न च भेददर्शनमसुकरम्
भेदस्य धर्मिस्वरूपत्वसमर्थनम्
भाष्यम्
न च भेददर्शनमसुकरम् । स्वरूपत्वात् भेदस्य ।
पदार्थदीपिका
ननु भेदः कोऽपि न प्रामाणिकः । न च प्रत्यक्षत एव घटादिभेदः सिद्ध इति वाच्यम् । अन्योन्याश्रयादिदोषदुष्टत्वेन भेददर्शनस्यासुकरत्वात् । तथाहि- भेदः किं द्विष्ठो वा उत एकनिष्ठो परनिरूप्यः । आद्ये भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटविशेषणतया वा घटपटयोर्भेद इति घटपटविशेष्यतया बा प्रत्येतव्यः । भेद इत्येवाप्रतीतेः । द्वितीये तु घटात् पटो भिन्न इति वा घटात्पटस्य भेद इति वा घटप्रतियोगिकतया पटधर्मिकतया भेदग्रहणमेष्ट-
व्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदज्ञानापेक्षम् । न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं भेदरूपविशेष्यज्ञाने तद्विशेषणतया द्वित्वावच्छिन्नघटपटज्ञानम्, द्वित्वप्रतीतेर्भेदज्ञानकार्यत्वात् । द्वित्वावच्छिन्नघटपटज्ञाने च भेदज्ञानम्, ससम्बन्धिकपदार्थप्रतीतेः सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानकार्यत्वात् इत्यन्योन्याश्रयत्वम् । “तथा धर्मिप्रतियाँगिज्ञाने सति भेदज्ञानम् । तस्य तज्जन्यत्वात् । भेदज्ञाने सत्येव धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते । तथात्वे घटाद्भटस्य भेद इत्यपि प्रतीतिः स्यात् । नच परस्पराश्रयाणि कार्याणि सम्भवन्ति । किञ्च प्रत्यक्षं भेदमेव गोचरयेदुत वस्त्वपि । नाद्यः । भेद इत्येवाप्रतीतेः । द्वितीयेऽपि किं भेदपूर्वं वस्तुगोचरयेदुत वस्तुपूर्वं भेदम् । युगपदुभयं वा । नाद्यः, भेद इत्येवाप्रतीतेरिति दत्तोत्तरत्वात् । बुद्धेर्विरम्यव्यापारायोगाच्च । अत एव न द्वितीयः । नापि तृतीयः । वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगात् । किञ्च पटो भिन्न इति विशेषणविशेष्यभावप्रतीतेः तस्याश्च भेदप्रतीत्यधीनत्वस्य दण्डिनि चैत्रादौ दर्शनेन भेदप्रतीतिपरम्परयाऽनवस्था स्यात् । किञ्च किमयं भेदो भिन्नमेव धर्मिणं परिरभते उताभिन्नम् । नाद्यः । अनन्तभेदाभ्युपगमप्रसङ्गात् । अन्यथात्माश्रयाद्यापातात् । सन्त्वनन्तभेदाः किं नश्छिन्नमिति चेन्न । ते अनन्ता अपि भेदाः किं क्रमेण धर्मिणं परिरम्भन्ते उत युगपत् । नाद्यः । क्रमेण परिरम्भमाणानन्तभेदसम्बन्धाय धर्मिणोऽनादिनित्यतापातात् । नच भेदानन्त्यं प्रामाणिकम् । येन तदङ्गीकारः स्यात् । न द्वितीयः । भिन्ने भेद- स्थितिरिति पक्षक्षतेः । भेदसम्बन्धं बिना भिन्नत्ववाचोऽयुक्तेरयुक्तत्वात् । तत्सम्बन्धेनैव भिन्नत्वे त्वेकैकेन भेदेन विशिष्टे एकस्य भेदस्य स्थितौ
व्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदज्ञानापेक्षम् । न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं भेदरूपविशेष्यज्ञाने तद्विशेषणतया द्वित्वावच्छिन्नघटपटज्ञानम्, द्वित्वप्रतीतेर्भेदज्ञानार्यत्वात् । द्वित्वावच्छिन्नघटपटज्ञाने च भेदज्ञानम्, ससम्बन्धिकपदार्थप्रतीतेः सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानकार्यत्वात् इत्यन्योन्याश्रयत्वम् । तवा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम् । तस्य तज्जन्यत्वात् । भेदज्ञाने सत्येव धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते । तथात्वे घटाद्घटस्य भेद इत्यपि प्रतीतिः स्यात् । नच परस्पराश्रयाणि कार्याणि सम्भवन्ति । किञ्च प्रत्यक्षं भेदमेव गोचरयेदुत वस्त्वपि । नाद्यः । भेद इत्येवाप्रतीतेः । द्वितीयेऽपि किं भेदपूर्वं वस्तुगोचरयेदुत वस्तुपूर्वं भेदम् । युगपदुभयं वा । नाद्यः, भेद इत्येवाप्रतीतेरिति दत्तोत्तरत्वात् । बुद्धेर्विरम्यव्यापारायोगाच्च । अत एव न द्वितीयः । नापि तृतीयः । वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगात् । किञ्च पटो भिन्न इति विशेषणविशेष्यभावप्रतीतेः तस्याश्च भेदप्रतीत्यधीनत्वस्य दण्डिनि चैत्रादौ दर्शनेन भेदप्रतीतिपरम्परयाऽनवस्था स्यात् । किञ्च किमयं भेदो भिन्नमेव धर्मिणं परिरभते उताभिन्नम् । नाद्यः । अनन्तभेदाभ्युपगमप्रसङ्गात् । अन्यथात्माश्रयाद्यापातात् । सन्त्वनन्तभेदाः किं नश्छिन्नमिति चेन्न । ते अनन्ता अपि भेदाः किं क्रमेण धर्मिणं परिरम्भन्ते उत युगपत् । नाद्यः । क्रमेण परिरम्भमाणानन्तभेदसम्बन्धाय धर्मिणोऽनादिनित्यतापातात् । नच भेदानन्त्यं प्रामाणिकम् । येन तदङ्गीकारः स्यात् । न द्वितीयः । भिन्ने भेद- स्थितिरिति पक्षक्षतेः । भेदसम्बन्धं विना भिन्नत्ववाचोऽयुक्तेरयुक्तत्वात् । तत्सम्बन्धेनैव भिन्नत्वे त्वेकैकेन भेदेन विशिष्टे एकस्य भेदस्य स्थितौ
नियामकाभावेन तेषां कलहानैकोऽपि भेदो विशिष्येत् । न द्वितीयः । विरोधा- देव । किञ्च भेदः किं स्वरूपं धर्मो वा । नाद्यः । ‘सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः । एकाभावादसंदेहान्न रूपं वस्तुनो भिदा' (तत्त्वप्रकाशिका पृ. १६७) । किञ्च भेदस्य घटस्वरूपत्वे घटभेदशब्दयोः पर्यायत्वमन्यतर- परिशेषश्व स्यात् । न द्वितीयः । किञ्च पटो भिन्न इत्युक्तरीत्या अनवस्था- पातात् । तस्माद् भेदस्वरूपस्य विचारासहत्वेन तद् दर्शनस्यासुकरत्वात् । अविचारितरमणीयाविद्याविलसित एवायं भेद इति ।
तदेतत्प्रतिषेधति - न चेति । अयंभावः । किं भेदस्य दर्शनमेव निरा- क्रियते । उत तस्य कारणजन्यत्वम् । अथ निर्दोषकरणजन्यत्वम् । नाद्यः । यदि भेदो दृश्येत तदा अन्योन्याश्रयत्वादिकं स्यादित्यापादने भेददर्शन- स्योभयसम्मतत्वेन विपर्ययापर्यवसानात् । भेदभ्रमनिरासाय वेदान्तश्रवणाद्य- योगाच्च । न द्वितीयः । तत्किमजन्यतया स्यात् उतातत्कारणजन्यतया वा । नाद्यः । भेदप्रतीतेर्नित्यत्वापत्त्या स्वप्रातिकूल्यचरणापातात् । न द्वितीयः । तदुत्पादकस्यैव तत्कारणत्वेन व्याघातात् । तृतीयेऽपि किं तर्केण सदोष- त्वाध्यवसायः अथ स्फुटतरबाधकवशात् । नाद्यः । वेदान्तवाक्यजन्यज्ञान- विषयस्यैक्यस्याप्यविश्वसनीयतापातात् । त्वदुक्ततर्काणां वक्ष्यमाणरीत्या ऐक्येपि प्रसरात् । कश्चात्र भेदप्रत्यक्ष दोषः । अविद्येति चेत् तर्हि सैव वेदान्तानामपि मूलमिति किं निबन्धनः प्रत्यक्षे प्रद्वेषः । न द्वितीयः । निरवकाशस्य तस्यानुपलम्भात् । तत्त्वमसीत्यादेस्तत्र तत्र सम्यग्व्याख्यात- त्वात् ।
किञ्च कल्प्यमानमपि बाधकं किं भेदमेव गोचरयेद् उताभेदम् । यद्वा यत्किञ्चित् । निरालम्बनबाधायोगात् । नाद्यः । साधकत्वात् । द्वितीयेऽपि तदभावस्तद्विरोधी तदन्यो वा नञर्थो वाच्यः । पक्षत्रयेऽपि दुष्परिहरो भेदः ।
व्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदज्ञानापेक्षम् । न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं भेदरूपविशेष्यज्ञाने तद्विशेषणतया द्वित्वावच्छिन्नघटपटज्ञानम्, द्वित्वप्रतीतेर्भेदज्ञानकार्यत्वात् । द्वित्वावच्छिन्नघटपटज्ञाने च भेदज्ञानम्, ससम्बन्धिकपदार्थप्रतीतेः सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानकार्यत्वात् इत्यन्योन्याश्रयत्वम् । “तथा धर्मिप्रतियाँगिज्ञाने सति भेदज्ञानम् । तस्य तज्जन्यत्वात् । भेदज्ञाने सत्येव धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते । तथात्वे घटाद्भटस्य भेद इत्यपि प्रतीतिः स्यात् । नच परस्पराश्रयाणि कार्याणि सम्भवन्ति । किञ्च प्रत्यक्षं भेदमेव गोचरयेदुत वस्त्वपि । नाद्यः । भेद इत्येवाप्रतीतेः । द्वितीयेऽपि किं भेदपूर्वं वस्तुगोचरयेदुत वस्तुपूर्वं भेदम् । युगपदुभयं वा । नाद्यः, भेद इत्येवाप्रतीतेरिति दत्तोत्तरत्वात् । बुद्धेर्विरम्यव्यापारायोगाच्च । अत एव न द्वितीयः । नापि तृतीयः । वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगात् । किञ्च पटो भिन्न इति विशेषणविशेष्यभावप्रतीतेः तस्याश्च भेदप्रतीत्यधीनत्वस्य दण्डिनि चैत्रादौ दर्शनेन भेदप्रतीतिपरम्परयाऽनवस्था स्यात् । किञ्च किमयं भेदो भिन्नमेव धर्मिणं परिरभते उताभिन्नम् । नाद्यः । अनन्तभेदाभ्युपगमप्रसङ्गात् । अन्यथात्माश्रयाद्यापातात् । सन्त्वनन्तभेदाः किं नश्छिन्नमिति चेन्न । ते अनन्ता अपि भेदाः किं क्रमेण धर्मिणं परिरम्भन्ते उत युगपत् । नाद्यः । क्रमेण परिरम्भमाणानन्तभेदसम्बन्धाय धर्मिणोऽनादिनित्यतापातात् । नच भेदानन्त्यं प्रामाणिकम् । येन तदङ्गीकारः स्यात् । न द्वितीयः । भिन्ने भेद- स्थितिरिति पक्षक्षतेः । भेदसम्बन्धं बिना भिन्नत्ववाचोऽयुक्तेरयुक्तत्वात् । तत्सम्बन्धेनैव भिन्नत्वे त्वेकैकेन भेदेन विशिष्टे एकस्य भेदस्य स्थितौ
नियामकाभावेन तेषां कलहानैकोऽपि भेदो विशिष्येत् । न द्वितीयः । विरोधा- देव । किञ्च भेदः किं स्वरूपं धर्मो वा । नाद्यः । ‘सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः । एकाभावादसंदेहान्न रूपं वस्तुनो भिदा' (तत्त्वप्रकाशिका पृ. १६७) । किञ्च भेदस्य घटस्वरूपत्वे घटभेदशब्दयोः पर्यायत्वमन्यतर- परिशेषश्व स्यात् । न द्वितीयः । किञ्च पटो भिन्न इत्युक्तरीत्या अनवस्था- पातात् । तस्माद् भेदस्वरूपस्य विचारासहत्वेन तद् दर्शनस्यासुकरत्वात् । अविचारितरमणीयाविद्याविलसित एवायं भेद इति ।
तदेतत्प्रतिषेधति - न चेति । अयंभावः । किं भेदस्य दर्शनमेव निरा- क्रियते । उत तस्य कारणजन्यत्वम् । अथ निर्दोषकरणजन्यत्वम् । नाद्यः । यदि भेदो दृश्येत तदा अन्योन्याश्रयत्वादिकं स्यादित्यापादने भेददर्शन- स्योभयसम्मतत्वेन विपर्ययापर्यवसानात् । भेदभ्रमनिरासाय वेदान्तश्रवणाद्य- योगाच्च । न द्वितीयः । तत्किमजन्यतया स्यात् उतातत्कारणजन्यतया वा । नाद्यः । भेदप्रतीतेर्नित्यत्वापत्त्या स्वप्रातिकूल्यचरणापातात् । न द्वितीयः । तदुत्पादकस्यैव तत्कारणत्वेन व्याघातात् । तृतीयेऽपि किं तर्केण सदोष- त्वाध्यवसायः अथ स्फुटतरबाधकवशात् । नाद्यः । वेदान्तवाक्यजन्यज्ञान- विषयस्यैक्यस्याप्यविश्वसनीयतापातात् । त्वदुक्ततर्काणां वक्ष्यमाणरीत्या ऐक्येपि प्रसरात् । कश्चात्र भेदप्रत्यक्ष दोषः । अविद्येति चेत् तर्हि सैव वेदान्तानामपि मूलमिति किं निबन्धनः प्रत्यक्षे प्रद्वेषः । न द्वितीयः । निरवकाशस्य तस्यानुपलम्भात् । तत्त्वमसीत्यादेस्तत्र तत्र सम्यग्व्याख्यात- त्वात् । किञ्च कल्प्यमानमपि बाधकं किं भेदमेव गोचरयेद् उताभेदम् । यद्वा यत्किञ्चित् । निरालम्बनबाधायोगात् । नाद्यः । साधकत्वात् । द्वितीयेऽपि तदभावस्तद्विरोधी तदन्यो वा नञर्थो वाच्यः । पक्षत्रयेऽपि दुष्परिहरो भेदः ।
भेदाभावादिग्राहिणापि बाधकेन प्रतियोगिविलक्षणतयैव स्वविषयस्य ग्राह्यत्वेन भेदस्य दुष्परिहरत्वात् । नापि तृतीयः । अविरोधेन बाधकत्वायोगात् । किञ्च नायं भेद इति वा नास्त्यत्र भेद इति वा अन्यदेव भेदात्मना प्रत्यभादिति वा बाधकज्ञानेन भवितव्यम् । नेदं रजतमित्यादिवत् । तदेतत्सर्वथा भेदावगाहीति कथं तद्बाधकमिति । तदेतत्सर्वं भेददर्शनमसुकरं न, किन्तु सुकरमेवेत्यनेन सूचितम् । तेन परपक्षे बाधकानां सूचितत्वात् । ननु तथापि अन्योन्याश्रय- त्वादिदोषपरिहारोपायः क इत्यतो भेददर्शनस्यासुकरत्वाभावे हेतुमाह- स्वरूपत्वादिति ।। धर्मिस्वरूपत्वादित्यर्थः । भेदो धर्मिस्वरूपमेव । तेन धर्मिप्रतीतेरेव भेदप्रतीतिरिति प्रतीतिद्वयाभावान्नान्योन्याश्रयत्वमिति भावः। प्रतियोगिप्रतीत्यपेक्षयाऽन्योन्याश्रयत्वं तु स्वयमेवाचार्यः परिहरिष्यति ।
यदुक्तं प्रत्यक्षं किं भेदमेव गोचरयेदित्यादि । तत्र युगपदुभयं गोचरयतीति ब्रूमः । न च वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगः । भेदस्य वस्तुस्वरूपत्वेन वस्तुप्रतीतिरेव भेदप्रतीतिरित्यङ्गीकारात् । अन्यथा बिम्ब- प्रतिबिम्बयोरभेदग्राहिप्रत्यक्षं जीवब्रह्मणोरभेदग्राहिश्रुत्यादिकं च किमभेदमेव गोचरयेत् उत वस्त्वपीत्याद्यापातः । यदप्युक्तं 'किञ्च पटो भिन्न:' इत्यादि तदयुक्तम् । भेदस्य धर्मिस्वरूपत्वेनानवस्थाभावात् । न च तथात्वे विशेषणविशेष्यभावानुपपत्तिः । सविशेषाभेदाङ्गीकारेणोपपत्तेः । अन्यथा जीवाभिन्नं ब्रह्मेत्यादावपि विशेषणविशेष्यभावानुपपत्तिः । यच्चोक्तं किमयं भेदः' इत्यादि, तदपि तुच्छम् । भेदस्य धर्मिस्वरूपत्वेन धर्मिणं परिरभ्यैव भेदो जात इत्यङ्गीकारात् । ननु धर्मिणा सहैव धर्मोत्पत्त्यङ्गीकारे गुणिना सहैव गुणोत्पत्तिरप्यङ्गीकार्या स्यात् । तथा च ' उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति' इति कल्पनावैयर्थ्यं गुणेष्वपि धर्मन्यायस्यैव कल्पनीयत्वादिति चेन्न । नैयायिकं प्रत्येवास्य आपाद्यत्वेनास्मान्प्रति असम्भवात् । गुणवदुपादानमेव गुणवदुपादेयाऽऽत्मना परिणमत इत्यङ्गीकारात् ।