टीका
बौद्धोक्तसार्वज्ञसिद्धिप्रकार निरासः
टीका
ननु धर्मादिकं कस्यचित् प्रत्यक्षं वस्तुत्वाद् घटवदिति सामान्यतः सार्वज्ञादिसिद्धिरिति । मैवम् । अत्र किं धर्मादेः प्रत्यक्षत्वमात्रं साध्यते उतैकपुरुषप्रत्यक्षत्वम् । आद्येऽर्थान्तरत्वम् । कस्यचित् केनचित्प्रत्यक्षीकृतत्वेनापि प्रतिज्ञातार्थस्य सिद्धेः । न द्वितीयः । दृष्टान्तेऽदृष्टत्वात् । नहि (नच) पक्षातिरिक्तस्य सर्वस्यैकपुरुषप्रत्यक्षत्वं सम्मतम् । एको घट एकस्य प्रत्यक्ष इति चेत् । तर्ह्येको धर्म एकस्य प्रत्यक्षोऽपरस्याधर्म इत्येवं प्रतिज्ञातार्थस्योपपत्तेरर्थान्तरतातादवस्थ्यात् । धर्मं पश्यन्नधर्मं कथं न पश्यतीति चेत् । किमियं सम्भावना अथानुमानम् । नाऽद्यः । असाधकत्वात् । न द्वितीयः। व्याप्त्यभावात् । योऽशक्यमेकं करोति सोऽपरमपीति व्याप्तिरिति चेन्न । वराहगृध्रादिषु दूरस्थ-शब्दरूपग्रहणसमर्थेष्वपि तथाविधरसादिग्रहणसामर्थ्यस्यादृष्टत्वात् । अस्तु वा विप्रतिपन्नमेकस्यैव प्रत्यक्षम् । तथाऽपि कुतः सार्वज्ञसिद्धिः । नहि स एव सम्प्रतिपन्नं पश्यतीत्यत्र प्रमाणमस्ति । कैमुत्यन्यायसिद्धं तदिति चेन्न । तद्बीजाभावात् । यो ह्यशक्यं करोति स सुकरं करोत्येवेति चेन्न । कण्टकान् भक्षयितरि उश्व््रे कदलीफलभक्षणस्यादृश्व्त्वात् । धर्मादिज्ञानेनैव प्रकृतोपयोगात् किं कीटकसङ्ख्यापरिज्ञानेनेति चेन्न । धर्मादिसाध्यसाधनाद्यपरिज्ञाने धर्मादिज्ञानस्यानुपयुक्त-त्वादिति ।
भावदीपः
।। सामान्यत इति ।। वस्तुविशेषानिष्ठतयेत्यर्थः ।। सार्वज्ञादीति ।। तन्मूलरागाद्यभाव आदि-शब्दार्थः ।। अर्थान्तरत्वमिति ।। धर्मादेरतीन्द्रियस्य सर्वस्यैकपुरुषप्रत्यक्षत्वे हि तस्य सार्वज्ञमभिमतं कथञ्चित् सिद्ध्येत् । तत्प्रत्यक्षत्वमात्रसाधने तु किञ्चित् केनचित्प्रत्यक्षीकृतम् अन्यदन्येनापरं त्वपरेणेत्येवं-रूपेणापि प्रतिज्ञातार्थसिद्धेरभिमतासिद्धिरिति व्यनक्ति- कस्यचिदिति ।। सोऽपरमपीति ।। करोतीत्यनुषङ्गः। शब्दरूपेति ।। शब्दस्य रूपस्येति यथाक्रममन्वयः ।। प्रकृतोपयोगादिति ।। शास्त्रस्य विषयादिमत्त्वसिद्धेरिति भावः ।। साध्यसाधनेति ।। धर्मस्य यत्साध्यं यच्च साधनं तदादीत्यर्थः । तदर्थं सार्वज्ञस्यापेक्षणादिति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
‘प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते’ इत्यनुव्याख्यानं मनसि निधायाऽह- नन्विति ।। कस्यचिदिति ।। धर्मः कस्यचित्प्रत्यक्षोऽधर्मश्चापरस्येत्यपि प्रतिज्ञार्थोपपत्त्यैकस्यैव धर्मादिविषयकप्रत्यक्षासिद्धि-रित्यर्थान्तरतेत्यर्थः । तदेवोपपादयति- न चेति ।। न हीत्यर्थः । सर्वस्य घटादेः । तथा च साध्यवैकल्यमिति भावः ।। एको घट इति ।। प्रत्यग्रोत्पन्नविनष्टो घट इत्यर्थः । स एव च मम दृष्टान्त इति भावः ।। अथानुमान-मिति ।। अयमधर्मद्रष्टा धर्मद्रष्टृत्वादित्यनुमानमित्यर्थः । असाधकत्वात् सम्भावनामात्रस्येति शेषः ।। व्याप्ती-ति ।। यो धर्मद्रष्टा सोऽधर्मद्रष्टेत्यत्र दृष्टान्ताभावेन विशेषव्याप्त्यभावादिति भावः । सामान्यव्याप्तिमाशङ्कते- योऽशक्यमिति ।। अपरम् अन्यदप्यशक्यम् । तथा चाशक्यधर्मदर्शनवान् अशक्याधर्मदर्शनवानपि भविष्यत्येवेति भावः । वराहे दूरस्थशब्दग्रहणसामर्थ्यं, गृध्रे दूरस्थरूपग्रहणसामर्थ्यमिति विवेकः । तथा च सामान्यव्याप्तौ व्यभिचार इति भावः । विप्रतिपन्नं धर्माधर्मस्वर्गनरकादिकम् । स एव धर्मादिद्रष्टैव । सम्प्रतिपन्नं घटादिकं जगत् । तथा च न सार्वज्ञसिद्धिरिति भावः । तत् सम्प्रतिपन्नघटादिदर्शनम् ।। तद्बीजेति ।। कैमुत्यबीजभूत-व्याप्त्यभावादित्यर्थः। बीजं शङ्कते- यो हीति ।। तथा चाशक्यधर्मादिद्रष्टृत्वे सुशकघटादिजगद्द्रष्टृत्वं प्राप्तमेवेति भावः ।। कण्टकानिति ।। तथा च व्यभिचार इति भावः ।। प्रकृतोपयोगादिति ।। धर्मादिज्ञानस्यैव प्रकृत-बुद्धसार्वज्ञोपपादकत्वादिति भावः ।। कीटकेति ।। तस्यास्मदादिसाधारण्येन सार्वज्ञानुपपादकत्वादित्यर्थः । धर्मादीति ।। कीटकसङ्ख्यादेरपि साक्षात्परम्परया वा यथाकथञ्चिद्धर्मादिसाध्यसाधनान्तर्गतत्वादिति भावः । तथा च सम्प्रतिपन्नघटादिजगज्ज्ञानस्यापेक्षितत्वेन धर्मादिद्रष्टैव तत्पश्यतीत्यत्र प्रमाणाभावात् सार्वज्ञसिद्धिर्न सम्भवतीति ज्ञातव्यम् ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु सामान्यसिद्धिपरिशेषाभ्यामेव बुद्धस्य सर्वज्ञत्वसिद्धेर्न तस्याप्रामाणिकत्वमित्याशयेन शङ्कते- नन्विति ।। सामान्यतः सर्वज्ञत्वसिद्धिरित्युपलक्षणम् । सामान्यतो धर्मादिद्रष्टरि सिद्धेऽस्मदादीनां तद्द्रष्टृत्वस्य बाधितत्वाद् आर्हतादीनां तत्र तत्र स्खलनदर्शनात् परिशेषेण भगवतो बुद्धस्यैव सर्वज्ञत्वसिद्धिरित्यपि द्रष्ट-व्यम् ।। अर्थान्तरत्वादिति ।। एकस्य सर्वविषयकज्ञानवत्त्वासिद्धेरिति शेषः । तदेवोपपादयति- कस्यचि-दिति ।। ननु पक्षातिरिक्तस्य सर्वस्य एकपुरुषप्रत्यक्षत्वासम्मतावप्येकमात्रदृष्टघटस्यैकपुरुषप्रत्यक्षतायाः सम्मत्या तस्यैव दृष्टान्तत्वसम्भवात् कथं तद्दृष्टान्ते तदभाव इत्याशङ्कते- एक इति ।। असाधकत्वादिति ।। सम्भावनाया उत्कटैककोटिकसंशयरूपत्वेनाप्रमाणत्वादिति भावः । अनुमानपक्षेऽपि किमत्र विशेषव्याप्तिरुत सामान्य-व्याप्तिरिति विकल्पद्वयं मनसि निधायाऽऽद्यं दूषयति- व्याप्त्यभावादिति ।। दृश्वन्ताभावादिति भावः । द्वितीयं (पां.टि.) शङ्कते- य इति ।। तथाविधेति ।। दूरस्थेत्यर्थः ।। प्रकृतोपयोगादिति ।। धर्मादिप्रतिपादक-बुद्धवाक्यस्य विवक्षितार्थतत्त्वज्ञानादिरूपाऽप्तिमूलकत्वस्य बुद्धस्य धर्मादिज्ञानेनैव सिद्ध्या तदितरज्ञानस्य तत्रानुपयोगादिति भावः ।
लघुप्रभा
(व्या.टि.)
परिशेषतः स्वाचार्ये सार्वज्ञसिद्धिमभिलषतो बौद्धस्य सामान्यतः सार्वज्ञसाधनप्रकारमाशङ्कते- नन्विति ।। धर्मादिकमिति ।। ऐन्द्रियकत्वानैन्द्रियकत्वविप्रतिपत्तिरादिपदसङ्ग्राह्यतावच्छेदिका ।। घटवदि-ति ।। एवं पटादेरपि सम्प्रतिपन्नस्य दृष्टान्तत्वं बोध्यम् ।। सामान्यत इति ।। अनिर्धारितवस्तुविशेषनिष्ठत्वेनेत्यर्थः। प्रत्यक्षस्य द्रष्टारमन्तरा अनुपपत्तेरर्थसिद्धं कस्यचिदिति । प्रत्यक्षत्वमात्रं साध्यं उतैकत्वं विवक्षित्वा एकप्रत्यक्ष-विषयत्वमिति विकल्पयति- अत्र किमिति ।। अर्थान्तरत्वमिति ।। कस्यचिद्धर्मस्य केनचित्पुरुषेण, अपरस्या-धर्मस्यापरेणेत्येवमनेकप्रत्यक्षत्वापत्त्या एकस्य सर्वविषयकज्ञानरूपसार्वज्ञासिद्धेरर्थान्तरत्वमित्यर्थः ।। न द्वितीय इति ।। एकपुरुषप्रत्यक्षविषयत्वमित्यर्थः । अत्र किं पक्षीकृतस्य धर्मादेः समुदायस्यैकद्रष्टृकत्वरूपमेकप्रत्यक्षत्व-मभिलषितम् उत प्रत्येकमिति विकल्पं मनसिकृत्याऽद्यं निराह- दृष्टान्तेऽदृष्टत्वादिति ।। भिन्नदेशकालानां (कालीयानां) घटादीनां दृष्टान्तीकृतानामेकद्रष्टृकत्वासम्मतेरित्यर्थः । सर्वैन्द्रियकद्रष्टारमेकमादाय सम्मतिरित्यतो नेत्याह- न हि पक्षातिरिक्तस्येति ।। द्वितीयं शङ्कते- एको घट इति ।। तथा च प्रत्येकमेकद्रष्टृकत्वरूपैकप्रत्यक्षत्वं घटेष्विति न दृष्टान्ते साध्यादर्शनमिति भावः । तर्हि पक्षेऽपि प्रत्येकमेकद्रष्टृकत्वमादाय साध्यपर्यवसानेनार्थान्तर-तातादवस्थ्यमित्याह- तर्हीति ।। पक्षे समुदाये एकद्रष्टृकत्वं दृष्टान्तस्त्वेकव्यक्तिरिति तु न शङ्कनीयम् । ऐन्द्रियक-समुदाये वस्तुत्वसत्त्वेऽप्येकद्रष्टृकत्वाभावेन व्यभिचारापत्तेः । केचित्तु एकपुरुषप्रत्यक्षत्वमित्यस्यैकमात्रपुरुष-प्रत्यक्षत्वमर्थ इत्याहुः । तच्चिन्त्यम् । यथाश्रुते सम्भवत्येकमात्रेत्यर्थकल्पनाऽस्वारस्यात् । ‘न हि पक्षातिरिक्तस्य कस्यापि’ इत्युपपादनीये सर्वस्येत्यस्यानौचित्याच्च । न ह्यस्तीति वक्तव्ये न हि सम्मतमिति सम्मत्यभाव-कथनायोगाच्च । प्रत्यग्रोत्पन्नविनष्टघटाभिप्रायकत्वे कश्चिद्घट इति वक्तव्ये एको घट इत्यस्य स्वारस्याभावाच्च । उभयदृष्टघटादौ व्यभिचारापरिहाराच्च । अर्थान्तरतातादवस्थ्यस्य प्रत्यग्रोत्पन्नविनष्टघटदृष्टान्तीकरणोपजीवनाभावेन तर्ह्येको धर्म इति ग्रन्थास्वारस्याच्च । मात्रपदेन प्राप्तसर्वज्ञान्तरनिषेधस्याप्रकृतत्वाच्चेत्यलम् ।
।। कथमिति ।। सम(मा)र्थदर्शनादिति हेतुशेषः । विकल्प्य पृच्छति- किमिति ।। विमतोऽधर्मं पश्यति धर्मद्रष्टृत्वाद् इत्यनुमानप्रकारो बोध्यः ।। असाधकत्वादिति ।। सम्भावनाया इति शेषः । व्याप्त्यभावादि-ति ।। विशेषव्याप्तौ दृष्टान्ताभावात् । यद् धर्मद्रष्टृत्वे एकाशक्यकर्तृत्वरूपम्, अधर्मद्रष्टृत्वेऽपराशक्यकर्तृत्व-रूपं च तेन सामान्यरूपेण व्याप्तिरित्याह- योऽशक्यमिति ।। शब्दरूपेति ।। यथाक्रममन्वयः । प्रतिज्ञा-(ता)र्थसिद्धावपि नाभिमतसिद्धिरित्याह- अस्तु वेति ।। कुत इति ।। किंशब्देन सिद्धिराक्षिप्ता । तत्प्रकारं दर्शयति- न हि स एवेति ।। १अपीति विप्रतिपन्नं समुच्चिनोति । तदिति प्रकृत्यर्थपरामर्शः । सम्प्रतिपन्न-(व्या.टि.) सर्वदर्शनमित्यर्थः ।। तद्बीजेति ।। तस्मिन् बीजेत्यर्थः ।। अशक्यमिति ।। धर्मादिद्रष्टृत्वस्या-शक्यकर्तृत्वरूपत्वं बीजमित्यर्थः । करोत्येवेत्यविनाभावं दर्शयति- उष्ट्र इति ।। क्रमेलक इत्यर्थः ।। अदृष्टत्वा-दिति ।। तेन व्यभिचारान्नाविनाभाव इत्यर्थः । सार्वज्ञसिद्धेर्वैयर्थ्यं शङ्कते- धर्मादिज्ञानेनै-वेति ।। प्रकृतेति ।। धर्माद्युपदेशसम्भवेनापौरुषेयवाक्यान्यथासिद्धिसम्भवादित्यर्थः । अनुपयुक्तत्वादिति ।। अनुष्ठानापर्यव-सानादिति भावः । न हि साध्यसाधनाद्यज्ञाने धर्मस्वरूपज्ञानमात्रेणोत्तरक्रत्वनुष्ठानसम्भवः । किं केन कथम् इत्याकाङ्क्षात्रयानुत्तारात् । अन्यथा चोदनासूत्रेणैव श्रुत्यर्थाभ्यां स्वरूपप्रमाणोक्त्या धर्मस्वरूपसिद्धेः शेष-लक्षणाद्यनारम्भणीयं स्यात् । अतस्तावज्ज्ञानस्य सार्वज्ञमङ्गीकरणीयम् । यथोक्तं गीताभाष्ये - ‘एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः’ इति । तच्च नानुमानात् सिद्ध्यतीति कल्पनीयमेवेति । उपलक्षणमेतत् । धर्मादेरुपदेश्व बुद्धः सर्वज्ञोऽङ्गीक्रियत इति प्रतिज्ञाहानिश्चेत्यपि ग्राह्यम् ।