ॐ शिक्षां व्याख्यास्यामः ..
ब्रह्मविद्याभ्यसनेच्छोरधिकारिणः पूर्वं शिक्षणीयाः विषयाः
तैत्तिरीयोपनिषत्
ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ २ ॥
भाष्यम्
बरणीयो वर्णः । स्वरतेस्तु स्वरः । मानात् त्राता मात्रा । बलरूपः । समश्व
सर्वरूपेषु । सन्ततश्च । 'वर्णादिवाचकं रूपं ज्ञेयं वर्णादिनामकम् ।
विष्णोर्वर्णादिसंस्थं च पुंसु तत्तत्क्रियाप्रदम् ॥ २ ॥'
भाष्यप्रकाशिका
‘शीक्षां व्याख्यास्यामः’ इत्यत्र 'तृतीयोऽतिशये' इति वचनाच्छिक्षायाः सामञ्जस्यवचनाय शीक्षामित्युक्तम् । यद्यप्युदात्तानुदात्तस्वरितप्रचयाख्याः स्वरा अपि मात्रा एव । तथाऽपि वक्ष्यमाणधर्मान्तरविवक्षया मात्रायाः पृथग्रहणम् । एकमात्रो ह्रस्वः । द्विमात्रो दीर्घः । त्रिमात्रः प्लुत इत्यर्थः । स्पृष्टेषत्स्पृष्टादिरूपः प्रयत्नः । बहुवर्णात्मकवाक्यं वर्णपरम्परारूपतया सन्तान इत्युच्यते । वर्णादिषट्कस्य तन्नियामकरूपषट्कस्य च ज्ञानाभावे वर्णोच्चारणं व्यर्थं स्यात् । मध्ये मध्ये स्खलनं च स्यात् । अत इयं शिक्षा प्राथमिकीति भावः ॥ २ ॥
पदार्थदीपिका भाष्यार्थ:
अथ भाष्यार्थ:-
ब्रह्मविद्याभ्यसनेच्छोरधिकारिणः पूर्वं शिक्षणीयमर्थं प्रतिजानते ऋषयः ।। शीक्षामिति ।। तत्र ‘वर्ण: स्वर:' इत्यादौ वर्णाद्युच्चारणस्थानादीनि ज्ञातव्यानी- त्युक्त्या अस्या उपनिषदोऽब्रह्मविद्यात्वं प्रतीयते । अतस्तां निराकर्तुं वर्णादिशब्दषट्कम् भगवति निरुच्य दर्शयति- वरणीय इत्यादिना ॥ वरणीयो भजनीयः सर्वभक्तैः स्वीकर्तव्यो वा । स्वरतेः स्वस्मिन् रमणात् । 'मानादिति ल्यब्लोपनिमित्ता पञ्चमी । मानं ज्ञानं लयश्चैव मर्यादा चापि कथ्यते ' इत्यभिधानात् मानं भक्तानामपमृतत्वादिरूपं लयं नाशं परिहृत्य भक्तानां त्राता । यद्वा मानात् ज्ञानं प्रदाय त्रातेत्यर्थः । सन्ततः सम्यक् देशतः कालतः गुणश्च ततो व्याप्तः । वर्णादिशब्दवाच्यत्वे वरणीयत्वादिकं निमित्तमि- त्युक्तम् । तदुपलक्षणपरमित्यभिप्रेत्य उक्तार्थे प्रमाणमाह- वर्णादिवाचक-मिति ।। आदिपदेन स्वरमात्रादिग्रहणम् । तथा च वरणीयत्वादिनिमित्तेन वर्णादिकं वाचकं यस्य तत् वर्णादिवाचकमित्यर्थः । वर्णादिशब्दप्रतिपाद्यमिति यावत् । विष्णोः रूपमित्यन्वयः । वर्णादिनामकं 'वर्णः स्वरः' इत्यादिनामकं वर्णादिसंस्थं वरणीयत्वनिमित्तेन वर्णोदात्तादिस्वरसंस्थं नियामकतया यतोऽतः । अनेन निमित्तेन वर्णादिनामकमिति निमित्तान्तरकथनम् । निमित्तान्तरं चाह- पुंस्विति ॥ पुंसु स्थित्वा वर्णस्वराद्युच्चारणादिक्रियाप्रदं च यतोऽतो वर्णादिनामकमित्यर्थः ।। २ ।।
श्रीनिवासतीर्थीयखण्डार्थ:
अथ खण्डार्थ:-
ब्रह्मविद्याभ्यसनेच्छोरधिकारिणः पूर्वं शिक्षणीयमर्थं प्रतिजानते ऋषयः- शीक्षामिति ॥ शिक्ष्यत इति शीक्षा शिक्षणीयमर्थमित्यर्थः । दीर्घस्तु शिक्षणीयार्थस्यावश्यकत्वद्योतकः । व्याख्यास्यामो विशेषेण वक्ष्यामः । तामेव शिक्षामाहुः वर्ण इत्यादिना । वर्णः ज्ञातव्य इति शेषः । वर्णः अकारादिवर्णानां उच्चारणस्थानं कण्ठादि ज्ञातव्यम् । स्वरः उदात्तानुदात्तस्वरितादिरूपो ज्ञातव्यः । मात्रा अकारादिरूप एकैको वर्णो ज्ञातव्यः । बलं वर्णोच्चारण- हेतुभूतः स्पृष्टेषत्स्पृष्टविवृतादिस्वरूपः प्रयत्नो ज्ञातव्यः । साम वर्णानां सन्धिर्ज्ञातव्यः । सन्तानो वर्णानां परम्परा पदवाक्यादिरूपो वर्णसमुदाय इति यावत् ज्ञातव्यः । उपसंहरति । इत्युक्त इति ॥ शीक्षाध्यायः शिक्षणीयानां अर्थानां अध्यायोऽध्ययनमुपदेशः । इत्येवमस्माभिरुक्तः कृत इत्यर्थः । अब्रह्मविद्यात्वपरिहाराय ' वर्णः स्वरः' इत्यादिकं भगवत्परत्वेनाऽपि योज्यम् । तथाहि - वरणीयत्वात् वर्णेषु स्थितत्वात् पुंसु वर्णोच्चारणक्रिया- प्रदत्वाच्च विष्णोरूपं वर्ण इत्युच्यते । तथा स्वरमणत्वात् स्वरे स्थितत्वात् स्वरोच्चारणक्रियाप्रदत्वाच्च स्वर इत्युच्यते । मानात् त्राणात् 'मात्रा’ स्थितत्वात् मात्रोच्चारणक्रियाप्रदत्वाच्च ‘मात्रा' इत्युच्यते । बलरूपत्वात् बले विवृतादिरूपे प्रयत्ने स्थितत्वात् बलक्रियाप्रदत्वाच्च बलमित्युच्यते । सर्वरूपेषु समत्वात् साम्नि वर्णानां सन्धौ स्थितत्वात् सन्ध्युच्चारणक्रियाप्रदत्वाच्च सामेत्युच्यते । सन्ततत्वात् वर्णपरम्परायां स्थितत्वात् वर्णपरम्परोच्चारणक्रियाप्रदत्वाच्च सन्तान इत्युच्यत इत्यर्थो द्रष्टव्यः ।। २ ॥