तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः

सर्वस्रष्टृत्वप्रपञ्चनम्

तैत्तिरीयोपनिषत्

तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ ३ ॥

अन्नमयप्रकरणम्

तैत्तिरीयोपनिषत्

स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ॥ ४ ॥

भाष्यम्

'य एष भगवान् विष्णुः भूतस्रष्टा गुणाधिकः ।
स एवान्नात् (पुनर्जातो) पूर्वजातो ह्यजातोऽपि यतो विभुः ॥

 ‘अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः ।
अन्नस्य सारभूतोऽयं शरीरस्य च केशवः ।।'

'अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः
अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः ।

उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ।।' ३-४ ॥

भाष्यप्रकाशिका

क्रमेणोक्तलक्षणप्रपञ्चनार्थमुत्तरो ग्रन्थः । तत्र सर्वस्रष्ट्रत्वरूपं प्राथमिकं लक्षणं प्रपञ्चयति- आत्मन इति ।। अत्र सर्वत्रापि आकाशादि- पदैराकाशादयोऽपि ग्राह्याः । ' तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः तेषामन्तर्नियामकभगवद्रूपाण्यपि ब्राह्माणि । य आकाशादीनां स्रष्टा आत्मनामको नारायणः यश्च पुरुष: चरमसृष्टपुरुषदेहप्रविष्टत्वात् पुरुषनामको नारायणः स एष पुरुषः अन्नरसमयो वै सारतया मुख्यतया यदन्नमन्नशब्दप्रवृत्तिनिमित्तं 'अद्यतेऽत्ति च भूतानि' इति श्रुत्या स्वयमेव वक्ष्यमाणं यद्भूतात्तृत्वं तन्मयस्तत्प्रचुरः । अनाद्यनन्तकालेष्वपि नियमेन स्वतन्त्रतया सकलभूतसंहर्तेत्यर्थः । भोग्यत्वरूपासारार्थत्याजनाय श्रुति: स्वाभिमतमन्नं रसशब्देन विशिनष्टि । पुरुषशब्दस्य स्वाभिमतदेहपरत्वं त्याजयितुंस वा' इति प्रागुक्तात्मानं परामृशति । अतो 'देह अन्नरसमयः' इति परव्याख्यानं गम्भीरश्रुतेः हृदयानभिज्ञताप्रयुक्तम् । न हि श्रुत्युक्तं भूतात्तृत्वं यया कयाचनविधया 'आकाशाद्वायुः' इत्यादिना अत्रैव भूतजन्यतयोक्तदेहे सम्भवति । न हि ब्रह्मविदित्युक्तब्रह्मप्रपञ्चनाय प्रवृत्ता श्रुतिरब्रह्मभूतमसारं देहं स्तौतीति बुद्धिमता वक्तुं शक्यम् । अनेन तृतीयलक्षणं प्रपञ्चितं भवति । स्रष्टा ब्रह्मा, संहर्ता शिव इति विप्रतिपन्नत्वेन विवादास्पदत्वादिदं हि लक्षणद्वयमादौ प्रपञ्चितम् । लक्षणत्वे विवादाभावात् क्रममुल्लञ्चच प्राणमयप्रकरणे तस्य प्रपञ्चनमिति ज्ञेयम् । 'तस्येदमेव शिरः’ 'सप्तसु प्रथमा' इति सूत्रादिदमस्मिन् परिदृश्यमाने शिरः मनुष्याणां शिरसि शिरस्तिष्ठतीति शिर:पदाऽवृत्त्या योजना । एवमुत्तरत्रापि योजना द्रष्टव्या ।

दक्षिणः पक्षःदक्षिणहस्तः ।उत्तरः पक्षः ' उत्तरहस्तः । यस्मात् पूर्वाभि- मुखस्योत्तरदिशिस्थो वामः । दक्षिणदिशिस्थस्तु दक्षिणः । तस्माद् दक्षिणोत्तरपदयोः दक्षवामकरपरत्वमुचितम् । देहपार्श्वद्वये विद्यमानत्वात् पक्षपदेन हस्तौ गृह्यते । आत्मा मध्यदेहः । प्रतितिष्ठत्यनेनेति प्रतिष्ठा पादः । पुच्छपदेनाप्यर्वाचीनाङ्गत्वात् पाद एवोच्यते । मनुष्याणां शिरस्यन्न- मयाख्यपरमात्मनः शिरः । करयो: करौ । मध्ये मध्यम् । पादयोः पादौ । स एवाऽनन्दमयाख्यः परमात्माऽऽपादमस्तकं मानुषशरीरं व्याप्य तिष्ठतीति भावस एवान्नात् पुनर्जातःइत्यत्र सः भूतस्रष्टा परमात्मा अन्नाज्जायमाने शरीरे पुनर्जातोऽभिव्यक्तः । अन्नस्य सारभूतः श्रेष्ठः । शरीरस्य सारभूतः अन्तर्नियन्तृत्वाच्छ्रेष्ठः । तस्मिंच्छरीरे स्थितोऽनिरुद्धाख्यो भगवानत्तृत्वादुपजीव्यत्वाच्चान्ननामा उपलक्षणमेतत् । तचात्तृत्वं सर्वेभ्योऽपि प्राचुर्येणास्तीति कृत्वा देहान्तः स्थितभगवद्रूपमन्नमयशब्देनाप्युच्यते । अन्यथाऽन्नमयप्रपञ्चत्वासम्भवादिति ज्ञेयम् । उक्तरीत्याऽन्नान्तर्यांमी यो भगवान् सोऽप्यन्नमयप्रकरणेऽन्नशब्दार्थतयोक्तात्तृत्वव्युत्पत्त्यैवान्ननामा । न त्वन्नवत् । तर्ह्यत्तृत्वेनेति प्रसङ्गादुक्तम् । अन्नादन्नमयात् प्राचुर्यस्यापि भगवद्रूपत्वेन पार्थक्याभावसूचनाय श्लोके अन्नादित्येवोक्तम् । अन्यथा श्लोकश्लोकिनोः वैयधिकरण्यं स्यात् ।। ३-४ ।।

पदार्थदीपिका

स वा एष पुरुषोऽन्नरसमयःइत्यत्र स वा एष इत्यनेन अन्नात्पुरुष इति प्रकृतः प्रसिद्धान्नविकारभूतदेह एवं परामृश्यत इत्यसदित्यभिप्रेत्य स इत्यनेनआत्मन अकाशः सम्भूतः' इत्यत्राऽत्मशब्दोक्तविष्णुरेव परामृश्यत इति तावत् प्रमाणेन दर्शयति- य एष इति । गुणाधिकः अत एवात्मशब्दोक्त इति शेषः । यथोक्तमनुव्याख्याने - 'स इत्यात्मपदोद्दिष्ट: ' इति । एष इत्यस्य जीवशरीरगत इत्यर्थमभिप्रेत्याह- स एवेति || अजातोऽपि जात इत्यनेन प्रादुर्भाव एव हरेर्जनिर्न देहोत्पत्तिरिति दर्शयति । अत एवोत्तरत्र व्यज्यत इत्युक्तम् । इतरानधिष्ठानेन साक्षात्स्वयमेव जातः किमित्यतः अन्नात्पुरुष इत्यस्याभिप्रायमाह- अन्नात्मनीति || अन्नविकारभूत इत्यर्थः । यथोक्तम्- एष जीवशरीरग इति । सुविवेकिभिरिति तृतीया षष्ठ्यर्थे । सा च कर्मणीति ज्ञातव्यम् । तथा च स वा एष इति न प्रसिद्धान्नविकारपुरुषशब्दोक्तदेहपरा- मर्शः । किन्तु आकाशादिपुरुषान्तशब्दैर्ब्रह्मणोऽपि वाच्यत्वमङ्गीकृतम् । तत्तत्क्रियाप्रवर्तकत्वेन ब्रह्मणोऽपि प्रादुर्भावाङ्गीकारात् । तथा च यस्मादात्मनः आकाशादिपुरुषान्तमुत्पन्नं स एषः पुरुषशब्दोक्त जीवशरीरगोऽन्नरसमय इति परमात्मपरामर्शाङ्गीकारात् । न च किमर्थमसौ परामृश्यत इति वाच्यम् । आत्मन आकाशादिकारणत्वमुक्त्वा तस्यैवान्नमयादिपञ्चरूपत्वप्रदर्शनाय पुनः प्रक्रान्तत्वात् न परामर्शवैयर्थ्यमिति भावः । यथोक्तं भाष्ये-स वा एष इत्यन्यप्रारम्भात्' इति । उक्तं चानुव्याख्याने-एवं देहादिपर्यन्तमागतं हरिमेव तु । परामृशति तस्यैव पञ्चरूपत्ववित्तये' (ब्र. सू. अनु. १.१.६, श्लो. २०६ ) इति । यदवादि स वा एष' इत्यन्यपरामर्शो नान्नात्पुरुष इत्युक्तदेहपरामर्श इति । तदयुक्तम् । आत्मनो दूरोक्तत्वात् देहस्य च समीपोक्त- त्वात् समीपोक्तदेहपरित्यागेन दूरोक्तात्मपरामर्शग्रहणे कारणाभावात्।अन्नात् पुरुष:' इति पुरुषशब्देन प्रकृतस्यैव देहस्य 'स वा एष पुरुष' इति पुरुषशब्देनोक्तेरात्मनश्च पुरुषशब्देन प्रकृतत्वाभावाच । एकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयोक्तिग्रहणायोगादित्याशङ्कापरिहाराय अन्नरसमय इत्येतद् व्याचष्टे- अन्नस्य सारभूतोऽमिति | सारेति रसशब्दार्थः । ' रसः सारो वरश्चेति शब्दा एकार्थवाचका:' इति वचनात् । अन्नस्यान्नशब्दार्थ- भूतस्यात्तृत्वादेः सारभूतः श्रेष्ठाऽत्ता श्रेष्ठाऽद्यश्चेत्यर्थः । यथोक्तम्-महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत्' इति । अन्नरसमय इत्यस्यैबार्थान्तरमाह- शरीरस्य सारभूत इति । अन्नविकारस्य शरीरस्येत्यर्थः ।

अयं भावः ।स वा एष पुरुष' इति वाक्येन परमात्मैव परामृश्यते न देहः । न च तस्य दूरोक्तत्वविरोधः पुरुषशब्देनाप्रकृतत्वविरोधश्चेति वाच्यम् । आकाशादिपुरुषान्तशब्दैराकाशादिसारभूतस्य परमात्मनोऽपि प्रादुर्भावाङ्गी- कारेण समीपोक्तत्वात् पुरुषशब्देन प्रकृतत्वाच्च परमात्मपरामर्शोपपत्तेः । न च पुरुषपदेन देह परमात्मनोरुभयोरप्युक्तत्वादुभयपरामर्शोऽयमस्त्विति वाच्यम् । पुरुषशब्दोक्तदेहसारभूतपरमात्मैव देहं विहायात्र परामृश्यते । कुत इति चेत् रसशब्देन विशेषणात् । यथा प्रकृतिं पुरुषं चेति पुरुषशब्देन जीवेश्वरयोर्द्वयोः प्रकृतत्वेऽपि दुःखानुभवितृत्वविशेषणेन पुरुषः प्रकृतिस्थो हि' इति वाक्ये जीव एवोच्यते नेश्वरः एवम् ' अन्नात्पुरुष:' इत्युभयोः प्रकृतत्वेऽपि स वा एष पुरुषोन्नरसमय:' इति सारान्नमयत्वविशेषणेन परमात्मपरामर्श एवायमिति ज्ञायते । उक्तं च 'बहूनां सह निर्देशे एकयाभिधयैव तु । तयैवाभिधया तेषां परामृश्यैकमुच्यत' इति । एतच्च सविस्तर- मुक्तमुत्तरप्रस्थाने 'ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ' ( ब्र. सू. अनु. १.१.६, श्लो. २०० ) इत्यादिना । अन्नमयं प्रत्युदाहृतश्लोके 'अन्नाद्वै प्रजाः प्रजायन्ते' इत्यादी अन्नशब्देन प्रसिद्धान्नमेवोच्यत इत्यन्यथाप्रतीतिनिरासाय अन्नशब्दार्थमाह- अन्ननामा चेति || अन्नाभेदेन तच्छब्दवाच्यत्वपरिहारायान्नसंस्थ इत्युक्तम्। अनेनान्नशब्दस्य हरौ रूढिरुक्ता भवति । अर्थान्तरमाह- शरीरेष्विति || अन्नविकारभूतेषु शरीरेष्वित्यर्थः । तथा चान्नादित्यस्यान्नविकारशरीरसंस्थाद्धरेरित्यर्थ उक्तो भवति । प्रसिद्धान्नपरत्वेयेऽन्नं ब्रह्मोपासते' इत्यादिनोक्तब्रह्मशब्दाद्ययोग इति भावः । किञ्च प्रसिद्धाने 'अद्यतेऽत्ति च' इति वाक्योक्तान्नशब्दनिर्वचनलभ्यार्थायोग इति भावः । भूताद्यत्वस्य कथञ्चित्सम्भवेऽपि भूतात्तृत्वस्य कथमप्यसम्भव इति भावेनअत्ति च भूतानि' इत्यस्यार्थमाह- अत्तृत्वादिति ॥ ननु परमात्मनोऽपि कथमन्नशब्दवाच्यत्वं ? भूतात्तृत्वस्य कथञ्चित्तत्र सम्भवेऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यतो 'भूतैरद्यत' इत्यस्य तात्पर्यमाह - उपजीव्यश्चेति ।। यथोक्तं भाष्ये- 'उपजीव्यत्वमेवाद्यत्वम्' (ब्र.सू.भा. १.१.६) इति । उक्तं चानुव्याख्याने- 'भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः' (ब्र.सू.अनु. १.१.६, श्लो. २७७) इति ।

तैत्तिरीयोपनिषत्

तदप्येष श्लोको भवति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीग्ग् श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ॥ ५ ॥

भाष्यम्

स ज्यायान् सर्वभूतेभ्यः तस्मात् सर्वौषधं स्मृतः । संसारे दह्यमानानामाश्रयत्वात् स औषधम् ॥' ' प्रचुरं मय इत्युक्तं प्रचुराता यतो हरिः । प्रचुरैः सेव्यते नित्यमतोऽन्नमय ईरितः ॥' 'देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम् ॥ बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा । पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः ॥' ५ ॥

भाष्यप्रकाशिका

सर्वौषधम्उष दाहेइति धातो: संसाराग्निना दग्धा उषा इत्युच्यन्ते ।तेषां दाहोपशामकत्वेन तत्सम्बन्धि धारकं च यद्वस्तु तदौषधमित्युच्यते । संसाराख्यं दाहं शमयित्वा मोक्षधारकं यद्भगवद्रूपं तदौषधमित्युच्यते । सर्वेषां योग्यजीवानामौषधंसर्वौषधम्' 'येऽन्नमयं ब्रह्मोपासते' ते सर्वमन्त्रमयनामानं भगवन्तं प्राप्नुवन्ति । मुक्तावपेक्षितसकलान्नं प्राप्नुवन्तीति ध्वनिः ।अन्नमयइत्यादावुच्यमानमन्नं न प्राकृतान्नं येनाब्रह्मविद्यात्वं स्यात्, किन्तु सर्वोप- जीव्यः सकलसंहर्ता भगवानेवान्नशब्देनोच्यत इति स्वाभिप्रायं श्रुतिः स्वयमेवोद्घाटयति- 'अद्यतेऽत्ति च' इति ॥ ५ ॥

पदार्थदीपिका

प्रसिद्धान्नपरत्वेअन्नं हि भूतानां ज्येष्ठं तस्मात्सर्वौषधमुच्यते' इति वाक्योक्तं सर्वभूतेभ्यो ज्यायस्त्वं संसारे दह्यमानानामाश्रयत्वरूपमौषधत्वं च मुख्यतो न सम्भवतीत्याशयेन तद्व्याचष्टे - स ज्यायानिति । तस्मात् ज्यायस्त्वादेव | संसार इति || संसरत्यत्रेति संसारो देहस्तत्र जाठराग्निना दह्यमानानामाश्रयत्वादित्यर्थः । यथोक्तम्- 'ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवत्' (ब्र.सू. अनु. १.१.६, श्लो. २०४) इति ।। तथा च उषाः उष्टाः दग्धाः ।उषप्लुषदाह' इति धातोः । ते धीयन्ते अस्मिन्निति व्युत्पत्तिर्द्रष्टव्या । ननु ' स वा एष पुरुषोन्नरसमय:' इत्युक्तान्नरसमयो न विष्णुः । किन्तु देहरूपः कोश एव । कुतः ? विकाराभिधायकमयट्प्रत्यय- प्रयोगात् । तस्य चान्नविकारदेह एव सम्भवात् विकारशून्ये परमात्मनि चासम्भवात् इत्याशङ्कायाम्, नात्र मयट् विकारार्थो विवक्षितः किन्तु प्राचुर्यार्थ एवेत्याह- प्रचुरमिति । प्रचुरं प्राचुर्यम् । ' तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा' इति वचनात् । 'अन्नमयो यज्ञ' इत्यादौ मयटः प्राचुर्ये प्रयोगदर्शनाच्चेति भावः । यथोक्तम्-विकारशब्दान्नेति चेन्न प्राचुर्यात्’ (ब्र.सू. १.१.१३ ) इति । ननु कथमत्रान्नमयशब्दोऽन्नप्राचुर्यार्थः । अन्नप्राचुर्यकथनस्याल्पत्वादित्यत आह- प्रचुरात्तेति ।। इदमुपलक्षणम् ।प्रचुराद्य इत्यपि ग्राह्यम् । तथा च प्रचुरात्ता पूर्णात्ता । प्रधानात्तेति यावत् । एवं प्रचुराद्यः प्रचुरोपजीव्यश्चेत्यन्नमय इत्यर्थः । नात्रान्नप्राचुर्यस्यान्नमय-- शब्दार्थत्वायोगः । यतोऽत्रान्नशब्देन भूतात्तृत्वस्य तदद्यत्वस्य चाभिधानेनाल्पार्थत्वाभावात् । प्रसिद्धान्नार्थत्व एव तत्प्राप्तेरिति भावः । यथोक्तं भाष्ये-अन्नादीनां च प्राचुर्यमेव । " अद्यतेऽत्ति च " इति व्याख्यानात् । तत्प्राचुर्यं च युज्यते' इति । उक्तं चानुव्याख्याने । 'प्रचुरानादि- रेवातो ह्यन्नमन्नमयेत्यपि । उच्यते ' इति । किञ्च नायं मयट् प्रत्ययः । किन्नाम प्रचुरवाची मयशब्द इत्यङ्गीकृत्यान्नमय इत्यस्यार्थान्तरमाह प्रचुरैरिति || हरिरिति वर्तते । अन्नशब्दवाच्यो हरिर्यतो मयैः प्रचुरैः बहुभिः सेव्यते अतोमयसेव्यान्न' इति भाव्ये मध्यमपदलोपेन मयशब्दस्य परनिपातेन चान्नमय इति ईरित इत्यर्थः ।
ननु यदि परिदृश्यमानदेह एव नान्नमयः । किन्तु परमात्मैव कथं तर्हि 'तस्येदमेव शिरः' इत्यादि प्रत्यक्षनिर्देशो युज्यते । न च वाच्यमुपनिषद्द्रष्टा मुनिः ब्रह्मापरोक्षीकृत्य प्रत्यक्षतो निर्दिशतीति । तथा सति तेनापरोक्षी- कृतप्राणमयादावपि तत्प्रसङ्गात् निर्देशवैयर्थ्याच्चेत्यतस्तदभिप्रायमाह- देहस्यैवेति । अस्य विष्णोः शिरो देहस्य शिरसि प्रतिष्ठितमिति सम्बन्धः | 'अयं दक्षिणः पक्षः, अयमुत्तरः पक्षः' इत्यस्यार्थो बाह्वोः क्षाविति । अस्य विष्णोः पक्षी दक्षिणोत्तरबाहू देहस्य बाह्वोः प्रतिष्ठिताविति लिङ्गवचन- विपरिणामेन सम्बन्धः ।अयमात्मा' इत्यस्यार्थो मध्ये मध्यमिति । अस्य विष्णोः मध्यं मध्ये देहस्य मध्ये प्रतिष्ठितमिति सम्बन्धः । 'इदं पुच्छं प्रतिष्ठा' इत्यस्यार्थः- 'पश्चात्तनौ' इति । एकवचनं द्विवचनार्थे । देहस्य पश्चात्तनौ देहाधोभागयोः पादयोरिति यावत् । अस्य विष्णोः पुच्छं पादौ प्रतिष्ठितावि- त्यर्थः । यद्वा देहस्य पश्चात्तनौ पादद्वये विष्णोः पुच्छं पादद्वयं प्रतिष्ठित-मित्यर्थः । अन्नमयशब्दवाच्यरूपस्य नामविशेषं दर्शयति- इत्येष भग- वानिति । एवं च परिदृश्यमानदेहशिरः पक्षादौ अन्नमयनामकानिरुद्धारव्य- भगवच्छिरपक्षादेः सन्निहितत्वात् वस्त्रप्रावृतजानुनीदं जान्विति निर्देशवदिदमिति निर्देशो युज्यते इति भावः । यथोक्तं भाष्ये- 'इदमिति च दृश्यमान- सन्निहितत्वात्' इति । उक्तं चानुव्याख्याने - 'इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः । शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थिते:' इति ।। ५ ।।