ॐ भृगुर्वै वारुणिः
'भृगुर्वै वारुणि:' इत्यादिमन्त्रखण्डार्थः
ततश्चेयं अक्षरयोजना
तैत्तिरीयोपनिषत्
ॐ भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तग्ं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ॥ १ ॥
श्रीनिवासतीर्थीयखण्डार्थ:
खण्डार्थः।
एवमन्नमयादिपञ्चरूपिणो ब्रह्मण उपास्तिं ब्रह्मवल्यामभिधाय तत्रैव समाख्यात्वेन भृगुवरुणसंवादरूपमाख्यायिकां वक्तुं वेदपुरुषः पूर्वोक्तमेव शान्ति पठति - सहनाववत्वित्यादिना । व्याख्यातम् ।। ।। तामेवाख्यायिकामाह - भृगुर्वै वारुणिरित्यादिना ।। वरुणस्यापत्यं पुमान् वारुणिर्भृगुः । वैशब्देन भृगोर्वरुणपुत्रत्वं प्रसिद्धमित्याचष्टे । पितरं वरुणमुपससार समीपं गतवान् । किं बदन् उपससारेत्यत आह - अधीहीति ।। हे भगवः ‘मतुवसोरुःसम्बुद्धौ छन्दसि' । हे भगवन् पूज्य ब्रह्म परं ब्रह्म अधीहि अध्यापयेति णिजर्थस्यान्तर्णीतत्वात् । एवं पृष्टो वरुणः तस्मै भृगवे एतत् ब्रह्म प्रोवाच उपदिष्टवान् । तदेव दर्शयति - अन्नमित्यादिना ॥ अत्र विज्ञानानन्दौ ग्राह्यौ । पूर्वत्र चक्षुःश्रोत्रवाचो ग्राह्याः । उक्तार्थे समाख्यारूपत्वात् । अत्तृत्वादन्नं प्राणं प्रकृष्टचेष्टकत्वात् चष्ट इति चक्षुः श्रवणात् श्रोत्रं मन्तृत्वान्मनः वक्तृत्वाद्वाक् विवेचनात् विज्ञानं आनन्दरूपत्वादानन्दं एतन्नामकं ब्रह्मे- त्युवाच । वस्तुसिद्धेर्लक्षणाधीनत्वात्तं प्रति ब्रह्मलक्षणमप्युवाच । यथोक्तं सुधायाम्- ‘वरुणोप्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्य' इति । तदेव लक्षणजातं दर्शयति- यत इत्यादिना || जीवन्ति चेष्टन्ते यत्प्रयन्ति प्रलये । अभिस्वेच्छया संविशन्ति मुक्तौ । तद्ब्रह्मेति ज्ञात्वा तद्ब्रह्म विजिज्ञासस्व मनननिदिध्यासनरूपां जिज्ञासां कुर्वित्यर्थः । न श्रवणमात्रेण कृतीभवान् श्रवणमात्रस्य ब्रह्मसाक्षात्कारसाधनत्वात् । साक्षात्कारस्यैव मोक्षहेतुत्वादतः तत्साधनीभूतां जिज्ञासां कुर्विति भावः । एवमुपदिष्टाष्टरूपो भृगुर्युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वादादौ अन्ननामकभगवत्साक्षात्काराय तपः मनननिदि-. ध्यासनरूपं तपो तप्यत चकार । सः भृगुः तपस्तप्त्वा कृत्वा ॥ १ ॥