प्रमा यन्तु ब्रह्मचारिणः स्वाहा ..

शिष्यसम्पत्तिप्रार्थना
तैत्तिरीयोपनिषत्

प्रमा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा ।

शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा ।

श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।

तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥ ११ ॥

यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १२ ॥

भाष्यप्रकाशिका

ब्रह्मचार्यभावे व्याख्यानासम्भवात्तत्प्रार्थनप्रकारमाह-आ मा यन्त्विति ॥ ब्रह्मचारिणोमामां प्रति '' समन्तात् आयन्तु आगच्छन्तु ।इण् गतौ' इति धातोर्लोटि प्रथमपुरुषवचनमिदम् । 'वि मा यन्तु' विविशिष्टतया कुलगोत्रादिभिरन्योन्यं विशिष्टतया च आयन्तु ।

'विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।

अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम् ॥'
इति श्रुतेरकुलीनेषु वेदोपदेशस्यानुचितत्वादेतत्प्रार्थनम् । 'शमो मन्निष्ठता

बुद्धेः' इति वचनाच्छमः विष्णुविषयकनिष्ठा । विष्णुविषयकनिष्ठाभावे तं । प्रति वेदोपदेशायोगादिदं प्रार्थनम् । 'नाभक्ताय कदाचन' (भ.गी. १८.६७) इति गीतोक्तेः । 'दम इन्द्रियनिग्रहः' इति वचनात् 'दमा' इन्द्रियनिग्रह- वन्तः ।इदं ते नातपस्काय' (भ.गी. १९.६७ ) इति गीतायामेवोक्तत्वादिदं प्रार्थनम् । जने जनसमुदाये यश: कीर्तनात् यशो भवानि यशसि स्थितो भवानि । 'अस भुवि' इति धातोर्लोट्युत्तमपुरुषैकवचनमिदम् । 'वस्यसः ' वस्तुं योग्यं वस्यः सुखं, तस्य वस्यसः । सुखविषये इत्यर्थः । 'श्रेयान्' श्रेष्ठः असानि अतिशयितसुखवानसानीति भाव: । स्वस्य सुखाभावेऽप्युप- देशायोगादेतत्प्रार्थनम् ।भग' षड्गुणपूर्ण 'तं त्वा' भगवन्तं त्वामहं प्रविशानि शिष्येषु प्रवचनेन युक्तो भवानीति भावः । त्वय्येवाऽविष्टचित्तो भवानीति वा । हे भग स त्वं मा मां प्रविश मयि सन्निहितो भव । 'न ऋते त्वत्क्रियते' इति श्रुतेः । निभग नितरां भाग्ययुक्त नारायण सहस्रशाखे सहस्रावतारे तस्मिन् त्वयि मृजे 'मृजू शुद्धौ' इति धातोर्दोषाणां प्रक्षालनवानसानी- त्यर्थः । एतैर्मन्त्रैः प्रत्येकमग्निमुखे आहुतिर्देयेति भावेन सर्वत्र स्वाहेत्युक्तम्
॥ ११ ॥
शिष्या अप्यप्रयत्नेनाऽयन्त्विति भावेनाह - यथाऽप इति ॥ पर्वतोन्नतदेशेनाऽपः यथाऽऽयन्ति, मासाः अहानि जरयतीति अहर्जर : संवत्सरः तं यथाऽऽयन्ति, एकैकस्मिन् वत्सरे द्वादश द्वादश मासा अनायासेन मच्छन्ति, एवं हे धातर्ब्रह्मचारिणो मां सर्वतः अष्टदिग्भ्योऽप्यायन्तु । प्रतिवेशः प्रति मां प्रति वेश: विशत इति व्युत्पत्त्या वेश: प्रवेशयोग्योऽसि । मम योग्यजीवत्वात् तव दयालुत्वाच्च मां प्रविश्य नय नियमय नियन्तुं योग्ये मयि सतीति भावः ।योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयति' इति स्मृते: । 'प्र मा भाहि' प्र प्रकर्षेण मा मां भाहि । 'भा दीप्तौ ' इति धातोःभासयब्रह्मवर्चसवन्तं कुर्विति भाव: । ' उद्दीप्यस्व जातवेद' इति श्रुते: । 'प्र मा पद्यस्व' प्र प्रकर्षेण मा मां पद्यस्व आप्तो भव । इतरेभ्योऽ- धिकसन्निधानं कुर्वित्यर्थः ॥ १२ ॥

Load More