न चान्नमयादीनामब्रह्मत्वे किञ्चिन्मानम्

अन्नमयादयः पञ्चापि ब्रह्मैव

भाष्यम्

न चान्नमयादीनामब्रह्मत्वे किञ्चिन्मानम् । 'येनं ब्रह्मोपासते', 'ये प्राणं ब्रह्मोपासते', 'आनन्दं ब्रह्मणो विद्वान्', 'विज्ञानं ब्रह्म चेद्वेद', 'अस्ति ब्रह्मेति चेद्वेद', 'अधीहि भगवो ब्रह्मेति', 'तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति' इत्यादिना ब्रह्मशब्देन उक्तत्वाच्च । न च लौकिकान्नस्य अत्तृत्वमस्ति । 'येऽन्यथा विदुस्तेऽन्यराजानः ते क्षय्यलोका भवन्ति' इति श्रुतेरविद्यमानोपासनात् दोषावगतेश्च । 'न च रमन्त्यहो असदुपासनयाऽऽत्महनः' इति च भागवते ।

पदार्थदीपिका

एष भगवान् अनिरुद्धः स्वयं हरिरित्यादिना अन्नमयादयः पञ्चापि ब्रह्मैवेति प्रमाणेन स्वयं व्याख्यातम् । मायावादिनस्त्वाहुः- 'अन्नमयादयः पञ्चापि कोशा एव' इति तद्दूषयति- न चेति ॥ ननु तेषां ब्रह्मत्वेऽपि किं मानमिति चेत् । उदाहृतं प्रमाणवाक्यं तावदेकम् । 'आनन्दमयोऽभ्यासात् ' ( ब्र.सू. १.१.१२) इति सूत्रोक्तब्रह्मशब्दाभ्यासरूपं प्रमाणान्तरमाह - येऽन्नं ब्रह्मेत्यादिना || अन्नमयादीनां ब्रह्मत्वे भूगुवल्लीसमाख्याकथनम्- अधीहीत्यादि । ब्रह्मशब्देनोक्तत्वात् ब्रह्मशब्देनान्नमयादीनां विशेषित- त्वादित्यर्थः । ननुअन्नं प्राणम्' इत्यादिवाक्ये ब्रह्मशब्दाऽश्रवणात् कथं 'ब्रह्मशब्देनोक्तत्वात्' इत्युच्यते । अतोऽनादीनामब्रह्मत्वमेवेत्याशङ्का- परिहारायअधीहि भगवो ब्रह्म' इति वाक्यं उदाहृतम् । 'अधीहि भगवो ब्रह्म' इति भृगुणा ब्रह्मोपदेशप्रार्थने कृते सति वरुणेन तं प्रत्युपदिष्टत्वान्यथानुपपत्त्यान्नादीनां ब्रह्मत्वावगमात् । यथोक्तम्- 'अधीहि भगवो ब्रह्म' इत्युक्तोऽन्नप्राणपूर्वकम् । 'आह ब्रह्म कथं तन्न' इति ।अन्नं ब्रह्मेति व्यजानात्' इत्यादौ तु स्पष्ट एव ब्रह्मशब्दः । अत एवेत्यादिनेत्यु- क्तम् । न च ब्रह्मोपदेशप्रार्थने कृतेऽपि वरुणोऽन्यदुवाचेति युक्तम् । मायावित्व- प्राप्तेः । यथोक्तम्-तद्यत् किञ्चित् कथं ब्रूयात् उपसन्नाय दिक्पतिः । न बदेत् ब्रह्म च कथं मायावी न हि वारिराड्' इति । ननु ब्रह्मवल्लयुक्तानां अन्नमयादीनां ब्रह्मत्वेऽपि भृगुवयुक्तानां कुतो ब्रह्मत्वमिति चेन्न ब्रह्मवल्लयुक्तार्थे समाख्यात्वेनैव भूगुवल्क्याः प्रवृत्तत्वात् । यथोक्तम्- 'भृगोश्चैतद् वदिष्यति' इति । ननु स्थानद्वयेऽपि नैकं वस्तूच्यते । ब्रह्मवयुक्ताः अन्नमयादयः भूमुवल्लयुक्ताश्चान्नादय इति संज्ञाभेदादिति चेन्न । भूगुवल्लयामपिएतमन्नमयमात्मानमुपसङ्क्रम्य' इत्यादिना प्राप्यस्थाने मयटामुक्तत्वेन शब्दान्तरन्यायेन भृगुवल्लयुक्तान्नादिशब्दानामपि अन्नमयादिपरत्वात् । यथोक्तम्-प्राप्यत्वेन मयट् प्रोक्तेर्न तत्राप्यन्यदुच्यते' इति । ननु तथापि न स्थानद्वयोक्तमेकं वस्तु भवितुमर्हति । ब्रह्मबलयुक्तानां अन्नमयादीनां पञ्चत्वात्

श्रुतिगीतातात्पर्ये । 'न रमन्ति नित्यदुःखं चानुभवन्तीति च शब्देनोक्तम्' इति । येऽन्यथाविदुरिति श्रुत्युदाहरणं तु सज्जनस्यैव दुःसङ्गत्या कदाचिदन्यथोपास्ति प्रसक्तौ सत्यां तस्येदं फलमुच्यत इति ज्ञापयितुम् । तथा च ये सन्त एव दुःसङ्गात् यद्यन्यथाविद्युस्तर्हि ते क्षय्यलोका अनित्यनरकभाजो भवन्ति । तदनन्तरं भूमौ जन्मलब्ध्वाऽन्यराजानो भवन्तीति ज्ञातव्यमिति सम्प्रदायविदः ।

Load More