तस्माद्वा एतस्मात् विज्ञानमयात्
आनन्दमयप्रकरणम्
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योऽन्तर आत्माऽऽ नन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥
तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ १२ ॥
भाष्यम्
'शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् । मोदप्रमोदयोर्बाहु मोदनाच प्रमोदनात् ॥' ‘मोदप्रमोदनामानावानन्दस्त्वाततत्वतः। मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥ 'पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा । अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः ॥ ' 'देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः । बहिस्थो देहवद्विष्णुरन्तस्थो देहिवत्स्मृतः ।।' 'अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः । सर्वेऽपि पुरुषाकारा उत्तरात् पूर्वसम्भवाः ॥ ' 'उत्तरैः पूरिताः पूर्वे निच्छिद्रत्वेन सर्वशः । अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता ॥ ' ‘आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयाः स्मृताः । अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि ॥' 'नामभेदस्ततस्तूक्तः सर्वनामवतामपि । पञ्चरूपं तु तद्ब्रह्म जीवादन्यन्न विद्यते ॥ '
' इति ये तु विजानन्ति तेऽसन्तस्तम आलयाः । तु
जीवादन्यत्परं ब्रह्म पञ्चरूपं तु ये विदुः ।
सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् ॥ ११-१२॥
भाष्यप्रकाशिका
विज्ञानमयस्यान्तरात्मा नारायणाख्यः पुरुषः आनन्दप्रचुरत्वादनन्दमयः। तस्याऽनन्दमयस्य शिरः ‘पॄ पालनपूरणयोः' इति धातोः पूर्ववत्कर्त्रर्थे किपि कृते सर्वस्य लोपे सति पृपदमेव परवाचकं भवति । एवं च पृणा परेण इयम् इति व्युत्पत्त्या प्रियपदवाच्यं सत् प्रिये उक्तव्युत्पत्त्या विषयप्राप्ये सुखे तिष्ठति तदन्तस्तिष्ठतीत्यर्थः । मोदनात् ध्याने परोक्षज्ञानजनितसुखदानात् प्रमोदनादपरोक्षज्ञाने सति ततोऽप्यतिशयितसुखदानाच्च मोदप्रमोद- नाम्नानावानन्दमयस्य दक्षवामकरी मोदे प्रमोदे च तिष्ठतः । वरदायकदक्षिणकरादपि मोक्षाभयदायकवामकरस्य प्रकृष्टानन्ददायकत्वाद् वामकरस्यैव प्रमोददातृत्वमुचितम् । आत्मा मध्यदेहः आ समन्तात्साधुहृदये स्थित्वा नन्दयतीति व्युत्पत्त्या आनन्दपदवाच्यः आनन्दे अङ्गोपाङ्गैः पूरितपूर्णानन्दसमुदाये तिष्ठति । 'पुच्छं प्रतिष्ठा' 'यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते | कामस्य यत्राऽप्ताः कामाः तत्र 'माममृतं कृधि' इति श्रुत्युक्तपञ्चविधानन्दानां मध्ये चतुर्णामुक्तत्वादुर्वरिमुख्यानन्दरूपः पादः 'पद्भ्यां भूमि:' इति श्रुतेः सकलप्राण्याधारभूतः सकलजनेन सकल- प्राणबृंहणहेतुत्वाद् ब्रह्मनामकः सन् ब्रह्मणि सर्वेभ्योऽप्यतिशयित- शतानन्दबृंहितत्वाद् ब्रह्मशब्दवाच्ये प्रधानवायौ तिष्ठतीत्यर्थः ।
एवं च स्पर्शनगमनादिव्यापारहेतुतया शिरः पाण्यादिसर्वाङ्गव्याप्तत्वं जीवनहेतुतया शरीरगतप्राणादिप्रेरकत्वं ज्ञानहेतुतया वेदपञ्चरात्रप्रवर्तकत्वं तैरुद्बोधितविशिष्टज्ञानोदये सति मुक्तेरन्तरङ्गभूतश्रद्धादिजनकत्वम् अन्ते पञ्चविधानन्दरूपमुक्तिदायकत्वं हरेरेव घटत इति विविच्य बोधयितुं पञ्चानामन्नमयादीनां देहव्याप्तमूर्तित्त्वं प्राणादिव्याप्तमूर्तित्वम् ऋगादि- व्याप्तमूर्तित्वं श्रद्धादिशुभगुणव्याप्तमूर्तित्वम् आनन्दमयमूर्तित्वं च श्रुतिः प्रकरणपञ्चकेन प्रतिपादयतीति वाक्यसमुदायस्याभिसन्धिरनुसन्धेयः ।
पदार्थदीपिका
‘तत्’ पञ्चविधं ब्रह्मोद्दिश्य एष श्लोको भवतीत्यर्थः । प्रागुक्तं पञ्चविधं ब्रह्म ‘असत्’ सतोऽन्यत् असदविद्यमानमिति वेद चेत् सः ‘असन्’ सन्न भवतीत्यसन् असज्जीव एव भवति । अथ तत् आनन्दमयाख्यं पञ्चमं रूपमुद्दिश्य एष श्लोको भवति । एतत् अनन्दमयाख्यं पञ्चमं रूपम् ‘असत्’ ब्रह्म न, किन्तु पुच्छमेव ब्रह्मेति वेद चेत् स असन्नेव भवतीति तत्रोक्तश्लोकवत्पञ्चरूपविषयतया श्लोकस्य योजना द्रष्टव्या । स्वतोऽन्यद् ब्रह्मास्ति पञ्चरूपमपि ब्रह्मास्ति ब्रह्मतयैवास्तीति च वेद चेदेवं वेत्तारं ततः ईदृशतत्त्वज्ञानात् सन्तं विदुरित्यर्थः ॥ १२ ॥
'तस्य प्रियमेव शिरः' इत्यादौ आनन्दमयनामकनारायणाख्य- भगवच्छिरआदेः प्रियाद्यभेदप्रतीतिवारणाय प्रियादिशब्दानानन्द- मयनामकभगवच्छिरआदौ योगरूढिभ्यां व्याख्याति ।। शिरः प्रिये स्थितमित्यादिना ।। प्रिये वस्तुनि परेयं परैः संसारिविलक्षणैर्मुक्तरुत्तमैर्वा प्राप्यमित्यर्थः । परेति प्र शब्दार्थः । प्रकारस्थाकारलोपः । बाहू मोदप्रमोदौ अपकृष्टप्रकृष्टविषयोत्थावानंदौ मोदप्रमोदौ । तयोः संस्थिताविति शेषः । आनन्दः स्वरूपभूतः । तत्र संस्थं मध्यम् । आततत्त्वतो निमित्तादानन्द इत्युच्यत इति योज्यम् । पुच्छं पादद्वयन्तु सृष्ट्या पृथिव्यादिलोकान् बृंहयेत् यतोऽतो ब्रह्मेत्युच्यत इत्यर्थः । यद्वा तु शब्दः सृष्टौ विशेषद्योतकः । तथा च भक्तानां सृष्ट्या मुक्तिसृष्ट्या मोक्षदानेनेति यावत् । बृंहयेत् ज्ञानानन्दौ बृंहयेद्यतोऽतः पुच्छं पादद्वयं ब्रह्मेत्युच्यत इत्यर्थः । यथोक्तं बृहद्भाष्ये- ‘स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम्' (बृह.भा. ७.७.१) इति । 'अथ कस्मादुच्यते ब्रह्मेति बृहत बृंहयति चेति श्रुतिः' इति भावः । रूढिमप्याह- प्रधानवायाविति || देहसंस्थे
मुख्यवायावित्यर्थः । ‘तस्यैष एव शारीर आत्मा । यः पूर्वस्य' इत्यत्रान्न- मयप्राणमयादीनां शरीरशरीरिभावोक्त्या भेदो नियम्यनियामकभावादिरूपो विशेषश्च प्रतीयते तदयुक्तम् । 'एकमेव ' इत्यादिश्रुतिविरोधादित्यत आह- अभेदोऽपीति ।। भेदरहितोऽपीत्यर्थः । अविशेषोऽपि नियम्यनियामकभावादि- विशेषरहितोऽपीत्यर्थः । इंद्रार्जुनादिवद्विशेषरहितोऽपीत्यर्थ इति पूर्वटीका- काराः । परमैश्वर्ययोगत इत्युपलक्षणम् । विशेषबलाच्चेति द्रष्टव्यम् । को देहवत्कश्च देहिवदित्यत आह || बहिःस्थइति || अन्नमयादिरित्यर्थः । अन्तस्थितः प्राणमयादिः । ननु यथा अस्मदादीनां देहसम्बन्धं विना बहिःस्थिताश्माद्यादाने असमर्थत्वाद्देहसन्बम्धोऽपेक्षितः । एवं प्राणमयादि- रूपस्य हरेरप्यन्नमयादिरूपदेहसम्बन्धं विना बहिः स्थितवस्त्वादानेऽ- समर्थत्वाद्देहित्वं किमित्यपेक्षायामाह - अन्तर्व्याप्तीति ॥ अन्नमया- द्यन्तर्व्याप्तिविशेषेणैव हरिर्देही बहिः स्थितत्वमात्रेणैवान्नमयादेर्देहत्वमित्यपि द्रष्टव्यम् । बहिर्बहिष्ठवस्तुविषये तदादानादाविति यावत् । अशक्तत्वतो देही जात इति तु नेत्यर्थः । प्राणमयादिप्रकरणचतुष्टयगतस्य 'स वा एष पुरुषविध, एव' इत्यस्यार्थमाह- सर्वेऽपीति । प्रकरणचतुष्टयगतस्य 'तस्य पुरुषविधताम्' ‘अन्वयं पुरुषविधः’ इत्यस्य तात्पर्यमाह- उत्तरादिति ।। उत्तरादानन्दमयादेः सकाशात्पूर्वस्य विज्ञानमयादेः सम्भवः प्रादुर्भावो भवतीत्यर्थः । नारायणादि- रूपैर्वासुदेवादिरूपाणामभिव्यक्तिरिति भावः । प्रकरणचतुष्टयगतस्य 'तेनैष पूर्णः' इत्यस्यार्थमाह- उत्तरैरिति । पूर्वे सर्वशः सर्वे विज्ञानमयादयः उत्तरैरानन्द-मयादिभिर्निश्छिद्रत्वेन निरवकाशतयेति यावत् । पूरिताः पूर्णा इत्यर्थः । स्पष्टमन्नमयादिशब्दार्थानाह- अत्तृत्वं चेत्यादिना ।। चशब्देनाद्यत्व- सङ्ग्रहः । अत्तृत्वमद्यत्वं चान्नशब्दार्थः । प्राणशब्दार्थः प्रणेतृत्वम् । ‘मनु अवबोधने' इति धातोः बोधो मनोमयशब्दार्थः । विज्ञान (मय ) शब्दार्थे विविधवेत्तृतेति । तत्र वीत्यस्यार्थो विविधेति । ज्ञानशब्दार्थो । मयटामर्थः पूर्णा इति । नन्वन्नमयादीनां पञ्चानामपि प्रत्येकमत्तृत्वादि- सर्वगुणोपेतत्वेन प्रत्येकमन्नमयादिसर्वनामकत्वात् कथमन्नमयादीनां प्रत्येकमत्तृत्वादिगुणोक्तिस्तत्प्रयुक्तान्नमयादीनामभेदश्चेत्यत आह- अत्त्यादि- दास्त इति । अपि यद्यपि प्रत्येकं ते सर्वे सर्वगुणा अत्तृत्वादिसर्वगुणवन्तः, तथाऽपि प्रत्येकं अत्त्यादिदाः स्वोपासकानां रुद्रादीनामत्तृत्वादिदाः स्वस्य तदभावे परस्मै तद्दानानुपपत्तेरिति न्यायेनाऽत्तृत्वाद्युपेता इति यावत् । उच्यन्ते, ततः स्वोपासकानामत्तृत्वादिगुणदातृत्वादेव सर्वनामवतामपि नामभेदः उपनिषदुक्तः उपपद्यत इति भाव: । 'असन्नेव स भवति असद्ब्रह्मेति वेद चेत्' इत्यस्यार्थमाह- पञ्चरूपं चेति । असदित्यस्यार्थो 'जीवादन्यन्न विद्यते ' इति । ततश्च दुःखीति यावत् । ‘अभाववाचकाः शब्दाः सर्वे ते दुःखवाचकाः’ इति गीतातात्पर्यवचनात् । 'असन्नेव स भवति' इत्यस्य तात्पर्यमाह - ‘ते असन्तः' इति । दुखिन इत्यर्थः । तंत्र हेतुस्तमालया इति । तम आलयः, अन्ते आश्रयो येषां ते तथा तमसि आ सम्यक् 'लयो येषां ते तथा । तमसि मग्ना इत्यप्याहुः । यत इति शेषः । यतोऽतस्तेऽसन्त इति सम्बन्धः। ‘अस्ति ब्रह्मेति चेद्वेद' इत्यस्यार्थमाह- जीवादन्यदिति ॥ ततश्च सुखीति यावत् । ‘सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचका:' इति वचनात् । ‘सन्तमेनं ततो विदुः’ इत्यस्यार्थः ‘सन्तस्ते ' इतीति । सन्तः सुखिन इत्यर्थः । तत्र हेतुः ‘मोक्षयोग्या हि' इति । हि यस्मात् 'ध्रुवं' निश्चयेन मोक्षयोग्याः तस्मात् 'सन्तस्त' इति 'विज्ञेया' इति सम्बन्धः ॥ १२ ॥