'अथ सोऽभयं गतो भवति' इति मुक्तिप्रस्तावात्
सैषानन्दस्येत्योक्तानन्दमीमांसा मुक्तिसम्बन्धिनी
भाष्यम्
'अथ सोऽभयं गतो भवति' इति मुक्तिप्रस्तावात् 'सैषाऽनन्दस्य मीमांसा' इति मुक्तानन्दो मीमांस्यते । 'श्रोत्रियस्य चाकामहतस्य' इति सर्वत्र विशेषणाच्च । न ह्यमुक्तस्य अकामहतत्वं मुख्यं भवति । न च मुख्या श्रोत्रियता ।
'यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः । स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते ॥ यस्य कामास्तु सत्या: स्युस्स हि कामैर्न हन्यते । न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च ॥' इति ब्रह्माण्डे ।
पदार्थदीपिका
'सैषानन्दस्य' इत्यादिना क्रियमाणानन्दमीमांसा संसार्यानन्दविषयिण्येव न मुक्तानन्दविषयिणीति व्याख्यानं 'विदुषां नियमेन तु । स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता' इति प्रमाणोदाहरणेनैव निरस्य युक्त्यापि निरस्यति - अथेत्यादिना ।। मुक्तानन्दो मीमांस्यत इत्यत्र हेतु :- अथेति । मुक्तिप्रस्तावात् मुक्त्युपक्रमादित्यर्थः । तथा च मुक्तिमुपक्रम्य तत्प्रकरणे अधीतं सैषानन्दस्येति वाक्यं मुक्तानन्दमीमांसापरमेवेति भावः । युक्त्यन्तरं चाह - श्रोत्रियस्य चेति || मनुष्यगन्धर्वानारभ्य सर्वत्रेत्यर्थः । च शब्दः प्रस्तावादित्युक्तयुक्ति- समुच्चायक इति द्रष्टव्यम् । तथा च श्रोत्रियत्वाकामहतत्वयोरन्यत्रामुक्तेऽ- सम्भवात् तद्विशेषणयुक्तो मनुष्यगन्धर्वादिर्मुक्त एवेति तदानन्द एव मीमांस्यत इति भावः । पूर्वटीकाकारास्तु- उदाहृतवाक्येषु प्रतीतो भेदो मुक्तभेद इति कुत इत्यत आह- 'अथेति', इत्येवं 'अथ सोऽभयं गतो भवति' इति मुक्तिप्रस्तावादिति वाक्यं पूर्वग्रन्थशेषत्वेन व्याख्याय सैषेत्यादिवाक्यद्वयन्तु सैषानन्दस्येतन्मुक्तिपरतया व्याख्यातं तत्कुत इत्यतः साधयितुं प्रतिजानीते सैषेति । प्रमाणेन तथा व्याख्यातत्वादिति भावः । युक्त्यन्तरं चाह । श्रोत्रियस्य 'चेति' इति व्याकुर्वते । अत्र चशब्दः पूर्वोदाहृतप्रमाणसमुच्चायक इति ज्ञात- व्यम् । अत्र केचिदाहुः- ‘न श्रोत्रियत्वादिविशेषणबलात् प्रकृतमनुष्य- गन्धर्वादीनां मुक्तत्वं वाच्यम् । अमुक्तानामपि तत्सम्भवात् । ‘श्रोत्रियश्छन्दोऽ–धीते' इति स्मरणात् श्रोत्रियत्वस्य छन्दोऽधिगतिनिमित्तकत्वात् । मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात् विषयवैराग्योपेतत्वात् अकामहताश्च भवन्ति' इति । तत्राह-, नहीत्यादिना । अमुक्तस्येति समुदायापेक्षमेक- वचनम् । अमुक्तानां मनुष्यगन्धर्वादीनामित्यर्थः । ननु तर्हि किं तन्मुख्यं श्रोत्रियत्वमकामहतत्वं च यदुभयममुक्तानामसम्भावितमित्यत आह- यस्येति ॥ श्रुतिफलं मोक्षः । स क इत्यत आह- स हि मुक्त इति ॥ सः श्रुतिफलं प्राप्तो मुख्यः श्रोत्रियो मुक्त इत्येवं हि प्रसिद्धं मुक्तेरेव श्रुतिफल- ; त्वात् । तस्य मुक्तेनैवाप्तत्वादिति भावः । अकामहत इत्यत्रापि स मुक्त इत्यनुवर्तते । कुतो मुक्त एवाकामहत इत्यत आह- सहीति । स मुक्त व कामैर्न हन्यत इत्येतत्प्रसिद्धमित्यर्थः । कुतो न हन्यत इत्यत्र निमित्तमाह- यस्येति || काम्यन्त इति कामाः विषयाः । सत्याः अनायासेन प्राप्ताः ।
एतदुक्तं भवति - कामेनोपद्रवो हि कामहतता । तदभावश्चाकामहतता । कामकृतोपद्रवाभावश्च अनायासेन तद्विषयप्राप्तावेव भवति नान्यथेत्यनु- भवसिद्धम् । अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति । यथोक्तमनुव्याख्याने- 'अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहता' (ब्र.सू.अनु. ३.४.३ श्लो. १६) इति । ननु नायमस्ति नियमो यदाप्तकामस्यैव कामनिमित्तोपद्रवाभावो नान्यथेति । सर्वथा कामाभावेऽपि तन्निमित्तोपद्रवाभावसम्भवात् । एवं च मनुष्यगन्धर्वादिषु आप्तकामत्वाभावेऽपि अकामत्वेनैव निमित्तेनाकामहतत्वं सम्भवतीति चेन्न । प्रकृतमनुष्यगन्धर्वाद्याः न सर्वथा कामरहिताः । असुप्तामूढचेतनत्वात् देवदत्तवदित्यनुमानविरोधादित्याशयवान् अनुमानस्य व्याप्तिमुपपादयति - न हीति || कश्चित् असुप्तामूढचेतनः अकामो न हि दृश्यतेत्यर्थः। घटादौ व्यभिचारवारणाय चेतनत्वादित्युक्तम् । सुप्तमुग्धयोस्तत्परिहाराय
असुप्तामूढेत्युक्तमिति ज्ञातव्यम् । यथोक्तमनुव्याख्याने- ‘चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता' (ब्र.सू. अनु. ३.४.३ श्लो. १६) इति । उक्तं च सुधायाम् - ‘अमुग्धस्येत्यपि द्रष्टव्यम्' इति ।
मायावादिनस्त्वेवमेतां श्रुतिं व्याचक्षते - 'श्रोत्रियस्य चाकामहतस्य' इति वाक्यं न प्रकृतमुक्तानां विशेषणोक्तिपरम् । किन्तु पुरुषान्तरविषयम् । तथा हि- देवेभ्यः इन्द्रस्य शतगुणस्तावदानन्दः यश्च श्रोत्रियः इन्द्रपदे अकामश्च देवपदाकामनिष्ठश्रोत्रियत्वादिगुणापेक्षयाऽधिकश्रोत्रियत्वादिगुणवान् इति यावत् । कश्चिद्विरक्तः पुमानस्ति तस्यापीन्द्रसमान एवानन्दोऽस्ति । स च देवपदाकामश्रोत्रियत्वादिगुणोपेतविरक्तपुरुषानन्दात् शतगुणानन्द एव । एवं पूर्वत्र उत्तरत्र च स्थितस्य श्रोत्रियस्येतिवाक्यस्य योजना द्रष्टव्या । न च विरक्तानां सर्वत्र कामाभावात् कथमियं तारतम्योक्तिरिति । इन्द्रादिपदव्यति- रिक्तोत्तरपदेषु कामसद्भावस्य विवक्षितत्वात् । तथा च यो यो यावदा- यासान्मुक्तोऽसावसौ तावदानन्दवान् इत्यर्थो हि अत्र प्रतिपिपादयिषित: ' इति । तदेतदयुक्तम् । हतशब्दस्य प्रयोजनाभावेन हातव्यतया श्रुतहान- प्रसङ्गात् । तस्मिन्पदे अकामस्य तदुत्तरपदे सकामस्येति च कल्पनीय- त्वेनाश्रुतकल्पनाप्रसङ्गाच्च ।