ॐ शं नो मित्रः शं वरुणः
तैत्तिरीयोपनिषत्
शिक्षावल्ली
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् ।
सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥
ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ २ ॥
वरणीयो वर्णः । स्वरतेस्तु स्वरः । मानात् त्राता मात्रा । बलरूपः । समश्च सर्वरूपेषु । सन्ततश्च ।
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहितायाः उपनिषदं व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते ॥ ३ ॥
नारायणादिरूपाणि लोकादिषु च पञ्चसु ।
अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिलोकम् ॥ ४ ॥
अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥ ५ ॥
अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ ६ ॥
अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥
अथाध्यात्मम् । अधराहनुः पूर्वरूपम् । उत्तराहनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ८ ॥
यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ॥ ९ ॥
आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ॥ १० ॥
आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि मा यन्तु ब्रह्मचारिणः स्वाहा ।
प्र मा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा ।
शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा ।
श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥ ११ ॥
यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १२ ॥
यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः ।
छन्दोभ्योऽमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् ॥
मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ॥ इति च ।
वेदावासत्वतो विष्णुर्ब्रह्मकोश इति स्मृतः ।
भगः षड्गुणपूर्णत्वाद् बहुरूपत्वतो विभुः ॥
सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम् ।
मुच्यते नात्र सन्देहस्सर्वभोगैश्च युज्यते ॥ इति प्रक्लृप्ते ।
आवहन्ती चिरं सर्वभोगान् या श्रीस्सनातनी ।
तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम् ॥ इति च॥ १२ ॥
भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥ १३ ॥
भूरादिव्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम् ।
अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ॥
वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः ।
भूर्नामाथ भुवोनामा बाहू प्रद्युम्न ईरितः ॥
सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः ।
अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ॥
निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥ १३ ॥
भूरिति वा अयं लोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोका महीयन्ते ।
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते ।
भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ १४ ॥
लोकज्योतिःप्राणवेदेष्वेकस्स पुरुषोत्तमः ।
प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥
महीयते महति च स्वयं स भगवान् हरिः ।
पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते ॥
नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः ।
अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ॥
ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेस्सुतः ।
अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् ॥
चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः ।
यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः ॥
बृहत्वात् ब्रह्म वेदानां समुदायेऽखिले स्थितः ।
तत्सम्बन्धाद्वेदराशिर्ब्रह्मशब्देन कीर्तितः ॥
प्रकृष्टनयनात् प्राणोऽपानोऽवाङ्नयनाद्धरिः ।
विविधं नयनाद् व्यानस्सोऽन्नं सर्वोपजीव्यतः ॥
एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः ।
महाचमसनामासौ यस्मादतिचमत्कृतिः ॥
माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः ।
एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ॥
स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन् ।
सर्वदेवैरतितरां यस्सम्यक् षोडशात्मवित् ॥ इति व्याहृतितत्त्वे ।
तस्य भूरिति शिरः । एकं शिरः । एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू । द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे । द्वे एते अक्षरे इत्यादिश्रुतेः । सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यश्चतुर्थीत्वेनेतां प्रवेदयत इति विशेषः ।
भूर्नामा स्फूर्तिरूपत्वात् भूरिवीर्यत्वतो भुवः ।
सुवस्सुबलरूपत्वात् महः पूर्णत्वतो विभुः ॥
तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात् ।
स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः ॥
तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः ।
वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः ॥
स एव सर्ववेदोक्तस्सर्वविद्यासु चेश्वरः ।
प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः ॥
इतिहासपुराणं च पञ्चरात्रं च सर्वशः ।
सम्यग्व्याहरणात् विष्णोः श्रुता व्याहृतयस्त्विति ॥
सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु ।
विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृताः ॥ इति व्याहृतिसारे ॥ १४ ॥
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो वि वर्तते । व्यपोह्य शीर्षकपाले ॥ १५ ॥
य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः ।
प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः ॥
व्याख्यस्सुपर्णरूपत्वात् केशान्ते वर्तते तु यः ।
सङ्कर्षणस्सुपर्णात्मा वासुदेवो व्यपस्स्मृतः ॥
यस्माद्व्यपगतस्थाता जगति प्रलये विभुः ।
अशीर्षककपालोसौ कपालादुपरि स्थितः ॥ १५ ॥
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥ १६ ॥
आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥ १७ ॥
अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः ।
प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥
सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः ।
महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥
स वासुदेवस्स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ ।
अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः ॥
वागादिषु स्थितो नित्यं भवत्येष जनार्दनः ।
स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः ॥
आकाशवद्व्याप्तदेहस्सत्यात्मा गुणपूर्तितः ।
वायोर्विशेषरमको बलानन्दस्वरूपवान् ॥
ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः ।
अन्तगत्वात् स्वतः पूर्तेस्समृद्धं तत् प्रकीर्तितम् ॥
इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने ।
प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम् ॥ इति ब्रह्मसारे ॥
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसं स्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १८ ॥
पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः ।
नारायणादिरूपेण बलयत्यञ्जसा प्रभुः ॥
इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः ॥ इति तत्त्वसंहितायाम् ॥
आत्मा अहङ्कारतत्त्वम् ॥ १८ ॥
ॐ इति ब्रह्म । ॐ इतीदं सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति । ओमिति सामानि गायन्ति । ओग्ंशोमिति शस्त्राणि शग्ंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १९ ॥
ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः ।
यद्यद्रूपं भगवतस्तदिदं सर्वमेव च ॥
ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः ।
ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम् ॥
अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि ।
अधिकोच्च महाधाम सूच्च देवेति चादरात् ॥
प्रति प्रति गृणात्येनं शंरूपात्युच्चशावन ।
इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः ॥
एवं स्वऽध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा ।
एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम् ॥ इति च ॥ १९ ॥
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥ २० ॥
ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि । प्रवचनं व्याख्यानम् । यथार्थज्ञानं ऋतम् । तत्पूर्वकं यथार्थवचनं करणं च सत्यम् ।
ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः ।
ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते ॥ इति शब्दनिर्णये ॥
सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वात् तयोः सर्वत्र अनुषङ्गः ।
मन्त्रो मन्त्रार्थवचनमन्यस्य स्वात्मनोऽपि वा ।
सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ ततः ॥ इति कर्मतत्त्वे ।
आत्मनश्चेन्मनसैवार्थवचनम् ।
मानुषं मानुषो धर्मो देवा अपि हि मानुषे ।
मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः ॥ इति च ।
प्रजाया रक्षणं चैव पुनः प्रजननं तथा ।
प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः ॥ इति च ।
सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ २१ ॥
सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत् ।
स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः ॥ इति च ॥
यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति च श्रुतिः ।
जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ इति भारते ॥
सम्यग्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च ।
न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः ॥ इति कर्मतत्त्वे ।
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणग्ं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ २२ ॥
संसारवृक्षच्छेत्ताऽहं मत्कीर्तिः पर्वतोपमा ।
अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम् ॥
वाजिरूपश्च नेता च वाजिनी सूर्य उच्यते ।
तत्रस्थो भगवान् विष्णुस्सम्प्रोक्तो वाजिनीवसुः ॥
तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः ।
तेनामृतेन सिक्तोहं तेन व्याप्तो यतस्सदा ॥
इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः ॥ इति यजुर्विवेके ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकग्ं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेयाग्ंसो ब्राह्मणाः । तेषां त्वयासने न प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ २३ ॥
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ २४ ॥
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामवीत् । तद्वक्तारमवीत् । अवीन्माम् । अवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति तैत्तिरीयोपनिषद्भाष्ये शिक्षावल्ली समाप्ता ॥ १ ॥
संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति । पृथिव्यन्तरिक्षमित्युक्तपाङ्क्तत्वं च । अत उपक्रमोपसंहारयोः त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् इति युज्यते ॥