सैषानन्दस्य मीमाग्ं सा भवति

मुक्तावानन्दतारतम्यमस्तीति निरूपणम्

तैत्तिरीयोपनिषत्

सैषानन्दस्य मीमाग्ं सा भवति । युवा स्यात् साधु युवाऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १७ ॥

भाष्यम्

. ………विदुषां नियमेन तु ।
स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता ।

यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिला मही ।
त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥

अधीतिफलपूर्णत्वादाध्यायक इतीरितः ।
स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥

एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते ।

तस्मात् शतगुणानन्दाः गन्धर्वा मानुषात्मकाः ।
मुक्त्या श्रुतिफलं प्रप्ताः ततः कामाहतास्तथा ॥' १७ ॥

पदार्थदीपिका

अथ भाष्यार्थः ।। सर्वेऽपि ज्ञानिनो ब्रह्म प्राप्नुवन्ति । तत्रापि सम्यक् प्राप्तिर्ब्रह्मण एव अन्येषां तु तारतम्येनेति उकारेण समासतः कथितमेव प्रश्नोत्तरं विस्तारेण मुक्तानन्दतारतम्यकथनपूर्वकं वक्तुं सैषानन्दस्येत्यादिको ग्रन्थः । तं व्याख्यातुमाह- विदुषामिति । सैषेत्यादि व्याचष्टे - तत्रापीति । मोक्षेऽ- पीत्यर्थः । विचित्रता तरतमभाववत्तेत्यर्थः । युवा स्यादित्यादिकं व्याचष्टे - यस्त्वित्यादिना ।। साधुयुवन्शब्दार्थः साधुगुणैर्युक्त इति । निर्दुष्टत्वं साधु- शब्दार्थः । तथा च दुःखसम्भिन्नत्वाद्यनित्यत्वादिदोषशून्याः ये आनन्दाद्याः गुणास्तैर्युक्त इत्यर्थः । यद्यपि 'साधुना विष्णुना युक्तो मुक्तः साधुयुवा मत: ' इत्यनुव्याख्याने व्याख्यातम् । तथाऽपि इदं व्याख्यानान्तरमित्यदोषः । तृतीयान्ते साधुशब्दे उपपदे 'यू मिश्रण' इत्यस्मादन्येभ्योऽपि दृश्यत इति कनिप्रत्यये कृते साधुयुवन्निति प्रातिपदिकं सिध्यति ।
यद्वायुजिर्योगेइत्यस्मात्कनिप्प्रत्यये सतीदं रूपम् । दृशिर्ग्रहण- सामर्थ्याद्धातोरन्तलोपो ज्ञातव्यः । ननु 'तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्' इति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं मुक्तस्य युज्यते इत्यत आह- तस्यैवेति ।। यस्तु साधुगुणैर्युक्तो मुक्तस्तस्यैव मुक्त्यपेक्षया पूर्वं संसारे अखिला मही अधीनतया तिष्ठतीत्यर्थः । मुक्तामुक्त क्षितिपविवक्षया हि युवास्यादित्यादिकमारब्धम् । तत्र युवा स्यादित्यादिना मुक्तं प्रतिपाद्य, अमुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तं यतोऽतो युज्यत इति भावः । यथोक्तमनुव्याख्याने-तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया' इति । नन्वेवं स्यादित्यादेर्मुक्तामुक्तविषयकत्वाङ्गीकृतावेकविषयताप्रतीतिविरोध इति चेन्न । एक एव हि चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते । तस्मादेकविषयताप्रतिभासो नानुपपन्नः । अत एवानुव्याख्यानेऽमुक्तव्यपेक्षयेति वक्तव्ये पूर्वभावशब्दः प्रयुक्तः । तेन पूर्वावस्थावाचिनोक्ताभिप्रायसूचनादिति अवगन्तव्यम् । 'अत एव चक्रवर्ती 'चक्रं राष्ट्रे सुदर्शने । आज्ञायां समुदाये च' इत्यभिधानात् चक्रं राष्ट्रं यस्य चक्रे आज्ञायां वर्तते स चक्रवर्ती । आध्यायकशब्दार्थमाह- यदेति ॥ तदेत शेषः । तु शब्द एवार्थे । अधीतिरध्ययनम् । अध्यायशब्दो यद्यपि आङ्अधिपूर्वात् इङ् अध्ययन इत्यस्मात् ण्वुल्प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह । तथापि अत्र पुरुषार्थप्रसङ्गादध्ययनमात्रस्य चापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः । अध्ययनफलं च तेन मुक्तेनैव पूर्णं प्राप्तं मुक्तेरेव तत्फलत्वात् । तेन कारणेन यदा संसृतेर्लिङ्ग- शरीरान्मुक्तस्तदेवाध्यायक इतीरित इत्यर्थः । 'युवा स्यात्' इत्यत्र युवशब्दार्थमाह- स एवेति ॥ संसृतेर्मुक्त एव 'यु मिश्रणे ' इत्यस्मात् किपि निष्पन्नस्य यु धातोरर्थो युक्त इति । योग्यतया विष्णुनेत्यस्य लाभः । वाधात्वर्थ उक्तो गच्छतीति । 'वा गतिगन्धनयो:' इति धातोः । तथा च भगवत्सामीप्य- लक्षणमोक्षवान् युवेत्युच्यते इत्युक्तं भवति । साधु युवन् शब्दादप्यतिशयेन : युवशब्दो मुक्तस्य ज्ञापक इति भावेन क्रममुल्लचच पञ्चाद्व्याख्यातः ।
यद्यपियौवनं नित्यमेतस्य मुक्तस्येति युवा स च' इति अनुव्याख्याने व्याख्यातम् । तथापीदं व्याख्यानान्तरमित्यवगन्तव्यम् ! ' स एको मानुष आनन्द' इत्यस्यार्थमाह- एकानन्देति || ' यदा पूर्वं चक्रवर्तित्वावस्थायां सर्वभोगसम्पन्नोऽभूत् सर्वैर्मानुष्यकैभंगिः सम्पन्नतमः' इति बृहदारण्य - वाक्यात् । तदा यावानानन्दोऽस्ति अभिव्यक्ततावदानन्दस्वरूपो मुक्त इत्यर्थः । स सर्वोऽप्यानन्द, एकत्वेन विवक्ष्यते । उत्तरत्र शतगुणानन्दादि- गणनानुकूलत्वेनेत्याशयेन एकानन्दस्वरूपमित्युक्तमिति ज्ञातव्यम् । अत्र मानुषो मुक्तः क्षितिपः तदवरो मनुष्योत्तमो नोक्तः सोऽत्र ग्राह्यः ।अन्येभ्योऽपि विमुक्तेभ्य आनन्दश्चक्रवर्तिनाम् । मुक्तानां हि शतोद्रिक्त:' इति बृहदारण्यकभाष्ये उक्तत्वात् । तथा च स क्षितिपानन्दो वस्तुगत्या विचार्यमाणो मनुष्योत्तमानामानन्दापेक्षया शतगुणित एवेति ज्ञातव्यम् । शतोद्रिक्त इति बृहद्भाष्योक्तेः।ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दःइति वाक्यं व्याचष्टे- तस्मादिति || अत्र गुणशब्दो गणनापरः । तथा चाभिव्यक्तक्षितिपानन्दापेक्षया शतगुणितानन्दवन्त इत्यर्थः ॥
श्रोत्रियस्येति बाक्यं धर्म्यन्तरसमुच्चायकचशब्दबलादेकवचनप्रयोगाच्च
प्रकृतमुक्तमनुष्यगन्धर्वभिन्नविरक्तपुरुषपरमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे- मुक्त्येति || मुक्तत्वेनेति यावत् । सम्पूर्णश्रुतिफलं प्राप्त एव हि श्रोत्रियः । स च मुक्त एव नान्यः । मुक्तेरेव तत्फलत्वादित्यर्थः । ततो मुक्तत्वादेव । कामाहताः अवाप्तकामत्वेन कामकृतोपद्रवशून्या इत्यर्थः । तथा च चशब्दः प्रकृतानां मुक्तमनुष्यगन्धर्वाणां श्रोत्रियत्वादिविशेषणसमुच्चायक एवाभिमतो न धर्म्यन्तरसमुच्चायकः । एकवचनं बहुवचनार्थकमभिप्रेतं श्रुतिफलं प्राप्ता इत्याद्युक्तेः । तथा च श्रोत्रियाणामकामहतानां चेति वाक्यवृत्तिरिति न दोष इति भावः । एवमेवोत्तरत्रापि श्रोत्रियस्य चेत्यादिवाक्यं मुक्तदेवगन्धर्वादिविषयं प्रतिपत्तव्यम् । ननु 'ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य' इत्येतदेकवाक्यतया व्याख्यातम् । तथात्वे अनुव्याख्यानविरोधः । तथाहि । श्रोत्रियस्येति वाक्यस्य प्रकृतादन्यो विषय इति चशब्देनैवावगम्यते । चशब्दस्त्वयं समुच्चयस्य द्योतकः प्रतीयते । देवदत्तो धनिको यज्ञदत्तश्चेति यथा । नचैकविषयतायामेवं युज्यते । न हि भवति वसिष्ठो ब्रह्मिष्ठो अरुन्धतीपतिश्च तथेति प्रयोगः । विशेषणसमुच्चयः किं न स्यादिति चेन्न । मुक्तरूपधर्म्यन्तरसमुच्चयरूपमुख्यार्थे बाधकाभावेन त्यागायोगात् । वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव । तथा च स एक इति वाक्येन संसारिक्षितिपानन्दाच्छतगुणः संसारिमनुष्यगन्धर्वानन्द इत्युक्त्या श्रोत्रियस्य चेति वाक्येन मुक्तक्षितिपानन्दान्मुक्तमनुष्यगन्धर्वस्य शतगुण आनन्द उच्यते । एवमुत्तरत्रापि । यथोक्तमनुव्याख्याने (ब्र.सू. अनु. ३.४.३, श्लो. ३३.३४) -
तच्च चशब्देनैव गम्यते ।
स एक इति संसारगतमुक्त्वा सुखं पुनः ।

श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ।

संसारगाच्च संसारगतस्यैव शताधिकम् ।

मुक्तान्मुक्तस्य' इति ।
तथा च कथं मुक्तमात्रपरतया व्याख्यानमिति चेत्, उच्यते । अयमभिप्रायो भाष्यकारस्य-स एकः’ 'श्रोत्रियस्य च' इति वाक्यद्वयमुक्तरीत्या भिन्नविषयक मेव । तथा सति मुक्तामुक्तयोरुभयोरपि तारतम्योक्तिलाभात् वाक्य-भेदज्ञापकचशब्दसद्भावाच्च । एकवाक्यता श्रद्धायामपि मुक्तमात्रविषय- मस्तु । नामुक्तविषयम् । तत्र श्रोत्रियत्वादीनां मुख्यतोऽसम्भवेनानुप- पत्तीनां बाहुल्यात् । मुक्तमात्रपरत्वे तु वचनव्यत्ययमात्रस्यैवानुसरणीयत्वेन तदभावात् । प्रमाणेन मुक्तपरतया व्याख्यातत्वाच्चेति विरोधपरिहारो द्रष्टव्यः ॥ १७ ॥

Load More