भूरित्यग्नौ प्रतितिष्ठति ..
अनिरुद्धादेरग्न्याद्यधिष्ठाने उपास्तिप्रकारनिरूपणम्
तैत्तिरीयोपनिषत्
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥ १६ ॥
भाष्यम्
'अनिरुद्धस्तु भूर्नामा हुताशे 'संव्यवस्थितः ।
प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥ '
'सङ्कर्षणः सुवर्नामा सूर्ये तिष्ठति केशवः ।
महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥'
'स वासुदेवः स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ ।
अनिरुद्धे च संव्याप्तस्ततो वागादिनां पतिः । '
'वागादिषु स्थितो नित्यं भवत्येव जनार्दनः ।।' १६ ॥
भाष्यप्रकाशिका
भूरिति वा अग्निरित्यादिनोक्ताग्न्यादिषोडशाधिष्ठानेषु सामानाधि- करण्येनोक्त्या ऐक्यशङ्कां निवारयन् चतुर्णां स्थानान्तरेऽप्युपास्तिमाह- भूरित्यग्रौ प्रतितिष्ठतीति । 'भूर्नामा हुताशे संव्यवस्थित:' इति भाष्योक्तेः ।
प्रागुक्ताग्निर्गार्हपत्यः । अत्रोक्ताग्निस्त्वाहवनीयः । वायुश्चतुर्मुखपङ्क्तौ पठितत्वान्मुख्यवायुः । प्रागुक्तस्त्वमुख्यः । अतो न पौनरुक्त्यम् । अत्र स्पष्टमधिकरणत्वोक्त्या ‘सप्तसु प्रथमा' इत्यनुशासनात् प्रागुक्तप्रथमा सप्तम्यर्थ इति सूचितम् । ब्रह्मा चतुर्मुखः आदित्यो द्वादशादित्येष्वेकः । अतो न पौनरुक्त्यम् । परिच्छिन्नब्रह्मादिस्थितत्वेन वासुदेवादेरपि परिच्छिन्नत्व- भ्रमनिवारणाय तस्य महिमानमाह - आप्नोतीति ॥ स्वाराज्यं स्वराट् चक्रवर्ती तत्सम्बन्धि जगत् स्वाराज्यं आप्नोति व्याप्नोति । मनसस्पतिं मनोऽभि- मानिनमनिरुद्धं च व्याप्नोति । एवं प्रधानेन्द्रियमनोभिमानिव्याप्तत्वात्, वाक्पतिः वागिन्द्रियस्यापि पतिः, चक्षुष्पति: चक्षुरिन्द्रियस्यापि पतिः, श्रोत्रेन्द्रियस्यापि पतिः । न केवलमेतावत्, किन्तु विज्ञानपतिश्च । विज्ञानतत्त्वाभि- मानिनोस्सरस्वती-ब्रह्मणोरपि पतिरित्यर्थः ॥ १६ ॥
पदार्थदीपिका
पुनरपि भूरादिनामिन अनिरुद्धादेरधिदैवमन्यादावधिष्ठाने उपास्ति- प्रकारमाह- भूरित्यग्नावित्यादिना । तत्र भूरित्यादिशब्दः अग्न्यादौ विषये तद्वाचकत्वेनेति यावत् । प्रतितिष्ठतीत्यन्यथाप्रतीतिवारणाय प्रमाणनैव व्याख्याति- अनिरुद्धस्त्विति ॥ भूर्नामाऽनिरुद्धो हुतमश्नातीति हुताशे अग्नौ संव्यवस्थित इत्यर्थः । भुव इति कीर्तितो भगवान् प्रद्युम्नो वायौ संव्यवस्थित इति तिष्ठतीति वा सम्बन्धः । सुवर्नामा सङ्कर्षण इत्यन्वयः । ब्रह्मशब्द- स्यानेकार्थत्वात् ब्रह्मणीत्यनूद्य चतुर्मुखे स्थ इति व्याख्यातम् । वासुदेवस्य परिच्छिन्ने चतुर्मुखाद्यधिष्ठाने स्थितत्वोक्त्या प्राप्तपरिच्छिन्नत्वशङ्कां वारयितुं तन्महिमानं वक्तुं प्रवृत्तं ‘आप्नोति स्वाराज्यं' इत्यादिवाक्यं व्याचष्टे- स वासुदेव इत्यादिना || स्वाराज्यं स्वस्याधीनतया आसमन्तात् विद्यमानं राज्यं अव्याकृताकाशादिकं जगत् व्याप्नोतीति शेषः । आप्नोति मनसस्पतिमित्यस्यार्थः स्वाराज्यं व्याप्य स्थितत्वादेवास्मिन् देहस्थिते मनसस्पतौ अनिरुद्धे स्वकीये परिच्छिन्ने रूपे च संव्याप्त इति । आप्नोति मनसस्पतिं वाक्पतिरित्यादेर्हेतुहेतुमद्भावमभिप्रेत्यार्थमाह- तत इति । मनसस्पतित्वादेव वागादीनां पतिः इत्यर्थः । नामिदीर्घाभावश्छान्दसः । न राजादिवत् बाह्यत एवास्य वासुदेवस्य वागादिपतित्वमित्यभिप्रेत्य प्रवृत्तस्यैतत्ततो भवतीति वाक्यस्यार्थमाह- वागादिष्विति । तथा च एष वासुदेवरूपी जनार्दन एतदेतेषु वागादिषु ततो नित्यं स्थित इति वाक्यार्थ उक्त भवति । अयं भावः । मनोऽनाधिष्ठितेन्द्रियाणां स्वकार्य- जननाक्षमत्वान्मनोऽधिष्ठितत्वं तावदिन्द्रियाणामपेक्षितम् । मनसि चानिरुद्धस्य सत्त्वेन तेषां तद्व्याप्तत्वप्राप्तौ मनोनामकानिरुद्धे च वासुदेवस्य व्याप्ततयाऽवस्थितत्वेन वागादीन्द्रियेषु वासुदेवस्तिष्ठतीति प्राप्त्या भवति वासुदेवो वागादिपतिरिति ।। १६ ।।