नच 'सह ब्रह्मणा' इत्यादेरन्योऽर्थः कल्प्यः
'सोऽश्रुते' इत्यादिमन्त्रखण्डापव्याख्याननिरसनम्
भाष्यम्
नच 'सह ब्रह्मणा' इत्यादेरन्योऽर्थः कल्प्यः । अप्रामाणिक - त्वादनाश्वासाच्च ।
नच ' ओषधीभ्योऽन्नम्', 'अन्नरसमय:' इत्यत्रोभयार्थत्वे विरोधः ‘अन्नस्यान्नम्’, ‘मध्यमः प्राणः ', ' प्राणः स्थूणा' इत्यादिवत् विशेषितत्वादुपपत्तेः ।
पदार्थदीपिका
एवं समग्रब्रह्मवर्ली स्वयोग्यं ब्रह्मविदित्यादिप्रमाणेनैव सम्यग्व्याख्याय ‘सोऽश्नुते' इत्यादेः परकृतापव्याख्यां प्रत्याख्याति - नचेति ॥ ननूपनिषद्व्याख्यानमुपक्रम्य अपव्याख्याननिराकरणे असङ्गतिरिति चेन्न । स्वव्याख्यानदाढर्चर्थत्वात् यावदापातसुन्दरं अपव्याख्यानं शिष्याः पश्येयुस्तावत्प्रमाणेन कृतमपि सम्यग्व्याख्यानं न तेषां हृदि दृढनिरूढं भविष्यतीति तत्प्रत्याख्यानमावश्यकमेव । तत्र 'सः' ब्रह्मवित् ‘सह' युगपत् एककालं सर्वान् कामानश्नुते । ननु कथं तस्य सर्वकामभोक्तृत्वमित्या- शङ्कयोक्तम्- ब्रह्मणेति ॥ ब्रह्मरूपेणेत्यर्थः । तथा च मुक्तस्य ब्रह्माभिन्नत्वाद् ब्रह्मणश्च भोक्तृसर्वजीवात्मकत्वात् तद्घटत इत्येवं 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा' इति वाक्यस्यार्थो न कल्पनीय इत्यर्थः । कुतो न कल्पनीय इत्यत आह- अप्रामाणिकत्वादिति || प्रमाणशून्यत्वात् ‘स्वयोग्यं ब्रह्मवित्’ इत्यादिप्रमाणविरुद्धत्वाच्चेत्यर्थः । अनाश्वासांचेति || अप्रामाणिकत्वादेव त्वदुक्तेऽर्थे विश्वासाभावाचेत्यर्थः । ननु भवद्भिरपि ' ओषधीभ्योऽन्नम् ' इत्यत्रान्नशब्दः प्रसिद्धान्नपर इत्यङ्गीकृत्य 'स वा एष पुरुषोऽन्नरसमयः ' इत्यत्रान्नशब्दो अत्तृत्त्वाद्यर्थं इत्येवं 'अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः । उपजीव्यश्च भूतानाम्' इत्यादि व्याख्यातम् । तदप्ययुक्तम् । एकेन शब्देन द्विरुक्तत्वेन भेदश्रुतिं विना वस्तुद्वयोक्तिग्रहणायोगादित्याशङ्कय निषेधति - नचेति ।। उभयार्थत्वे प्रसिद्धान्नात्तृत्वादिरूपार्थद्वयवत्त्वे अन्नशब्दस्याङ्गीकृते सतीति शेषः । विरोधः पूर्ववाक्ये अन्नशब्दस्य प्रसिद्धान्नपरत्वे प्रकृतत्वविरोध इत्यर्थः । कुतो न विरोध इत्यतो ज्ञापक- सद्भावादित्याह- विशेषितत्वादिति || ' ओषधीभ्योन्नम्' इत्यत्रान्नशब्दः प्रसिद्धान्नपर एव 'स वा एष' इत्यत्र चान्नशब्दो रसशब्देन विशेषितत्वा- दत्तृत्वाद्यर्थ इत्येवमर्थद्वयाङ्गीकारोपपत्तेर्न विरोध इत्यर्थः । तत्र दृष्टान्तमाह-अन्नस्यान्नमित्यादिना || अन्नस्यान्नत्वप्रदं भगवद्रूपमित्यर्थः । 'प्राणो मुख्यप्राणो मध्यमोऽवान्तरेश्वरः । अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुः' इति वचनात् । 'प्राणो हरिः स्थूणां स्तम्भवदाश्रयः । स्थूणा तु भगवान् हरिः' इति वचनात् । यथान्नस्यान्नमिति वाक्ये अन्नशब्दद्वयं भिन्नार्थकमेव । एकस्य षष्ठ्या निर्देशात्, अपरस्य प्रथमया निर्देशात् । यथा वा ‘योऽयं मध्यमः प्राणः प्राणः स्थूणा' इत्यत्र एकप्रकरणे श्रुतस्यापि प्राणशब्दद्वयस्य मुख्यप्राणभगवदाख्यार्थद्वयमङ्गीक्रियते । मध्यमत्व- स्थूणात्वरूपविशेषपचलात् । एवं प्रकृतेऽपि ' ओषधीभ्योऽन्नम् | अन्नात्पुरुषः ' इत्यत्रौषधिजातत्वेन देहोपादानत्वेन च विशेषितत्वात्तत्रान्नशब्दः प्रसिद्धान्नार्थक एव । ‘स वा एष:’ इत्यत्र तु रसशब्देन विशेषितत्वादन्नशब्दोऽत्तृत्वाद्यर्थक एवेत्यर्थद्वयाङ्गीकारो युक्त इत्यर्थः ।