ॐ ब्रह्मविदाप्नोति परम् ..
ब्रह्मस्वरूपनिरूपणम्
तैत्तिरीयोपनिषत्
ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह । ब्रह्मणा विपश्चितेति ॥ २ ॥
भाष्यम्
'स्वयोग्यं ब्रह्मविद् भुङ्क्ते विरिश्चेन परेण च ।
ब्रह्मणा सह तद्वश्यः सुखमेव न दुष्कृतम्' ॥ इति च ॥ २ ॥
भाष्यप्रकाशिका
यदर्थं नियमा उक्ता अधुना तामेव ब्रह्मविद्यामाह - ब्रह्मविदित्या - दिना ।। ‘परं ब्रह्मवित्’ परं ब्रह्माऽप्नोतीति पूर्वोत्तब्रह्मपरशब्दयोरन्योन्यानुषङ्गेन योजना । उपास्यप्राप्ययोरैकविध्यावश्यम्भावात् । न ह्यन्योपास्त्याऽन्य- प्राप्तिर्भवति । तत् प्रागुक्तं ब्रह्म अभि प्रति एषा स्वरूपलक्षणवेदन- प्रकारफलनिरूपणपरा विद्या उक्ता वेदान्तविद्याकोविदैर्मुनिभिरुक्तेत्यर्थः । किं लक्षणकं ब्रह्म? कथं च तद्वेदनं ? सर्वदा विद्यमानस्येदानीमपि प्राप्तिसद्भावात् का च तत्प्राप्ति; ? इति शङ्कात्रयपरिहारायाऽह - 'सत्यम्' इत्यादिना ।। अत्र सत्यत्वं न पारमार्थिकत्वमात्रम् । ज्ञानत्वं च न ज्ञानत्व- मात्रम् । अनन्तत्वं च नान्ताभावमात्रम् । कुलाले जीवज्ञाने आकाशे चातिव्याप्तेः । ‘जन्माद्यस्य यतः' इति वेदनिर्णायकव्याससूत्राननुगुण- त्वाच्च । अतः सत्त्वं प्रागसत: सत्तारूपजनिं सत्त्वं सद्भावरूपस्थितिं, 'षद्ऌ विशरपगत्यवसादनेषु' इति धातोः सत्त्वमवसादनरूपसंहारं यापयतीति व्युत्पत्त्या, विशेषानुक्तेः संकोचे कारणाभावाच्च सकलजगत्स्रष्टृत्वं सकलजगत्पालकत्वं सकलजगत्संहर्तृत्वं चेति व्याससूत्रोक्तलक्षणत्रयं सत्यपदेन सङ्गृहीतम् । ज्ञानपदेन कर्तर्यपि ल्यटोऽनुशासनाद्विशेषानुक्तेः संकोचे कारणाभावान्निरवधिकसर्वज्ञातृत्वरूपं सृष्ट्याद्युपयोगितया सूत्रकृत एवाभिप्रेतं लक्षणान्तरमुदितम् । अनन्तपदेन च सृष्ट्युपयुक्ततया 'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुत्युक्तं ‘आनन्दमयोऽभ्यासात्' इति सूत्रोक्तं चाऽनन्देनान्त- रहितत्वाख्यमानन्दपूर्णत्वं च पञ्चमं लक्षणमुदितम् । एवं च शक्त्यादिगुणाभावे सृष्ट्ययोगात् सार्वदेशिकसार्वकालिकसृष्टेः देशकालव्याप्त्यभावे अयोगेन च सूत्रश्रुत्युक्तानन्दपदस्य सृष्ट्युपयुक्तसर्वगुणोपलक्षणत्वसम्भवाच्च देशतः कालतो गुणतोऽन्तराहित्यं सर्वशक्त्यादिगुणैरनन्तत्वे पर्यवस्यति ॥ अतो ‘महद्गुणत्वाद्यमनन्तमाहुः' इति स्मृतिरप्यनुकूलैवाऽसीदिति ज्ञेयम् । गुहायां जीवहृदयगुहायां परमे व्योमन् व्योम्नि निहितं वेद, न तु जीवतादात्म्येनेति तु वेदनप्रकार उक्तः । स ज्ञानी ब्रह्मणा विरिचेन ब्रह्मणा परब्रह्मणा च सह काम्यन्त इति कामाः स्वयोग्यसुखानि तानश्रुत इति फलनिरूपणम् । एवं च प्राप्तिमात्रस्य पूर्वं विद्यमानत्वेऽपि स्वोचितसकलसुखानुभवानुकूलप्राप्तेः प्रागभावादपूर्वतया फलवत्त्वोपपत्तिः ।। ब्रह्मणैकीभवतीति परकीय- दुराशाखण्डनाय सहेत्युक्तम् । ब्रह्मणा ब्रह्मभावेन सह युगपत् सर्वान् कामानश्नुत इति व्याख्यानम् तु सहशब्दस्य यौगपद्यार्थे अनुशासनाभावेन श्रुतहान्यश्रुतकल्पनारूपत्वात् तूष्णीं भावप्रधानपरत्वकरणे कारणाभावात् तन्मते मुक्तौ सर्वकामाभावाच्चानुपपन्नम् । यदत्रोक्तं परेण सर्वजीवात्मकब्रह्मभावे सर्वजीवयोग्यकामानामपि सत्वात् सर्वकामाशनोपपत्तेरिति, तदतितुच्छम् । सर्वजीवैर्नरकादिष्वनुभूयमानानन्तानन्तदुःखानामप्यनुभवप्रसङ्गेन मुक्तेः संसारादप्यतिनीचत्वप्रसङ्गात् ।। ब्रह्मणा सहेत्युक्त्या ब्रह्मणोऽप्राधान्य- शङ्कापरिहाराय ‘तद्वश्यः’ इत्युक्तम् ।। यज्ज्ञानात्स्वयं मुक्तोऽभूत् तदप्राधान्यस्य शङ्कितुमशक्यत्वात् ।। सहेति प्रयोगस्तु भृत्यैः सह राजाऽऽगत इतिवत् तद्वश्यतामेवाऽहेति भावः । न हि 'पत्या सहधर्मिणी' 'भार्या पत्या सह शेते' ‘पत्या सह भुङ्क्ते' इत्यादौ पत्युरप्राधान्यं कापि दृष्टमिति भावः
॥२॥
पदार्थदीपिका
अथ भाष्यार्थ:-
यदर्थं विघ्नपरिहारिणी शान्तिः पठिता तामेव ब्रह्मविद्यामाह - ब्रह्मविदाप्रोति परमित्यादिना ।। अप्रतिपत्तिविप्रतिपत्तिनिरासायाऽदौ तावत् ब्रह्मवल्लीं प्रमाणेनैव सम्यग्व्याचष्टे- स्वयोग्यमित्यादिना || तत्रादी 'सोऽश्नुते' इति वाक्यं व्याचष्टे- स्वयोग्यमिति || ' स' इत्यस्यार्थः ब्रह्मविदिति । 'सर्वान् कामान्' इत्यस्यार्थः स्वयोग्यं सुखमेवेति । तद्व्यावर्त्य प्रदर्शनं नेति । ‘अश्नुत’ इत्यस्यार्थः भुङ्क इति । ' ब्रह्मणा' इत्यनूद्य तस्य विरिञ्चेन परेण चेत्यर्थद्वयकथनम् । ‘सह’ इत्यनूद्य तस्याभिप्राय उक्तस्तद्वश्य इति ।