‘भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम्

वस्तुनाशे तत्स्वरूपभूतः भेदः न नश्यति

भाष्यम्

भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् । नष्टानामपि वस्तूनां भेदो नैव विनश्यति ॥ अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा । विशेषरूपनाशेन भेदमात्रावसायिता ॥ नाश इत्युच्यते सद्भिः भेदो न हि विनश्यति । इत्याहुः केचिदज्ञानात्' तत्राहुः सूक्ष्मदर्शिनः ॥ सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः । तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ॥'

पदार्थदीपिका

इदानीमागमसम्मत्याऽपि तद्द्रढयति भेदस्त्विति । यद्वा ननु तथाऽपि न भेदस्य धर्मिस्वरूपत्वं युक्तम् । अन्योन्याभावरूपस्य तस्य नित्यत्वात् घटादेश्व धर्मिणो विनाशित्वादित्याशङ्कां परहिर्तुं तत्र ये घटादि धर्म - स्वरूपभूतोऽपि भेदो घटादिनाशेऽपि न नश्यतीत्याहुः । तन्मतं तावद् प्रमाणेनानुवदति भेदस्त्विति ॥ पूर्वं प्रकृतपदार्थापेक्षया भेदे वक्ष्यमाण- नित्यत्वरूपविशेषद्योतनाय तुशब्दः । अवधारणार्थो वा । स्वरूपमित्यनेन सम्बध्यते । तेनात्यन्ताभेदव्यवच्छेदः । नैजं संयोगादिवन्नागन्तुकमित्यनेन भेदाभेदव्यवच्छेदः ।
ननु यदि धर्मिणोऽव्ययत्वं स्यात् तदा तत्स्वरूपभूतभेदस्याप्यव्ययत्वं स्यात् । यदि घटादिरूपो धर्म्येव विनाशी स्यात् कथं तर्हि तत्स्वरूपभूतो भेदो नित्यः स्यादित्यत आह नष्टानामपीति । अवस्तुनोऽपीत्यत्रापिशब्दो -
यद्यपि तथापीत्यर्थे । तथा च यद्यपि भेदो वस्तुनो नाशप्रतियोगिवस्तुनो घटादेः स्वरूपं स्वरूपमेब, न चान्यथा, तथापि न केवलमनष्टानां किन्तु नष्टानामपि वस्तूनां भेदः धर्मिधर्मभावः षष्ठ्यर्थः । स धर्मिधर्मभावो नैव विनश्यतीति योजना । अयमाशयः । भेदो नाम अन्योन्याभावः । सचान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्यापत्तेरेवाऽभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च पदार्थानां कदाप्यन्योन्यतादात्म्यमस्तीत्य- नित्यानामपि भेदो नित्य एवेति । वस्तुनाशेऽपि तत्स्वरूपभूतो भेदो न नश्यतीति इत्येतदुपपादयति- विशेषेति । रूपशब्दः आकारपरः । पृथुबुनोदराद्याकारविशेषनाशेन भेदमात्रस्योपादानरूपेणावसायिता अवसानं पर्यवसानम् । अवशेष एव नाश इत्युच्यते सद्भिर्हि यस्मात् तस्माद्वस्तुविनाशेऽपि भेदो न नश्यतीति केचिदाहुरित्यर्थः । उपादानं कारकव्यापारात् प्रागकार्यात्मकं

सत् कार्यरूपतामापद्यते यत् सा जनिः । ततः परिदृश्यमानविशेषरूपापगमेन कार्यस्योपादानरूपेण पर्यवसानमेव विनाश इति सदसत्कार्यवादो हि सतां सिद्धान्तः । तत्र विशेषरूपनाश एव विनाशशब्दार्थश्चेत् तर्हि तस्य कारणात्मत्वपर्यवसानस्यानुक्त्याऽसत्कार्यवादापत्तिः स्यात् अतो भेदमात्रावसायितेति भेदमात्रावसानमपि नाशशब्दार्थ इत्युक्तम् । घटस्वरूपभूतभेदावसानं च घटस्याप्यवसानं विना न युक्तमिति घटस्यापि कारणात्मनाऽवसानमप्यनेन गम्यते ।
इदमुक्तं भवति- अत्यन्तासत्कार्यवादी वा अत्यन्तसत्कार्यवादो वा न सद्भिरादृतः । किन्तु सदसत्कार्यवाद एव । उपादानं प्राक् कारक- व्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरित्यङ्गीकारात् । ततः परिदृश्यमानविशेषरूपापगमेन कार्यस्योपादानरूपेण पर्यवसानमेव विनाश इत्युच्यते । एवं च घटनाशेऽपि घटस्वरूपभेदः उपादानरूपेण तिष्ठतीति न घटनाशेऽपि तन्नाश इति । अत्र केचिदिति ज्ञानिन एव विवक्षिताः । नऽह्यज्ञानिनः केऽपि भेदस्य धर्मिस्वरूपत्वमङ्गीकृत्य नित्यत्वमङ्गीचक्रुः । येनायं तन्मतानुवादः स्यात् । अतएव सुधायां प्रकृत्यधिकरणे टीकाकारास्तु-
मन्यन्त इत्यादिना अयं पक्षः टीकाकारमततयोक्तः । उक्तं च सन्न्याय- रत्नावल्याम्-विनाशिनोऽपि घटादेः धर्मरूपभेदः परवाद्यभ्युपगतघटत्वादि- जातिवन्नित्योऽवगन्तव्यः । वस्त्वन्तरतापत्त्यभावात् कालत्रयेऽपि' इति । अज्ञानादिति स्थूलां दृष्टिमाश्रित्येत्यर्थः । अत एव सूक्ष्मदर्शिन इति वक्ष्यति । एतन्मताभिप्रायेणैव सुधायां प्रकृतिरूपमूलकारणस्वरूपभेदस्य नित्यतोक्तेति ज्ञातव्यम् । सूक्ष्मदर्शनमाश्रित्याह- तत्रेति ॥ भेदविषय इत्यर्थः। किमाहुरित्यत आह- सत्यमिति । तस्माद् भेदस्य वस्तुस्वरूपत्वादित्यर्थः। येन रूपेण कार्यस्योपादानात्मनाऽवस्थानं तद्रूपस्य भेदस्योपादानरूपेण सत्वेऽपि येन रूपेणापगमद्रूपस्य भेदस्य न कुत्रापि अवस्थानमितिभावेन कुत्रचिदित्युक्तम् । अत्रानित्यस्वरूपभेदस्यानित्यत्वोक्तिस्तु उपादानरूपेण सतोऽपि भेदस्य व्यवहारानुपयोगित्वमभिप्रेत्यैव । अतो न पूर्वमतविरोधः । अत एतन्मताभिप्रायेणैव सुधायामनित्यप्रपञ्चस्वरूपभेदस्यानित्यताङ्गीकृतेति मन्तव्यम् ।

Load More