टीका
वेदत्वनिर्वचनम्
टीका
ननु किमिदं वेदत्वं यद्भावाभावाभ्यां पक्षसपक्षयोः साध्यस्याभावो भावश्च व्यवस्था-प्यते । न तावद्वाक्यत्वम् अदृष्टविषयवाक्यत्वं वा । बौद्धादिवाक्यानामपि वेदत्वप्रसङ्गात् । नापि प्रमाणत्वे सत्यदृष्टविषयवाक्यत्वम् । मन्वादिवाक्यानामपि तत्प्राप्तेः । नाप्यपौरुषेयवाक्यत्वम् । व्यवस्थाप्यमानातिरिक्तव्यवस्थापकाभावप्रसङ्गात् । इत्याशङ्क्य तस्यावेदत्वादिति वक्तव्येऽवेद-शब्दार्थज्ञापनार्थं ‘तस्याकर्तृकत्वप्रसिद्धिरहितत्वात्’ इत्युक्तम् । तथाचाकर्तृकत्वप्रसिद्धिमत्त्वं वेदत्वं तदभावश्चावेदत्वं ताभ्यां साध्यविकल्पः शङ्क्यत इत्यभिहितं भवति । अकर्तृकत्वप्रसिद्धिमत्त्वं नाम प्रत्यक्षादिप्रमाणं विप्रलम्भादिकं वाऽस्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वम् । एतच्च ‘अनुप-लभ्यमानमूलत्वे सति महाजनपरिगृहीतवाक्यत्वं वेदत्वम्’ इति वदता उदयनेनाप्यङ्गीकृतम् । तत्रानुपलभ्यमानमूलत्वग्रहणेन प्रत्यक्षादिमूलत्वस्य, महाजनपरिगृहीतत्वग्रहणेन विप्रलम्भादि-मूलत्वस्य च व्यावर्तितत्वात् । सर्वज्ञज्ञानमूलत्वं वदताऽपि तस्य प्रमाणत्वाभावाद् एवं वक्तुं शक्यत एव । एतच्चानुमानं वैशेषिकादीनाम् । तथाच सूत्रम् ‘बुद्धिपूर्वा वाक्यकृतिर्वेदः’ इति । अतस्तान् प्रत्येवं वेदशब्दार्थं निरुच्य तद्भावाभावाभ्यां साध्यविकल्पशङ्कोपपद्यते । विप्रलम्भादिमूलत्व-मभ्युपगच्छतः सौगतादीन् प्रति तु पक्षतावच्छेदकत्वेन यद्वेदत्वं तैरङ्गीक्रियते तद्भावाभावाभ्यामेव शङ्कनीयम् । एवञ्चाप्रयोजकोऽन्यथासिद्धो व्याप्यत्वासिद्धो वा वाक्यत्वादिहेतुरिति । सकर्तृकत्वाभावे प्रामाण्याभावप्रसङ्गः प्रमायाः परतन्त्रत्वादित्यादिबाधकं तूत्तरत्र निराकरिष्यते ।
भावबोधः
।। व्यवस्थाप्यमानेति ।। अप्रयोजकत्वशङ्कायां दृश्वन्ते साध्यधर्मं प्रति प्रयोजकत्वेनोक्तधर्मस्य पक्षेऽ-भावेन तत्र साध्याभावव्यवस्थापनं कार्यम् । सकर्तृकत्वरूप(लक्षण)साध्याभावश्चापौरुषेयत्वरूपः । सकर्तृकत्व-प्रयोजकाभावप्रतियोगिरूपं वेदत्वं यद्यपौरुषेयवाक्यत्वरूपं तर्ह्यभावाभावो भाव एवेति प्रयोजका(कोऽ)-भावोऽप्यपौरुषेयवाक्यत्वरूपः पर्यवसन्नः । तथा च तयोरेकत्वादित्यर्थः । यद्यप्यपौरुषेयवाक्यत्वभावाभाव-योर्व्यवस्थापकत्वे, व्यवस्थापके वाक्यत्वस्याधिकस्य प्रवेशान्न तयोरैक्यम् । तथाऽपि यथा हेतावधिकप्रवेशेऽपि सर्वसाध्यघटितत्वे सन्दिग्धविशेषणत्वेनाहेतुत्वं तथाऽसम्प्रतिपन्नव्यवस्थाप्यघटितत्वेन विशिष्टस्यासम्प्रति-पन्नविशेषणकत्वेन न व्यवस्थापकत्वमिति भावः । नन्वकर्तृकत्वप्रसिद्धिमत्त्वमपि न वेदत्वम् । व्यवस्थापक-स्यान्यतराप्रसिद्धिप्रसङ्गादित्यत आह- अकर्तृकत्वप्रसिद्धिमत्त्वं नामेति ।।
भावदीपः
प्रश्नस्यासाङ्गत्यनिरासायोक्तम्- यद्भावाभावाभ्यामिति ।। साध्यस्येति ।। सकर्तृकत्वस्याभावो भावश्चेति यथाक्रममन्वयः ।। व्यवस्थाप्येति ।। अपौरुषेयत्वं हि लौकिके नास्ति वेदे त्वस्तीति व्यवस्था-प्यम् । तद्व्यवस्थाहेतुतयोक्तं व्यवस्थया स्थितं वेदत्वं व्यवस्थापकम् । तदुभयमेकमेवाऽपन्नमिति व्यवस्थाप्य-व्यस्थापकभावायोग इति भावः ।। साध्यविकल्प इति ।। वाक्यत्वानुमानेऽभिमतस्य सकर्तृकत्वस्य वेदे अभावो लौकिके भावः शङ्क्यत इत्यर्थः । अकर्तृकत्वप्रसिद्धिमत्त्वं पौरुषेयत्ववादिनो न सम्मतमित्यत आह- अकर्तृकत्व-प्रसिद्धिमत्त्वं नामेति ।। बौद्धादिवाक्ये मन्वादिवाक्ये चानतिव्याप्तये दलद्वयम् ।। इति वदतेति ।। कुसुमाञ्जलाविति योज्यम् । नन्वीश्वरप्रत्यक्षज्ञानजन्यत्वस्य परेणोच्यमानत्वात् कथं प्रत्यक्षाद्यमूलत्वं परसम्मत-मित्यत आह- सर्वज्ञेति ।। गुणदोषाभ्यामजन्यत्वेनेश्वरज्ञानस्य प्रमाऽप्रमाबहिर्भावोपगमेन प्रत्यक्षादिप्रमाणा-मूलत्वे सति विप्रलम्भाद्यमूलकशब्दत्वं वेदत्वमिति वक्तुं शक्यत एवेत्यर्थः । तर्कताण्डवे तु ‘प्रत्यक्षादिशब्दः प्रमाकरणपरः प्रमाकरणामूलकत्वे सति प्रमाणशब्दत्वं वेदत्वम्’ इत्युक्तम् । ईश्वरज्ञानस्य प्रमात्वेऽपि परसाधारण-मेतदिति ज्ञेयम् । वैशेषिकादीनामित्यादिपदेन नैयायिकपरिग्रहः ।। साध्यविकल्पशङ्केति ।। सिद्धान्तिप्रयोगे वेदत्वस्य भावेनापौरुषेयत्वरूपसाध्यस्य भावो, लौकिकवाक्ये वेदत्वाभावेनोक्तसाध्यस्याभाव इति । वाक्य-त्वानुमानेऽभिप्रेतसकर्तृकत्वरूपसाध्यस्य सिद्धान्तिप्रयोगेऽभावः परकीयप्रयोगे तु भाव इति वा । सिद्धान्तिप्रयोगे पराभिमतप्रयोगे च तत्तदभिमतसाध्यस्य भावः तद्विपरीतस्याभाव इति भावाभावरूपसाध्यविकल्पशङ्केत्यर्थः । पक्षतावच्छेदकत्वेनेति ।। सकर्तृकत्वप्रयोग इति बोध्यम् ।। शङ्कनीयमिति ।। वाक्यत्वहेतोरप्रयोजकत्वा-दिकमिति योज्यम् । तस्याकर्तृकत्वप्रसिद्ध्यभावादित्युक्त्या वाक्यत्वहेतोः किं दूषणमुक्तमित्यत आह- एवं चेति ।। अन्यथासिद्ध इति ।। वेदे विद्यमानो वाक्यत्वहेतुराकाङ्क्षादिमत्त्वेनोपपन्न इत्यर्थः ।। व्याप्यत्वेति ।। व्याप्तिग्रहणवेलायामेव अन्यथासिद्धत्वोपस्थितौ व्याप्यत्वासिद्ध्युन्नायकत्वादेतदुक्तिः ।। बाधकं त्विति ।। अपौरुषेयत्वानुमाने बाधकं तु ‘प्रामाण्यं च स्वत एव’ इत्यादावुत्तरत्रेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
प्रश्नस्यासङ्गतिं परिहरति- यद्भावाभावाभ्यामिति ।। यस्य वेदत्वस्य भावेन पक्षे सकर्तृकत्वरूपस्य साध्यस्याभावो व्यवस्थाप्यते, यस्य वेदत्वस्याभावेन सपक्षे लौकिकवाक्ये साध्यस्य सकर्तृकत्वस्य भावो व्यवस्था-प्यते तद्वेदत्वं नाम किमित्यर्थः ।। बौद्धादीति ।। बौद्धावाक्यस्यापि वाक्यत्वात् ‘केशोल्लुण्ठनं धर्मः सप्तघटिकातः प्राग्भोजनं धर्मः’ इत्यदृश्व्विषयवाक्यत्वाच्च तत्रातिव्याप्तिरित्यर्थः ।। व्यवस्थाप्यमानेति ।। वेदत्वात्सकर्तृकत्वं मास्त्विति वेदत्वेन सकर्तृकत्वाभावो व्यवस्थाप्यते । तत्र व्यवस्थापकीभूतं वेदत्वं नाम यद्यपौरुषेयत्वं तर्हि तदेव व्यवस्थाप्यमानसकर्तृकत्वाभावरूपम् । तथा चापौरुषेयत्वादपौरुषेयमस्त्वित्युक्तं स्यादित्यर्थः ।। अकर्तृ-कत्वप्रसिद्धिमत्त्वं वेदत्वमिति ।। अकर्तृकत्वप्रसिद्धिमद्वाक्यत्वमित्यर्थः । अन्यथा गगनादावतिव्याप्तिः स्यादित्यवधेयम् । अत एवोत्तरत्र ‘अकर्तृकत्वप्रसिद्धिमद्वाक्यत्वं वेदत्वमिति यद्वेदलक्षणमुक्तम्’ इति वदिष्य-तीति । साध्यविकल्पः पक्षसपक्षयोः साध्याभावभावरूपः । विप्रलम्भादिकमित्यत्राऽदिपदेन भ्रान्तिसङ्ग्रहः । ननु कथमिदं वेदलक्षणं? केनापि परीक्षकेणानङ्गीकृतत्वादस्य लक्षणस्येत्याशङ्कायां वेदस्य सकर्तृकत्ववादिनोदय-नेनाप्यङ्गीकृतमिति वक्तुमकर्तृकत्वप्रसिद्धिमत्त्वं तावन्निर्वक्ति ।। अकर्तृकत्वप्रसिद्धिमत्त्वं नामेति ।। नन्वकर्तृकत्वप्रसिद्धिमत्त्वशब्दात् कथमयमर्थो लभ्यत इति चेदुच्यते । यो हि यमर्थं प्रत्यक्षादिप्रमाणेनोपलभ्य तत्प्रतिपादकं वाक्यं रचयति विप्रलम्भेन वा स तस्य कर्तेत्युच्यते । तादृशकर्तृप्रसिद्धिमत्त्वाभावो ह्यकर्तृकत्व-प्रसिद्धिमत्त्वम् । तथा चार्थात् प्रत्यक्षादिप्रमाणमूलकत्वाभाव एवोक्तो भवतीति द्रष्टव्यम् ।। अनुपलभ्य-मानमूलत्वे सतीति ।। महाजनपरिगृहीते मन्वादिवाक्ये तत्प्रत्यक्षादिप्रमाणमूलकेऽतिव्याप्तिपरिहाराय सत्यन्तम् । विप्रलम्भकवाक्येऽतिव्याप्तिवारणाय विशेष्यभाग इति द्रष्टव्यम् । इत्थमेव पदकृत्यं हृदि निधायोप-पादयति- तत्रेत्यादिना ।। मूलत्वस्य मूलकत्वस्य । तथा च मन्वादिवाक्यव्यावृत्तिरिति ज्ञेयम् ।। विप्रलम्भा-दीति ।। न हि विप्रलम्भादिमूलकं वाक्यं महाजनपरिगृहीतं भवतीति भावः । तथा चानुपलभ्यमानमूलत्वे सति महाजनपरिगृहीतवाक्यत्वं वेदत्वमित्युक्तेऽर्थात्प्रत्यक्षादिप्रमाणं विप्रलम्भादिकं वाऽस्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वमेव प्राप्तमिति द्रष्टव्यम् । नन्वनुपलभ्यमानप्रत्यक्षादिप्रमाणमूलकत्वं कथमुदयनेन शक्यते वक्तुम् । ईश्वरः सर्वज्ञः । स च प्रत्यक्षेणार्थमुपलभ्य वेदं रचयतीत्यङ्गीकारेण प्रमाणभूतेश्वरप्रत्यक्षमूलकत्वाङ्गी-कारादित्याशङ्क्याऽह- सर्वज्ञज्ञानेति ।। ईश्वरप्रत्यक्षेत्यर्थः । वदता उदयनेन । तस्य ईश्वरज्ञानरूपप्रत्यक्षस्य । प्रमाणत्वाभावादिति ।। प्रामाण्यस्य तन्मते गुणजन्यत्वेनेश्वरज्ञानरूपप्रत्यक्षस्य नित्यत्वेन तत्प्रामाण्यस्य गुणजन्यत्वाभावेन तस्य प्रमाणत्वाभावादित्यर्थः । यथोक्तमुदयनेन गुणकिरणावल्याम् -
‘गुणदोषाजन्यतया नित्यत्वादीश्वरी प्रमा ।
प्रमाऽप्रमाबहिर्भूता परतस्त्वात्तयोर्मम ।।’ इति ।
।। एवं वक्तुमिति ।। अनुपलभ्यमानप्रत्यक्षप्रमाणमूलकत्वं वक्तुं शक्यत एवेत्यर्थः ।
।। एतच्चेति ।। वेदः सकर्तृक इत्यनुमानमित्यर्थः ।। वैशेषिकादीनामिति ।। आदिपदेन नैयायिकसौगतादि-(श्री.टि.) ग्रहणम् ।। साध्यविकल्पशङ्केति ।। पक्षसपक्षयोः साध्याभावभावशङ्काऽस्माभिः परं प्रति क्रिय-माणोपपद्यत इत्यर्थः ।। सौगतादीन् प्रति त्विति ।। वेदानां विप्रलम्भादिमूलकत्वाङ्गीकारेण प्रत्यक्षादिप्रमाणं विप्रलम्भादिकं वाऽस्य मूलं नोपलभ्यत इति प्रसिद्धिविषयत्वं वेदत्वमिति तान् प्रति वेदत्वं निर्वक्तुं न शक्यत इत्यर्थः ।। तैरङ्गीक्रियत इति ।। विप्रलम्भादिना वेदो बुद्धिरचित इति सौगतैरङ्गीकृतत्वादिदं सकर्तृकत्वानुमानं सौगतैरपि वक्तुं शक्यत एव । अतस्तैः पक्षतावच्छेदकतया वेदत्वं किञ्चिन्निर्वक्तव्यमेव । अन्यथा पक्षीकरण-स्यैवासम्भवात् । अतस्सौगतैः पक्षतावच्छेदकतया यद्वेदत्वं निरुच्यते तद्भावाभावाभ्यामेव पक्षसपक्षयोः साध्या-भावभावसत्त्वं शङ्क्यम् । न तु वैशेषिकादीन् प्रतीव वेदशब्दार्थं निरुच्य तद्भावाभावाभ्यामित्यर्थः ।। अप्रयोजकोऽ-न्यथासिद्धो वेत्यादि ।। अस्तु वाक्यत्वं सकर्तृकत्वं मास्त्वित्यप्रयोजकता, सकर्तृकत्वं विनाऽपि वाक्यत्वमुप-पद्यत इत्यन्यथासिद्धिर्वा स्यात् । विपक्षे बाधकाभावादिति भावः । यथाऽऽहुः-
‘यस्यानुकूलतर्कोऽस्ति स एव स्यात् प्रयोजकः ।
तदभावेऽन्यथासिद्धिस्तस्याः स हि निवारकः ।।’ इति ।
।। व्याप्यत्वासिद्धो वेति ।। व्याप्तिग्राहकप्रमाणाभावादिति भावः । यथाऽऽहुः ‘व्याप्यत्वासिद्धो द्विविधः। एको व्याप्तिग्राहकप्रमाणाभावादपरस्तूपाधिसद्भावात्’ इति ।
ननु नोक्तानुमानेऽप्रयोजकत्वादि । यदि सकर्तृकत्वं न स्यात्तर्हि प्रामाण्यमेव न स्यात्, वाक्यप्रामाण्यस्याऽ-प्तोक्तत्वगुणजन्यत्वादित्यनुकूलतर्कसद्भावात् । अत एवोपाधेरपि पक्ष एव साध्यव्यापकताभङ्गः सेत्स्यति । अतो न व्याप्यत्वासिद्धिरपीत्याशङ्क्य परिहरति- सकर्तृकत्वाभाव इति ।। परतन्त्रत्वात् पराधीनत्वात् । गुणजन्यत्वेन परतस्त्वादिति यावत् ।। निराकरिष्यत इति ।। ‘प्रामाण्यं च स्वत एव’ इत्यादिना प्रामाण्यस्य स्वतस्त्वप्रतिपादनेनेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
।। व्यवस्थाप्यमानेति ।। लौकिकवाक्ये व्यवस्थाप्यमानस्य सकर्तृकत्वस्य पौरुषेयत्वरूपत्वाद् वेदे च व्यवस्थाप्यमानस्याकर्तृकत्वस्यापौरुषेयत्वरूपत्वाद्व्यवस्थाप्यमानाभ्यां पौरुषेयत्वापौरुषेयत्वाभ्यां तद्व्यवस्थापकत्वेनोक्तयोः पौरुषेयत्वापौरुषेयत्वरूपावेदत्ववेदत्वयोर्भेदाभावप्रसङ्गादित्यर्थः । न चापौरुषेय-वाक्यत्वं वेदत्वमिति पक्षे व्यवस्थापककोटौ वाक्यत्वस्याधिकस्य प्रवेशान्न व्यवस्थाप्यमानातिरिक्तव्यवस्थापका-भावप्रसङ्ग इति वाच्यम् । वाक्यत्वस्य सकर्तृकत्वाकर्तृकत्वे प्रत्यप्रयोजकतया तत्प्रवेशस्याकिञ्चित्करत्वेनोक्त-प्रसङ्गानिवारणात् । ननु नाकर्तृकत्वप्रसिद्धिमत्त्वं वेदत्वम् । तस्य वेदे परं प्रत्यसिद्धतयाऽपौरुषेयत्वव्यवस्थाप-कत्वाभावप्रसङ्गादित्यत आह- अकर्तृकत्वप्रसिद्धिमत्त्वं नामेति ।। मन्वादिवाक्यव्यावृत्त्यै पूर्वभागः । बौद्धागमव्यावृत्त्यै चोत्तरभागः । तथाऽपि कथं परं प्रत्यसिद्धिपरिहार इत्यत आह- एतच्चेति ।। ननु परमते वेदस्येश्वरज्ञानमूलकत्वात् परेण तस्यानुपलभ्यमानप्रत्यक्षादिमूलकत्वं वक्तुं न शक्यमित्यत आह- सर्वज्ञेति ।। (पां.टि.) प्रमाणत्वाभावादिति ।। परेणेश्वरज्ञानस्य प्रमाबहिर्भूतत्वाङ्गीकारादिति भावः । ननु विप्रलम्भादि-मूलत्वं वदद्भिः सौगतादिभिरेतादृशवेदत्वानङ्गीकारान्न तान् प्रति वेदत्वसद्भावासद्भावाभ्यां साध्यविकल्पशङ्का कर्तुं शक्येत्यत आह- एतच्चेति ।। वेदः सकर्तृको वाक्यत्वादित्यनुमानं चेत्यर्थः । कुत एतदवगम्यत इत्यत आह- तथा चेति ।। वेदवाक्यसमुदाये या वाक्यवृत्तिः, या समुदायिनां वाक्यानां रचना, सा पक्षः । बुद्धिपूर्वा, वक्तृयथार्थवाक्यार्थज्ञानपूर्वा । वाक्यरचनात्वात् । नदीतीरे पञ्च फलानि सन्तीत्यस्मदादिवाक्यरचनावत् । न चास्मदादिबुद्धिपूर्वकत्वेनान्यथासिद्धिः । ‘स्वर्गकामो यजेत’ इत्यादाविष्टसाधनतायाः कार्यताया वा अस्मदादि-बुद्ध्यगोचरत्वेन स्वतन्त्रपुरुषपूर्वकत्वमादायैव साध्यपर्यवसानादिति वैशेषिकसूत्रार्थः । तर्हि बौद्धादीन् प्रति साध्यविकल्पशङ्काया अनवकाशान्न तदुत्थापितैतदनुमानदूषणप्रसङ्ग इत्यत आह- विप्रलम्भेति ।। विपक्षे बाधक-सद्भावान्नाप्रयोजको हेतुरित्याशङ्क्य परिहरति- सकर्तृकत्वाभाव इति ।। निराकरिष्यत इति ।। ‘तत्प्रामाण्यं च स्वत एव सिद्धम्’ इत्यादिना प्रामाण्यस्योत्पत्तौ गुणानपेक्षत्वव्युत्पादनेनेति शेषः ।
लघुप्रभा
(व्या.टि.)
ननु तस्यावेदत्वादित्येव तर्हि वक्तव्यम् । न तु तस्याकर्तृकत्वप्रसिद्ध्यभावादिति । स्वायत्तन्याय-विरोधादित्यतस्तदाशयमुद्घाटयितुं पृच्छति- नन्वित्यादिना ।। अत्र व्यवस्थापकं वेदत्वं किं वाक्यत्वं वा, अदृष्टविषयवाक्यत्वं वा, प्रमाणत्वे सत्यदृष्टविषयवाक्यत्वं वा, अपौरुषेयवाक्यत्वं वा, इति चतुर्धा विकल्पं मनसि विधाय क्रमेण दूषणान्याह- न तावदित्यादिना । व्यवस्थाप्यमानेति ।। अत्र गगनादावतिव्याप्ति-निरासाय अधिकस्य वाक्यत्वस्य प्रवेशेऽपि तस्याकर्तृकत्वाप्रयोजकत्वेनापौरुषेयत्वस्यैव तत्त्वे वक्तव्ये तस्याकर्तृ-कत्वाभेदेन व्यवस्थाप्यव्यवस्थापकभावानुपपत्तिरिति भावः ।। साध्यविकल्प इति ।। पक्षसपक्षयोः साध्या-भावभावयोः शङ्केत्यर्थः । नन्वकर्तृकत्वप्रसिद्धिमत्त्वं वेदत्वमिति निरुक्तिरयुक्ता । सकर्तृकत्ववादिनामकर्तृकत्व-प्रसिद्धेरसिद्धेः । तदसिद्धौ विपर्ययपर्यवसानायोगात् । किञ्चाकर्तृकत्वप्रसिद्धिमत्त्वे सिद्धे तेन सकर्तृकत्वनिरासः। निरस्ते च तस्मिन्नप्रमितकर्तृकत्वसिद्ध्या तेनाकर्तृकत्वप्रसिद्धिरित्यन्योन्याश्रयश्चेत्यतो निरुक्तं व्यक्तीकरोति- अकर्तृकत्वप्रसिद्धिमत्त्वं नामेत्यादिना ।। तथा च अकर्तृकत्वप्रसिद्धेरप्रमितकर्तृकत्वसिद्ध्यधीनत्वान्ना-न्योन्याश्रय इति भावः । ननु तथाऽप्यनुपलभ्यमानप्रमाणविप्रलम्भान्यतरमूलत्वं वेदत्वमिति निरुक्तं स्यात् । न चैतद्युक्तम् । उपक्रमे ‘वेदप्रामाण्यवादिनो बौद्धाश्च’ इत्युभयेषां वादित्वाभिधानात् । तत्र प्रामाण्यमभ्युपेत्य वेदसकर्तृकत्वमनुमिमानानां वैशेषिकादीनामनुमानं दुदूषयिषितम् उत तदप्रामाण्यवादिनां सौगतादीनाम् । नाऽद्यः । तैः सर्वज्ञज्ञानमूलत्वाङ्गीकारेणानुपलभ्यमानप्रमाणमूलत्वस्यासिद्धेः । न द्वितीयः । तैर्विप्रलम्भादिदोष-मूलत्वाङ्गीकारेणानुलभ्यमानदोषमूलत्वासिद्धेः । अत उभयान् प्रत्यपि साध्यविकल्पशङ्का न युक्तेत्याशङ्क्य आद्यपक्षमुपेत्य तद्दोषमुद्धरति- एतच्चेति ।। व्यावर्तितत्वादिति ।। तथा चोभयामूलत्वं सिद्धमिति न तान् प्रत्यसिद्धिरिति भावः ।। प्रमाणत्वाभावादिति ।। प्रमाकरणत्वाभावादित्यर्थः । गुणजन्यत्वाभावाभिप्रायेण वा । वक्तुं निर्वक्तुम् । ननु वाक्यत्वेन सकर्तृकत्वमनुमिमानान् प्रत्येवं वेदत्वं निरुच्य शङ्कनीयम् । न च ते (व्या.टि.) तथाऽनुमिमत इत्यतस्तत्सम्मतिमाह- एतच्चेति ।। अत्राऽदिपदेन सौगतानपि जगृहुः । तन्न । ‘सौगतान् प्रति तु’ इति टीकाविरोधात् । स्ववाक्यविरोधाच्च । द्वितीयेऽप्यवद्यमवद्यति- विप्रलम्भादीति ।। प्रति त्विति ।। तुः, उक्तनिरुक्तिमनिच्छत इति विशेषार्थः ।। पक्षतावच्छेदकत्वेनेति ।। पूर्वत्र वेदलक्षण-भावाभावाभ्याम् अत्र पक्षतावच्छेदकभावाभावाभ्यामिति विशेष इत्यर्थः । निगमयति- एवं चेति ।। अप्रयोजको विपक्षे बाधकाभावात् । अन्यथा सिद्धः साध्यं विनाऽपि आकाङ्क्षादिमत्त्वेनैव सम्भवात् । व्याप्यत्वासिद्धः अवेदत्वस्योपाधित्वादित्यर्थः । विपक्षे बाधकसद्भावान्नाप्रयोजकत्वादीत्याशङ्कते- सकर्तृकत्वाभाव इति ।। परतन्त्रत्वादिति ।। गुणजन्यत्वादित्यर्थः । उत्तरत्र प्रामाण्यस्वतस्त्ववादे ।