अथातोऽनुप्रश्नाः
'अथातोऽनु' इत्यादिमन्त्रखण्डार्थः
तैत्तिरीयोपनिषत्
अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित् समश्नुता३ उ ॥ १३ ॥
श्रीनिवासतीर्थीयखण्डार्थ:
अथशब्दः प्रकरणान्तरारम्भद्योतनार्थः । एवमन्नमयादिपञ्चरूप- निरूपणानन्तरं प्रकरणान्तरमारभ्यते । अतः ब्रह्मविदाप्नोति परम्' इति वाक्येन ब्रह्मविदः परब्रह्मप्राप्तेरुक्तत्वात्तच्छ्रुतवता वरुणेन चतुर्मुखं प्रति कृताः अनुप्रश्नाः तत्वनिर्णयानुकूलाः प्रश्नाः कथ्यन्ते । तानेव विशदयति-उतेति ।। ब्रह्मविदिति निरवधारणोक्तेः । कश्चन अविद्वानुत । एकवचनं बहुवचनार्थे । अज्ञानिनोऽपि प्रेत्य मृत्त्वा अमुं लोकं परलोकम् । वैकुण्ठादिस्थं परब्रह्मेति यावत् । गच्छति । गच्छन्ति प्राप्नुवन्ति । अविद्वानपि अमुं लोकं प्रति प्रेत्य प्रकर्षेण गत्वा ब्रह्म गच्छतीति वार्थः । आहोस्वित् विद्वान् ज्ञानिन एवामुं लोकं प्रेत्य गच्छन्तीत्येवं द्विकोटिक एकः प्रश्नः । ज्ञानिन एव ब्रह्म प्राप्नुवन्तीति पक्षेऽपि सर्वेऽपि ज्ञानिनो ब्रह्म प्राप्नुवन्ति अथ केचनैवेति द्विकोटिको द्वितीयः प्रश्नोऽध्याहार्यः । सर्वेऽपि ज्ञानिनो ब्रह्म प्राप्नुवन्तीति पक्षेsपि किं सर्वेऽपि ब्रह्म सम्यक् समाप्नुवन्ति मुक्तौ ब्रह्मप्राप्ताः सर्वेऽपि समा इति यावत् । उत कश्चिदेव ज्ञानी समश्नुता सम्यक् अश्नुते प्राप्नोति । दीर्घस्त्वाधिक्यार्थः ।इति पृष्टः सन् ब्रह्मा प्रोवाचेति ग्राह्यम् । तत्राज्ञानिनो ब्रह्म नैवाप्नुवन्ति । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिवचनविरोधात् । तस्मात् ज्ञानिन एव ब्रह्म प्राप्नुवन्ति । तत्रापि अखिला अपि ज्ञानिनो ब्रह्माप्नुवन्ति । न केचि - देव । अन्यथा ‘अनियमः सर्वेषाम्' (ब्र.सू. ३.३.३२) 'न कश्चिद् ब्रह्मवित् सृतिमनुभवति' (ब्र.सू.भा. ३. ३.३२ ) इत्यादि प्रमाणविरोधात् । तत्रापि सर्वज्ञानिनो न सम्यक् ब्रह्म समाप्नुयुः किन्तु सम्यक् प्राप्तिर्विरिञ्चस्यैव सर्वदा । अन्येषां तारतम्येन तत्प्राप्तिरित्यभिप्रायेण समासेनोत्तरमाह- उ इर्ति ।। कश्चिदेव सम्यक् तदाप्नुयादिति यदुक्तं तत् उ तथैवेत्यर्थः । कश्चित्समश्नुता इत्येतद्वाक्यानन्तरमेवोक्तत्वादुकार उक्ताभिप्रायक इति ज्ञातव्यम् ।। १३ ।।