सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
तैत्तिरीयोपनिषद्भाष्यम्

मङ्गलाचरणम्

तैत्तिरीयोपनिषद्भाष्यम्

सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् ।

सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥
श्री वादिराजयतिविरचितभाष्यप्रकाशिका

भाष्यप्रकाशिका

सुमतिभिरनुमेयं शुभ्रकायं सखायं सुखमयमनपायं मुक्त्युपायं विमायम् ।

नृहयमहममेयं ध्येयमाम्नायगेयं
सदयमसदजेयं श्रीसहायं भजेयम् ।।
॥ श्री श्रीनिवासतीर्थविरचिततैत्तिरीयोपनिषद्भाष्यपदार्थदीपिका ॥

पदार्थदीपिका

ज्ञानानन्दमुखैः सर्वगुणैः पूर्णमभीष्टदम् ।
गुर्वाराधितपादाब्जं भजेऽहं बादरायणम् ।। १ ।।
श्रीमदानन्दतीर्थार्यचरणौ प्रणमाम्यहम् |
रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ॥ २ ॥

श्रुतिक्षीराब्धिमामथ्य धीमन्दरमहीभृता ।

प्राप्ता न्यायसुधा येन तं जयीन्द्रमहं भजे ।। ३ ।।

येन वेदान्तभाष्याणि विवृतानि महात्मना ।

तं वन्दे व्यासतीर्थाव्यं जयराजनिषेवकम् || ||

विद्याधिराजादिमुनीन् तथा वेदेशयोगिनः ।

छान्दोग्यभाष्यसट्टीकाकर्तृन् वन्दे निरन्तरम् ॥ ५ ॥

श्रीमध्वशास्त्रं समुदीर्य मेऽस्मिन् विश्वासहेतोः समदर्शयन्ये ।

प्रदानसूत्रप्रतिपाद्यभावान् वन्दे गुरूंस्तान्यदुवर्यसञ्ज्ञान् ॥ ६ ॥

अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।

तैत्तिरीयोपनिषदां भाष्यं व्याक्रियते मया ||

बुधैरपि सुदुर्बोधे ग्रन्थे यन्मम साहसम् ।

तत्पारयन्तु निपुणाः गुरुपादरजःकणाः ।। ८ ।।
इह् हि विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षो- रधिकारिणः आत्यन्तिकाऽनिष्टनिवृत्तीष्टप्राप्तिहेतुभूतभगवत्स्वरूपज्ञापनाय प्रवृत्तापीयं तैत्तिरीयोपनिषदन्यथाव्याख्यानावरुद्धत्वेन न तज्ज्ञापनासमर्थेति मन्यमानो भगवानानन्दतीर्थमुनिस्तां यथावद् व्याचिख्यासुः स्वयमन्तराय- विधुरोऽपि अनवरतमीश्वरप्रणवकायकरणवृत्तिरपि निरन्तरायप्रारिप्सित- परिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परावगतमेतदुप- निषत्प्रतिपाद्यगुणवद्भगवत्स्तुतिरूपं मङ्गलं शिष्यशिक्षणार्थं कुर्वन्नेव तच्छरणागर्ति प्रार्थयते - सत्यं ज्ञानमित्याद्यपद्येन । एमीत्युत्तमपुरुषपदप्रयोगादेव अहमिति कर्ता लभ्यते । एमि प्राप्नुयाम् । इण् गतावितिधातोः । शरणमिति शेषः । तथा च अहं सत्यत्वादिगुणोपेतं ब्रह्म शरणम् एमि इति क्रिया- कारकसम्बन्धः । स्तुतिपदानां च विशेष्यप्रशंसैव प्रयोजनमिति सिद्धमेव । सत्यादिशब्दार्थस्तु वक्ष्यमाणरीत्यावगन्तव्यः ।सर्वशक्ति' सर्वविषयशक्त्युपेतंएकंस्वगुणरूपाद्यभिन्नम् । 'सर्वैर्देवैः ' एतदुपनिषत्प्रवर्तकैर्ब्रह्मवरुणादिभिःईड्यंस्तुत्यम् ।ईड स्तुतौ' इति धातोः । विष्ण्वारव्यं सर्वत्र प्रविष्टत्वेन विष्णुशब्दवाच्यम् । 'विष्णुः सर्वप्रवेशित्वात्' इति गीताभाष्योक्तेः । ब्रह्मेति विशेष्यनिर्देशः । न मम परब्रह्मशरणागतिप्रार्थनं विघ्नविरहादिप्रयोजनोद्देशेन कादाचित्कम् । किन्तु स्वभावादेवेत्याशयेन उक्तम्- सर्वदेति ॥ अत्र 'सत्यं ज्ञानमनन्तम्' इति सत्यत्वादित्रयं 'आनन्दो ब्रह्म' इत्यनेन 'को ह्येवान्यात्' इत्यादिना च आनन्दत्वं 'इदं सर्वमसृजत' इति सर्वसृष्ट्युक्त्याऽर्थात् सर्वशक्तित्वं 'आनन्दो ब्रह्मेति व्यजनात्' इत्यनेनैव गुणाभिन्नार्थकमेकत्वंस यश्चायं पुरुषे' इत्यादिना रूपाभेदार्थकं चैकत्वं 'तन्नम इत्युपासीत ' इति सर्वदेवेड्यत्वंतत्सृष्ट्वा तदेवानुप्राविशत्' इति विष्णुत्वं चोक्तमिति ज्ञातव्यम् । अधिकार्युत्तमवाय्ववतारभूतस्य भगवत आनन्दतीर्थमुनेः परब्रह्म सुप्रेष्ठमिति प्रसिद्धमेवेति ज्ञातव्यम् । अधिकृतैव हि देवता स्वविषय- ग्रन्थप्रबोधादिकं सम्पादयतीति भावः ।। १ ।।