'यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति'
मुक्तानां स्वरूपभूतकामोऽस्तीति प्रतिपादनम्
भाष्यम्
'यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति' इति मुक्तानामपि स्वरूपभूतः कामः प्रतीयते ।
‘कामस्सङ्कल्प आनन्दो मुक्तानां तारतम्यतः ।
स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः।।' इति पाद्मे ।।
‘सङ्कल्पादेव च तच्छ्रुतेः' (ब्र.सू. ४. ४.८) इति सूत्रम् । ‘भेदव्यपदेशात्’ ( ब्र.सू. १.३.५) इति जीवेशयोर्भेदश्वोक्तो भगवता ।
पदार्थदीपिका
ननु मुक्तानां स्वरूपभूतकामसद्भावे किं प्रमाणमित्यत आह- यं यमिति || ' अन्तं स यदि पितृलोककामो भवति' इत्यादिश्रुत्युक्त- पितृलोकादिस्थानविशेषम् । यथोक्तं बृहद्भाष्ये- 'स्वप्नान्तमुच्चावचमीयमान' इत्यत्र । ‘अन्तःस्थानं स्थलं वासः प्रदेश इति चोच्यते' इति । 'अन्तमवसानं निर्णयं वा' इति पूर्वटीकाकाराः । मुक्तानामपि षोडशकलात्मकलिङ्ग- शरीरान्मुक्तानामपि प्राकृतान्तःकरणरहितानामपीति यावत् । कामः प्रती - यते । अतः स स्वरूपभूत एव नत्वन्तःकरणपरिणतिरूप इति । मुक्तानां स्वरूपभूतकामप्रतिपादकं स्पष्टं प्रमाणमाह- काम इति ॥ सङ्कल्पो नाम इदं करिष्य इत्येवं क्रियारम्भहेतुभूतइच्छाविशेषः । कामः सङ्कल्पः आनन्द इत्येते मुक्तानां मुक्तेभ्यो भेदतो भिन्नतया नैव सन्ति । किन्तु ते सर्वे मुक्तानां स्वरूपभूता एव । यतो निर्दोषज्ञानानन्दादिगुणाः स्वरूपभूता इत्यर्थः । मुक्तानां स्वरूपभूतकामसद्भावे सूत्रं च पठति सङ्कल्पादेव चेति ॥ न मुक्तानां भोगादिषु प्रयत्नापेक्षा । ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादिश्रुतेः सङ्कल्पमात्रादेव तद्भोगसिद्धिरिति सूत्रार्थः। यदुक्तं परेण जीव एवान्नमयादिशब्दार्थो न ब्रह्म । न च जीवपक्षे ब्रह्मशब्दानुपपत्तिरिति वाच्यम् । जीवब्रह्मणोरभेदाभिप्रायेण तदुपपत्तेरिति । तत्र सूत्रविरोधमाह- भेदव्यपदेशादिति || ईशो ब्रह्म तस्यैव मायाशबलितस्य तन्मते ईशव्यवहारभाक्त्वादिति ज्ञातव्यम् । न केवलं स यश्चायमिति वाक्येऽधिकरणत्वाद्युक्त्या श्रुत्यैव भेद उक्तः । किन्तु भगवता चोक्त इति सम्बन्धः । यद्यपि इदं तत्रैव वक्तव्यम् । तथाप्युत्तरग्रन्थोपक्षेपायात्रोक्त- मित्यवगन्तव्यम् ।