उद्यतायुधदोर्दण्डाः..

उपाधिविश्लेषस्य सुखदुःखाद्यनुसन्धानव्यवस्थापकत्वाभावोपपादनम्

मूलम्

- ‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः ।

पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि ।।’

इति भारतवचनान्न विश्लेषाद्विशेषः ।।

तत्त्वमञ्जरी

हस्तपादाद्युपाधीनां भेदेऽपि संश्लिश्व्त्वात् दुःखाद्यनुसन्धानं सम्भवति । चैत्राद्युपाधीनां विश्लेषाद्विशेषोऽस्तीत्यत आह- उद्यतेति ।। ‘नानादेहगभोगानुसन्धानं योगिनो यथा’ इति स्वयमेवान्यत्र प्रपञ्चितवान् ।

टीका 

ननु सुखदुःखाद्यनुसन्धाने न चेतनस्य सतः स्वरूपैक्यमात्रं प्रयोजकं, किन्तूपाधिकृत-भेदाभावसहितं स्वरूपैक्यम् । औपाधिकभेदसद्भावेऽपि उपाधीनां संश्लेषश्च । देवदत्तयज्ञदत्तोपाधयस्तु विश्लिष्टाः । अतः स्वरूपैक्येऽपि विश्लिष्टोपाधिकृतभेदसद्भावान्नानुसन्धानापत्तिरित्यत आह- उद्यतेति ।। उद्यतान्यायुधानि येषु ते उद्यतायुधाः । उद्यतायुधा दोर्दण्डा येषां ते तथोक्ताः । पतितानि च तानि स्वशिरांसि चेति कर्मधारयः । पतितस्वशिरसामक्षीणीति षष्ठीसमासः ।

शिरोगतस्य कबन्धगतस्य चाऽत्मनो विश्लिष्टोपाधिकृतभेदसद्भावेऽपि स्वरूपैक्यसद्भाव-मात्रेणान्योन्यज्ञानाद्यनुसन्धानदर्शनेन स्वरूपैक्यमेवानुसन्धाने प्रयोजकं नोपाधिसंश्लेषोऽपीति निश्चयाद्  देवदत्तयज्ञदत्तयोः स्वरूपैक्ये सत्युपाधिविश्लेषाद् विशेषः अनुसन्धानाभावरूपो न वक्तव्यः । किन्तु स्यादेवानुसन्धानमित्यर्थः । अथ वा विश्लेषात् कारणात् देवदत्ताद्युपाधीनां हस्ता-द्युपाधिभ्यो विशेषोऽनुसन्धानप्रतिबन्धकत्वरूपो न शङ्कनीय इति । अस्यापि प्रयोजकस्याऽ-पाद्याव्यापकत्वान्न तदभावेनाऽपाद्याभावो वाच्य इत्युक्तं भवति ।

यस्तु ब्रूयाच्छिरःकबन्धाद्युपाधयो यद्यपीदानी विश्लिष्टास्तथाऽपि प्राक्संश्लिष्टत्वात् नानुसन्धानं प्रतिबध्नन्ति । देवदत्ताद्युपाधयस्तु सर्वदा विश्लिष्टा, अतो नाऽनुसन्धानम् । न च गर्भिण्या गर्भस्थस्य चान्योन्यानुसन्धानप्रसङ्गः । व्यापकत्वमात्रेणोपाधित्वोपपत्तेरिति । तं प्रति नानादेहधारिणो योगिन उदाहर्तव्याः ।

नन्वयं ग्रन्थो यथा चैकेत्यतः प्रागेव सङ्गतः । तत्कुतो व्यवधानम् । उच्यते । अङ्गुल्याद्युपाधीनां संश्लिष्टत्वादेकैकापाये मुक्त्यभावेऽपि देवदत्ताद्युपाधीनां विश्लिष्टत्वात्तदपगमे मुक्त्युप-पत्तिरित्याकाङ्क्षाऽप्यनेन निरस्ता भवतीत्युभयशेषत्वादत्रास्योपन्यासो युक्तः । स्वरूपैक्ये संश्लिष्टानां च सुखाद्यनुन्धानहेतुत्वे विशेषाभावाद्विश्लिष्टोपाधिसद्भावे संसारावश्यम्भावान्न मुक्तिरिति ।

भावबोधः

संसारावश्यम्भावादिति ।। सुखदुःखाद्यनुसन्धानस्यैव संसारत्वादिति भावः ।

भावदीपः

न चेतनस्येति च्छेदः । सहितं स्वरूपैक्यमित्यत्र प्रयोजकमित्यनुषङ्गः । संश्लेषश्चेत्यत्रापि प्रयोजक इत्यनुषङ्गः । बहुव्रीहिगर्भबहुव्रीहिरित्युपेत्याऽह- उद्यतानीति ।। एवं वचनोक्तेस्तात्पर्यार्थमुक्त्वा ‘न विश्लेषा-द्विशेषः’ इति वाक्यार्थमाह- देवदत्तयज्ञदत्तयोरित्यादिना ।। प्रकारान्तरेण तद्वाक्यार्थमाह- अथ वेति ।। अस्यापीति ।। उपाधिकृतभेदाभावसहितमुपाधिविश्लेषवत् स्वरूपैक्यमित्येवंरूपप्रयोजकस्याऽपाद्यभूतानु-सन्धानाव्यापकत्वं शिरःकबन्धस्थलेऽव्यापकत्वादित्यर्थः । यत्रानुसन्धानं तत्रोक्तरूपोपाधिरितिवत् यत्रोक्त-रूपोपाधिस्तत्रानुसन्धानमित्यापाद्यव्याप्यत्वमप्यावश्यकं मत्वा चोदयति- न च गर्भिण्या इति ।। व्यापक-त्वेति ।। हस्तपादादिसम्बन्धिसुखाद्यनुसन्धानादाविति भावः । योगिन इति ।। सौभर्यादियोगिनामनेक-देहधारणेन सर्वदेहसम्बन्धिसुखाद्यनुसन्धानस्य पुराणेषु श्रवणादिति भावः । इत्याकाङ्क्षाऽपीति ।। न केवलमुपाधीनां विश्लेषादनुसन्धानाभावादिरूपो विशेषो निरस्तः, किन्तु इयमाकाङ्क्षाऽपि निरस्तेत्यर्थः । शिरःकबन्धरूपोपाधिविश्लेषेऽपि योगिनो नानादेहधारिणश्च विश्लिष्टनानादेहनिमित्तसुखाद्यनुसन्धानदर्शनेन स्वरूपैक्यस्यैव तत्र प्रयोजकतया देवदत्तादेर्विश्लिष्टदेहरूपैकोपाध्यपगमेऽपि देहान्तरनिमित्तसुखाद्यनुसन्धान-स्यावर्जनीयतया न मुक्तेरवकाश इत्येवंभावेन तन्निरासोऽग्रे ‘स्वरूपैक्ये’ इत्यादिना व्यक्तः । उभयेति ।। ‘उपाधिभेदाङ्गीकारे’ इत्यादिवाक्यस्य, ‘यथा च’ इत्यादिवाक्यस्य च शेषत्वादित्यर्थः । शरीरस्योपाधीनां च विश्लिष्टत्वान्नानुसन्धानमिति शङ्कानिरासकत्वात्पूर्वशेषता, विश्लिष्टोपाधित्वादेकोपाध्यपगमेऽपि मुक्तिः स्यादिति शङ्कानिरासकत्वादुत्तरशेषता उद्यतेत्यादेरिति ज्ञेयम् ।

वाक्यार्थदीपिका

(श्री.टि.)

ननु हस्तपादादिस्थलेऽनुसन्धाने सत्यप्युपाधिकृतभेदसद्भावाद्व्यभिचार इत्यत आह- औपाधिक-भेदसद्भावेऽपीति ।। ‘न विश्लेषाद्विशेषः’ इति वचनानुसारेण संश्लेषो विश्लेषाभाव इति व्याख्येयम् । एवमुत्तर-त्रापि । तथा च विश्लिष्टोपाधिकृतभेदाभावसहितं स्वरूपैक्यमेवानुसन्धाने प्रयोजकमित्यर्थः । एवं च हस्त-पादाद्युपाधीनां संश्लिष्टत्वेन विश्लिष्टोपाधिकृतभेदाभावसद्भावेनानुसन्धानोपपत्त्या न व्यभिचार इति भावः । शिरोगतस्य कबन्धगतस्य चाऽत्मन इति ।। ननु कबन्धेषु पातयन्तीति चेष्टोक्त्या जीवसद्भावः सिद्धः । अक्ष्णां कर्तृप्रयोज्यत्वरूपदर्शनकारणत्वोक्त्या तत्रापि तत्सद्भावः सिद्धः । तथा च जीवस्याणुत्वेन कथमुभय-त्रावस्थानम्  । न च जीवानां सांशत्वात्तद्युक्तमिति वाच्यम् । देवादीनां सांशत्वेऽपि मानुषजीवानां तदभा-वात् । न च भारतयुद्धे हीदं कथ्यते । भारतयुद्घगताश्चोत्तमा एवातस्तेषामंशतोऽवस्थानं युक्तमिति वाच्यम् । मानुषजीवानामप्येवंभावस्य क्वचिद्दर्शनात् । द्वित्रिश्छिन्नगोधाशरीरेषु युगपच्चेष्टायाः सर्वजनप्रत्यक्षत्वाच्चेति चेत्, उच्यते । उत्तमानामंशतोऽवस्थानसम्भवान्नानुपपत्तिः । मानुषादिविषये त्वित्थम् । अघटितघटको भगवानच्छेद्यमपि जीवं बहुधा विच्छिद्य तत्तद्व्यापारान् कारयित्वा पुनरैक्यमापादयतीति नानुपपत्तिः । यथोक्तम्-

(श्री.टि.)‘अच्छेद्यस्यापि जीवस्य वि(भागं)च्छेदं बहुधा हरिः ।

कृत्वा भोगान्प्रदायैव चैक्यमापादयेत्पुनः ।।’ इति ।

विश्लेषा(दिति)द्विशेषादिति१ ।। उपाधिविश्लेषलक्षणविशेषसद्भावादित्यर्थः । किमनेनोक्तं भवतीत्यत आह- अस्यापीति ।। विश्लिष्टोपाधिकृतभेदाभावसहितस्वरूपैक्यरूपप्रयोजकस्यापीत्यर्थः । आपाद्येति ।। कबन्धेषु व्यभिचारेणानुसन्धानरूपापाद्याव्यापकत्वादित्यर्थः । वाच्य इतीति ।। न ह्यव्यापकाभावेनाव्याप्याभावो दृष्ट इति भावः । सर्वदेति ।। तथा चानुसन्धाने सर्वदा विश्लिष्टोपाधिभेदाभावः प्रयोजकः । कबन्धेषु तु पूर्वं संश्लेषसद्भावेन सर्वदा विश्लिष्टोपाधिकृतभेदाभावसद्भावाद्युक्तमनुसन्धानमिति भावः ।

ननु गर्भिण्या गर्भस्य गर्भदशायां संश्लेषसद्भावेन सर्वदा विश्लिष्टोपाधिभेदाभावसत्त्वेऽप्यनुसन्धानाभावेन व्यभिचारान्न समव्याप्तिरतो नायमुपाधिरित्याशङ्क्य निराकरोति- न च गर्भिण्या इति ।। व्यापकत्वमात्रे-णेति ।। आपाद्यभूतानुसन्धानव्यापकत्वमात्रेणैवोपाधित्वोपपत्त्या समव्याप्तेरनपेक्षितत्वादिति भावः । इति यस्तु ब्रूयादिति सम्बन्धः । योगिनः सौभर्याद्याः । उदाहर्तव्या इति ।। उक्तप्रयोजकस्य व्यभिचारस्थलत्वेनेति शेषः । तथा च तत्रानुसन्धाने सत्यपि सर्वदा विश्लिष्टोपाधिभेद एवास्तीति व्यभिचार इति भावः । यथोक्तम्-

नानादेहभोगानुसन्धानं योगिनो यथा ।

न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ।।’ इति ।

अयं ग्रन्थ इति ।। अनुसन्धाने प्रयोजकान्तरमाशङ्क्य कबन्धादौ व्यभिचारकथनपर उद्यतायुधेत्ययं ग्रन्थ इत्यर्थः । व्यवधानं यथा चैकेतिवाक्येन । अनेन उद्यतायुधेति वाक्येन । अत्रास्येति ।। तथा चैकेति-वाक्येनातिप्रसङ्गकथनानन्तरं कबन्धादौ व्यभिचारोपन्यासो युक्त इत्यर्थः । कथं निरस्ता भवतीत्यत आह- स्वरूपैक्ये इति ।। सतीति शेषः । संश्लिष्टानाम् अङ्गुल्याद्युपाधीनाम् । विश्लिष्टानां देवदत्ताद्युपाधीनाम् । हेतुत्वे हेतुत्वविषये । न विशेष इत्यस्यार्थमाह- विशेषाभावादिति ।। कबन्धस्थले उपाधिविश्लेषसद्भावेऽप्यनु-सन्धानदर्शनेनेत्यर्थः । तद्वत्प्रकृतेऽपीति शेषः । विश्लिष्टेति ।। देवदत्तयज्ञदत्तयोरपि विश्लिष्टोपाधिकृतभेदसद्भाव इत्यर्थः । संसारावश्यम्भावादिति ।। सुखदुःखाद्यनुसन्धानस्यैव संसारत्वेन तस्यावश्यम्भावादित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

उपाधीनां संश्लेषश्चेति ।। तथा च विश्लिष्टोपाधिकृतभेदाभावसहितं स्वरूपैक्यमेव प्रयोजकमिति भावः    तथाऽपीति ।।  तथा च संश्लेषायोग्योपाधिकृतभेदाभावसहितत्वं विशेषणमिति भावः । योगिन इति ।। यदि संश्लेषयोग्योपाधिकृतभेदाभावसहितं स्वरूपैक्यमनुसन्धानप्रयोजकं स्यात्तथा सति सौभर्यादियोगिनो नानाशरीरगतसुखदुःखादीन्नानुसन्दधीरन्नित्याद्युदाहर्तव्यमित्यर्थः । उभयशेषतामेव दर्शयति- स्वरूपैक्य इति, इत्यप्याहुः । संसारेति ।। सुखदुःखाद्यनुसन्धानस्यैव संसारत्वादिति भावः ।

लघुप्रभा

(व्या.टि.)

उक्तं चेतनत्वविशिष्टं स्वरूपैक्यप्रसङ्गोपाधिमुदास्य संश्लेषाभावविशिष्टोपाधिकृतभेदाभावविशिष्ट-चेतनत्वे सति स्वरूपैक्यरूपं विशिष्टमनुसन्धाने प्रयोजकमाशङ्कते- नन्वित्यादिना ।। तत्र विशेष्यभूत-विशिष्टमात्रस्य प्रयोजकतां निरस्यति- नेति ।। उपाधिकृतेति ।। अत्र प्रतियोगी प्रतिबन्धकः । यद्वक्ष्यति ‘विशेषोऽनुसन्धानप्रतिबन्धकत्वरूपः’ इति । तदभावः कारणमित्यर्थः । तस्योत्तेजकमाह- संश्लेषश्चेति ।। विशिष्टा इति ।। विश्लेषस्यानुसन्धानप्रतिबन्धकतावच्छेदकत्वादिति भावः । उत्तेजकाभावविशिष्टप्रतिबन्धक-मत्रोपपादयति- अत इति ।। उद्यतायुधदोर्दण्डा इति बहुव्रीहिगर्भबहुव्रीहिरित्याह- उद्यतानीति ।। पतित-स्वशिरोऽक्षिभिरित्यत्र पतिताः स्वे येषामिति समासेऽर्थानुपपत्तिः । शिरःपातेऽपि कबन्धपाताभावात् । पतितानि स्वशिरांसि येषामिति बहुव्रीहौ  ‘उरःप्रभृतिभ्यः कप्’  इति समासान्तापाताच्चेत्यस्वरसमुरसिकृत्य व्याचश्व्े- पतितानि च तानीति ।। कबन्धस्थात्मनां द्रष्टृत्वात्कबन्धाः पश्यन्तः इत्युपचर्यते । किमेवंवादिनोपाधि-संश्लेषविशिष्टस्वरूपैक्यमनुसन्धाने प्रयोजकीक्रियते उत तदुपलक्षितं वेति विकल्प्याऽद्यं कल्पं पराचश्व्े- शिरो-गतस्येत्यादिना ।। अत्र कैश्चिच्छिन्नगोधादिशरीरेषु भोगासम्भवमाशङ्क्य ‘अच्छेद्यस्यापि जीवस्य’ इत्यनु-भाष्योदाहरणेन समाहितम्, तदसङ्गतम् । तस्य ‘अविरोधश्चन्दनवत्’ सति सूत्रोक्तसांशजीवविषयत्वात् । निरंशेषु जीवविभागाभावात् । ‘गुणाद्वाऽऽलोकवत्’ इति सूत्रे ‘अन्ये चिद्गुणेनैव नान्यथा’ इति प्रकाशव्याप्त्युक्तेः। अतः प्रकाशविभागेनैव निर्वोढव्यम् । विश्लिष्टस्येति ।। संश्लेषस्य व्यतिरेकव्यभिचारप्रदर्शनम् । स्वरूपैक्य-सद्भावमात्रेणेति ।। सद्भावेति विशेष्यस्यान्वयः प्रदर्शितः । मात्रेणेति विशिष्टस्य तद-भावश्च । संश्लेषोऽपी-तीति ।। विशिष्टमित्यर्थः । मूलीयविशेषपदस्य देवदत्तयज्ञदत्तयोरिति शेषं मत्वा व्याचश्व्े- देवदत्तेत्यादि ।। अधुना विशेषपदमुपाधीनामिति विशेषेण विशेष्यं विविनक्ति- अथ वेति ।। कारणात् प्रयोजकादित्यर्थः । अभिसन्धिमुद्घाटयति- अस्यापीति ।। अव्यापकत्वादिति ।। आपाद्यवन्निष्ठाभावप्रतियोगित्वादित्यर्थः । उपाधिवैकल्यमाह- न तदभावेनेति ।। द्वितीयं कल्पं परमतत्वेनानूद्यावद्यति- यस्तु ब्रूयादित्यादिना ।। संश्लेषस्योपलक्षणतया प्रयोजकतामाह- प्रागिति ।। सर्वदेति ।। सार्वकालिकविश्लेषस्यानुसन्धानप्रतिबन्ध-कतावच्छेदकत्वमिति भावः । प्रयोजकत्वं कारणत्वमित्यवगत्यान्वयव्यभिचारचोदनापदेशेन प्रसञ्जयति- न चेति ।। नात्र प्रयोजकत्वं कारणत्वं किन्तूपाधित्वम् । तच्च विषमव्याप्त्यापि सम्भवतीत्याह- व्यापकत्वमात्रे-णेति ।। यथाश्रुतव्याख्याने विशिष्टस्यैव प्रयोजकत्वप्रसक्त्या गर्भिणीगर्भयोरापादकाभावेनाऽपादनानुपपत्तिः। उपाधेरापाद्यव्यभिचारप्रदर्शनानुपपत्तिश्च । अतो विकल्पमुखेन दूषणम् । एतद्दूषणस्यानुक्तेः । ‘नानादेहग-भोगानुसन्धानं योगिनो यथा’ इति ग्रन्थान्तरोक्तमनुस्मर्तव्यमित्याह- तं प्रतीति ।। नानादेहधारिण इति ।। सर्वदोपाधिसंश्लेषरहिता इत्यर्थः ।

ततश्चायमाखण्डलार्थः । गर्भिणीगर्भयोर्मातापुत्रयोः सत्यपि कदाचित्संश्लेषे स्वरूपैक्याभावेनाननुसन्धान-दर्शनात् कबन्धादौ संश्लेषोपलक्षिते सर्वथा तद्रहिते सौभर्यादौ चासत्यपि उपाधिसंश्लेषे स्वरूपैक्यमात्रेणानु-(व्या.टि.) सन्धानदर्शनादनन्यथासिद्धान्वयव्यतिरेकाभ्यां स्वरूपैक्यभावाभावौ चानुसन्धानाननुसन्धानयोः प्रयोजकौ न संश्लेषविश्लेषशब्दितसंयोगविभागाविति देवदत्तयज्ञदत्तयोः स्वरूपैक्येऽनुसन्धानं स्यादेवेति सुस्थः प्रसङ्ग इति । तदेतदनुसन्धायोक्तमनुव्याख्याने ‘चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम्’ इति । असङ्गत्या निगृह्णाति- नन्वयमिति ।। प्रागेवेति ।। सुखव्यवस्थाभङ्गप्रस्ताव इत्यर्थः । तत्र हि ‘हस्तपादाद्युपाधिभेदेऽपि’ इति प्राचा ग्रन्थेनोपाधिभेदाभावस्याऽपाद्याव्यापकत्वेऽभिहिते उपाधिसंश्लेषस्योपाधित्वमित्याकाङ्क्षोदयात्तदुप-शामकस्तत्रैव सङ्गत इत्यर्थः । अत एव तत्त्वोद्योते हस्तपादादीतिग्रन्थानन्तरमेवास्य निवेशः । एवेत्यत्राऽकाङ्क्षा-विरहं सूचयति । व्यवधानमिति ।। बद्धमुक्तव्यवस्थाभञ्जकग्रन्थेन तदाकाङ्क्षाविच्छेदात् । निविड्भिरिव सामि-धेन्याकाङ्क्षायाः पुनरुत्थाप्यत इत्यत आह- तत्कुत इति ।। प्रकरणशुद्धिमवधीर्य पुनरुत्थानायोगादित्यर्थः । अस्य यथा चैकेत्यनेनाप्याकाङ्क्षां दर्शयति- अत इति ।। इत्याऽकाङ्क्षापीति पूर्वाकाङ्क्षासमुच्चयः । उभयशेषत्वा-दिति ।। उभयान्वितत्वादित्यर्थः । ननु कथमेकस्योभयशेषत्वम्? किमाश्चर्यम् । यथा पूर्वतन्त्रे अच्छिद्रेणेत्यादेः ‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु’ इति दीक्षितयावनमन्त्रत्रयशेषत्वम् । यथा चोत्तरतन्त्रे स्मृत्यधिकरणस्य युक्तिसमयोभयविरोधशामकत्वेनोभयवादशेषत्वं, तथैवेत्यवैहि । मूलस्य यतो न मुक्तिरिति शेषं मत्वा तद्भावमाह- स्वरूपैक्य इति ।। संसारेति ।। सुखदुःखादिरूपः संसारः ।