य एवं समुप्रासीत तस्यान्नाख्यो हरिः स्वयम्
सर्वदृष्टये पूर्वे वयसि ब्रह्मोपास्यम्
भाष्यम्
य एवं समुप्रासीत तस्यान्नाख्यो हरिः स्वयम् ॥
सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः ।
य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम् ॥
सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः ।
यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाऽप्यतेऽग्रतः ॥
मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति ।
वार्धक्ये वेद् विजानाति मुक्तः पादौ प्रपश्यति ॥
तेजोमण्डलमेवान्यत् अङ्गं विष्णोः प्रपश्यति ।
पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये ॥ १० ॥
पदार्थदीपिका
'अराध्यस्मा अन्नम्' इत्येतद्व्याचष्टे - य एवमिति । अराधीत्यस्यार्थः सिद्ध इति । अपरोक्षतो ज्ञात इत्यर्थ: । 'राध साध संसिद्धौ' इति धातोः । सम्यक् सिद्धिश्चापरोक्षज्ञानमेवेति भावः । आचक्षत इत्यत्र कर्तृपूरणं विद्वांस इति ! परिनिष्ठिताः एतत्प्रमेये । 'परिनिष्ठा विनिश्चयः' इति वचनात् सम्यक् निश्चयवन्तः । आग्रहविशेषवन्त इति यावत् । ' एतद्वै मुखतः' इति वाक्यमप्रतीतेर्व्याचष्टे - यस्येति ॥ येनेत्यर्थः । आप्यते प्राप्यत इत्यर्थः । मुखत इत्यस्यार्थः पूर्वमिति । पूर्वस्मिन् वयसीत्यर्थः । बाल्य इति यावत् । राद्धमित्यस्यार्थः संसिद्धमिति । सम्यक् ज्ञातं श्रवणाय प्रारब्धमिति यावदिति सम्प्रदायः । ‘मुखतोस्मान्नाध्यते' इति वाक्यमप्रतीतेर्व्याचष्टे - तेनेति ॥ अस्मा इत्यस्यार्थः तेनेति । मुखत इत्यस्यार्थोऽग्रत इति ।। राध्यत इत्यस्यार्थः आप्यत इति । तथा च मुखतः अग्रतः । तसेः सार्वविभक्तिकत्वादग्रतोऽ- ग्रम् । मुखमिति यावत् । आप्यते अपरोक्षीक्रियते । अनन्तरं मुक्तावपि तथैव पश्यतीति द्रष्टव्यम् । 'एतद्वै मध्यतोऽन श्राद्धम्' इत्येतद् व्याचष्टे - मध्ये वयसीति । तत्र मध्यत इत्यस्यार्थो मध्ये वयसीति । सिद्धं ज्ञातं श्रवणाय प्रारब्धमिति यावत् । ‘मध्यतोस्मान्नराध्यत' इत्येतद्व्याचष्टे - मुक्त इति ॥ मध्यत इत्यस्यार्थे मध्यमिति । राध्यत इत्यस्यार्थः प्रपश्य- तीति । मध्यं प्रपश्यति सम्यक् साक्षात्करोति । एवमपरोक्षज्ञानानुसारेणैव मुक्तोऽपि मध्यमेव सम्यक् प्रपश्यतीति योज्यम् । एतद्वा अन्ततोऽन्न - राद्धम्' इत्येतद्व्याचष्टे- वार्धके चेदिति ॥ अन्तत इत्यस्यार्थो वार्धक इति । राद्धमित्यस्यार्थो विजानातीति । श्रवणाय प्रारब्धमिति यावत् । 'अन्ततोऽस्मान्नाध्यते' इत्यत्रान्तत इत्यस्यार्थः- पादाविति ॥ राध्यत इत्यस्यार्थः प्रपश्यतीति । सम्यगपरोक्षीकरोति । एवमेव मुक्तोऽपि प्रपश्यतीति योज्यम् । नन्वेवमपरोक्षज्ञानकाले मुक्तौ च मुखादिमात्रदर्शने इतराङ्गदर्शनाभाव एव किमित्याशङ्कायां तत्र विशेषमाह - तेजोमण्डलमेवेति । यदङ्गं स्पष्टं पश्यति तदन्यदङ्गं तेजोमण्डलमेव तेजःपुञ्जमेव पश्यति न स्पष्टमित्यर्थः । य एवं वेदेत्येतन्नोक्तानुवादरूपम् । उत्तरत्र फलानुक्तेरित्यभिप्रेत्य तद्वाक्यं व्याचष्टे- पूर्वे वयसीति ।। आमुखात् मुखमारभ्य । सर्वदृष्टये सर्वावयवदृष्टये अनेन श्रुतौ य इत्यनन्तरं सर्वावयवापरोक्षज्ञानकामः स्यादिति शेषः पूरणीय इत्युक्तं भवति । एवमित्यस्यार्थः- पूर्वे वयसीति ॥ पूर्वं वयः समारभ्य वार्धक- पर्यन्तमित्यर्थः । वेदेत्येतद् व्यत्ययेन विधिरूपतया व्याख्येयमिभिप्रेत्य बोद्धव्य- मिति तव्यप्रत्ययप्रयोग इति ज्ञातव्यम् ।
अयमिह सम्प्रदायः। ‘विद्युद्वन्मानुषा विद्युः' इति वचनात् यः सात्विक- प्रकृतिर्मनुष्योत्तमोऽनादिकालादारभ्य भगवज्ज्ञानशून्यो भगवदनुग्रहेणैव दैवादादौ बाल्य एव लब्धसत्सङ्गतिस्तद्वशादन्यदगणयन् स्थितो बाल्य एव श्रवणादियत्नं कृत्वा पश्चात्परित्यक्तवान् स एवमनेकजन्मभिः सिद्धस्सन् यदि भगवद्रूपं योग्यतापरिपाककाले पश्यति तर्हि मुखमेव सम्यगेव अपरोक्षीकरोति । इतराङ्गं तेजःपुञ्जमेव पश्यति न सम्यक् । एवं मुक्तावपि । यदि सात्विकप्रकृतिः पुमान् मध्ये वयसि सत्सङ्गतिं लब्ध्वा श्रवणादियत्नाय प्रारब्धवान् पश्चाच्च परित्यक्तवान् तर्हि सः योग्यतापरिपाकानन्तरं अपरोक्षज्ञानकाले मध्यमेवादौ सम्यक् प्रपश्यति इतराङ्गं तु तेजःपुञ्जमेव पश्यति
न सम्यक् । एवं मुक्तावपि । यदि च सात्विकप्रकृतिः पुमान् वार्धके सत्सङ्गतिं लब्ध्वा श्रवणादियत्नाय प्रारब्धवान् सः अपरोक्षज्ञानसमये पादावेवादौ सम्यक् प्रपश्यति । इतराङ्गं तु तेजः पुञ्जमेव पश्यति न सम्यगक् एवं मुक्तावपीति । उपासनाप्रारम्भपरमिदमित्याहुः || १० ||