ॐ शं नो मित्रः शंवरुणः ...

ॐ शं नो मित्रः शंवरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।

नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

भाष्यप्रकाशिका

 शं नो मित्रः शं वरुण' इत्यत्र वरुणो मित्रो देवो नः शं प्रति भवति, तथा भवत्विति योजना । ' त्वमेव प्रत्यक्षं ब्रह्म' इति वदता साक्षात् परं ब्रह्माप्रत्यक्षमेव । श्रवणादिकं विना द्रष्टुमशक्यत्वस्य 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' ( बृह. ४.५.६ ) इत्यादिश्रुतौ निश्चितत्वात् । अतो ब्रह्मणः स्वयं मुख्यतः सन्निहितत्वेन तव विष्णोर्मुख्यत: प्रतिमात्वेन रङ्गनाथादिप्रतिमादौ त्वमेव रङ्गनाथ इत्युक्तिर्यथा तथा वायोरपि प्रत्यक्षब्रह्मत्वोक्तिः । न तु ब्रह्माभेदेन, प्रत्यक्षाप्रत्यक्षयोरैक्यायोगादिति सूचितम् ।त्वमेव प्रत्यक्षं ब्रह्म', त्वमेव प्रत्यक्षं ब्रह्मेति वदिष्यामि । ऋतंऋ गतौ' इति धातोः कर्तरि क्तप्रत्यये कृते गत्यर्थानां च ज्ञानार्थ-त्वाद्यथार्थज्ञानवदित्यर्थः । सत्यं 'षद्ल विशरणगत्यवसादनेषु' इति धातोः सत् ज्ञानं श्रुतिनिर्दिष्टं, यं कर्तृत्वे प्रवर्तकत्वे च ( कृतौ प्रवृत्तौ च ) प्रवर्तकं यस्य तत् सत्यमित्यर्थः । ज्ञानस्येच्छाद्वारा प्रवृत्तिकारणत्वस्य सिद्धत्वादिति भावः । तादृशमहामहिम्नस्तव स्तुतिरूपवचनं मां इत्यध्येतारं मामवतु । मम प्रवक्तारं गुरुं मध्यवर्तिनमित्यर्थः । गुरोरर्थं च श्रुत्वा शिष्यस्यैव साक्षादध्येतृत्वाच्छिष्यः स्वकीयपाठेन गुरोरभिरक्षणमपि प्रार्थयते । 'वक्तुर्दशगुणं फलम्' इति वचनात् शिष्यप्रार्थनामात्रेणापि गुरोः फलं भवतीति भावः । द्विरुतिरादरार्थी || |

श्रीनिवासतीर्थीयखण्डार्थ:

ततश्च 'शन्नोमित्र' इत्यादेरयमक्षरार्थः-
आदित्यसंस्थितो विष्णुः ब्रह्माणं प्रति ब्रह्मविद्यामनुतिष्ठन् भृगुर्विघ्नपरिहारार्थं एतद्विद्या प्रवर्तकत्वात् एतद्विद्याप्रतिपाद्यत्वाद् वा इन्द्रियादिप्रेरकत्वाद् वा मित्रादिदेवान् प्रार्थयत इत्याह- शन्नोमित्र इत्यादिना ।। मित्रो नः शं सुखमुद्दिश्य भवतु नः सुखप्रदो भवत्वित्यर्थः । एवं वरुणाद्याः देवाः नः शमुद्दिश्य भवन्त्वित्यर्थः । उरुक्रम इति विष्णोर्विशेषणम् । उरु उत्कृष्टः क्रमः पराक्रमो वा पादविक्षेपो वा यस्य स उरुक्रम इत्यर्थः । ब्रह्मणे चतुर्मुखाय नमः | हे वायो ते तुभ्यं नमः । वायो: ब्रह्मविद्याप्रवर्तकेषु मुख्यत्वात् परब्रह्मणो मुख्याधिष्ठानत्वात् वक्ष्यमाणसंहितापञ्चाधिकरणमानित्वाच्च पुनः तं वायुं अपरोक्षतः प्रार्थयते- त्वमेवेति ॥ त्वं प्रत्यक्षं, अक्षमक्षं प्रति प्रेरकतया स्थितत्वात् प्रत्यक्षशब्दवाच्योऽसि । यथोक्तं बृहद्भाष्ये- 'तमेताः सप्ताक्षितय उपतिष्ठन्तेइत्यत्रदक्षिणाक्षिस्थितं वायुं सप्तदेवा उपासते' (ऐ.भा. २.६ ) इति । ब्रह्मा भाविब्रह्मपदयोग्यः । अथवा ब्रह्म परब्रह्माधिष्ठानभूतः । अधिकारिवर्गेषु पूर्णो वाऽसि । ' त्वामेव प्रत्यक्षं ब्रह्माऽवादिषम्' इत्यन्ते बक्ष्यमाणत्वाद् अत्रापि त्वं त्वामित्यर्थः । तथाच प्रत्यक्षं ब्रह्मभूतञ्च त्वं त्वां पञ्चाधिकरणादिप्रतिपाद्यतया वदिष्यामि शिष्येषु उपदिशामि । 'ऋतं सत्यम्' इत्यत्र त्वामित्यनुवर्तते ।ऋतं यथार्थविज्ञानं; सत्यं तत्पूर्विका कृति:' इति वक्ष्यमाणरीत्या ऋतं यथार्थज्ञानवन्तं सत्यं यथार्थज्ञानपूर्वकं वक्तारं कर्तारं चेत्यर्थः । यद्वा ऋतं यथावत् सर्वाधिकारिवर्गेषु उत्तमतयाऽवगतं, सत्यं साधुगुणैस्ततं सर्वनियन्तारं त्वामित्यर्थः । यथोक्तम्- 'वाङ् मनसिइति खण्डे ऐतरेयभाष्येऋतं यथावद् अवगतं, सत्यं साधुगुणैस्ततं सर्वनियन्तारम्' (बृ.भा. ४.२.२) इति । एवमपरोक्षतः प्रार्थयित्वा परोक्षतोऽपि प्रार्थयते- तन्मामवत्विति ॥ यथोक्तं 'वाम' इत्यत्रैव ऐतरेयभाष्ये ' तन्मामवत्विति तस्यैव परोक्षतः प्रार्थनम्' इति । तत् वायुरूपं ब्रह्म श्रोतारं मामवतु तत् वक्तारं विद्योपदेष्टारं चावतु । पुनः 'अवतु मामवतु वक्तारम्' इत्युक्तिराद- रार्था । उत्तरत्र प्रवर्तनीयायां विद्यायां प्रसक्तविघ्नानां शान्तिरस्त्वित्याह- शान्तिरिति ।। आध्यात्मिकाधिदैविकविघ्नपरिहाराभिप्रायेण 'शान्ताधि- भौतिकपृथिवी शिवमन्तरिक्षम्' इत्यादि श्रुतेर्भौमान्तरिक्षदिव्यविघ्नपरिहारार्थं च त्रिवारं शान्त्युक्तिरिति द्रष्टव्यम् || ||