादानत्वरूपसावयवत्वानङ्गीकारादिति वक्तुं तज्ज्ञापकतया परोक्षव्यवहितमात्रवाचितच्छब्दस्वरसलब्धार्थमाह- अस्मदतिरिक्तैरिति ।। वादिभिरिति विशेष्येऽपि शेषो-क्तिः । तन्मात्रोक्तावस्मदर्थस्यापि प्राप्तेः तं व्यावर्तयत्तच्छब्दस्यार्थोऽस्मदतिरिक्तैरिति । कृतसावयवत्वेति द्वन्द्वात्परो भावप्रत्ययः प्रत्येकमपि सम्बद्ध्यते ।

(व्या.टि.) तार्किकः शङ्कते- नन्विति ।। समाधिं वक्तुं प्रतिजानीते- उच्यत इति ।। किमुपादानव्यतिरेकेणाव-यवाभावात्तच्छब्दयोः पर्यायत्वमुत सावयवत्वस्य सोपादानत्वाविनाभावेन सावयवत्वे सोपादानत्वप्रसङ्ग इति विकल्प्याऽद्यं निराह- उपादानव्यतिरिक्तोऽपीति ।। परानभ्युपगमे निमित्तमाह- आरभ्येति ।। न आरभ्येति ल्यबन्तं किन्तु कृत्यान्तम् । अर्थादन्येति सम्बध्यते । तथा चान्यारभ्यस्य स्वव्यतिरेकेण सिध्यतोऽर्थस्येति लभ्यते । तथा च तन्तूनादायैकदेशानां तानादाय तन्तूनां वाऽन्यथासिद्ध्यापत्त्याऽनन्यथासिद्धान्वयव्यतिरेकाभावेन कस्याप्युपादानत्वाभावापातेनेत्यर्थः । हस्तवितस्त्यादीनामुपादानत्वे स्वयमारभ्य पटात् पूर्वमुत्पद्य पश्चात् पटारम्भकत्वप्रसङ्गेनेत्यर्थ इति स्वामिनः । द्वितीयं पराचश्व्े- किञ्चेति ।। व्यवस्थया दूषणसमुच्चये चशब्दः । संयोगस्येति ।। मूर्तसंयोगस्येत्यर्थः । अमूर्तसंयोगस्य तु व्याप्यवृत्तित्वमेव । न च मूर्तामूर्तसंयोगे कथमिति वाच्यम् । अस्मन्मते परस्परनिरूपितसंयोगद्वैविध्येन यथायथं व्याप्यवृत्तित्वाव्याप्यवृत्तित्वोपपत्तेः । परमते त्वैक्याद्व्याप्यवृत्तित्वाव्याप्यवृत्तित्वे विरुद्धे स्यातामिति दूषणं बोध्यम् । सोपादानत्वमेवेति ।। अनेन ‘अग्रावच्छेदेन संयोगः मूलावच्छेदेन तदभावः’ इत्याद्युक्तिरयुक्ता परमते । उपादानातिरिक्तभागाभावात् । तदङ्गीकारे त्वदर्शनसंवादयोरापत्तेरिति सूचितम् । अनित्यत्वेति ।। आत्मन इति शेषः । तस्य त्विष्टा-पत्तावनिष्टान्तरमाह- अनित्यत्वे चेति ।। एवेत्यपरिहार्यतामाह । ननु किञ्चेति उपाधेर्भेदकत्वानुपपत्तिं प्रतिज्ञाय विकल्पितम्  । तदयुक्तम् । कल्पद्वयेऽपि भेदकत्वानुपपत्त्यभावादित्यतोऽस्याभिप्रायमाह- एकदेशसम्बन्धे चेति ।। कल्पयोराद्यं दोषान्तरेण निरस्योत्तरं परिशेष्य भेदकत्वानुपपत्तिरुच्यत इति न प्रतिज्ञोपपादनवैयधि-करण्यमिति । सांशत्वेन सावयवत्वप्रसङ्गे इष्टापत्तिं द्वितीये तत्प्रयुक्तानित्यत्वप्रसङ्गे व्याप्तिवैकल्यमाशङ्कते- नन्वित्यादिना ।। उपाधिसंयोगान्तरेति ।। अपर्यवसितेति शेषः । अनवस्थोक्तिः व्यवस्थितदोषान्त-रोपलक्षणमित्याह- द्वयेत्यादि ।। नोक्तमिति ।। मुख्यत इति शेषः । तदुपलक्षितमन्यच्चाऽह- पूर्वपूर्वेति ।। पूर्वं परिशिष्टपक्षे भेदकत्वानुपपत्तिरुक्ता । अधुना पक्षद्वयेऽपि भेदकत्वानुपपत्तिरस्तीत्याह- यद्यपीति ।। कृत-स्येति ।। सिद्धस्येत्यर्थः । कृतकृत्य इति प्रयोगात् । अनुक्तौ बीजमाह- तथाऽपीति ।। तस्य चेति ।। अवयव-स्येत्यर्थः । असङ्गतिपरिहारायौपाधिकत्वनिरासस्य तात्पर्यमाह- स्वाभाविकमापाद्येति ।।

विशिष्टरूपं द्रव्यान्तरमिति ।। ननु कथमेतत् ।  विशेष्यविशेषणाद्यतिरिक्तस्य विशिष्टस्याभावादिति चेन्न । किं साधकाभावान्न विशिश्व्ं पदार्थान्तरं यद्वा बाधकसद्भावात् । नाऽद्यः । दण्डीत्यादिविशिष्ट-व्यवहारनिर्वाहकस्य दण्डीत्यादिविशिष्टज्ञानस्य पदार्थान्तरं विनाऽनुपपद्यमानस्य तत्साधकत्वात् । तथाहि- दण्डीति प्रतीतेः किमदण्डिव्यावृत्तदेवदत्तस्वरूपमात्रं विषयः, विशेषणविशेष्ये वा, गृहीतासंसर्गे ते एव वा, विशेषणविशेष्यतत्सम्बन्धा वा । आद्ये वस्तुतोऽदण्डिव्यावृत्तं यद्देवदत्तस्वरूपं तद्विषयत्वे देवदत्तोऽयमिति ज्ञानादवैलक्षण्यापत्त्या व्यावृत्तेरपि प्रतीतौ निरधिकरणिकायास्तस्याः प्रत्येतुमशक्यत्वेन व्यावृत्तौ देवदत्त इति प्रतीतौ वाच्यायां तत्र व्यावृत्तिवैशिष्ट्यप्रतीत्या तस्य चाव्यावृत्तव्यावृत्तिरूपत्वे पुनस्तद्वैशिष्ट्यभानावश्यम्भा-(व्या.टि.) वेनानवस्थापत्त्या व्यावृत्तिविशिष्टस्य पदार्थान्तरत्वे दण्डविशिष्टस्यैव पदार्थान्तरत्वसिद्धिः । द्वितीये दण्डदेवदत्ताविति समूहालम्बनाद्वैलक्षण्यानापत्तिः । तृतीये समूहालम्बनेऽसंसर्गभाननियमाभावेन ततो वैलक्षण्यानुपपत्तिरेव । चतुर्थे दण्डदेवदत्तसम्बन्धा इति समूहालम्बनाद्वैलक्षण्यानुपपत्तिः । न च विशिष्टज्ञाने सम्बन्धसम्बन्धोऽप्यधिको भासत इति वाच्यम् । तथाऽपि दण्डदेवदत्तसम्बन्धतत्सम्बन्धा इति समूहालम्ब-नाद्वैलक्षण्यानुपपत्तिः । न च विषयवैलक्षण्याभावेऽपि विषयतावैलक्षण्यान्निर्वाहः । विशिष्टज्ञाने देवदत्ते विशेष्यतारूपा दण्डे विशेषणतारूपा सम्बन्धे च सांसर्गिकरूपा विषयता । समूहालम्बने तु सर्वत्र विशेष्यतारूपा विषयतेति वाच्यम् । विषयभेदाभावे निर्निमित्तस्य विषयतावैलक्षण्यस्यैवायोगात् । अस्मन्मते कारणवैलक्षण्य-विषयवैलक्षण्ययोरेव वह्निविषयकसाक्षात्कारानुमित्यादौ घटपटज्ञानादौ च वैलक्षण्यनियामकत्वात् । किञ्च विषयताया ज्ञानस्वरूपत्वे घटपटाविति ज्ञानस्य घटपटविशेष्यतयोर्ज्ञानस्वरूपयोरभेदेन घटत्वाभाववत्पट-विशेष्यतानिरूपितघटत्वप्रकारताकत्वेन भ्रमत्वापत्त्या विषयस्वरूपत्वस्यैव वाच्यतया विषयभेदाभावे न विषयतावैलक्षण्यम् । न च विषयताया विषयस्वरूपत्वे समूहालम्बनविशिष्टबुद्ध्योर्वैलक्षण्यानुपपत्त्या पदार्थान्त-रत्वमेवेति वाच्यम् । अपसिद्धान्तात् । विशिष्टस्य पदार्थान्तरत्वेन विषयवैलक्षण्यादेव वैलक्षण्योपपत्तेश्च ।

किञ्च विषयताया पदार्थान्तरत्वे स्वरूपसम्बन्ध इति प्रवादानुपपत्तिः । संयोगसमवायातिरिक्तसम्बन्धत्वेन तथा प्रवादे परस्परातिरिक्तत्वेन संयोगादावपि तथाऽऽपत्तेः । योगेन सम्भवे पारिभाषिकत्वकल्पनानुपपत्तेश्च । किञ्च दण्डीत्यादिज्ञाने एकविशिष्टकल्पनेनैवोपपत्तौ विषयतात्रयकल्पने गौरवम् । अपि च विषयताया अतिरिक्ताया अपि यावद्विषयं सत्त्वेन क्रमिकाणां समूहालम्बनविशिष्टबुद्ध्यादीनां समानविषयकत्ववत्समानविषयताकत्वस्य प्राप्त्या ज्ञानसमानकालवृत्तित्वावश्यम्भावेऽनन्तेषु विषयेषु प्रत्येकमनन्त(त्व)ज्ञानीयानन्तविषयताकल्पनापत्ति-रिति महदेव गौरवम् । अन्यच्च एकस्मिन्नेव संयोगादावनेकेषामेकदा तद्विशेष्यकज्ञानोत्पत्तौ सजातीयानेक-विशेष्यतानां केषाञ्चित्तद्विशेष्यकज्ञानानामपरेषां तत्प्रकारकतत्संसर्गकज्ञानानां चैकदोत्पत्तौ विजातीयानेक-विषयतानामुत्पत्त्या पदार्थानां विचित्रसृष्टिभित्तित्वापत्तिः । किञ्च विशिष्टव्यवहारकारणे ज्ञाने विशिष्टमेकमस्मन्मते कारणतावच्छेदकं भवन्मतेऽनेकेषां कारणतावच्छेदकत्वं तत्रापि विशेषणविशेष्यभावे विनिगमनाविरह-प्रयुक्तानेककार्यकारणभावकल्पनमिति गौरवम् । तस्माद्विषयताया विषयस्वरूपत्वात् तद्भेदाद्वैलक्षण्यानुपपत्त्या विषयभेदेनैव  निर्वाह्यतया  विशिष्टस्यातिरिक्तत्वे  समूहालम्बनाद्  विशिष्टबुद्धेर्वैलक्षण्यान्यथानुपपत्तिरेकं मानम् । एवं दण्डीति व्यवहारो दण्डदेवदत्ततत्सम्बन्धातिरिक्तविषयकव्यवहर्तृसमवेतज्ञानजन्यो विशिष्टव्यवहार-त्वात् कुण्डलीति व्यवहारवत् । दण्डीति व्यवहारो दण्डदेवदत्ततत्सम्बन्धमात्राविषयकव्यवहर्तृसमवेतज्ञानजन्यः, सत्यपि तज्ज्ञाने कदाऽप्यनुत्पद्यमानत्वादित्याद्यनुमानं मानम् । एतत्सर्वमभिप्रेत्य सङ्गृहीतं मन्दारमञ्जर्याम्-

दण्डीत्यादिव्यवहृतेर्मूलभूता विशिष्टधीः ।

विभिन्नं पुरुषादिभ्यो विशिष्टमवलम्बते ।’ इति ।

(व्या.टि.)किञ्च विशिष्टस्यातिरिक्तत्वाभावे विशिष्टाभावोऽप्यतिरिक्तो न स्यात् । दण्डी नास्तीति प्रतीतेर्विशेष-णाभावविषयत्वोपपत्तेः । न च विशेषणवति पुरुषाभाववति जायमानप्रतीतेर्न तद्विषयत्वमिति वाच्यम् । तत्र पुरुषाभावविषयत्वोपपत्तेः । न चाननुगमः । अतिरिक्ताभावकल्पनापेक्षयाऽननुगमस्यापि वृक्षसरोवरादौ हरिर्नास्तीत्यादाविव सह्यत्वात् । तत्र व्यवहारमात्रमेकाकारं प्रतीतिस्तु कपिमण्डूकत्वाद्यवच्छिन्नाभावविषयि-ण्येवेति चेत्प्रकृतेऽपि तथात्वोपपत्तेः । विशेषणविशेष्ययोः सम्बन्धाभावेनानुगमसम्भवाच्च । दण्डो नास्ती-त्यादिप्रतीतेर्वैलक्षण्यस्यानुभवसिद्धत्वेनातिरिक्तभावस्वीकारे शृङ्गे शशीयत्वं नास्ति, पटे घटत्वं नास्तीत्यादि-प्रतीतेः शशशृङ्गं नास्ति, घटत्वेन पटो नास्तीति प्रतीतेरपि वैलक्षण्येन तत्राप्यतिरिक्ताभावस्वीकारापत्तेः । तत्र प्रतियोगितावच्छेदकविशिष्टप्रतियोगिप्रमाभावेनाभावासम्भवे यद्दण्डस्य पुरुषसम्बन्धो नास्ति तमादायैतद्दण्डी नास्तीति प्रतीतेरतिरिक्ताभावविषयकत्वासम्भवः । तत्र विशेषणाभावविषयकत्वेऽनुभवविरोधोऽननुगमश्च । प्रतियोगितावच्छेदकविशिष्टप्रतियोग्यारोपेण निर्वाहेऽन्यत्रापि तथैवोपपत्तिः । तस्माद्विशिष्टस्यातिरिक्तत्वा-देवाभावोऽतिरिक्त इत्यभावातिरिक्तत्वानुपपत्तिरप्यपरा साधिका । नापि द्वितीयः। बाधकाभावात् । नन्वति-रिक्तस्य विशिष्टस्य नित्यत्वे सर्वदोपलब्ध्यादिप्रसङ्गेनानित्यत्वे वाच्ये समवायिकारणावश्यम्भावेनान्यस्यासम्भा-वितत्वेन विशेषणविशेष्ययोरेव समवायिकारणत्वं वाच्यम् । तत्र प्रत्येकमुपादानत्वे एकस्य द्रव्योपादानत्वायोगो बाधकः । तत्रापि विशेष्यस्योपादानत्वे मूर्तानां सामानाधिकरण्यानुपपत्तिश्च । विशेषणस्य तत्त्वे गुणस्य समवायिकारणत्वानुपपत्तिश्चेति बाधकद्वयम् । मिलितयोरुपादानत्वे रूपी घट इत्यादौ रूपिलक्षणविशिश्व्ं प्रति रूपस्य गुणस्योपादानत्वायोगः । उभयोपादानके द्रव्यत्वगुणत्वसाङ्कर्यापत्तिः । विशेषणभेदाद्विशिष्टभेदेनानेक-विशेषणस्थले मूर्तानां विशिष्टानां सामानाधिकरण्यापत्तिश्चेति बाधकत्रयमिति चेत्, न । विशेषणविशेष्य-तत्सम्बन्धानां नित्यत्वस्थले विशिष्टस्य नित्यत्वमेव । सामग्रीसत्त्वे उपलब्ध्यादिकमस्त्येवेति न कोऽपि दोषः। अन्यत्र त्वनित्यत्वमु(मेको)पादानत्वं विशिष्टस्येति उपेमः । एकस्य द्रव्योपादानत्वायोगस्तावन्न बाधकः । एकस्य दीर्घतन्तोः पटारम्भकत्वदर्शनात् । एकस्य गुणोपादानत्ववद् द्रव्योपादानत्वे बाधकाभावाच्च । अवयव-संयोगलक्षणासमवायिकारणानुपपत्तिर्न बाधिका । अस्माभिर्भाव-कार्येऽसमवायिकारणजन्यत्वनियमानङ्गी-कारात् । विशेषणविशेष्यतत्सम्बन्धादेस्तत्त्वोपपत्तेश्च । नापि गुणत्वात् समवायिकारणत्वानुपपत्तिर्बाधिका । एकं रूपमित्यबाधितप्रतीत्या रूपादेर्गुणस्य सङ्ख्यारम्भकत्वदर्शनात् । गुणत्वं समवायिकारणत्वसमानाधिकरणं सत्तासाक्षाद्व्याप्यजातित्वाद् द्रव्यत्ववदिति तत्साधनाच्च । कर्मत्वं पक्षतुल्यम् । वस्तुतस्तु गुणत्वादिकं सर्वं पक्षीकृत्य पदार्थविभाजकत्वेनैवोक्तं साध्यं सुसाधम् । तेनाभावस्य विशेषणत्वस्थलेऽपि नानुपपत्तिः । अभावेन भिन्नाभिन्नस्य विशिष्टस्य भावत्वन्तु तदत्यन्ताभिन्नस्य प्रमेयत्वादेरिवोपपन्नम् ।

अथ वा विशेषणविशेष्ययोरुभयोरुपादानत्वमस्तु । गुणस्योपादानत्वायोगस्तु परिहृतः । नापि जाति-साङ्कर्यापत्तिप्रसङ्गः । उभाभ्यां विजातीयाभ्यां कारणाभ्यां कार्यविजातीयद्वयसम्बन्धस्य प्रतिबन्धात् । प्रसिद्ध-(व्या.टि.) रूपेभ्यश्चित्ररूपस्य विजातीयत्ववद्विशिष्टस्य प्रसिद्धपदार्थविजातीयत्वोपपत्तेः । नापि मूर्तानां सामानाधिकरण्यायोगः । विशिष्टस्य द्रव्यत्वानङ्गीकारात् । परमाणुप्रदेश ईश्वरशक्त्या जीवानामिव विशेष्ये विशिष्टानां सामानाधिकरण्योपपत्तेश्च  । एकस्मिन्नेव तन्तौ द्वितन्तुकादिमहापटपर्यन्तावयविपरम्परायास्त्वयाऽ-प्यङ्गीकाराच्च । अथ वा विशेष्यस्यैवोपादानत्वम् । बाधकञ्च परिहृतम् । रूपि द्रव्यं रूपत्वजातिमान्गुणो मानस-ज्ञानादिमांश्चेतन इत्यादिप्रतीतिसिद्धं विशिष्टस्य विशेष्यजातीयत्वं सङ्गच्छते । एतच्च विशिष्टोपादानत्वं न कौटस्थ्यविरोधि । अत आकाशादीनां संयोगाद्युपादानत्ववद्विशिष्टोपादानत्वेऽपि न दोषः । अत एव तत्त्वविवेकादौ गोबलीवर्दन्यायेन कार्यकारणाभ्यां पृथग्विशिष्टशुद्धयोरुपादानम् । नापि गदाधरीयोक्तम्, ‘गुणवृत्तिसत्तादितो गुणाद्यन्यत्वविशिष्टसत्तादेरतिरिक्तत्वेऽनुगतधर्ममात्रोच्छेदः, एवं सर्वेषामेव वस्तूनां तत्तत्क्षणवृत्तित्वरूप-विशेषणभेदाद्भेदप्रसक्त्या क्षणभङ्गापत्तिपर्यवसानम्’ इति बाधकद्वयम् । सत्तादिधर्माणां प्रातिस्विकत्वेनानुगत-त्वानुपगमात् । अनुगतस्य कस्यचित्स्वीकारेऽपि तत्तद्व्यक्तिवृत्तित्वविशिश्व्ैरभेदस्यैवानुगतिशब्दार्थत्वेऽपि विशिष्टयोः परस्परं भेदेऽपि विशेष्येण भेदाभेदस्वीकारेणानुगतौ बाधकाभावाच्च । प्रतीतिबलेन एकविशेष्यकता-स्थले विशिष्टयोरप्यभेदोपगमाच्च । विशिष्टस्य विशेष्यादन्यत्वेऽपि विशेषणस्य विशेष्यगतत्वोपगमेन एकविशेष्यगतानां तत्तद्व्यक्तिवृत्तित्वानामनुगतिरूपत्वोपपत्तेश्च । एतेन एकत्र तत्तद्व्यक्तिवृत्तित्ववैशिष्ट्या-भ्युपगमे एकत्वस्यासम्भवः । अनभ्युपगमेऽवृत्तित्वप्रसङ्ग इति निरस्तम् । विशिष्टयोर्भेदेऽपि विशेष्यस्य तैर्भेदा-भेदोपगमे चैकत्वोपपत्तेः । विशेषणस्य तत्तद्व्यक्तिवृत्तित्वस्य सर्वमते विशेष्यगतत्वेनावृत्तित्वप्रसङ्गस्याप-हास्यत्वाच्च ।

एतेन क्षणभङ्गापत्तिरपि परस्ता । तत्तत्क्षणवृत्तित्वरूपविशेषणभेदाद्विशिष्टभेदेऽपि विशेष्यभेदाभावात् । विशेष्यस्य विशिष्टैरभेदस्याभ्युपगमाच्च । एकविशेष्यकस्थले विशिष्टयोरपि भेदाभेदसम्भवाच्च । यच्च प्रत्यभिज्ञा-बलाद्विशेष्यस्य विशिष्टाभेदेऽपि द्रव्यवृत्तित्वादिवैशिष्ट्यपुरस्कारेणानुगतसत्तादेर्द्रव्यत्वाननुमापकत्वम् । गुणे द्रव्यवृत्तित्वविशिष्टसत्ता नास्ति, इदानी पूर्वक्षणवृत्तित्वविशिष्टघटो नास्तीत्यादिप्रत्ययबलेन मिथो भिन्नांश्च तत्तद्विशेषणविशिष्टसत्त्वे घटादीनङ्गीकृत्य भिन्नस्यैव विशिष्टस्यानुमापकत्वमाशङ्क्य दूषितम् । भिन्नस्यापि विशिष्टस्य द्रव्यवृत्तित्वादिविशिष्टत्वेन हेतुत्वेऽनुगतसाधारण्यं तादृशविशिष्टतद्व्यक्तित्वेन तत्त्वे विशेषणवैयर्थ्यं तद्व्यक्तित्वस्यानुपस्थितिश्च  । विशिष्टसत्ता नास्तीति प्रतीतेरपि न विशिष्टसत्तात्वावच्छिन्नाभावविषयक-त्वम् । प्रतियोगितावच्छेदकावच्छिन्नस्यासत्त्वात् । नापि तद्व्यक्तित्वावच्छिन्नाभावविषयकत्वं तस्य प्रतियोगिकोटावनुल्लेखात् । नापि विलक्षणसम्बन्धावच्छिन्नाभावविषयकत्वम् । स च सम्बन्धो भिन्नविशिष्ट-निरूपित एव । तेन प्रतियोगितावच्छेदकविशिष्टस्य सत्त्वेऽपि तत्सम्बन्धाभावादभावप्रत्ययोपपत्तिरिति । विशेष्याभिन्नविशिष्टस्यैव विशेषणाभावस्थले सम्बन्धो नास्तीति सम्भवेनातिरिक्तविशिष्टकल्पने मानाभावा-दिति । तदपि न । अस्मन्मते विशिष्टद्वयानङ्गीकारात् । विशेष्यस्य विशिश्व्ेन भेदाभेदोपगमादेव प्रत्यभिज्ञाया (व्या.टि.) द्रव्यवृत्तित्ववैशिष्ट्यरूपेण द्रव्यत्वानुमापकत्वस्य प्रतियोगितावच्छेदकविशिष्टाभावप्रत्ययस्योप-पत्तेः । तस्मान्न किमपि बाधकम् । अतो युक्तं विशिश्व्ं द्रव्यान्तरमिति ।

अधिकं साधकं चिन्त्यं निरस्यं बाधकं स्फुरत् ।

उक्तञ्च शोध्यं श्रीमध्वशास्त्राभिज्ञैर्मनीषिभिः ।

स्थितामेवेति ।। व्यावृत्तेर्वस्तुस्वरूपत्वादित्यर्थः । ननु विशिष्टरूपद्रव्यान्तरस्य वा व्यावृत्तिरूपस्य वाऽव-स्थान्तरस्यापादकत्वादुपाधेर्भेदकत्वमत आह- न हीति ।। व्यवस्थेति ।। सुखदुःखव्यवस्थाया बद्धमुक्त-व्यवस्थाया वेत्यर्थः । अनेकत्वेति ।। तथा चोपाधेरनेकत्वहेतुत्वाभावान्न भेदकत्वमिति भावः ।