ॐ सह नाववतु ..

ब्रह्मवल्ली
॥ अथ ब्रह्मवल्ली ॥

विघ्नविघातार्थं शान्तिमन्त्राः
तैत्तिरीयोपनिषत्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

श्रीनिवासतीर्थीयखण्डार्थ:

खण्डार्थः
यद् ब्रह्मविद्याप्राप्त्यर्थं पूर्वसम्पादनीया विद्या निरूपिता । तामेव विद्यां वरुणाय वक्तुं तत्र प्रसक्तविघ्न परिहाराय ब्रह्मा शान्तिं पठति - सहनाववत्वित्यादिना । सः मित्रादिः । 'नौ' गुरुशिष्यौ । 'अवतु' रक्षतु । विघ्नान् परिहृत्येति शेषः । हेति मित्रादेः रक्षणे सामर्थ्यमस्तीति प्रसिद्धमिति दर्शयति । यद्वानौआवां सह मिलित्वा 'अंवतु' रक्षत्वित्यर्थः ।मित्रादिर्नौ गुरुशिष्यौभुनक्तु' अन्नादिदानेन पालयतु । व्याख्यानादि- जनितमौक्तानन्दं भोजयत्विति वा । 'भुज पालनाभ्यवहारयोः' इति धातोः। हेति मित्रादेः भोजनदाने सामर्थ्यप्रसिद्धिमाह । 'नौ' आवां सह मिलित्वा भोजयत्विति वा । आवां गुरुशिष्यौ सह मिलित्वा 'वीर्यं' व्याख्यानविषये प्रयत्नंकरवावहैकुर्वः । लोडुत्तमपुरुषद्विवचनमिदम् । 'नौ' आवाभ्यां अधीतं तेजस्वि वीर्यवत्तममस्तु । आवां 'तेजस्विनौ' भवाव | आधीतं फल- प्रदमस्तु इत्यर्थं इत्यप्याहुः । गुरुशिष्यौ आवां ' मा विद्विषावहै' विद्वेषं न करवावहै । न कुर्वः शान्तिरिति त्रिरुक्तेः प्रयोजनं पूर्वमेवोक्तमनुसन्धेयम् ॥ १॥