वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति

अन्तेवासिनां शिक्षणीयाः नियमाः  
तैत्तिरीयोपनिषत्

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकग्ं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेयाग्ंसो ब्राह्मणाः । तेषां त्वयासने न प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ २३ ॥

भाष्यप्रकाशिका

अधुना वेदाभ्यासानन्तरं गुरोराज्ञया कर्तव्यनियमानाह - वेदमनूच्येति ॥ आचार्यो वेदं शिष्यान्अनूच्य' व्याख्याय तम् ' अन्तेवासिनमनुशास्ति' इत्यर्थः ।ये के चास्मच्छ्रेयांसः' अस्मद्वच्छ्रेयांसश्च ये केचन 'ब्राह्मणाः ' सन्ति तेषामासने स्थित्वा न प्रश्वसितव्यम् । श्वासवायुमोचनं न कर्तव्यम् । श्नासमोचनं यावत्कालेन भवति तावत्कालमपि तेषामासने न स्थातव्यमिति भावः । सत्पात्रं चेत्श्रद्धया' आस्तिक्यबुद्ध्या देयम् । असत्पात्रं चेत् तत्रापिअश्रद्धयाकीर्त्यै देयम् । 'अ इति ब्रह्म' इति श्रुतेः एतदन्तर्यामिण नारायणे श्रद्धया देयम् ।गुहाशयायैव न देहमानिने ' इति स्मृतेः । ' श्रिया' निमित्तेनदेयम्। बहुधनसम्पत्तौ सत्यां तद्रक्षणायानुकूलेभ्यः सर्वेभ्योऽपि देयमित्यर्थः ।ह्रिया देयं' स्वस्य दातृत्वाभावेऽप्यन्यो ददातीति 'हिया देयम्' । दूषयिष्यन्तीतिभिया देयम्' । वस्तुगत्या तु 'संविदा' समीचीनेन ज्ञानेनदेयम्।। २३ ।।

श्रीनिवासतीर्थीयखण्डार्थ:

अथ खण्डार्थ:-
ब्रह्मविद्याव्याख्यानानन्तरं आचार्येणान्तेवासिनं प्रति शिक्षणी- यान्नियमानाह- वेदमनूच्येत्यादिना || आचार्यो 'वेदमनूच्य' व्याख्याय 'अन्ते' समीप एव वसतीत्यन्तेवासी शिष्यस्तं अनुशास्ति शिक्षयति ।

शिक्षाप्रकारमेवाह- सत्यंवदेति । सत्यवचननिष्ठो भव । धारकत्वात्धर्मंभगवन्तंचरजानीहि । 'चर गतिभक्षणयोः ' गत्यर्थाश्चावगत्यर्थाः । यद्वा धर्ममेव 'चर' आचर । 'स्वाध्यायात्' अधीतात् वेदादिशास्त्रात् 'मा प्रमदः' प्रमादयुक्तो मा भूः । तद्विस्मृतिमान् माभूरिति यावत् । यद्वा अनध्यायातिरिक्तदिवसेषु व्याख्यानविषये प्रमादयुक्तो माभूरित्यर्थः । आचार्यकुले वेदाध्ययनानन्तरं 'प्रियं' तदभिलषितं यद्धनं तत् 'आचार्याय ' 'आहृत्य' दक्षिणात्वेन दत्वा 'प्रजातन्तुं' प्रजासन्ततिं ' मा व्यवच्छेत्सीः ' मा छेदय गृहस्थाश्रमस्वीकारं कुर्विति यावत् । सत्योक्तौ धर्माचरणे च तात्पर्यद्योतनाय तदुभयविषये प्रमादो मास्त्वित्याह- सत्यादित्यादिना ।।कुशलात्उक्तवक्ष्यमाणातिरिक्तात् कुशलरूपात् व्यापारात् ।भूत्यैज्ञानमोक्षाख्यैश्वर्यविषय इति यावत् । ' न प्रमदितव्यम्' । यद्वा 'भूत्यै' भूत्या । दैवान्महैश्वर्यप्राप्त्या । तत्प्राप्तावपीति यावत् । उक्तसत्यादिविषयेन प्रमदितव्यम्इत्यर्थः । देवतोद्देशेन क्रियमाणं कर्तव्यं देवकार्यं समाराध- नादि । पितृनुद्दिश्य क्रियमाणं कर्तव्यं पितृकार्यं श्राद्धादि ताभ्यां 'न प्रमदि तव्यम् ।' माता देववत् पूज्या यस्यासौमातृदेवः' भव' । पिता देववत् पूज्यो यस्यासौ तथोक्तः । आचार्यो देववत् पूज्यो यस्यासौ तथोक्तः । अतिथयो देववत्पूज्याः यस्यासौ तथोक्तः । तथा च देवपूजादिवत् मात्रादिपूजायां निरतो भवेत्यर्थः । ' अनवद्यानि' निर्दुष्टानि यानि तान्येव ।इतराणिसावद्यानि ।यान्यस्माकं सुचरितानि' तानि अस्माभिराचर्य - माणानि समीचीनकर्माणि तान्येव तत्सदृशान्येव ' त्वयोपास्यानि' सेव्यानि कर्तव्यानीति यावत् । 'नो इतराणि' दैवादस्माभिर्देहादौ प्रतिबन्धकवशेन कदाचित् स्नानादिकर्तव्यं प्ररित्यक्तं चेत् त्वया न परित्याज्यमिति भावः ।ये के च ब्राह्मणाः अस्मच्छ्रेयांसः' अस्मदपेक्षया ज्ञानादिना अधिकास्तेषां आसने त्वया न प्रश्वसितव्यं नासितव्यं नोपवेष्टव्यम् । यद्वा तेषां सतां तत्समक्षमिति यावत् । त्वया आसने न प्रश्वसितव्यमित्यर्थः । ज्ञानधनादिकंश्रद्धयाआस्तिक्यबुद्धिपूर्वकं देयम् । 'अश्रद्धया' अपि देयमेव ।गुणभूत- श्रद्धाभावे प्रधानं दानं न परित्याज्यम् । गुणप्रधानयोर्विरोधे गुणे त्वन्याय- कल्पनम्' इति न्यायात् । मृगभयात् बीजानावापादर्शनाच्चेति भावः ।श्रियाऐश्वर्यानुसारेण । 'हिया' स्वस्य सम्पत्तौ सत्यामप्यदाने लोका हसिष्यन्तीति लज्जया वा देयमित्यर्थः ।भिया' अदाने गुर्वादीनां दण्डभयेन परलोके यमदण्डभयेन वा ।संविदा' ' अनादिनिधनो विष्णुः पात्रस्थः परमेश्वरः' इर्ति ज्ञानपूर्वकं सत्पात्रे देयमित्यर्थः । यद्वा पात्रापात्रविचारेणेत्यर्थः ॥२३॥

Load More