न च कुत्रापि..
मिथ्योपाधिनिमित्तकस्यात्मभेदस्य निराकरणम्
मूलम्
- न च कुत्रापि मिथ्योपाधिकृतो भेदो दृष्टः ।
तत्त्वमञ्जरी
ननु यथाऽऽकाशस्योपाधिकृतो भेदः एवमात्मनोऽपि मिथ्योपाधिकृतो भेदः स्यादित्यत आह- न च कुत्रेति ।। उपाधिकृत एव भेदो न दृष्टः किमुत मिथ्योपाधिकृत इत्यर्थः । न ह्याकाशादावपि घटमठाद्युपाधिः भेदं करोति । किन्तु पूर्वमेव सन्तं व्यञ्जयति ।
टीका
स्यादेतत् । अन्तःकरणाद्यवच्छिन्नं परिच्छिन्नमात्मस्वरूपं न जीवजडरूपप्रपञ्चारोपाधिष्ठानं ब्रूमः । किन्तु सर्वतो व्याप्तमेव । तच्च स्वभावेनैकरसमपि अनन्तोपाधिकृतभेदभिन्नम् । तथा च नोक्तानुमानावकाशः । अधिष्ठानत्वेनाभिमतस्याऽन्तरत्वादिना विरोधेन भेदेन चाप्रतीतेः । विरुद्धत्वेन भेदेन च प्रतीतस्यानधिष्ठानत्वात् । उपाधिभेदभिन्नस्याऽत्मस्वरूपस्य बहुविध-प्रपञ्चारोपाधिष्ठानत्वोपपत्तेरिति चेन्न । व्याप्तात्मस्वरूपानुविद्धतया घटादीनां प्रतीत्यभावात् । आरोपितस्याधिष्ठानानुविद्धतया प्रतीतिनियमात् । न हि कश्चिदिदं शुक्लभास्वरं रजतमिति-वदिदमात्मस्वरूपं घट इति प्रत्येति । ननु ‘सन् घटः’,‘प्रकाशते घटः’ इति सत्प्रकाशसम्भिन्नतया घटः प्रतीयते । सत्प्रकाशात्मकश्चाऽत्मेति कथमात्मानुविद्धतया घटादिप्रतीत्यभावः । असाधारणा-कारानुवेधस्तु रजतादिविभ्रमेऽपि नास्तीति चेन्न । ‘अनित्यमिदम्’,‘कृष्णमिदम्’ इति प्रतीतेर-नित्यादिरूपस्याधिष्ठानत्वप्रसक्तेः । घटधर्म एवासौ नाधिष्ठानानुवेध इति चेत्तर्हि सत्तादिकमपि किन्न स्यात् । अस्य पृथक् सत्ताऽभावादिति चेन्न । अन्योन्याश्रयप्रसङ्गात् । सिद्धे ह्यारोपितत्वे पृथक् सत्ताऽभावसिद्धिः । ततश्चाधिष्ठानानुवेधसम्भवेनाऽरोपितत्वसिद्धिः । प्रकाशानुवेधस्तु जडस्येति तूत्तरत्र प्रत्याख्यास्यामः ।
यदप्युक्तमुपाधिकृतभेदेनाऽत्मस्वरूपस्यापि भिन्नत्वाद्बहुविधप्रपञ्चारोपाधिष्ठानत्वं युक्तमिति तत्र वक्तव्यम् । किमुपाधयः सत्या उत मिथ्येति । नाऽद्यः । अपसिद्धान्तापातात् । द्वितीयं दूषयति- न चेति ।। सर्वसामर्थ्यविधुरस्य मिथ्याभूतस्य शशविषाणादेः कार्यकारित्वादर्शनादिति भावः । भेदोऽपि मिथ्येति चेत्तथाऽप्यनुपपत्तिः । मिथ्याभूतस्याप्याकाशभेदस्य घटाद्युपाध्यभावे प्रतीत्यभा-वात् । उपाधयोऽप्यारोपिताः सत्या एव, न शशविषाणायिता इति चेत्, कथं तर्हि ते बहुविधा अतादृशात्मन्यध्यस्येरन् । तदर्थं पुनरुपाध्यन्तरकृतभेदकल्पनेऽनवस्था स्यादिति ।
यच्चोक्तं पूर्वं जगदुत्तरोत्तरारोपे प्रधानमिति तदसत् । आदिसृष्टावनुपपत्तेः । पूर्वकल्पानुभव-संस्कारस्तत्राप्यस्तीति चेन्न । तथा सति नारिकेलद्वीपवासिनोऽपि गुञ्जापुञ्जादौ ज्वलनसमारोप-प्रसङ्गात् । न ह्यनादौ संसारे कदाऽपि तेन ज्वलनो नानुभूत इति शक्यते वक्तुम् । प्रमिते ह्यनन्यथा-सिद्धे कार्ये जन्मान्तरानुभवस्याप्युपयोगः कल्प्यते । न चेदानीमपि जगदारोपः प्रमितः । अनुमानागमयोर्निराकृतत्वात् । अत एव सादृश्यव्युत्पादनमप्यसदिति ।
भावबोधः
तथाऽप्यनुपपत्तिरिति ।। मिथ्याभूतस्य कृतकत्वासम्भवादिति भावः । ननूपाधिकृतत्वं नामोपाधि-ज्ञाप्यत्वम् । ज्ञानं तु मिथ्याभूतस्यापि सम्भवतीत्यत आह- मिथ्याभूतस्यापीति ।। यद्वा अनुपपत्तिः प्रतीत्यनु-पपत्तिः । तामेवोपपादयति- मिथ्याभूतस्येति ।। नन्वेवं जन्मान्तरानुभवकल्पनस्यातिप्रसङ्गित्वे जातमात्रस्य प्रवृत्त्युपयोगीष्टसाधनत्वानुमानाङ्गव्याप्तिस्मृतिरपि न कल्प्येतेत्यत आह- प्रमिते हीति ।।
भावदीपः
एवं प्रत्यगर्थेऽनात्मारोपं चतुर्धा निरस्य शङ्कमानस्याशयमुद्घाट्य दूषयिष्याम इति प्रागुक्तं व्यनक्ति- स्यादेतदित्यादिना ।। एकरसमिति ।। स्वान्तर्भेदहीनम् । नोक्तेति ।। प्रत्यक्त्वादिविरुद्धधर्मवत्त्वेन भिन्नत्वेन बहुत्वेन स्वान्तर्भेदहीनत्वेन च प्रतीयमानत्वादात्मनः तद्विरुद्धत्वेन ततो भिन्नत्वेन स्वान्तर्भेदवत्त्वेन प्रतीय-मानानात्मारोपाधिष्ठानं नेत्युक्तानुमानेत्यर्थः । अनवकाशमेव व्यनक्ति- अधिष्ठानत्वेत्यादिना ।। प्रतीत-स्येति ।। प्रत्यगर्थस्येत्यर्थः । बहुविधेत्युपलक्षणम् । अन्तर्भेदभिन्नेत्यपि ध्येयम् । सम्भिन्नतयेति ।। सदनुविद्धतया प्रकाशानुविद्धतया चेत्यर्थः । आत्मस्वरूपं घट इत्यनुवेधो नास्तीत्यत आह- असाधारणेति ।। ततश्चेति ।। पृथक् सत्ताऽभावत इत्यर्थः । अस्तु सत्ता घटनिष्ठा, प्रकाशस्य तु घटेऽभावादात्मानुवेध एवेत्यत आह- प्रका-शेति ।। उत्तरत्रेति ।। ‘प्रपञ्चसत्यत्वाङ्गीकारे’ इति वाक्यव्याख्यावसरे ‘कथं प्रकाशेतेति कोऽर्थः’ इत्यादिना ग्रन्थेनेति भावः । मिथ्येत्यस्यासदित्यर्थमुपेत्याह- सर्वसामर्थ्येति ।। तथाऽप्यनुपपत्तिरिति ।। असतो भेदस्य कृतकत्वानुपपत्तिरित्यर्थः । यद्वा भेदोऽपि मिथ्येत्यस्योक्तरीत्याऽसतः कृतकत्वायोगेऽपि मिथ्योपाधिना ज्ञाप्यत इति शङ्काऽर्थः। तथाऽप्यनुपपत्तिरित्येतद्व्यनक्ति-मिथ्याभूतस्यापीति ।। आकाशे स्वस्मिन् स्वप्रतियोगिकभेदस्य मिथ्याभूतस्याप्यसतोऽपि घटाद्युपाध्यभावे घटाद्युपाधेर्मिथ्यात्वे सत्यदर्शनात् । घटाद्युपाधिसत्त्वे एव घटाकाशोऽयं मठाकाशोऽयमित्यादिभेदप्रतीतेर्मिथ्योपाधिना मिथ्याभेदो ज्ञाप्यत इत्यप्ययुक्तमिति भावः । बहुविधा इति ।। उपाधय इत्यनुषङ्गः । अतादृशेति ।। अबहुविधात्मनीत्यर्थः । तदर्थमिति ।। बहुविधोपाध्यारोपायाऽत्मनो बाहुविध्यार्थमित्यर्थः । नन्वेवं जातमात्रस्य स्तन्यपाने जन्मान्तरानुसन्धानकल्पनानुपपत्तिरित्यत आह- प्रमिते हीति ।। अनुमानेति ।। ‘यच्च प्रमाणदृष्टानामपि पदार्थानां मिथ्यात्वकल्पनं’ इत्यादिना दृश्यत्वाद्यनुमानस्य ‘न च वाचारम्भणशब्दो मिथ्यात्वे प्रसिद्धः’ इत्यादिना चाऽगमस्य निरस्तत्वादित्यर्थः । अत एवेति ।। अधिष्ठानप्रधानयोरभावादेव । तयोस्सादृश्यव्युत्पादनं ‘न चाऽत्मन्यनात्मारोपः’इत्येतदवतारिकायां यत्कृतं तदसदित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि)
नन्वेकस्याऽत्मनः कथं बहुविधप्रपञ्चारोपाधिष्ठानत्वमित्यत आह- तच्चेति ।। अनुमानानामनव-काशमुपपादयति- अधिष्ठानत्वेनेति ।। आन्तरत्वादिनेति ।। प्रत्यग्पराग्भावरूपेण विरोधेनेत्यर्थः । आत्म-स्वरूपस्येति ।। व्याप्तात्मस्वरूपस्यैकत्वेऽप्युपाधिभेदभिन्नस्य बहुविधत्वादित्यर्थः । सम्भिन्नतया अनुविद्ध-तया । ननु घटादेरात्मानुविद्धतया प्रतीतौ तन्निष्ठज्ञानानन्दाद्यसाधारणाकारानुवेध एव स्यान्न तु सदादिरूपासा-धारणाकारानुवेध इति चेन्न । अदृष्टकल्पनाप्रसङ्गादित्याह- असाधारणाकारेति ।। असौ अनित्यत्वादिः । किन्न स्यादिति ।। तथा च सत्त्वादिकमपि घटधर्म एव नाधिष्ठानानुवेध इत्यर्थः । पृथगिति ।। ब्रह्मव्यतिरेकेण पृथगनित्यत्वादिधर्माणां घटे विद्यमानत्वेनानित्यत्वादिकं घटधर्म एव नाधिष्ठानानुवेध इति कल्प्यते । सन्निति त्वधिष्ठानानुवेध एव घटादेर्ब्रह्मण्यारोपिततया पृथक् ब्रह्मसत्ताव्यतिरेकेण घटधर्मभूतायाः सत्ताया अभावादि-त्यर्थः । ननु सन्घट इत्यत्र सत्त्वस्य घटगतत्वेनाधिष्ठानत्वासम्भवेऽपि प्रकाशते घट इत्यत्र प्रकाशात्मकब्रह्मानुवेध एवेत्यङ्गीकार्यम् । घटादेर्जडत्वेन प्रकाशस्य सत्तावत्तद्धर्मत्वायोगाद् इत्यत आह- प्रकाशेति ।। उत्तरत्रेति ।। ‘उच्यते । कथं प्रकाशेतेति कोऽर्थः ।’ इत्यादिना ग्रन्थेनेत्यर्थः । तथा हि । घटः प्रकाशत इत्यस्य कोऽर्थः । किं प्रकाशरूप इति उत प्रकाशाश्रय इति यद्वा प्रकाशविषय इति । न प्रथमद्वितीयौ । अनभ्युपगमात् । तस्मात्तृतीय एवाङ्गीकार्यः । तत्रापि प्रकाशो न चैतन्यम् । अप्रामाणिकत्वात् । अतो वृत्तिरेव वाच्या । तथा च प्रकाशते घट इत्यस्य वृत्तिरूपज्ञानविषयो घट इत्यर्थकतया नाधिष्ठानभूतप्रकाशरूपब्रह्मानुवेध इति प्रत्याख्यास्याम इति भावः। भेदोऽपीति ।। भेदस्य सत्यत्वे हि मिथ्याभूतस्य वास्तवकार्यकारित्वं न सम्भवतीति युक्तं स्यात् । न चैवम् । भेदस्यापि मिथ्यात्वेनोपाधेः स्वानुरूपकार्यकारित्वसम्भवादित्यर्थः । तथाऽप्यनुपपत्तिरिति ।। प्रतीत्यनुप-पत्तिरित्यर्थः । तामेवोपपादयति- मिथ्याभूतस्यापीति ।। घटाद्युपाधीति ।। उपाधीनां मिथ्यात्वे शशविषा-णायितत्वेनात्यन्तासत्त्वापत्त्या न मिथ्याभूतभेदप्रतीतिजनकत्वं युक्तमित्यर्थः । आरोपिता आत्मनीति शेषः । सत्या एवेति ।। व्यावहारिकसत्त्वोपेतेत्यर्थः । अतादृशात्मनीति ।। अबहुविध एकस्मिन्नात्मनीत्यर्थः । ननु मिथ्याभूतभेदहेतव उपाधयो नैकस्मिन्नात्मन्यारोपिताः किन्तूपाध्यन्तरकृतभेदभिन्न आत्मन्येव । अतो नोक्तदोष इत्यत आह- तदर्थमिति ।। अनवस्थेति ।। तेषामप्युपाधीनामुपाध्यन्तरकृतभेदभिन्न आरोपितत्वं वाच्यम् । पुनस्तत्राप्येवमित्यनवस्थेत्यर्थः । नानुभूत इति शक्यते वक्तुमिति ।। तथा च ज्वलनानुभवजनित-संस्कारस्तस्याप्यस्तीति भावः ।नन्वेवं जन्मान्तरानुभवकल्पनस्यातिप्रसङ्गित्वे जातमात्रस्य प्रवृत्त्युपयोगीष्ट-साधनत्वानुमानाङ्गभूता ‘यत् स्तनपानं तदिष्टसाधनम्’ इत्येवं रूपा व्याप्तिः तत्स्मृतिरपि न कल्प्येतेत्यत आह- प्रमिते हीति ।। अनन्यथासिद्धजीवनरूपकार्यस्य तत्र प्रमितत्वादिति भावः । तर्ह्यत्रापि कार्यं प्रमितमित्याशङ्क्य निराकरोति- न चेदानीमपीति ।। ननु दृश्यत्वाद्यनुमानेन तत्त्वमस्याद्यागमेन च प्रमित इति चेत्तत्राह- अनुमाना-गमयोरिति ।। प्रमाणबाधान्यथाकल्पनाभ्यां निराकृतत्वादिति भावः । अत एवेति ।। अधिष्ठानप्रधान-योरभावादेवेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि)
योऽत्रानुक्तोपालम्भमाशङ्कमानस्याऽशयस्तमुत्तरत्रोद्घाट्य दूषयिष्याम इत्युक्तं तं दूषयितुमाशयं तावदुद्घाटयति- स्यादेतदिति ।। ननु सन्घटः प्रकाशते घट इति सत्त्वादिसाधारणाकारेणाधिष्ठानानुवेधे विद्यमानेऽ-प्यात्मा घट इति तदसाधारणाकारानुविद्धतया घटादिप्रतिभासाभावान्न तत्राऽरोप इत्यतः इदं शुक्लभास्वरं रजतमित्यधिष्ठानसाधारणाकारानुविद्धतया रजतप्रतिभासेऽपि शुक्ती रजतमिति तदसाधारणाकारानुविद्धतया रजतावभासाभावाद् रजतस्यापि शुक्त्यधिष्ठानकत्वं न स्यादित्याह- असाधारणेति ।। उत्तरत्रेति ।। ‘ननु च सत्यत्वे प्रपञ्चः कथं प्रकाशते’ इत्यादावित्यर्थः ।‘तथाऽप्यनुपपत्तिः’ इति प्रतिज्ञातामनुपपत्तिमेव प्रथयति- मिथ्याभूतस्यापीति ।। ततश्च तद्वन्मिथ्यात्वेऽपि भेदस्योपाधीनां मिथ्यात्वेनाभावान्न तत्सम्भव इति भावः । नन्वेवं जन्मान्तरानुभवकल्पनस्यातिप्रसङ्गित्वे जातमात्रस्य प्रवृत्त्युपयोगीष्टसाधनत्वानुमानाङ्गव्याप्तिस्मृतिरपि न कल्पनीया स्यादित्यतो वैषम्येण परिहरति- प्रमिते हीति ।। अनुमानागमयोरिति ।। विप्रतिपन्नं जीवजडात्मकं विश्वं एकजीवाज्ञानपरिकल्पितं दृश्यत्वादित्यनुमानम् , प्रपञ्चो यदि इत्यागमस्तयोरित्यर्थः । अत एवेति ।। अधिष्ठानप्रधानयोः सत्त्वे तत्सादृश्यव्युत्पादनस्यापेक्षिततया कर्तव्यत्वेऽपि प्रकृते जगदारोपे उक्तरीत्याऽधिष्ठान-प्रधानयोरभावेन तत्सादृश्यानपेक्षत्वात्तद्व्युत्पादनमयुक्तमेवेति भावः ।
लघुप्रभा
अत्रानुक्तोपालम्भं शङ्कमानस्याऽशयमुद्घाटयति- स्यादेतदिति ।। परिच्छिन्नत्वे हेतुः- अन्तःकरणा-वच्छिन्नमिति ।। विरोधभेदानुमानयोरनवकाशं वैयधिकरण्येनोपपादयति- अधिष्ठानत्वेनेति ।। अप्रतीते-रिति ।। तथा च तत्पक्षीकारे हेत्वोः स्वरूपासिद्धिरित्यर्थः । अनधिष्ठानत्वादिति ।। तत्पक्षीकारे सिद्धसाधन-तेत्यर्थः । तृतीयहेतोरेकत्वस्याप्रयोजकतां दर्शयति- उपाधीति ।। एकत्वेऽपीति शेषः । अत्राप्यनुमानविरोधमाह- व्याप्तात्मेति ।। तत्प्रयोगप्रकारस्तु घटादिकं व्याप्तात्मस्वरूपाधिष्ठेयं न भवतीति प्रतिज्ञा बहिरेवोपस्कर्तव्या । तत्र हेतुमाह- व्याप्तात्मेति ।। अस्य व्यतिरेकव्याप्तिं दर्शयति- आरोपितस्य चेति ।। हेतोः पक्षधर्मतां दर्शयति- न हीति ।। इतिवदिति ।। व्यतिरेकिनिदर्शनम् । व्याप्तात्मानुविद्धतया प्रतीतिविरहहेतोरसिद्धिं शङ्कते- नन्वित्यादिना ।। किमत्र साधारणाकारानुवेधो नास्त्युतासाधारणाकारानुवेध इति विकल्प्याऽद्यमवद्यति - सत्प्रकाशसम्भिन्नतयेति ।। ‘तमेव भान्तमनुभाति सर्वम्’ इति श्रुतेरिति भावः । द्वितीये व्याप्त्यभाव इत्याह- असाधारणाकारानुवेधस्त्विति ।। अतिप्रसङ्गेनानुवेधानुमानं पराह- अनित्यमिदं कृष्णमिदमित्यादि ।। असौ अनित्यत्वादिः । प्रतिबन्द्या समाधत्ते- तर्हीति ।। अस्य जगतः । अन्योन्यसिद्ध्योः अन्योन्यसिद्ध्यपेक्षां दर्शयति- सिद्धे हीति ।। ननु सत्त्वादेः स्वधर्मत्वेनाधिष्ठानानुवेधाभावेऽपि प्रकाशानुवेधोऽधिष्ठानस्यैव । जडस्य प्रकाशानुपपत्तेरिति शङ्कते- प्रकाशानुवेधस्त्विति ।। उत्तरत्रेति ।। ‘कथं प्रकाशेतेति कोऽर्थः’ इत्यादावित्यर्थः। दूषयितुमनुवदति- यदप्युक्तमिति ।। अत्र सत्यत्वे आत्मरूपा वा भिन्ना वेति विकल्पः । आद्ये उपाध्युपधेय-भावसम्भवं च बहिरेवोपस्कृत्य द्वितीये त्वाह- अपसिद्धान्तेति ।। सदद्वैतस्य सिद्धान्तत्वादित्यर्थः । मिथ्याशब्द-स्यासति रूढिमुपेत्य दूषयति- सर्वेति ।। भेदोऽपीति ।। मिथ्योपाधेर्विरूपकार्यकारित्वासम्भवेऽपि सरूप-कार्यकरत्वसम्भव इति भावः । सत्त्वाभावे कार्यानुपपत्तिमुपेत्याऽह- तथाऽपीति ।। अभावे सत्त्वाभाव इत्यर्थः। आपादकासिद्धिमाह- उपाधयोऽपीति ।। न शशविषाणायितेति ।। अत्राऽचारक्यजन्तात्कर्तरि निष्ठाया-मिट् । तर्हीति ।। आरोपितसत्त्वस्य प्रयोजकत्व इत्यर्थः । अतादृशेति ।। एकविधेत्यर्थः । तदर्थमिति ।। बहुविधारोपार्थमित्यर्थः । अनुपपत्तेरिति ।। सर्वस्य प्रलयादित्यर्थः । तथा सतीति ।। संस्कारमात्रेण प्रधानत्व इत्यर्थः । तत्र संस्कारमवधारयति- तर्हीति ।। तर्हि क्वापि जन्मान्तरीयसंस्कारकल्पना न स्यादित्यत आह- प्रमिते हीति ।। स्तनपानादावित्यर्थः । अनुमानागमयोरिति ।। नाल्पाचः पूर्वनिपातो नियतः, ‘समानाधि-करणजातीययोः’इति निर्देशादिति भावः । अत एवेति ।। अधिष्ठानप्रधानयोरभावादेवेत्यर्थः ।