भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः ..

ब्याहृतिविद्यानिरूपणम्

तैत्तिरीयोपनिषत्

भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥ १३ ॥

भाष्यम्

'भूरादिव्याहृतीभिस्तु बाच्यं मूर्तिचतुष्टयम् ।

अनिरुद्धादिकं वासुदेवान्तं देहमध्यमः ॥

' 'वासुदेवो महो नामा त्वनिरुद्धश्शिरो मतः ।

भूर्नामा भुवनामा बाहू प्रद्युम्र ईरितः ॥

' 'सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः ।
'
अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ।
निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥ १३ ॥

भाष्यप्रकाशिका

इदानीं सकलविद्याभ्यासकाले शुद्ध्यर्थं प्रागवश्यं वक्तव्यां व्याहृति- विद्यामाह-भूर्भुवःसुवरित्यादिना || 'सव्याहृतिं सप्रणवम्' इति हि श्रुतिः । प्रतिपाद्यदेवताज्ञानपूर्वकं मन्त्रोऽभ्यसनीय इति भावेनाऽह भाष्यकारो भूरादिव्याहृतीभिरिति ॥ भूरित्यनेनानिरुद्धः कथ्यते । भुव इत्यनेन प्रद्युम्नः । सुवरित्यनेन संकर्षण: । मह इत्यनेन वासुदेव इति विवेकः । तासां मध्ये चतुर्थांमहइति व्याहृतिं महत् चमसं चमत्कारो यस्य स महाचमसः परमात्मा तस्य सम्बन्धी माहाचमस्यः ब्रह्मा प्रवेदयते । इतिहासादितोऽ- प्युत्तमत्वात् महागुणप्रतिपादकत्वात् सर्वगुणपूर्णत्वप्रतिपादकत्वाच्च चतुर्थ्या ब्रह्मैव `सम्यगुपास्त इति भावः । मह इति व्याहृतिप्रतिपाद्यं ब्रह्म सर्वगुणपूर्णं परं ब्रह्म । स वासुदेव आत्मा मध्यदेहः । अङ्गी नारायण: । अन्या देवता अनिरुद्धप्रद्युम्नसङ्कर्षणाख्या: नारायणस्याङ्गानि शिरः पाणिपादाख्याङ्गानि । अनिरुद्धः शिरः, प्रद्युम्नो बाहू, संकषर्णः पादौ । एवं चतुर्मूर्त्यात्मको नारायण इत्यर्थः । प्रत्येकं मन्त्रार्था वासुदेवाद्या भगवदङ्गतया ध्येयाः । समुदितमन्त्र- प्रतिपाद्यो नारायणस्त्वङ्गितया ध्येय इति भावः ॥ १३ ॥

पदार्थदीपिका

अथ भाष्यार्थः-
पूर्वं वेदविद्याभ्यासिनो मेधादिप्राप्त्यर्थं विद्याः निरूपिताः । इदानीं व्याहृतिनिष्ठां विद्यामाह- भूर्भुव: सुवरिति वा इत्यादिना || अस्याः विद्यायाः ब्रह्मपरत्वाप्रतीतेस्तां प्रमाणेनैव सम्यक् व्याचष्टे भूरादिव्याहृती- भिस्त्वित्यादिना ।। तत्र भूर्भुवस्सुवरित्यादेस्तात्पर्यम् भूरादीति । मह इत्यन्ताभिरित्यर्थः ।स आत्मा अङ्गान्यन्या देवताः' इत्यस्यार्थमाहदेहमध्यग इत्यादिना ।। महो नामा वासुदेवो देहमध्यगः मूलरूपस्य हरेः देहमध्यम इत्यादिना च आत्मशब्दोऽङ्गित्वार्थको मध्यदेहपर इत्युक्तं भवति । तस्य महात्मनो वासुदेवस्येत्येतत् 'अनिरुद्धः शिरो मतः' इत्यादावपि सम्बध्यते । नन्वनिरुद्धादिमूर्तीनां परस्परमत्यन्ताभिन्नत्वात्अन्या देवता' इति कथमन्यत्वोक्तिः । तथा हीनो भावशून्यत्वात्स आत्मा अङ्गानी - त्यङ्गाङ्गिभावोक्तिश्चेत्यत आह- अनन्योऽपीति । भेदशून्योऽपीत्यर्थः । चतुरात्मा भगवाननन्योऽपि श्रुतौ अन्यशब्देन प्रकीर्त्यते । तथा निर्विशेषोऽपि हीनोच्चभावरूपविशेषशून्योऽपि भगवान् स आत्मा अङ्गानीच प्रकीर्त्यते इत्यध्याहारेण योज्यम् । ननु भेदाभावे कथमन्यत्वोक्तिरित्यत आह- सङ्खयेति ।। भेदाभावेऽपि विशेषबलेन केवलं द्वित्वादिसङ्ख्याविशेष-युक्तत्वात् अन्यत्वोक्तिर्युक्तेत्यर्थः । यथोक्तं अनुव्याख्याने-अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः' इति ।। भगवानिति वचनेन ऐश्वर्यादङ्गाङ्गि- भावोक्तिरपि युक्तेति सूचितमित्यपि द्रष्टव्यम् । यथोक्तं भाष्ये- 'अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः । ऐश्वर्यान्न विरोधश्व चिन्त्यस्तस्मिन् जनार्दने' इति ॥ १३ ॥