ऋतं च स्वाध्यायप्रवचने च ..
ब्रह्मविद्यार्थिनः पूर्वभावियमनियमादिनिरूपणम्
तैत्तिरीयोपनिषत्
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥ २० ॥
भाष्यम्
'ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि' । प्रवचनं
व्याख्यानम् । यथार्थज्ञानं ऋतम् । तत्पूर्वकं यथार्थवचनं करणं
च सत्यम् ।
‘ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका' कृतिः ।
ध्यानसत्ये 'पूज्यपूजा तप इत्यभिधीयते' ।। इति शब्दनिर्णये ॥
सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः
कर्तव्यत्वात्तयोः सर्वत्रानुषङ्गः ।
'मन्त्रो मन्त्रार्थवचनं अन्यस्य स्वात्मनोऽपि वा ।
सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ यतः ॥
इति कर्मतत्त्वे ॥
आत्मनश्चेन्मनसैवार्थवचनम् ।
'मानुषं मानुषो धर्मो देवा अपि हि मानुषे ।
मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः' ।।
इति च 'प्रजाया रक्षणं चैव पुनः प्रजननं तथा ।
प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः ' ॥ इति च ॥ २० ॥
भाष्यप्रकाशिका
'ऋतं' वाक्येषु यथार्थज्ञानम् । 'सत्यं' यथार्थज्ञानपूर्वं कर्म चेत्यर्थः । यः कोऽपि नियमः स्वाध्यायप्रवचने बिना न फलतीति भावेन श्रुति: प्रत्येकं नियमेषु तयोरावृत्तिमाहेति ज्ञेयम् । तदिदमाह भाष्यकारः मन्त्रो मन्त्रार्थवचनमिति ॥ मन्त्रोऽध्ययनं मन्त्रार्थवचनमित्यर्थः । ‘ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते' इत्यनुशासनादत्र तपो ध्यानम् । 'दम इन्द्रिय- निग्रहः' | 'शमः ' शान्तिः । अग्रयस्त्रेताग्नयः सेव्या इत्यर्थः । अतिथयश्च पूज्याः । मानुषं वेदाधिकारिणामपेक्षितं स्नानसन्ध्यावन्दनादिनित्यनैमित्तिकं कर्म । ‘प्रजा' प्रजारक्षणम् । तदाऽपि स्वाध्यायप्रवचने कर्तव्ये इत्यर्थः । ‘प्रजननं’ प्रजोत्पत्तिः । तदाऽपि जातकर्मकरणसमये स्वाध्यायप्रवचने कर्तव्ये इत्यर्थः । ‘प्रजाति:’ उपनयनादिना प्रकृष्टजातिकरणम् ।
पदार्थदीपिका
ब्रह्मविद्यामर्थयमानस्य तत्प्राप्त्यर्थं तत्पूर्वभाविनो यमनियमानाह - ऋतं चेत्यादिना ।। ‘ऋतं च' इत्यादेर्वाक्यस्य साकाङ्क्षत्वादध्याहारेण तावन्निराकाङ्क्षतां दर्शयति - ऋतं चेत्यादिना || 'सत्यं च' इत्यादावप्येवमेव निराकाङ्क्षता द्रष्टव्येति भावः ‘“ “प्रवचनं’ प्रकृष्टवचनम् | साधुभाषणमिति यावत् इति व्याख्यानमसदिति भावेन प्रवचनशब्दार्थमाह- प्रवचनमिति ॥ ऋतसत्यशब्दयोः पौनरुक्त्यपरिहारायार्थभेदमाह - यथार्थेति ॥ ' तत्पूर्वकं '
यथार्थज्ञानपूर्वकं 'यथार्थवचनं' सत्यम् । तथा 'तत्पूर्वकं' यथार्थज्ञानपूर्वकं ‘करणं’ कर्मकरणं च ‘सत्यम्' इत्यर्थः । अत्र प्रमाणमाह - ऋतमिति । ‘तत्पूर्विका’ यथार्थज्ञानपूर्विको कृतिः कर्मकृतिः । इदमुपलक्षणम् । ‘तत्पूर्वकं यथार्थवचनं' चेत्यपि ग्राह्यम् । 'तपः ' शब्दस्य सन्तापार्थताप्रतीतिवारणाय तपःशब्दार्थं प्रमाणशेषेण दर्शयति ध्यानसत्ये इति ॥ पूज्यानां गुर्वादीनां पूजा । तथा च ध्यानेत्यनेन मानसं तपः, सत्येत्यनेन वाचनिकं तपः, 'पूज्यपूजा' इत्यनेन शारीरं तपः इत्येवं त्रिविधं तपः तपःशब्देन विवक्षितमिति भावः । ननुं सत्यं चेत्यादौ सत्यादिभिः सह पुनः स्वाध्यायप्रवचनयोः कर्तव्यत्वोक्तिरयुक्ता । ऋतं च स्वाध्यायप्रवचने चेत्यनेनैव वाक्येन तयोः कर्तव्यतायाः उक्तत्वादित्यतः सत्यादौ सर्वत्र स्वाध्यायप्रवचनयोरनुषङ्गे कारणमाह- सर्वकर्मेति ।। सत्यशब्दार्थानुवादोऽयम् । 'सत्यं तत्पूर्विका कृतिः' इत्युक्तत्वात् । इदमुपलक्षणम् । तथा सत्यतपआद्यनुष्ठान- कालेष्वपीत्यर्थः । सर्वत्र सत्यादी सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वे प्रमाणं चाह - मन्त्र इति || मन्त्रो वेदाध्ययनं अन्यस्य स्वात्मन इति कर्मणि षष्ठ्यौ । सर्वकर्मसु सर्वकर्मकृतिकालेषु । मन्त्रार्थवचनं मन्त्रवेतीमौ कर्तव्यौ । ततः सर्वकर्मसु कर्तव्यत्वात् सर्वकर्मात्मकौ सर्वकर्मप्रधानौ । तत एव सत्यादिष्वनुषक्तावित्यर्थः । ननु स्वात्मनो मन्त्रार्थवचनमिति प्रमाणोक्त- मयुक्तम् । प्रवचनस्य शिष्यसापेक्षत्वेन स्वात्मानं प्रत्येव प्रवचना- योगादित्यतस्तदभिप्रायमाह आत्मनश्श्रेदिति ॥ 'आत्मनश्चेन्मन्त्रार्थवचनं ' विवक्षितं तदा मनसैवार्थवचनं युक्तिभिरनुचिन्तनात्मकं मननं ध्यानं वा तदर्थतया विवक्षितमित्यर्थः । मानुषं चेत्यत्रोक्तमानुषस्य कर्तव्यत्वमप्रतीतेः प्रमाणेनैव व्याचष्टे - मानुषमिति || ज्ञानाद्यतिशयेऽपि न मानुषो धर्मस्त्याज्य इति भावः ।। एतदेवाचारेण समर्थयते - देवा अपीति || मानुषे मानुषदेहप्राप्ति- दशायाम् । अन्यैः प्रवर्तितव्यमिति किमु वक्तव्यमित्यपिशब्दार्थः । ऐश्वर्यं
ज्ञानादि हीति देवत्वे देववचेष्टा मानुषत्वे च मानुषीत्यादिप्रमाणप्रसिद्धिं दर्शयति । उक्तं चान्यत्र भगवत्पादैः
'प्रजायते हि यत्कुले यथा युगं यथा वयः ।
तथा प्रवर्तनं भवेत् दिवौकसां समुद्भवे । ' ( म.ता.नि. १३.९)
'धर्मो हि सर्वविदुषामपि देवतानां प्राप्ते नरेषु जनने नरवत्प्रवृत्तिः ।
ज्ञानादिगूहनमुताध्ययनादिरत्र ॥ ' ( म. ता.नि. १४. ४ ) इति ।
प्रजा-प्रजनन-प्रजातिशब्दान् एकार्थत्वप्रतीतिं वारयन् प्रमाणेनैव व्याचष्टे- प्रजाया इति ।। पुत्रशिष्यादिरूपप्रजाया इत्यर्थः । तथा च प्रजाशब्देन प्रजारक्षणं ग्राह्यमिति भावः । रक्षणं चात्रान्नज्ञानादिदानेन भयादिनिवारणेन च द्रष्टव्यम् । पुनः प्रजननं पुत्ररूपेण सन्ततिकृतिः । पुरुषस्य स्वपितुः सकाशाज्जन्म प्रथमं जननं पुत्ररूपेणजननं च पुनः प्रजननम् । पुत्रदेहस्य स्वदेहांशत्वात् ‘आत्मा वै पुत्र नामाऽसि' इति श्रुतेः । तथा च प्रजननशब्देन पुनः प्रजननमेव विवक्षितमिति भावः । प्रजातिशब्दार्थः प्रकृष्टेति । पितुः कर्तरि षष्ठी । पित्रा तनये उपनयनादिकर्मभिः ब्राह्मणत्वाख्यप्रकृष्टजाति- करणमित्यर्थः । प्रमाणशेषेणान्वयो द्रष्टव्यः ॥ २० ॥