भूमिका

भूमिका
तैत्तिरीय-मुण्ड-माण्डूक्योपनिषदः श्रीमदानन्दतीर्थभगवत्पादाचार्य- प्रणीतभाष्यालङ्कृता इह विदुषां करकमलयोः समर्ण्यन्ते । यत्राप्रतिपत्तिः विप्रतिपत्तिर्वा तत्रैव भगवान् भाष्यकारः व्याख्यास्यतीति चिरन्तन- विद्वदग्रेसरवचनानुरोधेन भगवत्पादीयव्याख्यानस्य विशिष्टाः केचनांशाः सङ्क्षेपेणेह प्रस्तूयन्ते ।
तैत्तिरीयोपनिषत्
ऋषिपरम्परा
अस्या उपनिषदः सूर्यमण्डलगः विष्णुः, चतुर्मुखः, वरुणः, भृगुश्चेति चत्वारः क्रमाद् ऋषयः । तदुक्तमाचार्यपादैः-
आदित्यसंस्थिताद्विष्णोः श्रुत्वा ब्रह्मा यथा हरिम् । तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः || विष्णुमस्तौत् तथा प्राह शन्नोमित्रादिका श्रुतिः । यदुवाच हरिस्सूर्यमण्डलस्थः परः पुमान् ।। ब्रह्मा तदाह वरुणे वरुणो भृगवेऽपि तु । शन्नोमित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत् ॥ भृगुः पञ्चात्मकं पूर्णमन्त्रादिमयमच्युतम् ।'
यद्यप्यत्रशन्नोमित्रः’, ‘नमस्ते वायो', 'त्वमेव प्रत्यक्षं ब्रह्म' इत्याद मित्रवाय्वादीनां प्रति सुखादिप्रार्थना श्रूयते । विष्णोः ऋषित्वेऽवराणां प्रार्थनं नैवोपपद्यत इतीमां स्वारसिकां शङ्कां सर्वत्र वैदिकवाङ्मये परिदृश्यमानां पराचक्षे भाष्यकार:-
'भृगुवाक्यतया वायुनमस्कारादिकं हरिः । प्रोवाच ब्रह्मणे चैवं वचस्सुबहुदर्शिषु ॥'

अयमाशय:- नात्र भगवान् विष्णुः स्वावरान् वायुमित्रादीन् प्रार्थयते । तथापि ब्रह्मविद्यामभ्यसन् भृगुर्विघ्न परिहाराय 'नमस्ते वायो' इत्यादि- रूपेण वायुनमस्कारादिकं प्रतिकल्पं करिष्यतीत्यादिरूपेण भृगु- वाक्यानुवादरूपतया विष्णुर्ब्रह्मण उपदिशत इति विज्ञेयम् । उक्तं च छान्दोग्यभाष्ये- ' हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु । रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः ।। यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु । तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः । एवं रमा तथा ब्रह्मा छान्दोग्योपनिषद्धि सा ॥' - उपपादितोऽयमर्थः ऐतरेयभाष्येऽपि-
'वाम इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् । अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ।।' इति ।
सर्वत्र पञ्चरूपाणि
अत्र पूर्वोत्तरार्णयोः सन्धौ सन्धाने च विद्यमानानि भगवद्रूपाणि भगवत्पादैरिह निरूपितानि । तथैव 'अधिलोकमधिज्यौतिषमधिविद्यमधि- प्रजमध्यात्मं च' इति पञ्चसु प्रकरणेषु नारायण वासुदेव-सङ्कर्षण- प्रद्युम्न - अनिरुद्धरूपाणि अधिलोकादिप्रतिपादकवर्णजातेषु सन्निहितानीति समग्रस्यापि वाङ्मयस्य भगवत्परत्वमुपवर्णितं भगवत्पादाचार्यैः । एतादृशार्थानुसन्धाने उपनिषदां भगवत्प्रतिपादकत्वं नैव सङ्घटत इति निश्चप्रचम् । तदुक्तमाचार्यपादैः-
'नारायणादिरूपाणि लोकादिषु च पञ्चसु । अनिरुद्धावसानानि ध्येयानि चतुरात्मना ॥
वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः । संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः ।। यो वेदैतानि रूपाणि सर्वभोगसमन्वितः । प्राप्नोति वैष्णवं स्थानं मुक्तः स्वर्गाभिधं परम् ॥' इति ।
ऋतं च स्वाध्यायप्रवचने च
ऋतं च स्वाध्यायप्रवचने च' इत्यादौ द्वादशनियमानाह भगवती श्रुतिः । तत्र यथार्थविज्ञानम् ऋतमित्युच्यते । तत्पूर्वकं यथार्थवचनं करणं च सत्यमित्युच्यते । तप-दम-शम- अग्युपासन-अग्निहोत्र - अतिथिपूजा- समुचितधर्माचरण-पुत्रोत्पत्त्यादिसकलकर्मणां पाठप्रवचनयुक्तत्व एव फलं भवतीति निरूपयन्तीयं श्रुतिः सच्छिष्याणां पाठप्रवचनस्य निरतिशयं महत्त्वं प्रत्यपीपदत् । अत एवोत्तरत्र 'स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः तद्धि तपः तद्धि तपः' इति पाठप्रवचनस्यैव महत्त्वं साक्षात्कारोपयोगित्वं च समर्थितम् । अत एवोक्तं भगवत्पादाचार्यैः-
अज्ञस्य श्रवणं श्रेष्ठम् अयुक्तेर्मननं तथा ।
ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् ॥ वरं दशगुणं प्रोक्तं व्याख्यैकस्य शतोत्तरा ।
अपरोक्षदृशाऽप्येषा कर्तव्या विष्णुष्टिदा ||' इति ।
(तं.सा.सं ४.१४१-१४२)
गुरुकुलवासं समाप्य गार्हस्थ्यस्वीकारार्थं जिगमिषूणां विद्यार्थिनां कथं वर्तितव्यमिति श्रुतिरियं शासयति- 'सत्यं वद धर्मं चर' इत्यादिना । ये चात्र नियमाः श्रुतौ निरूपिताः तेषामनुष्ठानं सर्वस्मिन्नपि काले समाजोपयोगीत्यत्र न सन्देहगन्धः ।
अन्नमयादिप्रकरणे पञ्चरूपाणि अनुसन्धेयानि
उपनिषद आपातार्थपर्यालोचने अन्नमयादिकोशा एवात्र प्रतिपाद्यन्त इति प्रतीयते । तथाप्यत्र ब्रह्मशब्दसामानाधिकरण्यात् ब्रह्मलिङ्गानां श्रवणेन च पञ्चसु प्रकरणेष्वपि पञ्च भगवद्रूपाणि प्रतिपादितानीति श्रीमध्वाचार्याणामाशयः । अत एवोक्तं सूत्रकारेण 'आनन्दमयोs - भ्यासात्' (ब्र.सू. १.१.१२) इति । यद्यप्यत्र प्रथमप्राप्तान्नमयपरित्यागेन चरमश्रुताऽऽचंन्दमयपर्यन्तानुधावने किं निदानमिति भवति सन्देहः । मनुष्योत्तमोपास्येषु सत्-चित्-आनन्द- आत्मेतिरूपचतुर्गुणेषुआनन्दादयः प्रधानस्य’ (ब्र.सू. ३.३.१२) इति सूत्रोक्तदिशा सर्वैरानन्दस्याभीप्सितत्वेन सर्वोपास्यत्वज्ञापनाय तत्पर्यान्तानुधावनमिति श्रीमध्वाचार्यैः समाहितम् । अत्र मताचार्याणाम् आशयविशेष अवश्यं विज्ञेय इति तेषां व्याख्यानप्रणाली सङ्घेपेणेह निरूप्यते । तैत्तिरीयगत- तमेव विषयवाक्यजातमुपजीव्य 'आनन्दमयाधिकरणम् ' प्रवृत्तं ब्रह्म- सूत्रेषु । अतोऽत्र वेदार्थः (उपनिषदर्थः) आनन्दमयाधिकरणार्थश्च विमृश्यते ।
शङ्कराचार्याणामभिप्रायः
अन्नमयादयः पञ्चापि कोशा एव । आनन्दमयपुच्छत्वेन श्रुतं यद् ब्रह्म तदेव स्वप्राधान्येन जिज्ञास्यम् । तत्रैव 'असन्नेव स भवति असद् ब्रह्मेति वेद चेद् अस्ति ब्रह्मेति चेद् वेद सन्तमेनं ततो विदुः' इति ब्रह्मशब्दा- भ्यासः । न चासावानन्दमयविषयत्वेनाऽकर्षणीयः । न च 'ब्रह्म पुच्छं प्रतिष्ठा' इति आनन्दमयपुच्छत्वेन ब्रह्म प्रतिपाद्यते । अतोऽत्र आनन्द- मयावयवभूतस्य ब्रह्मणः स्वप्राधान्येन जिज्ञासा कथम् इति वाच्यम् । नात्र पुच्छशब्दः लाङ्गूलपरोऽवयवपरो वा किन्तु आधारमात्रवाचकः ।प्रतिष्ठापदं च अधिष्ठानवाचकः । एवं च अन्नमयादय आनन्दमयान्ताः सर्वेऽपि कोशाः विकारार्थकमयप्रत्ययघटितशब्दसद्भावान् । एवं च निर्विशेषं ब्रह्मैव शाखाचन्द्रमसन्यायेन 'ब्रह्म पुच्छं प्रतिष्ठा' इति स्वप्राधा- न्येन निरूप्यते । एतच्च ब्रह्म सोपादानकस्य विश्वस्य मुख्यमधिष्ठानम् । अत एव प्रतिष्ठेत्युच्यते । पूर्वोक्तपृथिव्यादिषु पुच्छशब्देन यथाऽऽधारः विवक्षितः, तथैवेहापि सर्वाधारभूते ब्रह्मणि आधारलक्षकः पुच्छशब्दः । किञ्चानन्दमयस्य ब्रह्मत्ववादिनाम्-
'प्रायपाठपरित्यागः मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्, उत्तरे पक्षे प्रायंपाठस्य बाधनम् ।।' (शां. भा. भामती)

इत्युक्तरीत्या मयट् विकार एव मुख्यः, ब्रह्मशब्दः परब्रह्मणि मुख्यः, अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थ एव मुख्यः, न मर्थे । त्रितयलङ्घनात् मयट्प्रत्ययस्य विकारार्थकत्वरूपप्रायपाठपरित्यागोऽप्यपरो दोषः । अद्वैतसिद्धान्ते तु पुच्छशब्दस्यावयवप्रायपाठस्यैव बाधनमिति अस्ति लाघबम् । शाखाचन्द्रमसन्यायेन पञ्चानामप्यमीषां ब्रह्मज्ञान- द्वारतयैवोपदिष्टत्वात् न ब्रह्मत्वम् ।
एवं तर्हि कथम्आनन्दमयोऽभ्यासात् ' ( ब्र. सू. १.१.१२) इति सूत्रकारो आनन्दमयस्य विष्णुत्वमसाधयदिति चेद्, उच्यते । सूत्रकारोऽ- प्यत्र मुग्ध एव ।श्रुतिसूत्रयोर्विरोधे तु गुणे त्वन्याय्यकल्पना' इति न्यायेन सूत्रस्यैव गौणार्थत्वं वक्तव्यम् । न वेदस्य । ततश्चान्नमयाद्यारभ्य आनन्दमयान्ता सर्वेऽपि कोशा एव । आनन्दमयावयवतया श्रुतमेव ब्रह्म ब्रह्मशब्दाभ्यासविशिष्टमिति स्वप्राधान्येन जिज्ञास्यम् । मयटां सर्वत्रापि विकारार्थतैव इति ।

भास्कराभिप्रायः
ब्रह्म नान्नमयादयः आनन्दमयः किं जीवोऽथ ब्रह्मेति पूर्वपक्षिते ब्रह्मैवाऽनन्दमयः । यतोऽत्र 'यदेष आकाश आनन्दो न स्यात्' 'आनन्दं ब्रह्मेति व्यजानात्' 'आनन्दं ब्रह्मणो विद्वान्' इत्यादौ आनन्दमये ब्रह्मशब्दाभ्यासाद् आनन्दमय एव अन्नमयादयश्चत्वारः पुनः कोशा एव । तेषां ब्रह्मज्ञानद्वारतयोपदिष्टत्वात् । अन्नमयादीनामपि ब्रह्मत्वे प्रथमातिक्रमणे मानाभावाद्अन्नमयोऽभ्यासात्' इत्येव वक्तव्यं स्यात् । तस्माद् अन्नमयादयश्चत्वारः कोशा एव । आनन्दमये मयट् प्राचुर्यार्थः । अन्नमये विकारार्थः । प्राणादिषु त्रिषु विकारित्वासम्भवात् प्राण एव प्राण इत्येवंक्रमेण स्वार्थे मयट् इति ।
रामानुजाचार्याशयः
तस्यैष एव शारीर आत्मा यः पूर्वस्य' इति शारीरत्वेन जीव एवानन्दमय इति प्राप्ते निरतिशयानन्दविशिष्ट एव ब्रह्मशब्दाभ्यासात् नानन्दमयो जीवः किन्तु ब्रह्मैवेति श्रीभाष्ये व्यवस्थापितम् । तन्मते मयटामनेकेऽर्थाः भवन्ति-
१. आनन्दमयेत्यत्र मयट् प्राचुर्यार्थः ।
२. विज्ञानमयो जीवः । तत्र मयट् सम्बन्धार्थः । वैयर्थ्यादप्यमुख्यार्थस्य ज्यायस्त्वात् ।
३. अन्नमयादित्रिकाणां कोशत्वेऽपि अन्नमये मयट् विकारार्थः । ४. प्राणमनोमयेषु स्वार्थिकः ।
मध्वाचार्याणामभिप्रायः
श्रीमदानन्दतीर्थभगवत्पादाचार्याः तैत्तिरीयभाष्ये, ब्रह्मसूत्रभाष्ये,

अनुव्याख्याने च पञ्चस्वपि प्रकरणेषु अन्नमयादिशब्दैः नारायण वासुदेव- सङ्कर्षण-प्रद्युम्न-अनिरुद्धरूपाणि प्रतिपाद्यन्त इति व्याख्यास्यन्ति ।
यद्यप्यस्मिन् व्याख्याने 'ओषधीभ्योऽन्नम्' इत्यत्रान्नशब्दः प्रसिद्धान्नपर इत्यङ्गीकृत्यस वा एष पुरुषोऽन्नरसमयः' इत्यत्र तु अन्नशब्दः भगवत्परः व्याख्यायते । एकस्मिन्नेव प्रकरणे श्रुतेन एकेन शब्देन भेदश्रुतिं विना वस्तुद्वयोक्तिग्रहणायोगात् व्याख्यानमिदमनुपपन्नमिव भाति । तथा 'ओषधीभ्योऽन्नम्' इत्यत्र प्रसिद्धान्नपरः स वा एषः' इत्यत्रान्नशब्दः रसशब्देन विशेषितत्वात् भगवत्परः भवितुमर्हति । दृष्टो हि एकस्मिन्नेव प्रकरणे श्रुतानां पदानां विशेषणान्तरसमभिव्याहारवशेन अर्थभेदः ।अन्नस्यान्नम्इत्यत्र अन्नस्यान्नत्वप्रदं भगवद्रूपमित्यर्थः ।मध्यमः प्राणःइत्यत्र प्राणशब्दः मध्यमविशेषणविशिष्टः, अवान्तरेश्वरभूतमुख्यप्राण- प्रतिपादकः ।प्राणः स्थूणा' इत्यत्र प्राणशब्दः सर्वस्यापि जगतः आश्रयभूतं हरिं प्रतिपादयति । तद्वदिहापिअन्नरसमयःइत्यत्र हरिरभिधेयः भवितुमर्हति ।
तेषामाशयोऽत्र सङ्क्षेपेण सङ्गृह्यते-
१. यदि पुच्छब्रह्मणि ब्रह्मशब्दाभ्यासात् तस्य ब्रह्मत्वमुररीक्रियते तर्हि ब्रह्मशब्दाभ्यासस्य अन्नमयादिपञ्चकेऽपि सत्त्वात् तेषामपि ब्रह्मत्वमङ्गीकार्यमेव ।
२. ब्रह्मप्रश्नोत्तरप्रकरणत्वात् कोशा अत्र प्रतिपादिता इति त्वसङ्गतम् ।

३.तरति शोकमात्मवित्' इत्यत्र भगवती श्रुतिः आत्मज्ञानस्य शोकतरणोपायत्वं ब्रवीति । आत्मज्ञानभिन्नस्य कोशज्ञानस्यानात्म- ज्ञानत्वान्मुक्तिहेतुत्वाभावाद् अनुपदेश्यत्वम् ।

४. न च 'स वा एष पुरुषोऽन्नरसमयः' इत्यत्र विकारार्थककोशपरत्व- स्यैवोचितत्वम् । अन्नरसमय इत्यस्य अन्नमय: साररूपश्चेत्यर्थाङ्गी- कारेऽनुपपत्त्यभावात् ।
५. न चात्रान्नमयशब्दः विकारार्थकः कोशवाचको वा । 'अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते' इति सर्वोपजीव्यत्वसर्वसंहर्त्तृत्वस्यैवान्नमय- शब्दार्थत्वेन तादृशार्थस्यान्यत्र बाधितत्वेन परमात्मन्यबाधितत्वेन च स एवान्नमयः । एवं सर्वत्रापि प्राचुर्यार्थ एव मयट् । मयटः सर्वत्र एकार्थत्वे सम्भवति तत्र तत्रार्थान्तरकल्पनं प्रामादिकमेव ।
६. न चैवं मयटः प्राचुर्यार्थे दुःखाल्पत्वमपि स्यादिति न वाच्यम्, ‘अन्नप्रचुरो मखः' इत्यत्र दुर्भिक्षाऽपि स्यात्, 'प्रकाशप्रचुरः सविता' इत्यत्रापि सवितर्यन्धकारलेशः स्यात् । एवं च प्रमाणान्तरेण यदि विरोधिसद्भावः प्रमितः तर्ह्येव तथाङ्गीकार उचितः । अन्यथा बहुविप्लवः स्यात् । प्रकृते च आनन्दमयशब्देन ब्रह्मणि पूर्णानन्दत्वप्रतिपादनेन प्रमाणान्तरेण च दुःखाद्यप्रतीतेः भगवान् आनन्दमय इत्युक्ते आनन्दघनः, पूर्णानन्द इत्येव वाऽर्थः ।
७. ननु कथमत्र ब्रह्मशब्दाभ्यासः । भृगुवल्लयां यद्यपि 'अन्नं ब्रह्मेति व्यजानात्' इत्यादौ ब्रह्मशब्दसद्भावेऽपि -
अ. मयट्प्रत्ययविशिष्टशब्दाश्रवणात्
आ. चक्षुः श्रोत्र वाचाम् आधिक्येन प्रतिपादनात्
इ. विज्ञानानन्दमययोः परित्यागात् ।
नैकं वस्त्वत्र उच्यत इति चेत्, उच्यते । उभयोरपि वल्लयोः ब्रह्मावगति- जननार्थमेव प्रवृत्तत्वादेकप्रकरणत्वमस्त्येव । आवापोद्वापस्य शाखासु बहुलं दृश्यमानत्वेन वाधूलशाखायामष्टरूपस्यापि ब्रह्मण उक्तत्वेन सङ्ख्यासाम्यादिसम्भवान्न कश्चिद्विरोधः ।
८. नन्वेवं तर्हि प्रथमातिक्रमणे मानाभावाद् अन्नमयोऽभ्यासादिति वक्तव्ये कुत आनन्दमयोऽभ्यासादित्युक्तमिति चेत्, मुमुक्षूपास्यगुणेषुआनन्दादयः प्रधानस्य’ ( ब्र. सू. ३.३.१२) इति प्रधानफलस्य मोक्षस्यार्थे सत्-चित्-आनन्द- आत्मा इत्युपास्य इत्युक्तत्वेन, सर्वापेक्षितत्वाच्चानन्दस्यैव प्राधान्येन निर्देश उपपन्नतरः ।
९. रामानुजसिद्धान्तोऽप्ययुक्तः । ' तस्यैष एव शारीर आत्मा' इत्याद्यानन्दमयस्य जीवत्वप्रापकवचनस्य जीवतयाऽनङ्गीकृतप्राण- मयादिप्रकरणेऽपि जागृतत्त्वेन शारीरत्वेन जीवत्त्वशङ्काऽनुदयात् । आनन्दमयस्य ब्रह्मत्वे पुच्छत्वाद्यनुपपत्तीनामपरिहारात् । अस्मन्मते तु अवयवावयविनोरभेदस्याङ्गीकृतत्वेनअङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः' इति बृहत्संहितोक्तेरनुपपत्तिलेशाभावात् ।

१०.एवं विज्ञानमस्य जीवत्वे 'विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते' इत्यादेरयोगः | अत्र विज्ञानमयस्य स्फुटं ब्रह्मत्वावगमात् ।

११. ननु अभ्यासादित्यस्य ब्रह्मशब्दाभ्यासाद् इत्यर्थ उक्तः भाष्ये ।प्रकृते चएकविषयकासकृदुक्तिरभ्यास:' इति अभ्यासलक्षणस्वीकारे आनन्दमयविज्ञानमययोस्तस्य सत्त्वेऽपि प्राणमयादित्रिके 'येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते' इत्यत्र ब्रह्मशब्दश्रुतेः कथं ब्रह्म- शब्दाभ्यासोऽस्ति'' इत्युक्तमिति चेद् - उच्यते । नात्र सर्वत्र मुख्याभ्यासो भाष्यकृदभिमतः । यत्र विज्ञानानन्दमययोस्तदस्ति तत्र मुख्य एवाभ्यासः । अन्यत्र तु ब्रह्मशब्दश्रवणमात्रं विवक्षितम् । अत एव तत्त्वप्रकाशिकायाम्-आनन्दमये ब्रह्मशब्दाभ्यासाद्' इत्युक्त्वाअन्नमयादीन् प्रत्युदाहृतश्लोकेषु तद्विषयत्वेन ब्रह्मशब्दश्रवणाद्' इत्येवोक्तम् ।
सुधायां तुयेऽन्नं ब्रह्मेत्यादिरूपाद् अभ्यासात् तैत्तिरीयके' इत्यनु- व्याख्यानानुसारेण एकविषयकासकृदुक्तिलक्षणमुख्याभ्यासाभावेऽपि असकृदुक्तिमात्रमस्ति । तथा चान्नमयादिविषयत्वेन श्रुतत्वाभिप्रायोऽ- भ्यासशब्द इत्युक्तम् ।
१२. यद्वा भाष्ये ब्रह्मशब्दाभ्यासाद् इत्यस्य ब्रह्मवाचकशब्दाभ्यासाद् इत्यर्थः । ततश्चअन्योऽन्तर आत्मा' 'एतमन्नमयमात्मानमुप- सङ्क्रामति' 'एतमन्नमयमात्मानमुपसङ्क्रम्य' इत्यादौ ब्रह्मशब्द- समानार्थकात्मशब्दाभ्यासस्य मुख्यस्यैव सर्वत्र सत्वात् ब्रह्म- शब्दाभ्यासोऽस्तीत्युक्तमुपपन्नम् । एवमभिनवचन्द्रिकोक्तदिशा अन्तरशब्दाभ्यासोऽपि ग्राह्यः ।
१३. यद्वाअन्नं ब्रह्मेति व्यजानात्' इत्युत्तरानुवाकेऽप्यन्नमयादौ ब्रह्मशब्दस्यासकृदेव सत्वात् मुख्याभ्यास एवास्तीत्युक्तमुपपन्नम् ।

आनन्दतारतम्यम्
सैषानन्दस्य मीमांसा भवति' इत्यारभ्यस एको ब्रह्मण आनन्दः ' इत्यन्तम् आनन्दतारतम्यमिह प्रतिपादितम् । मध्वभाष्यानुसारेण अयमभिप्रायोऽत्र अनुसन्धेयः । आनन्दतारतम्यनिरूपणावसरे आनन्दस्य स्वरूपमिह यथा बोद्धृणां बुद्धिगोचरं भवेत् तथेह श्रुतावुपवर्णितम् । संसारदशायां त्रेतायुगे समस्तापीयं पृथिवी समृद्धा, एकस्य चक्रवर्तिनः

वशा च यदि भवेत् तदा यावानानन्दो भवति तावानानन्द एकानन्द इति भण्यते । यद्यप्यत्र श्रुतौ मनुष्योत्तमा न श्रूयन्ते तथापि तेषां मुक्ति- योग्यत्वेन बृहद्भाष्योक्तदिशा ते स्वीकार्या भवन्ति । एवं च मनुष्योत्त- मेभ्योऽपि मानुषचक्रवर्तिनां मुक्तौ शतगुणानन्द अधिकः भवति । तेभ्योऽपि शतगुणानन्दाधिक्यं मनुष्यगन्धर्वाणाम्, तेभ्यः देवगन्धर्वाणाम्, तेभ्योऽपि पितॄणाम्, तेभ्योऽप्याजानजदेवानाम्, तेभ्योऽपि कर्मदेवानाम्, तेभ्यः तत्त्वाभिमानिनाम्, तेभ्यः दक्षस्य, ततोऽपि इन्द्रस्य, ततोऽपि शेषस्य, ततोऽपि ब्रह्मणः उत्तरोत्तरं शतगुणानन्दाधिक्यं विज्ञेयम् ।
अत्रैके व्याचक्षते- अत्रोक्तमानन्दतारतम्यं न मुक्तविषयम्, अपि तु संसारिविषयकमेवेति । तन्न मनोरमम् । 'श्रोत्रियस्य चाकामहतस्य' इत्यादिविशेषणैः भगवती श्रुतिरिह संसार्यानन्दं व्यावर्तयति । न हि क्वचन संसारी अकामहतो भवति । न वा मुख्य श्रोत्रियः । अभीप्सितसर्वलाभः मुक्तावेव भवतीति निश्वचम् । तथैव श्रवण- मननाद्युपासनालभ्यः पूर्ण आनन्दविशेषः मुक्तावेव लभ्यत इत्यत्र न सन्देह- गन्धः । तस्मादत्र मौक्तजीवानन्द एव तारतम्यमुच्यत इति विज्ञेयम् । तदुक्तमाचार्यपादैः-
'यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः । स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते ।। यस्य कामास्तु सत्याः स्युस्स हि कामैर्न हन्यते । न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च ।। इति ब्रह्माण्डे ।'
अत्रै आक्षिपन्ति- यदि मुक्त आनन्दतारतम्यमुच्यते, तर्ह्यस्ति द्वेषेर्ष्यादीनां प्रसक्तिः । तस्मान्न तारतम्यमङ्गीकरणीयम् । 'परमं साम्यमुपैति' इति भगवती श्रुतिः 'भोगमात्रसाम्यलिङ्गाच्च' (ब्र.सू.४.४.२२) इति भगवान् सूत्रकारश्च आनन्दसाम्यमेव प्रतिपादयति । तस्मात् समेषां जीवानां मुक्तौ समान एवानन्दोऽनुभूयत इत्यङ्गीकर- णीयम् । तदुक्तं-यथेष्टभोगिनो अनवरतकैङ्कर्यरताः आविर्भूतगुणाष्टकाः (अप्राकृतशब्दस्पर्शरूपरसगन्धज्ञानानन्दाः ) उत्तरावधिरहित- ब्रह्मानुभववन्तः मुक्ताः' इति । ( यतीन्द्रमतदीपिका पृ.७८) उक्तं च तत्त्वमुक्ताकलापे वेदान्तदेशिकमहाभागैः - 'नित्यानां मुक्तिभाजामपि भुवनकृता भोगमात्रं समानम्' (जीवसर श्लो. ६६ ) इति । भगवद्रामानुजाचार्यैरपि जीवस्वरूपमेकरूपमेवेति वेदान्तसङ्ग्रहे प्रतिपादितम्-जीवात्मस्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूप- नानाविधभेदरहितं ज्ञानानन्दैकगुणम् । तस्यैतस्य कर्मकृतदेवादिभेदे अपध्वस्ते स्वरूपभेदो वाचामगोचरः स्वसंवेद्यःज्ञानस्वरूपम्इत्येतावदेव निर्देश्यम् । तच्च सर्वेषाम् आत्मनां समानम् ।' (वे.सं. पृ. ५) इति ।
अत्र ब्रूमः- यदि मुक्तानाम् आनन्दतारतम्याङ्गीकारे द्वेषेर्ष्यादयः प्रसज्यन्ते, तर्हि आनन्दसाम्याङ्गीकारेऽपि न कथम् ? दृश्यन्ते हि लोके प्रतिविषयं शतमङ्कान् स्वीकृत्य सर्वजनादरभाजां विद्यार्थिनाम्, अनुत्तीर्णानां विद्यार्थिनां च समानसत्कारे द्वेषेर्ष्यादयः । एवं च बुद्धिमतां मन्दानां, गुणसम्पन्नानां दुराचाराणां च साम्यदृष्टौ लोके द्वेषेर्ष्यादयोऽनुभूयन्त एव । तथैव आनन्दसाम्याङ्गीकारेऽपि द्वेषेर्ष्यादयः भवन्त्येव । किञ्च शतकल्पपर्यन्तं साधनानुष्ठानवतः चतुर्मुखस्य, दिनकल्पपर्यन्तं साधयितुः मानुषोत्तमस्य च मुक्तौ समानानन्दप्रदाने भगवतोऽप्रेक्षावत्त्वप्रसङ्गः ।
अथोच्येत-अविद्याक्षेत्रमुत्तरेषाम् ' ( पा. २. सू. ४) इति पातञ्जल- योगसूत्रानुसारेण सर्वेषां दोषाणाम् अविद्यामूलकत्वात् निरस्ताविद्यानां मुक्तानाम् आनन्दसाम्याङ्गीकारेऽपि न द्वेषादयः प्रभवन्तीति । सममेतत् समाधानम् आनन्दतारतम्याङ्गीकारेऽपि ।
जीवस्वरूपं सर्वेषां समानम् देवत्वर्षित्वादिकमौपाधिकमिति तु प्रमाणबहिर्भूतम् ।
देवमानुषगन्धर्वाः पिशाचासुरराक्षसाः ।
सर्वे स्वभावतः सृष्टाः न क्रियाभ्यो न कारणात् ॥'
इति महाभारते ( आश्व. ५२ ) 'स्वभावतः सृष्टाः' इति देवादि - भावस्यानौपाधिकत्वोक्तेः ।
'त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ।' (भ.गी. १७.२ )
अत्रापि सात्त्विकादिभेदेन जीवत्रैविध्यस्य स्वाभाविकत्वकथनात् ।श्रद्वास्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः ।
उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ॥' (गी.ता.) श्रद्धाविभेदतः जीवेषु उत्तममध्यमाधमभावः श्रूयते । तस्मात् समेषां जीवानां स्वरूपं नैव समानमिति विज्ञायते ।
'परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरतस्तर्तरीति ॥' (श्रुतिः) अत्र इन्द्रशब्दवाच्यः भगवान्, गुणशालिनां सख्यं दुर्जनानां पराभवं च विदधातीति जीवतारतम्यं स्फुटं निरूपितम् ।
द्विविधो भूतसर्गोऽत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः ||' (विष्णुधर्मे )

'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।' (गी.अ. १६६ ) 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥' (भ.गी. १६-२० )
दैव - आसुरजीवयोः स्वाभाविकभेदकधर्मनिरूपणपुरस्सरम्ं एकस्यासुरजीवस्यान्धंतमःप्राप्तिरूपफलकथनेन मुक्तावपि तेषां भेदः स्फुटमवगम्यते ।
'य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवेधयत्यजः । तत्प्रत्यनीकानसुरान् सुरद्विषो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ।।'
( भाग. स. १ )
अत्र सत्त्वगुणोपेतानां सुराणामनुग्रहः, गुणद्वेषिणामसुराणां रजोगुणतमोगुणोपबृंहितानाम् च अध: पातनं श्रूयते । पूर्वोक्तप्रमाणवचनानां पर्यालोचने जीवेषु संसारावस्थायां मुक्तौ च स्वाभाविकयोग्यतानिमित्तक एव भेदः परमानन्द-परमदुःखादिभेदेन फलभेदश्च श्रूयते । तस्मात् जीवेषु स्वाभाविकभेद-तारतम्यप्रतिपादकश्रुतिस्मृतीनां बहुलमुपलम्भात् देवत्वादिकमनौपाधिकमेवेत्यङ्गीकार्यम् । अङ्गीकार्यं च जीवत्रैविध्यम् । त्रिविधजीवानां कर्मानुसारेण फलभेदश्च ।
ब्रह्मानन्दानुभवो मोक्षः' इति तु न साम्प्रतम् । 'परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतौ 'मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः' इति भगवता बादरायणेन च स्वरूपाभिव्यक्तेरेव मोक्षत्वप्रतिपादनात् ।
'मुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् ।
बहिष्ठान् भुञ्जते नित्यं नाऽनन्दादीन् कदाचन ।।'
(ब्र.सू.भा. ३, भविष्यत्पुराणवचनम् )

अत्र मुक्ताः बहिष्ठानेव भोगान् भुञ्जते । न ब्रह्मानन्दमनुभवन्ति इत्युक्तेः ।
'ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते स्वसुखान्येव न दुःखादीन् कदाचन ।।'
( ब्र.सू.भा. ३, ब्रह्मवैवर्तवचनम् )
इत्यादौ स्वयोग्याप्राकृतभोगस्यैव श्रुतेरश्रुतेश्च ब्रह्मानन्दानुभवस्य । नापिपरमं साम्यमुपैति' इत्यादिश्रुतिविरोधः । दुःखाभावा- प्राकृतत्वादिना परमं साम्यमिति उपपादयितुं शक्यत्वात् । तस्मात् न केवलं संसारावस्थायाम् अपि तु मुक्तावपि जीवेषु यथाप्रमाणं तारतम्यम् अङ्गीकरणीयमेव ।
न केवलमानन्दादिना मुक्तेषु तारतम्यम् अपि तु सर्वैर्गुणैः तारतम्यं तत्रावशिष्यत एवेति सप्रमाणमुपपादितं मध्वभाष्ये । न केवलं गुणेषु परिमाणाधिक्यमिहानुसन्धेयमपि तु स्फुटतायां वैचित्र्यं चानुसन्धेयम् । यथा अग्निज्वाला दीपादधिकप्रमाणापि न स्फुटतातिशयवती, यथा च परिमाणाधिक्येऽपि अग्नेः न सूर्य इव स्फुटता, यथैव चन्द्रमण्डले परमाणाधिक्येऽपि न सूर्यमण्डलस्फुटता, एवमेव जीवेषु उत्तमेषु न केवलं परिमाणाधिक्यमपि तु सर्वैर्गुणैः स्फुटताधिक्यं च न विस्मर्तव्यम् । तदुक्तम्-यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलादि । सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः ।। अथवा सहस्रगुणिता अनन्तगुणितास्तथा । परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात् ॥ यथा दीपात् शतगुणाऽप्यग्निज्वाला न दीपवत् । स्फुटीभवेत् यथैवाग्निर्बहुलोऽपि न सूर्यवत् ।।

यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत् । उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः ॥ प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः । अतोऽस्पष्टरूपास्ते स्फुटरूपास्तथोत्तराः ।।'
साक्षात्कारेऽपि तारतम्यम्
(पृ. १६५ - १६७ ) इति ।
हरिवंशेऽपि विद्युद्वद् भगवद्रूपं पश्यन्ति हि मानुषोत्तमाः । सुराः पुनः सूर्यमण्डलवत् स्फुटं भगवद्रूपं पश्यन्ति । ततोऽपि स्फुटताधिक्येन प्रतिबिम्बवत् पश्यति गिरिशः । चतुर्मुखस्तु निरतिशयस्फुटतया भगवन्तं पश्यतीति साक्षात्कारेऽपि तारतम्यमुपपादितम्-
'विद्युद्वन्मानुषा विद्युः सूर्यमण्डलवत् सुराः । प्रतिबिम्बवच्च गिरिशो ब्रह्मैनं पश्यति स्फुटम् || ब्रह्मा हि स्थिरचिद्रूपो बहुलात्मा विशेषतः ।
अन्ये क्रमादबहुलास्तथा चञ्चलचेतसः ।
तस्मात् सम्यङ् न पश्यन्ति हरिं ब्रह्मा तु पश्यति ।।'
(पृ. २४६ ) इति ।
एवमत्र संसारे मुक्तौ च जीवानां योग्यताभेदेन गुणतारतम्यं समर्थितम् ।
भेदः धर्मिस्वरूपम्
'सापेक्षत्वात् सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः ।
एकाभावादसन्देहात् न रूपं वस्तुनो भिधा ।।'
इति चित्सुखाचार्योक्तां कारिकां हृदि निधाय भेदस्य धर्मिस्वरूपत्वाङ्गीकारे

ये चाक्षेपाः सम्भवन्ति ते सवेऽपि निराकृताः विष्णुतत्त्वविनिर्णये श्रीमध्वभगवत्पादाचार्यैः ।
अत्र तैत्तिरीयभाष्ये केचनापूर्वाः विषयाः निरूपिताः । तेऽत्र सङ्गृह्यन्ते-
ननु कथं भेदस्य धर्मिस्वरूपत्वमुच्यते । घटादेर्धर्मिणः नाशे भेदस्याप्यनित्यत्वमपरिहार्यमिति चेत्, उच्यते । घटादेर्नाशो नाम न निःशेषतया नाशो अस्मत्सिद्धान्तेऽङ्गीकृतः । 'घटो नष्टः' इत्यस्य कपालरूपेणावशिष्ट इत्येवार्थः । एवं तदवयवनाशेऽपि रूपान्तरेण अन्ते परमाण्वात्मना (प्रकृत्यात्मना ) अवस्थिति: अनुभवसिद्धा । एवं च वस्तुनाशेऽपि तस्य रूपान्तरेण विद्यमानत्वात् भेदो न नश्यति इत्येव अस्माकमाशयः । उक्तोऽयमर्थः सन्न्यायरत्नावल्यां श्रीमन्यायसुधायां च । तथा हि-
(अ.) 'टीकाकारास्तु (पद्मनाभतीर्थाः ) मन्यन्ते । भेदो नामान्योन्याभावः । स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्यापत्तेरेवाभावनिवर्तकत्वस्य प्रागभावे दृष्टत्वात् । न च कदापि पदार्थानामन्योन्यतादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेत्याहु: ' (प्रकृत्यधिकरणसुधा ) इति ।
(आ.) प्रकृत्यधिकरणसन्यायरत्नावल्यामपि - 'विनाशिनो घटादेर्धर्मरूपो भेदः परवाद्युपगतघटत्वादिजातिवन्नित्योऽभ्युपगन्तव्यः । कालत्रयेऽपि वस्त्वन्तरतापत्त्यभावात्' इति ।
वस्तुनाशे भेदो नश्यति इत्यपि सिद्धान्तेऽङ्गीकृतम्-
अत्रेदं विचिन्त्यम्- घटनाशे रूपान्तरेण तस्य विद्यमानत्वेऽपि कम्बुग्रीवादिमत्वरूपाकारविशेषविशिष्टतया असत्त्वेन तदीयो भेदोsपि नष्ट इत्येव सुवचम् । प्राक् अनित्यपदार्थस्वरूपभूतस्य भेदस्य नित्यत्वोक्तिस्तु उपादानरूपेण सत्वमभिप्रेत्य । अतो न पूर्वोत्तर- विरोधः ।
'भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् ।
नष्टानामपि वस्तूनां भेदो नैव विनश्यति ।।
अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा ।
विशेषरूपनाशेन भेदमात्राऽवसायिता ॥
नाश इत्युच्यते सद्भिर्भेदो न हि विनश्यति ।
इत्याहुः केचिदज्ञानात् .
' (पृ. २१६ )
अत्रअज्ञानात्इत्यस्य स्थूलां दृष्टिमाश्रित्य इत्येवार्थः ।

भेदनाशे वस्त्वन्तरतादात्म्यापत्तिनिराकरणम्
ननु यदि घटे नष्टे घटनिष्ठो भेदः नश्यति, तर्हि घटस्य पटतादात्म्यं दुष्परिहरं स्यादिति चेत्, मैवम् । घटनाशात् घटस्वरूपभूतपटभेदनाशेऽपि पटस्य विद्यमानत्वेन पटस्वरूपभूतो घटभेदः विद्यत एव । एष घटभेदोऽपि घटपटैक्यविरोध्येव । एवं च घटधर्मिकपटप्रतियोगिकभेदवत् पटधर्मिक- घटप्रतियोगिकभेदस्यापि घटपटतादात्म्यविरोधित्वात् तस्य च घटनाशेऽपि सत्त्वात् नाभेदप्रसक्तिः ।
नन्वेवं घटपटयोः उभयोर्विनाशे तदात्मकभेदद्वयस्यापि नष्टत्वेन घटपटतादात्म्यमापाद्यते, मैवम् । यदा घटपटावेव नष्टौ धर्मिभूतौ तदा तत्स्वरूपभूतः भेदः कुत्रावशिष्यते धर्मिण एवाभावात् । अन्यथा घटपटोभयनाशे तत्संयोगनाशेन विभागोऽप्यापाद्येत । न चैतदिष्टम् । धर्मिणोरेवाभावात् कस्य विभाग इति प्रश्नस्य अवशिष्टत्वात् ।

भेदः सत्स्वरूपम्
नन्वथापि न भेदस्य धर्मिस्वरूपत्वं युक्तम् । 'घटः नृशृङ्गं न' इति प्रतीत्यानुगुण्येन घटप्रतियोगिकभेदः नृशृङ्गे वक्तव्यः । तत्र भेदस्य धर्मि - स्वरूपत्वेन घटप्रतियोगिकान्योन्याभावस्य धर्मिस्वरूपत्वं वक्तव्यम् । प्रकृते च धर्मिणोऽत्यन्तासत्त्वात् प्रतीयमानः भेदः धर्मिभिन्न इत्येव वक्तव्यः । तथा च रिक्तं भेदस्य धर्मिस्वरूपत्ववचः ।
अत्रोच्यते - भेदो हि भावपदार्थनिष्ठो धर्मः, सत्स्वरूप इति निर्गलितोऽर्थः । तथा च भावात् सतो घटादेः नृशृङ्गादेः भेदः नास्ति । कुतः ? नृशृङ्गादेः स्वरूपत एवासत्त्वात् ।
एतेन शशशृङ्गादेः घटादितादात्म्यं दुष्परिहरम् । तदन्योन्याभावे तत्तादात्म्यस्य अवर्जनीयत्वाद् इति वचनमपि परास्तम् । सत्प्रतियोगिक- भेदस्य असत्यभावेऽपि असत्प्रतियोगिकाभावस्य सति विद्यमानत्वात् न तयोः तादात्म्यापत्तिः । यतः भावरूपस्य घटादेः स्वरूपं सन्नेव भवति । अत एव असत्प्रतियोगिकः भेदः सति भवितुमर्हति ।

र्मिसत्वे भेदाभाव एव तादात्म्यापत्तिः
न चैवं सर्वदाऽप्यविद्यमानयोः शशशृङ्ग-नृशृङ्गयोः तादात्म्यापत्ति- रिति वाच्यम् । सति धर्मिणि भेदाभाव एव तादात्म्यापत्तौ प्रयोजकः । प्रकृते च शशशृङ्ग-नृशृङ्गयोः कदाऽप्यभावात् नान्योन्यतादात्म्यापादनं
युक्तम् ।
एवं च धर्मिनाशे भेदो नश्यतीति पक्षोऽपि सिद्धान्तसम्मतः, एवं न नश्यतीत्यपि । उभावपि पक्षौ आकर एव व्यक्तौ । तदुक्तं वैशेषिक- नयसुधायाम्- ‘‘प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः, 'नष्टानामपि वस्तूनां

भेदो नैव विनश्यति' इति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते तत्तस्मात् कार्यस्य कारणाभेदात् प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव युज्यते । न ह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभूतो भेदः सन्निति युज्यते " इति ।
·………………………..तत्राऽहुः सूक्ष्मदर्शिनः ।।
सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।

तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ||
अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः ।
एवं भावादभावस्य न भेदो भावरूपवान् ॥
अभावाद् भावरूपस्य स्वरूपं भाव इष्यते ।

नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः ।।

स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित् ।

सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते ॥

तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते ।

प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम् ॥

न ह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक् ।

अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ||

अभावताऽपि सैव स्यान्न तु स्यात् भावरूपिणी ।

अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः
येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः ।।' इति तत्त्वनिर्णये ।
एवमनेकेऽपूर्वा विषयाः तैत्तिरीयोपनिषद्भाष्ये भगवत्पादाचार्यैरुप- वर्णिताः सुधीभिरनुसन्धेयाः ।