देशतः कालतश्चापरिच्छिन्नयोरौपचारिकभेदाभावादेव ..
मूलम्
- देशतः कालतश्चापरिच्छिन्नयोरौपचारिकभेदाभावादेव दुःखिनोऽन्यच्छुद्धं ब्रह्म न सिद्ध्यति । अतः स्वाभाविकस्संसारः इत्यनिवृत्तिरेव स्यात् । किञ्च विशिष्टस्य शुद्धस्य वा संसारः । शुद्धस्य संसार इत्युक्ते स्वव्याहतिः । विशिष्टस्येत्युक्ते विशिष्टोऽन्यः स एव वा । स एव चेदुक्तो दोषः । अन्यश्चेन्नित्योऽनित्यो वा । अनित्यश्चेन्नाश एव तस्य न मोक्षः । नित्यत्वे च भेदस्य सत्यत्वं, मोक्षेऽपि तस्य भावात् । स्वरूपमात्रस्या-भेद उपाधिभिन्न एवेत्यङ्गीकारे स्वरूपमेवोपाधिसम्बद्धमिति न तस्य शुद्धत्वम् । अशुद्धस्वभावस्य न कदाचिच्छुद्धत्वमिति च तत्पक्षः ।
तत्त्वमञ्जरी
शुद्धं ब्रह्म शबलं चेति द्वयमपि देशतः कालतोऽप्यनन्तं कल्पयन्ति । तत्र शबल-मीश्वरापरपर्यायं ‘द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च’ इति श्रुतिदृष्टम् । तयोरेवौपाधिको भेद इति च न वक्तव्यम् । तत्रौपाधिकभेदस्यानुक्तत्वात् । एकस्य परस्परविरुद्धरूपद्वयान्यथा-नुपपत्त्या स कल्प्यत इति चेत् । मैवम् । यत् शुद्धं ब्रह्म तद्दुःखिनो भेदेन न सिद्ध्यतीति ह्याप-तितम् । तथाच तत्तद्दुःखित्वमौपाधिकं न भवति । शुद्ध उपाध्यसम्भवात् । अतः स्वाभाविको दुःखादिसंसार इति च । तस्यानिवृत्तिरेव स्यात् ।
टीका
जीवब्रह्मव्यवस्थाऽपि तन्मते न सिद्ध्यतीत्याह- देशत इति ।। ईश्वरस्य तावद्दुःखित्वादिकं पूर्वोक्तन्यायेनाऽपन्नम् । ततश्च तेनाभिन्नत्वाद् ब्रह्मणोऽपि दुःखित्वं प्राप्तमेव । तथाच दुःखिनोऽन्य-दत एव शुद्धं ब्रह्म न सिद्ध्यति । ननु ब्रह्मेश्वरयोः स्वाभाविकभेदाभावेऽप्यौपाधिकभेदसद्भावादीश्वरे दुःखिन्यपि न ब्रह्मणो दुःखित्वमित्यत उक्तम्- देशत इति ।। पूर्वं जीवगतदुःखेन ब्रह्मणोऽपि दुःखित्वान्न जीवब्रह्मव्यवस्थासिद्धिरित्युक्तम् । इदानी त्वीश्वरगतेनेति भेदः । यद्यपि ब्रह्मणो दुःखित्वापत्तिरेवानिष्टा व्यवस्थाविघातित्वात् । तथाऽपि तयाऽन्यदप्यनिष्टमापाद्यत इत्याह- अत इति ।। ब्रह्मणो हि भवन् दुःखादिरूपः संसारः स्वाभाविक एव भवेत् । शुद्धगतस्य नैमित्तिक-त्वासम्भवात् । स्वाभाविकत्वाच्च संसारस्यानिवृत्तिः स्यात् । अन्यथा स्वरूपनिवृत्तिप्रसङ्गात् । तथाच पुनर्बद्धमुक्तव्यवस्थाभाव इति । अस्यापीश्वरद्वारैवाऽपादनान्न पुनरुक्तिदोषः ।
प्रकारान्तरेणाद्वैतिनां व्यवस्थासिद्धिं दर्शयितुं प्रतिजानीते- किञ्चेति ।। तदेवान्यद्दूषणं वक्तुं विकल्पेन पृच्छति- विशिष्टस्येति ।। उपाधिनाऽवच्छिन्नस्य जीवस्येत्यर्थः । शुद्धस्येति ।। कालत्रयेऽपि स्वव्यतिरिक्तशून्यस्य ब्रह्मण इत्यर्थः । संसारो दुःखादिरूपः । यद्यप्येतयोः पक्ष-योर्दूषणमुक्तं ‘यदि चैकमेव’ इति ‘उपाधिसम्बद्धस्य’ इति च । तथाऽपि दूषणान्तराभिधित्सया विकल्पप्रश्नोऽयमित्यदोषः । यद्यपि प्राप्तिक्रमानुरोधेन प्रश्नः कृतः । तथाऽपि द्वितीयपक्षदूषण-स्याल्पत्वात् तदेवादावाह- शुद्धस्येति ।। व्याहतिः स्यादिति शेषः । न खल्वयं संसारः सादिः येन ब्रह्मणि शुद्ध्यशुद्धी कालभेदेन व्यवतिष्ठेते । अतः सर्वदा संसारवच्छुद्धं चेति कथं न व्याहतिः। नहि संसारस्य मिथ्यात्वमेतैरङ्गीकृतं येन मिथ्याभूतोऽसौ न ब्रह्मणः शुद्धिं विहन्तीति परिहारः स्यात् । आद्यं दूषयितुं विकल्पेन पृच्छति- विशिष्टस्येति ।। विशिष्टस्य संसार इति परेणोक्ते संसाराधारो विशिष्टः शुद्धादन्यो वा शुद्ध एव वेति प्रष्टव्यमित्यर्थः । अत्रापि पूर्वोक्त एव विकल्पक्रमे हेतुः । अल्पत्वादेव द्वितीयमादौ दूषयति- स एव चेदिति ।। उक्तो दोषो व्याहतिः । विशिष्टः शुद्धात्मक इत्येका तावद्व्याहतिः । परस्य व्याहतभाषित्वसम्भवात् प्रश्नोपपत्तिः । विशिष्टस्य शुद्धात्मकत्वे शुद्धस्यैव संसार इत्युक्तं स्यात् । ततः पुनरन्या व्याहतिरिति । आद्यं दूषयितुं विकल्पेन पृच्छति- अन्यश्चेदिति ।। स विशिष्टः शुद्धादन्यश्चेदित्यर्थः । अत्रापि क्रमव्युत्क्रमयोस्तदेव निमि-त्तम् । द्वितीयं दूषयति- अनित्यश्चेदिति ।। अत्रानित्यश्चेदिति पराभ्युपगममनूद्य नाश एव तस्येति तदेवानित्यत्वं हेतुत्वेनोपादाय न मोक्षः स्यादित्यापादनं क्रियते । अनित्यश्चेदनित्यत्वादेव तस्य न मोक्षः स्यादिति ।
अयम्भावः- यदि जीवोऽनित्यः स्यात् तदा सर्वोपाधिविगमोत्तरक्षणे नश्येद् विनाश-कारणान्तराभावात् । ततश्च नित्यपुरुषार्थभाक् न स्यादिति । आद्यं दूषयति- नित्यत्वे चेति ।। सत्यत्वं स्वाभाविकत्वं प्रसज्येत । कुत इत्यत आह- मोक्षेऽपीति ।। सर्वोपाधीनां मोक्षे सत्यपि ब्रह्मणोऽन्यस्य तस्य जीवस्य नित्यतया भावात् । स्यादेतत्, संसाराधारो जीव एव न ब्रह्म । स च ब्रह्मणोऽन्यो नित्यश्च । किं नाम जीवस्वरूपमात्रस्य ब्रह्मणोऽभेदः । भेदस्तूपाधिकृत एव । एवञ्च न कश्चिद्दोषः । उपाध्यपगमे ब्रह्मस्वरूपत्वेनैव तस्य मुक्तौ भावेन भेदस्य स्वाभाविकत्वा-नापातादित्यत आह- स्वरूपमात्रस्येति ।। जीवब्रह्मणोरिति शेषः । उपाधिनैव जीवो ब्रह्मणो भिन्न इत्यङ्गीकार इत्यर्थः ।
अत्र वक्तव्यम्- जीवभेदकारणमुपाधिः जीवसम्बद्धो वा स्याद् ब्रह्मसम्बद्धो वा । नाऽद्यः । अन्योन्याश्रयत्वापातात् । द्वितीये तु ब्रह्मस्वरूपमात्रमुपाधिसम्बद्धं वा निमित्तान्तरसहितं वा । न द्वितीयः । तदभावात् । भावेऽप्यनवस्था(द्या)पातात् । आद्ये निर्निमित्तं ब्रह्मस्वरूपमेवोपाधि-सम्बद्धमिति हेतोः तस्य ब्रह्मणः शुद्धत्वं न स्यात् । मा भूद् ब्रह्मणस्तावच्छुद्धत्वम् । उपाधिनिवृत्तौ सत्यां शुद्धत्वं भविष्यतीत्यत आह- अशुद्धेति ।। यद्युपाधिर्निमित्तमन्तरेण ब्रह्मसम्बद्धोऽङ्गीक्रियते तदा ब्रह्मणः स्वाभाविकमेवोपाधिवैशिष्ट्यमङ्गीकृतं स्यात् । तथाच स्वरूपानपाये स्वाभाविका-नपायस्य सर्वसम्मतत्वात् कदापि ब्रह्मणो न शुद्धत्वमित्यापद्येतेति । इति च तत्पक्ष इति ।। चशब्दो भिन्नक्रमः तत्पक्षश्चेति । न केवलमस्मत्पक्ष इत्यर्थः । अत्र सर्वेष्वपि पक्षेषु यथासम्भवं व्यवस्थासिद्धिरूहनीयेति ।
भावबोधः
‘देशतः कालतश्चापरिच्छिन्नयोः’ इति मूले दुःखिशुद्धब्रह्मणोरपरिच्छिन्नत्वमुच्यते । न च तत् सम्भ-वति । दुःखिनो जीवस्यापरिच्छिन्नत्वाभावादित्यतो दुःखिपदमीश्वरपरं कृत्वा व्याचश्व्े- ईश्वरस्य तावदिति ।। ननु ‘यदि चैकमेव ब्रह्म’ इत्यत्रैव ‘अतः संसार्येव ब्रह्म’ इत्यनेन ब्रह्मणो दुःखित्वमापाद्य जीवब्रह्मव्यवस्था न सिद्ध्यतीत्युक्तम् । संसारस्य दुःखित्वादिरूपत्वात् । तथा च तेनेदं पुनरुक्तमित्यत आह- पूर्वमिति ।। अनेन दुःखिपदस्येश्वरपरत्वेन व्याख्याने इदमप्येकं निमित्तमिति सूचितम् । न पुनरुक्तिदोष इति ।। ‘अतस्तद्भावोऽपि न मुक्तिः’ इत्यनेन न पुनरुक्तिदोष इत्यर्थः । विशिष्टपदस्येश्वरपरत्वं वारयितुमाह- उपाधिनाऽवच्छिन्नस्य जीवस्येति ।। अत एवोक्तम्- प्राप्तिक्रमानुरोधेनेति ।। स्वरूपेण शुद्धत्वं जीवस्याप्यस्तीत्यत आह- काल-त्रयेऽपीति ।। अनेन व्याहतिरपि प्रकटीकृता भवति । ब्रह्मेति प्रकृतत्वाद्विशिष्ट इति कथं पुल्लिङ्गनिर्देश इत्यत आह- संसाराधार इति ।। ननु ‘अनित्यश्चेन्नाश एव तस्य’ इति कथमापाद्यापादकभावः, भेदाभावादित्यत आह- अत्रानित्यश्चेदिति ।। न हि स्वरूपावस्थानं मुक्तिः । किन्तु सर्वोपाधिविगम एव । तथा च सर्वोपाधि-विगमानन्तरं जीवस्य किञ्चित्कालावस्थानसम्भवेन न मोक्षविरोध इत्यत आह- अयं भाव इति ।। भास्करं प्रति भेदसत्यत्वापादनं नानिष्टमित्यत आह- स्वाभाविकत्वमिति ।। मोक्षे जीवस्य विद्यमानत्वेऽपि कुतो भेदस्य स्वाभाविकत्वमित्यतो व्याचश्व्े- सर्वोपाधीनामिति ।। ‘अभेद उपाधिभिन्नः’ इत्यनयोः सामानाधि-करण्यप्रतीत्यादिकं वारयितुमाह- उपाधिनैव जीव इति ।। यथासम्भवमिति ।। शुद्धस्य संसार इति पक्षे बद्धमुक्तव्यवस्थायाः, जीवब्रह्मव्यवस्थायाश्चासिद्धिः । विशिष्टः शुद्धस्वरूप इति पक्षेऽप्युक्तव्यवस्थाद्वया-सिद्धिः । विशिष्टः शुद्धादन्यः, सोऽनित्य इति पक्षे बद्धमुक्तव्यवस्थाया असिद्धिः । नित्य इति पक्षेऽपि तथैव, मोक्षेऽपि भेदस्य स्वाभाविकत्वेन सत्त्वाद्ब्रह्मभावलक्षणमुक्तेरभावात् । ‘आत्मस्वरूपमात्रस्याभेद उपाधिभिन्नः’ इत्यादिवाक्योक्तपक्षेऽपि जीवब्रह्मव्यवस्थाया बद्धमुक्तव्यवस्थायाश्चासिद्धिरिति व्यवस्थासिद्धिरित्यर्थः ।
भावदीपः
पूर्वोक्तन्यायेनेति ।। सर्वोपाधिगतत्वात् सर्वोपाधिनिमित्तं दुःखित्वादिकमापन्नमित्यर्थः । अत एव भेदाभावादेवेत्यर्थः । पूर्वभागं व्याचश्व्े- नन्वित्यादिना ।। पूर्वमिति ।। यदि चैकमेव ब्रह्मेत्यादावित्यर्थः । स्वाभाविकत्वाच्चेति ।। प्रसङ्गसमुच्चये चशब्दः । अस्यापीति ।। अनिवृत्तिरूपप्रसङ्गस्यापि । ईश्वरस्य जीवाभेदेन संसारित्वापत्त्या तदभेदेन शुद्धे प्राप्तस्यापि संसारस्यानिवृत्तिरित्येवं रूपेणेत्यर्थः । यदि चेत्यादिना प्रागुक्त-मतस्यात्रोक्तमतस्य च सत्योपाधिकृतसत्यभेदवादिमतत्वात् पौनरुक्त्यसमाध्युक्तिरियमिति ज्ञेयम् ।
प्रसङ्गरूपतासूचनायाऽह-स्यादिति शेष इति ।। औतिनामिति औपाधिकसत्यभेदवादिनामिति योज्यम् । पूर्वोक्त एवेति ।। प्राप्तिक्रम इत्यर्थः । ननु व्याहतस्य कथं प्रश्नकोटितेत्यत आह- परस्येति ।। क्रमव्युत्क्रमयो-रिति ।। निर्देशे क्रमे, दूषणे च व्युत्क्रमे प्राप्तिक्रमोऽल्पत्वं च निमित्तमित्यर्थः । अनित्यत्वं नाम नाश एवेति कथमापाद्यापादकभाव इत्यत आह- अत्रानित्यश्चेत्यादिना ।। प्रसङ्गस्वरूपं व्यनक्ति- अनित्यश्चेदिति ।। अस्फुटत्वादाह- अयं भाव इति ।। विशिष्टस्य जीवत्वेन प्राग्व्याख्यानादाह- यदि जीव इति ।। विनाश-कारणान्तराभावादिति ।। यद्विलम्बाद्विनाशो न स्यादिति भावः । मोक्ष इत्यत्र कस्येत्याकाङ्क्षायामाह- सर्वोपाधीनां मोक्ष इति ।। सर्वोपाध्यपगमे सत्यपीत्यर्थः । अनवस्थापातादिति ।। निमित्तान्तरमपि निमि-त्तान्तरसहितस्येति वाच्यत्वात् । शुद्धस्यैव निमित्तान्तरसम्बन्धोपगमे सत्युपाधिसम्बन्ध एव शुद्धस्योपेयतामिति भावः । इतिशब्दं हेत्वर्थं मत्वाऽऽह- इति हेतोरिति ।। सर्वेष्वपि पक्षेष्विति ।। शुद्धस्य संसार इति पक्षे, विशिष्टः शुद्धात्मैवेति पक्षे, विशिष्टः शुद्धादन्यो नित्य इति पक्षे, अनित्य इति पक्षे, मोक्षे जीवो ब्रह्ममात्रमिति पक्षे चेत्यर्थः । आद्ये बद्धमुक्तव्यवस्थायाः जीवब्रह्मव्यवस्थायाश्चासिद्धिः । द्वितीयेऽप्येवमेव । तृतीये चतुर्थे च बद्धमुक्तव्यवस्थायाः, पञ्चमे जीवब्रह्मादिव्यवस्थाया असिद्धिरित्येवं यथासम्भवमूहनीयेत्यर्थः । औपाधिकसत्य-भेदाद्वैतिमतव्यवस्थानुपपत्त्युक्तिः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु ‘देशतः कालतश्चापरिच्छिन्नयोः’ इति मूले दुःखिशुद्धब्रह्मणोरपरिच्छिन्नत्वमुच्यते । न च तत्सम्भवति । दुःखिनो जीवस्यापरिच्छिन्नत्वाभावादिति चेन्न । दुःखिपदस्येश्वरपरत्वात् । कथमीश्वरस्य दुःखित्वमित्यत आह- ईश्वरस्येति ।। पूर्वोक्तन्यायेनेति ।। ‘सर्वोपाधिगतत्वाच्चैकस्यैवेश्वरस्य भेदस्य मिथ्यात्वाच्च’ इत्यादिना पूर्वोक्तन्यायेन दुःखिभूतजीवाभिन्नतयेश्वरस्य दुःखित्वं सिद्धमित्यर्थः । तेनेति ।। दुःखिभूतेनेश्वरेणेत्यर्थः । दुःखिन ईश्वरात् । ननु, यदि चैकमेव ब्रह्मेत्यत्रातस्संसार्येव ब्रह्मेत्यनेन ब्रह्मणो दुःखित्व-मापाद्य जीवब्रह्मव्यवस्था न सिद्ध्यतीत्युक्तम् । संसारस्य दुःखित्वादिरूपत्वात् । तथा च तेनेदं पुनरुक्तमित्यत आह- पूर्वमिति ।। दुःखित्वादिति ।। उक्तरीत्या तयोर्भेदाभावादिति भावः । ईश्वरगतेनेति ।। पूर्वोक्तन्यायेन दुःखिभूतेश्वराभिन्नत्वादिति भावः । ईश्वरगतेनेत्युक्त्या दुःखिपदस्य ईश्वरपरत्वेन व्याख्याने इदमप्येकं निमित्त-मिति सूचितमिति ज्ञातव्यम् । देशतः कालतश्चापरिच्छिन्नयोरिति वाक्योक्तं ब्रह्मणो दुःखित्वापादनं परस्येष्टा-पादनरूपमिति दूषणान्तरमाचार्यैः अत इति वाक्येनोच्यत इति प्रतीतिवारणायाऽह- यद्यपीति ।। अनिष्टैवेत्य-न्वयः । व्यवस्थेति ।। जीवब्रह्मव्यवस्थेत्यर्थः । तयेति ।। ब्रह्मणो दुःखित्वापत्त्येत्यर्थः । मूले अत इत्यस्य ब्रह्मणो दुःखित्वादित्यर्थः । अन्यथेति ।। स्वाभाविकस्यापि निवृत्त्यङ्गीकार इत्यर्थः । ननु ‘यदि चैकमेव ब्रह्म’ इत्यत्रैव संसार्येव ब्रह्मातस्तद्भावोऽपि न मुक्तिरिति बद्धमुक्तव्यवस्थाभावस्य पूर्वमुक्तत्वात् पुनरुक्तिरित्यत आह- अस्यापीति ।। अत्रोच्यमानबद्धमुक्तव्यवस्थाभावस्यापीत्यर्थः । पूर्वं जीवब्रह्मणोर्भेदस्य मिथ्यात्वा-ज्जीवगतेन दुःखेन ब्रह्मणोऽपि दुःखित्वात्तद्भावमापन्नस्यापि न मुक्तत्वमिति बद्धमुक्तव्यवस्था न सिद्ध्यती-त्युक्तम् । इदानी तु दुःखिभूतजीवाभिन्नस्येश्वरस्य ब्रह्मणश्च भेदस्य मिथ्यात्वेनेश्वरगतेन दुःखेन ब्रह्मणोऽपि दुःखित्वापत्त्या तद्भावमापन्नस्यापि न मुक्तत्वमिति पुनर्बद्धमुक्तव्यवस्थाभाव इत्युच्यत इति न पुनरुक्तिदोष इति भावः । तदेवेति ।। प्रतिज्ञातमेवेत्यर्थः । विशिष्टपदस्येश्वरपरत्वप्रतीतिं वारयितुमाह- उपाधिनाऽवच्छिन्नस्य जीवस्येति ।। स्वरूपेण शुद्धत्वं जीवस्याप्यस्तीत्यतो व्याचश्व्े- कालत्रयेऽपीति ।। अनेन व्याहतिरपि प्रकटिता भवति । यद्यपीत्यादि ।। ‘यदि चैकमेव ब्रह्मोपाधिभेदात्संसरति मुच्यते च’ इत्यादिना शुद्धस्य संसार इति पक्षे (श्री.टि.) दूषणमुक्तम् । उपाधिसम्बद्धस्योपाधिसम्बन्ध इत्यङ्गीकारे तदुपाधिकृतत्वे आत्माश्रयत्वमित्यादिना, उपाधिनाऽवच्छिन्नस्य जीवस्य संसार इति पक्षे च दूषणमुक्तमिति विवेकेन योज्यम् ।
ननु विशिष्टस्य संसार इति प्रथमपक्षदूषणमादावनुक्त्वा द्वितीयपक्षदूषणमादावुच्यते । तदयुक्तम् । प्रथमातिक्रमे कारणाभावात् । न चाल्पत्वात्सूचीकटाहन्यायेन द्वितीयपक्षदूषणमादावुच्यत इति वाच्यम् । तर्हि शुद्धस्य संसारो विशिष्टस्य वेत्येव प्रश्नस्य कर्तव्यत्वादित्यत आह- यद्यपीति ।। विशिष्टशुद्धयोर्मध्ये उपाध्यवच्छिन्नजीवस्यैव संसारः सम्भाविततया प्राप्तो न शुद्धस्यातस्तत्क्रमानुसारेण प्रश्नः कृत इत्यर्थः । तर्हि प्रश्नानुसारेणैव दूषणं कस्मान्न कृतमित्यत आह- तथाऽपीति ।। केचित्तु ब्रह्मज्ञाने हि सत्यादौ विशिष्टस्य प्राप्तिः पश्चाच्छुद्धस्येति प्राप्तिक्रमानुरोधेनेत्यर्थ इत्याहुः । तन्न । ब्रह्मज्ञाने सति विशिष्टस्य सगुणस्येश्वरस्यैव प्राप्तिरङ्गीकृता न जीवस्य । प्रकृते च विशिष्टपदस्योपाध्यवच्छिन्नजीवपरत्वेन व्याख्यानात् । ब्रह्मज्ञाने सति जीवस्य जीवप्राप्त्यभावेन व्यधिकरणत्वात् । अत्रापि क्रमव्युत्क्रमयोस्तदेव निमित्तमित्युत्तरत्र विशिष्टोऽन्यश्चेन्नित्योऽनित्यो वेति प्रश्नः क्रियते । तत्राऽदौ नित्यत्वप्रश्ने च प्राप्तिक्रमस्यैव निमित्तत्वमुच्यते । तदप्यसङ्गत स्यादिति ज्ञातव्यम् । ननु शुद्धस्य संसार इत्यत्र व्याहत्यापादनमयुक्तम् । संसारस्य सादित्वेन कालभेदेन शुद्ध्यशुद्ध्योः सम्भवेन व्याहत्यभावादित्यत आह- न खल्वयमिति ।। ननु तथाऽपि दुःखादिरूपसंसारस्य मिथ्यात्वान्मिथ्याभूतेन संसारेण ब्रह्मणः शुद्धत्वं न विहन्यते । आरोपितेन नीलिम्ना गगनस्य नीरूपत्वानपायादित्यत आह- न हीति ।। एतैरिति ।। भास्करैरित्यर्थः । एतेषां सत्योपाधिकृतसत्यभेदवादित्वेन दुःखादिरूपसंसारस्यैतन्मते सत्यत्वादिति भावः ।
ननु शुद्धं ब्रह्मेति नपुंसकलिङ्गस्य प्रकृतत्वाद्विशिष्ट इति कथं पुल्लिङ्गनिर्देश इत्यत आह- संसाराधार इति ।। ननु संसाराधारो विशिष्टः शुद्धो वा तदन्यो वेति विकल्पमकृत्वा शुद्धादन्यः स एव वेति विकल्पकरणे को हेतुरित्यत आह- अत्रापीति ।। विरुद्धधर्माधिकरणयोरैक्यायोगेन विशिष्टस्य शुद्धादन्यत्वमेवाऽदौ सम्भाविततया प्राप्तम् । अतः प्राप्तिक्रम एव तत्र हेतुरित्यर्थः । तर्हि विकल्पानुसारेणैव कस्मान्न दूष्यत इत्यत आह- अल्पत्वादे-वेति ।। द्वितीयपक्षदूषणस्याल्पत्वादेवेत्यर्थः । नन्वेवं तर्हि विशिष्टः शुद्ध एव वेति भवद्भिरपि कथं प्रश्नः क्रियते व्याहतेस्तुल्यत्वात् । तस्याश्च प्रश्नदोषत्वात् । यथोक्तम्-
‘प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यम्’
इति, तत्राऽह- परस्येति ।। तथा च मायावादिनस्तावद्व्याहतभाषित्वं सम्भावितम् । तथा च तं प्रति तदनुसारेण व्याहतप्रश्नकरणे नास्माकं कश्चिद् दोष इति भावः । शुद्धस्यैवेति ।। कालत्रयेऽपि स्वव्यतिरिक्तशून्यस्यैवे-त्यर्थः । अन्यश्चेदनित्यो नित्यो वेति विकल्पमकृत्वा नित्योऽनित्यो वेति विकल्पक्रमे किं निमित्तं, विकल्प-क्रमानुसारेण दूषणमनभिधाय व्युत्क्रमेण दूषणाभिधाने च किं निमित्तमित्यत आह- अत्रापीति ।। मोक्षशा(स्त्र-(श्री.टि.) वैयर्थ्याप्रसङ्गा)स्त्रावैयर्थ्यान्यथानुपपत्त्या शुद्धादन्यस्य विशिष्टजीवस्य नित्यत्वमेव सम्भाविततया प्राप्तमिति प्राप्तिक्रम एव विकल्पक्रमे निमित्तम् । द्वितीयपक्षस्याऽदौ दूषणे च दूषणस्याल्पत्वमेव निमित्तमित्यर्थः। निमित्तशब्दापेक्षया तदेवेति नपुंसकम् । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्य’, ‘दक्षिणान्नं तनुते यो न आत्मा’ इत्यादिवदिति ज्ञातव्यम् । प्राप्तिक्रमस्य सामान्येन परामर्शात्तदेवेति नपुंसकोपपत्तिः । ‘सामान्ये नपुंसकम्’ इतिसूत्रादित्यप्याहुः । नन्वनित्यश्चेन्नाश एव तस्येति कथमापाद्यापादकभावः । भेदाभावादित्यत आह- अत्रानित्यश्चेदितीति ।। तदेव पराभ्युपगतमेव । तदेव दर्शयति- अनित्यश्चेदिति ।। तदेवानित्यत्वं हेतुत्वेनोपादायेत्युक्तं दर्शयति- अनित्यत्वादेवेति ।। अनित्यत्वादेव न मोक्षः स्यादित्यत्राप्रयोजकताशङ्का-परिहारायाभिप्रायमाह- अयं भाव इति ।। कुत इत्यत आह- विनाशेति ।। सर्वोपाधिविगमं विना जीवस्य विनाशे कारणान्तराभावादित्यर्थः । ततश्चेति ।। विनाशे सतीत्यर्थः । न स्यादिति ।। पुरुषार्थान्वयिन एवाभावादिति भावः । ननु भास्करं प्रति भेदस्य सत्यत्वापादनं नानिष्टम् । सत्योपाधिकृतसत्यभेदवादित्वात्तस्येत्यत आह-स्वाभाविकत्वमिति ।। ननु ब्रह्मणोऽन्यस्य जीवस्य नित्यतया सद्भावेऽपि भेदस्य स्वाभाविकत्वं कुतः। औपाधिकत्वमेव किं न स्यादित्यत उक्तम्- मोक्षेऽपीतीत्याशयेन व्याचश्व्े-सर्वोपाधीनामिति ।। मोक्ष इति ।। विगम इत्यर्थः । तथा च मोक्षेऽपीत्यतः पूर्वं सर्वोपाधीनामिति शेषः । मोक्ष इत्यनन्तरम् अपीत्यतः पूर्वं सतीति शेष इत्युक्तं भवति । तथा च सर्वोपाध्यपगमदशायामपि विद्यमानस्य भेदस्य नौपाधिकत्वं युक्तम् । किं नाम स्वाभाविकत्वमेवेत्याशयः । न कश्चिद्दोष इति ।। ब्रह्मणोऽन्यस्य जीवस्य नित्यत्वपक्षे सर्वोपाध्यपगमदशायामपि ब्रह्मणोऽन्यस्य जीवस्य नित्यतया भावेन भेदस्य स्वाभाविकत्वमिति यो दोष उक्तस्स नेत्यर्थः । कथं नेत्यतस्तदुप-पादयति- उपाध्यपगम इति ।। ब्रह्मस्वरूपत्वेनैव तस्य मुक्तौ भावेनेति ।। उपाधीनां नाशेनोपाधिविशिष्टा-कारस्य नष्टत्वेन तदुपाधिकभेदस्यापि नष्टत्वादिति भावः । भेदस्येत्यादि ।। तस्यैवाभावेन कस्य स्वाभाविकत्वं स्यादिति भावः । ‘अभेद उपाधिभिन्नः’ इत्यत्राभेदस्योपाधिभिन्नत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायोपाधिभिन्न इत्येतद्व्याचश्व्े - उपाधिनैवेति ।। अन्योन्याश्रयत्वापातादिति ।। उपाधिसिद्धौ जीवसिद्धिः। जीवसिद्धौ तत्सम्बद्धोपाधिसिद्धिरित्यन्योन्याश्रयापातादित्यर्थः । तदभावादिति ।। यन्निमित्तान्तरसहितं ब्रह्मस्वरूप-मुपाधिसम्बद्धं तस्य निमित्तान्तरस्याभावादित्यर्थः । अनवस्थादीति ।। निमित्तान्तरसद्भावाङ्गीकारे तन्निमि-त्तान्तरसाहित्यमपि ब्रह्मस्वरूपमात्रस्य वक्ष्यमाणरीत्याऽसम्भवात्पुनर्निमित्तान्तरसहितस्यैवेति वाच्यम् । तन्निमित्तान्तरसम्बन्धोऽप्येवमित्यनवस्था, द्व्यादिकल्पनेऽन्योन्याश्रयत्वाद्यापात इत्यर्थः । तावच्छुद्धत्व-मिति ।। यावत्पर्यन्तमुपाधिसम्बन्धोऽस्ति तावत्पर्यन्तं ब्रह्मणः शुद्धत्वं मा भूदित्यर्थः । सर्वसम्मतमपि मया नाङ्गीक्रियत इत्याशङ्कापरिहारायोक्तम् ‘इति च तत्पक्षः’ इतीत्यभिप्रेत्य व्याचश्व्े- इति च तत्पक्ष इतीति ।। यथासम्भवमिति ।। शुद्धस्य संसार इति पक्षे बद्धमुक्तव्यवस्थाया जीवब्रह्मव्यवस्थायाश्चासिद्धिः । विशिष्टं शुद्धस्वरूपमिति पक्षेऽप्युक्तव्यवस्थाद्वयासिद्धिः । विशिष्टः शुद्धादन्यस्स चानित्य इति पक्षे बद्धमुक्तव्यवस्थाया असिद्धिः । नित्य इति पक्षेऽपि बद्धमुक्तव्यवस्थाया असिद्धिः । मोक्षेऽपि भेदस्य स्वाभाविकत्वेन सत्त्वेन (श्री.टि.) ब्रह्मभावलक्षणमुक्तेरभावात् । जीवब्रह्मणोः स्वरूपमात्रस्याभेदः उपाधिनैव जीवो ब्रह्मणो भिन्न इति पक्षेऽपि जीवब्रह्मव्यवस्थाया बद्धमुक्तव्यवस्थायाश्चासिद्धिरित्येवं सर्वेष्वपि पक्षेषु यथासम्भवं व्यवस्थाया असिद्धिरूहनीयेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
‘देशतः कालतश्चापरिच्छिन्नयोः’ इति मूले दुःखिशुद्धब्रह्मणोरपरिच्छिन्नत्वमुच्यते । न च तत्सम्भ-वति । दुःखिनो जीवस्यापरिच्छिन्नत्वाभावादित्यतो दुःखिपदमीश्वरपरतया व्याचश्व्े- ईश्वरस्य तावदिति ।। ननु यदि चैकमेव ब्रह्मेत्यत्र सर्वदा संसार्येव ब्रह्मेत्यनेन ब्रह्मणो दुःखित्वादिकमापाद्य जीवब्रह्मव्यवस्था न सिद्ध्यतीत्युक्तम् । संसारस्य दुःखित्वादिरूपत्वात् । तथा च तेनेदं पुनरुक्तमित्यत आह- पूर्वमिति ।। अनि-ष्टेति ।। ततश्चास्त्वेवमितीष्टापत्तिशङ्कानुदयान्न तयाऽऽपाद्यमानस्यानिष्टान्तरस्योक्तिर्युक्तेति शेषः । अनिष्टत्वोप-पादनम्- व्यवस्थेति ।। नेयं तदिष्टापत्तिशङ्कायामनिष्टान्तरोक्तिरभिमता । किन्तु तयाऽनिष्टान्तरस्याप्यापत्ति-रित्येवेत्याशयेनोत्तरग्रन्थं योजयति- तथाऽपीति ।। नन्वतस्तद्भावोऽपि न मुक्तिरित्यत्र बद्धमुक्तव्यवस्थानुपपत्ति-रुक्ता सैव पुनरिहोच्यत इति पुनरुक्तिमाशङ्क्याऽह- अस्यापीति ।। विशिष्टपदस्येश्वरपरत्वभ्रान्तिं परिहरति- उपाधिनेति ।। स्वरूपेण शुद्धत्वं जीवस्यापीति शङ्कावारणाय वक्ष्यमाणव्याहतिस्फोरणाय च शुद्धस्येत्यस्यार्थ-माह- कालत्रयेऽपीति ।। किं तदित्यतः तदेव विशिष्य निर्दिशति- यदि चेत्यादिना ।। प्राप्तिक्रमेति ।। विशिष्टशुद्धयोर्भावाभावरूपत्वादभावापेक्षया भावस्यैव प्रथमप्राप्तिक्रमानुरोधेनेत्यर्थः । तदेवेति ।। सूचीकटाह-न्यायेनेति शेषः । ब्रह्मेति प्रकृतत्वात् कथं पुल्लिङ्गनिर्देश इत्यत आह- संसाराधार इति ।। नन्वनित्यश्चेन्नाश एवेति कथमापाद्यापादकभावः भेदाभावादित्यत आह- अत्र नित्यश्चेदितीति ।। ननु जीवस्यानित्यत्वे कुतो मोक्षो न स्यात् । न हि सर्वदा स्वरूपावस्थानं मुक्तिः । किन्तु सर्वोपाधिविगम एव । तथा च सर्वोपाधिविगमानन्तरं जीवस्य किञ्चित्कालावस्थानसम्भवेन न मोक्षविरोध इत्यत आह- अयं भाव इति ।। भास्करं प्रति भेदसत्य-त्वापादनं नानिष्टम् । अतः कथं तदापादनमित्यत आह- स्वाभाविकत्वमिति ।। जीवभेदस्य मुक्तिकाले सत्त्वेऽपि कुतः स्वाभाविकत्वमित्यतो व्याचश्व्े- सर्वोपाधीनामिति ।। ‘अभेद उपाधिभिन्नः’ इति सामानाधि-करण्येनान्वयभ्रान्तिं वारयति- उपाधिनैव जीव इति ।। शुद्धत्वमिति ।। इदानीमिति शेषः । तस्य पक्षान्तरा-भावाच्चशब्दस्य यथाश्रुतानन्वयमाशङ्क्याऽह- चशब्दो भिन्नक्रम इति ।। इति च तत्पक्ष इति चशब्दस्य भिन्नक्रमत्वेन दर्शयति - तत्पक्षश्चेतीति ।। इति तत्पक्षश्चेत्यन्वय इत्यर्थः । उक्तान्वयेऽपि कस्तदर्थ इत्यत आह- न केवलमिति ।।
ननु जीवेश्वरब्रह्म-गुरुशिष्य-सुखदुःखव्यवस्थासिद्ध्यादयो न सर्वेषामद्वैतवादिनाम् । द्विस्कन्धचैतन्यवादिमते ब्रह्मेश्वरसुखदुःखव्यवस्थासिद्धेरभावाद्, गुरुशिष्यव्यवस्थासिद्धेश्च बहुजीववादिनां मतेऽसम्भवात्तत्राऽह- अत्र सर्वेष्विति ।। यथासम्भवमिति ।। शुद्धस्य संसार इति पक्षे बद्धमुक्तव्यवस्थाया जीवब्रह्मव्यवस्थायाश्चासिद्धिः। विशिष्टः शुद्धस्वरूप इति विशिष्टपक्षेऽप्युक्तरीत्या व्यवस्थाद्वयासिद्धिः । विशिष्टः शुद्धादन्यः, सोऽनित्य इति (पां.टि.) पक्षे बद्धमुक्तव्यवस्थाया असिद्धिः । नित्य इति पक्षेऽपि तथैव । मोक्षेऽपि भेदस्य स्वाभाविकत्वेन सत्त्वात् । ब्रह्मभावलक्षणमुक्तेरभावात् । ‘स्वरूपमात्रस्याभेद उपाधिभिन्नः’ इत्यादिवाक्योक्तपक्षेऽपि जीवब्रह्म-व्यवस्थाया बद्धमुक्तव्यवस्थायाश्चासिद्धिरिति व्यवस्थासिद्धिरित्यर्थः ।
लघुप्रभा
(व्या.टि.)
जीवेश्वरव्यवस्थानुपपत्तेर्जीवब्रह्मव्यवस्थानुपपत्त्युपजीवित्वात् तामुपपाद्य जीवब्रह्मव्यवस्थानुपपत्तिं प्रतिजानीत इत्याह- जीवब्रह्मव्यवस्थाऽपीति ।। ब्रह्मदुःखित्वापत्तेरीश्वरदुःखित्वापत्तिप्रयुक्ततामाह- तत-श्चेति ।। तृतीयापत्तेस्तन्निमित्ततामाह- अत एवेति ।। देशत इति ।। भेदकस्योपाधेर्देशकालान्यतरावच्छेदकत्व-व्यापकत्वात्तदभावे भेदकोपाध्यभाव इति मौलो भाव इति भावः । ननु द्विस्कन्धचैतन्यवादिनामुक्तव्यवस्था-नुपपत्तिप्रकारेणैवात्रोक्तेः पुनरुक्तिरित्यत आह- पूर्वमिति ।। पूर्वं साक्षादीश्वरघटितपारम्पर्येणात्रेति न पुनरुक्तिरिति भावः । मूलेऽनिष्टान्तरापादनमयुक्तम् । अस्यैवानिष्टत्वादित्याशङ्क्यावतारयति- यद्यपीति ।। अत्रापि निमित्तनिमित्तिभावेनानिष्टद्वयपरतयाऽनिष्टद्वयावश्यम्भाव इति भावः । आपादकस्याऽपाद्यप्रयोजकता-माह- शुद्धगतस्येति ।। विपक्षे बाधकमाह- अन्यथेति ।। अत्राप्युक्तानुक्तिं व्यनक्ति- अस्यापीति ।। प्रति-जानीत इति ‘सम्प्रतिज्ञामनाध्याने’ इत्यात्मनेपदम् । वैशिष्ट्यस्य प्रतियोगिनिरूप्यत्वात्तमाह- उपाधिनेति ।। शुद्धपदं विशेष्यभ्रमं वारयञ्छून्यपरतया व्याचश्व्े- कालत्रयेऽपीति ।। अभिधित्सयेति ।। अधिकविवक्षयोक्ता-नुवादाददोषः । अभिपूर्वाद् दधातेः सनि सति ‘सनि मीमा’ इति इसि ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपे च ‘सः स्यार्धधातुके’ इति सस्य तत्वे च ‘अ प्रत्ययात्’ इत्यप्रत्यये ‘अजादि’ इति टापि रूपं न्यरूपि । प्रश्नक्रम एव प्रतिवचनेऽप्यनुरोद्धव्य इति शङ्कते- यद्यपीति ।। व्युत्क्रमकारणमाह- अल्पत्वादिति ।। व्याहतिं व्युत्पादयति- न खल्विति ।। द्वेधा हि व्याहतिपराहतिः । संसारसादित्वेन तन्मिथ्यात्वेन वा । आद्यमनूद्यावद्यति- नेति ।। द्वितीयं पराचश्व्े- न हीति ।। शुद्धिं शून्यताम् । उक्तिकर्तारं वक्ति- परेणेति ।। शुद्धस्येति ।। प्रकृतशुद्ध एवान्य इत्यत्र प्रतियोगितया पदिन्यायेन सम्बध्यत इत्याह- शुद्धादिति ।। अपेक्षितं पूरयति - इति प्रष्टव्य-मिति ।। पूर्वेति ।। प्राप्तिक्रम इत्यर्थः । उक्तं दोषं शृङ्गग्राहिकया दर्शयति- व्याहतिरिति ।। तामुपपादयति- एकेति ।। स्वव्याहतं कथं पृच्छ्न्यत इत्यत आह- परस्येति ।। अन्येति ।। फलितेति भावः । अत्रापीति ।। प्रश्नदूषणयोरित्यर्थः । अत्राऽपाद्यापादकयोरैक्यभ्रमं वारयति- अत्रेत्यादिना ।। आपादनप्रकारं दर्शयति- अनित्यत्वादेवेति ।। अनेन नाश एव तस्येत्यतः परं ‘भर्तव्या मनुरब्रवीत्’ इतिवदितिकरणमभिप्रैति ।
नन्वनित्यत्वोपगमेऽपि जीवस्य नाशकारणविलम्बेन कियत्कालमवस्थानसम्भवेनोपाध्यपगमरूपमोक्षा-भावकत्वं किं न स्यादित्यतोऽभिप्रायमाह- अयं भाव इति ।। सर्वोपाधीति ।। अनेन मूले शेषोक्तिः । उपाध्यपगमस्यैव कारणत्वस्फोरणाय कारणान्तरं निराह- नाशकारणान्तरेति ।। उपाधिनाशोपहितनाशयोः कार्यकारणभावस्यान्वयव्यतिरेकसिद्धत्वादिति भावः । आपाद्यं विशदयति- ततश्चेति ।। अनुमानेऽसिद्धिं व्युदसितुमाह- प्रसज्यत इति ।। मोक्ष इति निमित्तसप्तमीत्युपेत्य व्याचश्व्े- सत्यपीति ।। उपाध्यपगमेऽप्यनप-(व्या.टि.) गमादिति उपाध्यपगमेऽप्युपहितसत्त्वं व्याहतभाषिणः परस्यैव युक्तमिति भावः । उक्तं प्रति-वक्तुं शङ्कते- स्यादेतदिति ।। उक्तदोषमाशङ्कते- किं नामेति ।। उत्तरयति- जीवस्वरूपमात्रस्येति ।। तस्य जीवस्य । स्वरूपमात्रस्येति विशिष्टव्यावृत्त्या व्याहतिं व्यवच्छिनत्ति । उपाधिनैवेति ।। अनेनैवकारो भिन्नक्रम इति सूचयति । मूलं विकल्पेषु परिशिष्टकल्पाभिप्रायमित्युपेत्य विकल्पस्य प्रतिज्ञासापेक्षत्वादपेक्षितं पूरयति- अत्र वक्तव्यमित्यादिना ।। अन्योन्याश्रयत्वेति ।। जीवसिद्धौ तत्सम्बन्धोपाधिसिद्धिः, तत्सिद्धौ तदुपहित-जीवसिद्धिरित्यन्योन्याश्रयत्वादित्यर्थः । अनवस्थेति ।। निमित्तान्तरसम्बन्धाय निमित्तान्तरापेक्षायामनवस्थे-त्यर्थः । इतिशब्दो हेतावित्युपेत्य व्याचश्व्े- इति हेतोरिति ।। उपाधिसम्बन्धसमकालमित्यर्थः । मूलमापादनपर-तया व्याचश्व्े- यदीति ।। तर्कमूलव्याप्तिप्रदर्शनपरतया व्याचश्व्े- तथा चेति ।। सर्वसम्मतत्वादित्युक्तं मूलारूढं करोति- चशब्द इति ।। ननु च ‘व्यवस्थासिद्धिं दर्शयितुम्’ इति ‘किञ्च’ इत्यवतारितम् । तदयुक्तम् । व्यवस्थासिद्ध्याः क्वाप्यदर्शनादित्यत आह- अत्र सर्वेष्वपीति ।। ऊहनीयेति ।। ऊहप्रकारस्त्वित्थम् । शुद्धस्य संसार इति पक्षे जीवेश्वरव्यवस्थासिद्धिः, बद्धमुक्तव्यवस्थासिद्धिः, सुखदुःखव्यवस्थासिद्धिश्च । विशिष्टस्य संसार इति पक्षे शुद्धानन्यत्वे प्रागुक्तत्रितयम् । अन्यत्वेऽनित्यत्वे च बद्धमुक्तव्यवस्थासिद्धिः । नित्यत्वे चोपहितस्य सर्वोपाध्यपगमेन बद्धमुक्तव्यवस्थासिद्धिः । औपाधिकभेदनिवृत्त्या ब्रह्मस्वरूपत्वेनैवावस्थानात् । अत एव यथासम्भवमित्युक्तमिति दिक् । इति सत्योपाधिकृतसत्यभेदवादः ।