ॐ सह नाववतु ..

॥ अथ भृगुवल्ली ॥

तैत्तिरीयोपनिषत्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥

विष्णुरेव चक्षुर्मयः श्रोत्रमयः वाङ्मयश्च  
ॐ भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तग्ं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ॥ १ ॥

स तपोऽतप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ २ ॥

स तपोऽतप्यत । स तपस्तप्त्वा । प्राणं ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ३ ॥

स तपोऽतप्यत । स तपस्तप्त्वा । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ४ ॥

स तपोऽतप्यत । स तपस्तप्त्वा । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ ५ ॥

स तपोऽतप्यत । स तपस्तप्त्वा । आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ॥ ६ ॥

सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ७ ॥

अन्नं न निन्द्यात् । तद् व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ८ ॥

अन्नं न परिचक्षीत । तद् व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ९ ॥

भाष्यम्

'चक्षुः स चष्टे यद्विष्णुः श्रोत्रं श्रोतृत्वतो विभुः । वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा ॥ तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात् । ज्ञानानुसन्धानरूपतपसा तं जनार्दनम् ॥ क्रमाद् भृगुर्व्यजानात्तमन्नादिबहुरूपिणम् । एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति ॥ मुक्तो भूत्वाऽन्नवांश्च स्यादन्नादश्च सदैव तु ।अन्ननामा तु भगवान् विद्वांस्तमुपजीवति ॥
तद्वांश्व तेन गुप्तत्वाद् .' १ ९ ॥

पदार्थदीपिका

ॐ एवमन्नादिरूपिणो ब्रह्मण उपास्तिं बह्मवल्यामभिधाय तत्रैव समा- ख्यात्वेन भूगुवरुणसंवादरूपाख्यायिकोच्यते । भूगुर्वै वारुणिरित्यादिना ॥ अत एवात्र विज्ञानानन्दौ ग्राह्यौ । पूर्वत्र चक्षुः श्रोत्रवाचो ग्राह्याः । ननुअन्नं प्राणं चक्षुः श्रोत्रं मनोवाचम्' इति वरुणेनोक्तेष्वन्नादिषु अन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि । अन्नादिशब्दानामत्तृत्वाद्यर्थतया अनुपपत्त्यभावात् । चक्षुः श्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात् । चक्षुरादिशब्दानां चष्टे अनेनेति चक्षुः शृणोत्यनेनेति श्रोत्रं वदत्यनयेति वागिति करणार्थत्वात् । ब्रह्मणश्च कर्तृप्रयोज्यत्वाभावेन करणत्वानुपपत्तेरिति चेन्न । कर्तर्यपि तद्व्युत्पत्ति- सम्भवादित्याह - चक्षुरिति । स विष्णुर्यत् यस्माच्चष्टे पश्यति अतः चक्षुरि-त्यर्थः । तपो ब्रह्मेत्यत्र ब्रह्मणः सन्तापात्मकत्वेन तपःशब्दवाच्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय तपः शब्दं ब्रह्मणि निर्वक्ति- तपो ज्ञान - स्वरूप- त्वादिति || धातूनामनेकार्थत्वादिति भावः । विवेचनादिति त्रिविधजीवानां फलदानेन तद्योग्यताविवेचनादित्यर्थः ।स तपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात्' इत्यादौ निरशनादिरूपशरीरसन्तापात्मकतपसा अन्नं ब्रह्मेति व्यजानादिति प्रतीयते तदयुक्तम् । निरशनादिरूपतपसः साक्षाद् ब्रह्मापरोक्ष- ज्ञानसाधनत्वायोगादित्यतोऽत्र विवक्षिततपः शब्दार्थमाह- ज्ञानेति ॥ अत्र ज्ञानशब्देन श्रवणं ग्राह्यम् । तदनु तदनन्तरभावि । यत्सन्धानं भगवति मनःसन्धानं मननं ध्यानं चेति यावत् । तद्रूपतपसेत्यर्थः । यथोक्तं सुधायाम्- 'अतस्त्वया श्रवणमनननिदिध्यासनरूपं तपःकरणीयम्' इति । तं तं अति- प्रसिद्धं अन्नादिबहुरूपिणं अन्नप्राणाद्यष्टरूपिणं जनार्दनं भूगुर्व्यजाना-दपरोक्षीकृतवानित्यर्थः । बहूनि च तानि रूपाणि च तान्यस्य सन्तीति कर्मधारयादिनिः ।य एवं वेद प्रतितिष्ठति' इत्यत्र एवं वेत्ता यत्र कुत्रचित् भूम्यादौ प्रतितिष्ठतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे एवं विजान- न्निति ।। तमन्नादिबहुरूपिणं विष्णुं एवं ' अन्नाद्धयेव खल्विमानिभूतानि जायन्ते' इत्याद्युक्तप्रकारेण सृष्टचादिकर्तृत्वरूपलक्षणविशिष्टतया इतरविलक्षणतया च जानन्नित्यर्थः । तस्मिंस्तु तस्मिन्नेव तिष्ठति , सायुज्यभाग्भवतीत्यर्थः । मुक्तो भूत्वेति वक्ष्यमाणमत्रापि सम्बध्यते । 'अन्नवानन्नादो भवति' इत्युक्तं न ज्ञानिफलम् । अज्ञानिसाधारण्यादतो व्याचष्टे - मुक्तो भूत्वेति || चशब्दौ परस्परसमुच्चये । तुशब्दोऽन्न- वत्त्वादेर्ज्ञानिन्यतिशयद्योतनार्थः । ननु किमन्नं कीदृशं च ज्ञानिनस्तदत्तृत्व- मित्यत आह- अन्ननामा त्विति || अत्तृत्वादिप्रवृत्तिनिमित्तविशेष- द्योतकस्तुशब्दः । विद्वान् मुक्तः । तथा चान्ननामकभगवदुपजीवकत्वं सदा तदनुसन्धातृत्वमिति यावत् । इदमेव चान्नादत्वम् । इदं च नाज्ञानिसाधारणमिति भावः । अन्नवानित्यस्यार्थमाह- तद्वांश्चेति || अन्ननामकभगवद्वानित्यर्थः । तद्वत्त्वस्य सर्वसाधारण्यपरिहाराय तस्यैवाभिप्रायमाह - तेन गुप्तत्वादिति ॥ सदैवेति वर्तते । तेन अन्ननामकेन भगवता सदैव रक्षितत्वादित्यर्थः । गुपू रक्षण इति धातोः ॥ १-९ ॥