सह नौ यशः ..

लोकादिषु नारायणादिरूपाणि ध्येयानि

 तैत्तिरीयोपनिषत्

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहितायाः उपनिषदं व्याख्यास्यामः ।

पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते ॥ ३ ॥

अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिलोकम् ॥ ४ ॥

अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥ ५ ॥

अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ ६ ॥

अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥

अथाध्यात्मम् । अधराहनुः पूर्वरूपम् । उत्तराहनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ८ ॥

भाष्यम्

'नारायणादिरूपाणि लोकादिषु च पञ्चसु ।
अनिरुद्धावसानानि ध्येयानि चतुरात्मना ॥

'वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः ।

संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः ॥

'यो वेदैतानि रूपाणि सर्वभोगसमन्वितः ।
प्राप्नोति वैष्णवं स्थानं मुक्तस्स्वर्गाभिधं परम् ॥ ३-८ ।।

भाष्यप्रकाशिका

शं नो मित्र इत्युपनिषदारम्भे मङ्गलस्य कृतत्वात् पुनः 'स ह नौ यश ' इति मङ्गलाचरणं किमर्थमिति चेत् सत्यम् । विद्यानां 'बाहुल्यात् 'प्रतिविद्यं मङ्गलाचरणं कार्यमिति सूचनाय अथातस्संहिताया' इति विद्यारम्भेऽपि पुनर्मङ्गलं कृतमिति ज्ञेयम् । स ह मित्रादिन यशो दिशत्वित्यर्थः । हेत्यनेन यशोदानशक्तेः प्रसिद्धतामाह । 'अथातः सहिताया' इत्यत्र अथ अध्ययनाङ्गशिक्षानिरूपणानन्तरमतः संहितायाः 'अग्निमीळे पुरोहितम् ' इत्यादावग्न्यादिवर्णद्वयात्मकसंहितायाः पूर्वोत्तरवर्णयोस्तत्सन्धित्सायाः
सन्धेश्च ज्ञानस्यैकवर्णज्ञानादप्यधिकफलसाधनत्वात्तस्यास्संहिताया उप समीपे निषीदतीत्युपनिषदं तत्सम्बन्धिरहस्यविद्यां व्याख्यास्यामः । एवं ज्ञानेऽक्षरद्वयात्मकसंहितोच्चारणं स्पष्टमक्लिष्टं च भवतीत्यतोऽस्य विद्याया उत्तरविद्याङ्गत्वमिति भावः ।

'चतुरात्मना वासुदेवादिकान्येव' इत्यत्र 'चतुरात्मना ' वासुदेवाद्यनि- रुद्धान्तचतुरात्मनावासुदेवादिकान्येव च पूर्वोत्तरवर्णयोस्तत्सन्धौ सन्धाने च ध्येयानीति योजना | अत्रायं विवेक:- सन्धिदेवताज्ञाने सन्ध्यक्षरोच्चारणे सौष्ठवं भवति । अधिलोकादिसन्ध्यक्षरज्ञाने इह लोके परलोके च सुखं भवति । अधिज्यौतिषं सन्ध्यक्षरज्ञाने ब्रह्मवर्चसं भवति । अधिविद्यं सन्ध्यक्षरज्ञाने शिष्याचार्यादिघटना भवति । अधिप्रजं सन्ध्यक्षरज्ञाने सन्तानाभिवृद्धिर्भवति । अध्यात्मं सन्ध्यक्षरज्ञाने सुष्षूचारणशक्तिर्भवति । अत इदमप्यवश्यं ज्ञातव्यमित्येतदेवाभिप्रेत्य श्रुतिः 'सन्धीयते प्रजया पशुभिः' इत्यादिना फलमप्याह ।। ३-८ ॥

पदार्थदीपिका

अथ भाष्यार्थः
"अथाधिलोकं पृथिवीपूर्वरूपं द्यौरुत्तररूपम्' इत्यादि प्रकरणपञ्चके पृथिव्यादेः पूर्ववर्णत्वं द्याद्वादेश्चोत्तरवर्णत्वं च प्रतीयते तदयुक्तम् । लोकादीनां वर्णाद्यभेदस्य बाधितत्वात् पृथिव्यादिदेवतानां पूर्ववर्णादिप्रतिपाद्यत्वाभिप्राये त्वब्रह्मविद्यात्वापत्तेरतस्तदभिप्रायं प्रमाणेनैव दर्शयन् आदौ किञ्चिद् वक्तव्यं प्रमेयमाह- नारायणादीति ॥ नारायणादीनि अनिरुद्धावसानानि रूपाणि लोकादिषु पञ्चसु ध्येयानि । तत्र लोके नारायणः, ज्योतिषि वासुदेवः, विद्यायां सङ्कर्षणः, प्रजायां प्रद्युम्नः, आत्मनि अनिरुद्ध इति विवेकः ।। एवमुपयुक्तमुक्त्वा पृथिवीपूर्वरूपमित्यादेरभिप्रायमाह - चतुरात्मनेति ॥ चतुस्वरूपेण विद्यमानानि चतुःसङ्ख्याकानि इति यावत् । ' वासुदेवादिकानि तान्येव अनिरुद्धान्तान्येव रूपाणि पूर्वोत्तरार्णयोः पूर्वार्णे उत्तरार्णे च तथा संहितायाः सन्धौ सन्निकर्षे सन्धाने सन्धिकार्यभूतसन्ध्यक्षरव्यवह्रणरूपसन्धानक्रियायाञ्च सन्तीति ध्येयानीति सम्बन्धः । ' कृत्स्रशः' पूर्वोत्तरार्णयोरित्यादिसम्बन्धः ।

समस्तपूर्वोत्तरार्णादावित्यर्थः । कृत्स्रशो यो वेद' इत्युत्तरत्र वा सम्बन्धः ।य एवमेता महास ँहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः ब्रह्म- वर्चसेनान्नाद्येन सुवर्येण लोकेन' इति फलवाक्ये स्वर्गशब्दस्य प्रसिद्ध- स्वर्गपरत्वप्रतीतिं निवारयन् व्याचष्टे - यो वेदेति ॥ अन्नाद्येन सन्धीयत इत्यस्यार्थः -सर्वभोगसमन्वितः' इति । इह लोकेऽपीतिशेषः । सुवर्येण लोकेन सन्धीयत इत्यस्यार्थः प्राप्नोतीत्यादि । तथा च सुवरोऽतिशयेनोत्तमो विष्णुः यत्र गतः व्यक्ततयावस्थितः सः विष्णुव्यक्तिस्थानभूतस्तेन लोकेन बैकुण्ठादिस्थानेन सन्धीयते तल्लोकं प्राप्नोतीति यावदित्यर्थ इत्युक्तो भवति ।। ३-८ ॥

Load More