तस्माद्वा एतस्मादन्नरसमयात्
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा ॥ ६ ॥
तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ७ ॥
भाष्यम्
'तस्यान्तरं परं रूपमभिन्नमपि भिन्नवत् । प्रद्युम्नाख्यं प्राणमयं प्रणेतृत्वात् प्रकीर्तितम् ॥
‘शिरस्तस्य प्राणगतं प्राण इत्येव नामतः । व्यानाख्यो दक्षिणः पक्षो व्यानगश्चोत्तरस्तथा ।।' ‘अपानाख्योऽपानगत आकाशस्थं च मध्यमम् । आकाशाख्यं तथा पुच्छं पृथिव्यां पृथिविनामकम् ॥' ‘उदान आकाशनामा समानः पृथिवीति च । प्रणेतृत्वात् प्राणनामा शिरो विष्णोः प्रकीर्तितम् ॥' 'विशेषाच्चेष्टयेद् यस्माद् व्यानाख्यो दक्षिणः करः । यस्मादपनयेद्दोषानपानः सव्य उच्यते ॥' ‘आकाशस्त्ववकाशत्वात् मध्यदेहो महात्मनः ॥ पृथिवी पुच्छमस्योक्तं सर्वस्यापि प्रधारणात् । स एष जगतामायुस्तस्मिन् सङ्कर्षणः स्थितः ।।' ६-७ ॥
भाष्यप्रकाशिका
‘अन्तरः’ अन्नमयस्यान्तर्विद्यमानः ‘आत्मा' प्रद्युम्नाख्यः परमात्मा प्राणमय इत्युच्यते । रूपविशेषत्वाभिप्रायेणान्यत्वोक्तिः । न तु भिन्नत्वात् । सर्वेषामपि रूपाणां तत्तच्छ्लोकेषु श्रुत्यैव स्पष्टब्रह्मपदेन ब्रह्मत्वोक्तेः । तेन प्राणमयेन एषोऽन्नमय: पूर्ण: । अन्नमयस्य शिरोऽन्तः प्राणमयस्य शिरः । करयोरन्तः- करौ । मध्यस्यान्तर्मध्यम् । पादयोरन्तः पादौ । एवमन्तर्जलेन पूरितघटवत् प्राणमयेऽन्नमयोऽन्तः पूरित इत्यर्थः । स वा एष प्राणमयः पुरुषविध एव पुरुषाकार एव । तस्य प्रद्युम्नस्य पुरुषविधतामनु अनुसृत्यायमन्नमयः पुरुषविधः । यथा देहे स्थितकरचरणादिना कञ्चुकस्य करचरणादिकं तथेति भावः। अत्रापि प्राणे प्रद्युम्नस्य शिरः । एवमुत्तरत्रापि द्रष्टव्यम् । प्राणं प्राण- मयम् । यः अन्नमयः पूर्वस्य प्राणकृतदेहस्य शारीरः शरीरात्मकतदन्तर्विद्यमानः तस्यान्नमयस्य एषः प्राणमय: शारीरः शरीरान्तर्विद्यमान आत्मा अन्तर्देहा-कारतया स्थितः । अनेन प्राणनहेतुभूतत्वाख्यं सर्वजगद्रक्षकत्वलक्षणं विवृतं भवति ।। ६-७ ।।
पदार्थदीपिका
‘तस्माद्वा एतस्मादन्नरसमयादन्योन्तरआत्मा प्राणमयः' इत्यादि प्राण- मयप्रकरणं व्याचष्टे - तस्यान्तरमित्यादिना ॥ तस्यान्नमयनामकानि- रुद्धस्य । ‘अन्य' इत्यस्यार्थः परमिति । ' अन्तर आत्मा' इत्यस्यार्थः अन्तररूपमिति । अन्तरवस्थितं स्वरूपमित्यर्थः । ' प्राणमयोऽपि कोश: ' इति विकत्थन्ते तदसदिति भावेनोक्तं ' प्रद्युम्नाख्यं प्राणमयम्' इति । तत्र निमित्तमाह- प्रणेतृत्वादिति । प्रकर्षेण नेतृत्वादित्यर्थः । ननु 'अन्योऽन्तरआत्मा इत्यादिनाऽन्योन्यमन्यतयोक्तान्नमयादेः कथं परब्रह्मत्वं युज्यते । भगवद्रूपेषु भेदाभावादित्यत उक्तं- अभिन्नमपि भिन्नवदिति । विशेषबलादिति भावः। यथोक्तमनुव्याख्याने- 'अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः' (ब्र.सू. अनु. १.१.६, श्लो. २७९) इति । 'अत एकस्सपञ्चधा । उक्तः' इति च । प्राणमयस्य शिरआदिकं शरीरस्थप्राणापानादौ तिष्ठतीति वक्तुं तस्य प्राण एव शिरः' इत्यादिकं प्रवृत्तम् । तत्प्रद्युम्नाख्यभगवच्छिर आदेः प्राणाद्यभेद- प्रतीतिवारणाय व्याचष्टे - शिरस्तस्येत्यादिना ॥ ' तस्य’ प्राणमयस्य प्रद्युम्नस्य नामतः प्राणशब्दवाच्यमेवेत्यर्थः । ' उत्तरः पक्षः' इत्यनुवर्तते । मध्यमं मध्यमशरीरम् । पुच्छं पादद्वयं पृथिव्यां स्थितम् । ननु प्राणमयस्य विष्णोः शिरआदिकम् अध्यात्मप्राणापानादौ तिष्ठतीति कथनप्रसङ्गे आत्माख्य- मध्यदेहपुच्छयोराकाशपृथिवीस्थितत्वोक्तिरसङ्गतेत्याशङ्कच नात्राकाश- पृथिवीशब्दाभ्यां प्रसिद्धाकाशपृथिव्यावभिधीयेते । किन्तु उदानसमानावेवातो नाऽसङ्गतिरित्याह- उदान इति || प्राणमयस्य प्रद्युम्नस्य शिरआदिकं प्राणादिगतं प्राणादिनामकमिति रूढिमाश्रित्योक्तम् । इदानीं योगमभिप्रेत्य प्राणादिशब्दान् प्राणमयशिरआदी निरुच्य दर्शयति- प्रणेतृत्वादित्या- दिना || विष्णोः प्राणमयस्य । विशेषादित्यनन्तरमासमन्तादित्यपि ब्राह्यम् । अपनयेत् परिहरेत् । सव्यः करः । अवकाशत्वात् अवकाशप्रदत्वात् । अस्य पुच्छं सर्वस्यापि प्रधारणात् पृथिवीत्युक्तमिति सम्बन्धः । प्राणमयं प्रत्युदाहृत श्लोके 'प्राणो हि भूतानामायुः' इत्युक्तम् । तस्यार्थमाह- स एष इति । जगतामुत्पत्तिमतां प्राणिनां आयुरायुष्यप्रदः । 'तस्माद्वा एतस्माद्प्राणमयात्' इत्यादिमनोमयप्रकरणं व्याचष्टे - तस्मिन्निति । प्राणमयनामके प्रद्युम्ने मनोमयनामा सङ्कर्षणस्स्थित इत्यनेन मनोमयस्यापि कोशत्ववचनं परास्तं वेदितव्यम् ।। ६-७ ।।