क्षेम इति वाचि

अधिष्ठानविशेषे विष्णुरूपोपासनानिरूपणम्

तैत्तिरीयोपनिषत्

क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ॥ १

भाष्यम्

क्षेमकृत्त्वात् क्षेमनामा वाचिस्थः स परो हरिः ।

योगनामा तथा प्राणे सर्वकामनियोजनात् ॥

क्षेमनामा क्षेमकृत्त्वात् अपाने हि हरिः स्वयम् ।
कर्मनामा हस्तगत: कर्मकृत्त्वात् जनार्दनः ॥

गतिदत्वाद् गतिर्नाम पादस्थः पुरुषोत्तमः ।

विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः ॥

अध्यात्मस्थ इति प्रोक्तोऽथाधिदैवगतं शृणु ।

पर्जन्ये तृप्तिनामाऽसौ तृप्तिदत्वाज्जनार्दनः ।।

वायौ तु बलनामा च बलदत्वात् सदैव हि ।

यशःप्रदत्वात् दक्षे तु यशः पश्वभिमानिनि ॥

नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः ।

उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः ॥

दातृत्वात् तत्तदाख्योऽसौ सन्ततिस्त्वमृतं स्मृतम् ।

सर्वः सर्वप्रदत्वात्तु प्रकृतौ पुरुषोत्तमः ॥ ११ ॥

पदार्थदीपिका

भगवदुपासनान्तराण्याह- क्षेम इति वाचीत्यादिना ॥ तत्र ' क्षेम इति वाचि' इत्येतत् व्याचष्टे- क्षेमकृत्त्वादिति || भक्तानां क्षेमकृत्त्वादित्यर्थः । 'योगक्षेम इति प्राणापानयोः' इति वाक्यं उभयत्राप्युभयोपासनमुच्यते इत्यन्यथाप्रतीतिनिरासाय योग इति प्राणे, क्षेम इत्यपाने इत्येवं विविच्य व्याचष्टे - योगनामेत्यादिना || प्राणे स्थित इति शेषः । एवमपाने पर्जन्ये वायौ दक्षे नक्षत्रेषु शिवे प्रकृतावित्यत्रापि शेषो द्रष्टव्यः । योगो योजनं नियोजनमित्येव योगशब्दार्थः । सर्वकामेति योग्यतया लाभः । 'कर्मेति हस्तयोः' इति वाक्यं व्याचष्टे - कर्मनामेति || कर्मकृत्त्वात् कर्मकर्तृत्वात् ।गतिरितिपादयोः' इति वाक्यं व्याचष्टे - गतिदत्वादिति ॥ गतिर्ज्ञानं मोक्षो वा तद्दातृत्वादित्यर्थः ।विमुक्तिरिति पायौ' इति वाक्यं विमुक्तिपदं प्रसिद्धमुक्तिपरमिति प्रतीतिं वारयन् व्याचष्टे विसर्गकृदिति || मलादि- विसर्गकृदित्यर्थः ।इति मानुषीः समाज्ञा' इति वाक्यतात्पर्यमाह्- अध्यात्मस्थ इति ।। मानुषशब्दार्थोऽध्यात्मेति । तथा चात्मानं मानुषं देहं अधिकृत्य विद्यमानं यद्वागादीन्द्रियं तत्रस्थो हरिरिति क्षेमादिशब्दवाच्यतयोपास्यत्वेन प्रोक्त इत्यर्थः । 'अथ दैवी:' इत्यस्य तात्पर्यम् - अथाधिदैवगतमिति ॥ हरिमिति शेषः । देवतासम्बन्धि दैवं बृष्ट्यादि तदधिकृत्य तदभिमानितया विद्यमाना देवा अधिदैवमित्युच्यते । तद्गतं हरिमित्यर्थः । अथ दैवी- रित्युपक्रम्य दृष्ट्यादौ जडे तृप्त्यादिरूपेण भगवदुपासनं कथ्यत इति प्रतीति- निरासाय तृप्तिरिति वृष्टाविति वाक्यं तावद् व्याचष्टे - पर्जन्य इति ॥ वृष्टिशब्दार्थः पर्जन्य इति । पर्जन्यः आदित्यः ।पर्जन्यादन्नसम्भवः' इत्यत्र गीताभाष्ये तथोक्तत्वात्।बलमिति विद्युति' इति वाक्यं व्याचष्टे - बायौ चेति । विद्युच्छब्दार्थो वायाविति । सदाबलदत्वादेवेति सम्बन्धः ।यश इति पशुषु' इति वाक्यं व्याचष्टे || यशः प्रदत्वादिति || पशुशब्दार्थो दक्ष इति । यशः प्रदत्वाद्यशः । यश इति नामवानित्यर्थः । किं पश्वभेदेन पशुशब्दवाच्यत्वं नेत्याह- पश्वभिमानिनीति || ' ज्योतिरिति नक्षत्रेषु' इति बाक्यं व्याचष्टे- नक्षत्रेष्विति । अश्विन्यादिष्वित्यर्थः । ज्योतिर्दातृत्वतः प्रकाशदातृत्वतः ।प्रजातिरमृतमानन्द इत्युपस्थे' इति वाक्यं व्याचष्टे उपस्थमानिनीति ।। उपस्थं गुह्येन्द्रियम् । प्रजात्यानन्दभ्यां सहिता सन्ततिः प्रजात्यानन्दसन्ततिस्तस्या इति व्याख्येयम् । 'प्रजातिः पुत्र उच्यते ' इति वचनात्पुत्रदातृत्वात् प्रजात्याख्यः । आनन्ददातृत्वादानन्दाख्यः सन्ततिः सन्तानपरम्परा । तद्दातृत्वात्तदाख्य इत्यर्थः । ननु तर्हि सन्ततिशब्दवाच्यत्वमेव प्राप्तं न तु अमृतशब्दवाच्यत्वम् । नह्यत्र सन्ततिशब्दः श्रूयत इत्यत आह - सन्ततिरिति ।।अमृतं सन्ततिरिति स्मृतम्' इत्यर्थः । पौत्रादिरूपसन्तान- परम्परा सन्ततिः ।सर्वमित्याकाश' इति वाक्यं व्याचष्टे - सर्वमिति ॥ सर्वप्रदत्वात् सत्ताप्रतीतिप्रवृत्त्यादिसर्वप्रदत्वादित्यर्थः । आकाशशब्दार्थः प्रकृताविति ।। ११ ।।

Load More