स यश्चायं पुरुषे

तैत्तिरीयोपनिषत्

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति ॥ २७ ॥

भाष्यम्

यत्प्रसादात् स्वरूपाप्तिः ब्रह्मादीनां समन्ततः ।

स विष्णुस्सर्वजीवेषु नृषु देवेषु च स्थितः ।।

एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः ।

सर्वोत्तमस्स पूर्णश्च तमेवं वेद यः पुमान् ॥
जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम् ।
विष्णुं .. ॥ २१ ॥

पदार्थदीपिका

अथ भाष्यार्थः ।। एवं विष्णोर्विदुषां नरादिब्रह्मान्तानां नियमेन मोक्षदातृत्वरूपं मोक्षे च तरतमभावापन्नस्वरूपानन्दाविर्भावदातृत्वरूपं महिमानं चोक्त्वा इदार्नी उत्कृष्टापकृष्टसर्वजीवनियामकतयाऽवस्थित- रूपाभेदरूपं महिमान्तरमुच्यते - स यश्चायं पुरुष इत्यादिना । तत्र पूर्वेण सङ्गतिं सूचयन् पुरुषशब्दोक्तमनुष्यादित्यमात्रस्थितयोरेव रूपयोः अभेद उच्यत इति प्रतीतिनिरासाय आदित्यपुरुषशब्दौ उत्कृष्टापकृष्टसर्वजीवोप- लक्षकावित्यभिप्रेत्य प्रमाणेनैव व्याचष्टे यत्प्रसादादित्यादिना || ब्रह्मादीनामन्ततः लिङ्गदेहनाशानन्तरम् । सं सम्यक् स्वयोग्यतानुसारेण । स्वरूपाप्तिः स्वरूपानन्दावाप्तिः । यत्प्रसादात् भवति स विष्णुरिति योज्यम् । समन्ततः सर्वकल्पेष्ववस्थितानामिति वा । स एक इत्यत्र त्यच्छन्दानुवादेन विष्णुरिति व्याख्यातम् । सर्वजीवेष्वित्यस्य विवरणं नूषु देवेषु चेति । तथा चादित्यपुरुषशब्दौ उत्कृष्टापकृष्टसर्वजीवोपलक्षकौ इत्युक्तं भवतीति ज्ञातव्यम्। भेदाभेदव्यावृत्त्यर्थं एक एवेत्युक्तम् । करचरणादिसमग्राङ्गसाकल्येन युगपदनेकस्थानस्थितस्य विष्णोरेकत्वमन्यत्रादृष्टं कथं घटत इत्यत आह- महायोगीति ।।युज्यतेऽनेन योगोऽसावुपायः शक्तिरेव च' इति शब्द-निर्णयवचनात् । अघटितघटकतया महान् योगः शक्तिः तद्वानित्यर्थः । उत्कृष्टापकृष्टजीवस्थितयोः विष्णुरूपयोर्यमधर्मरूपयोः विदुर्युधिष्ठिरयोरिव विशेषोऽस्ति किं नेत्याह- अखिलगुणैर्निर्विशेष इति ॥ सर्वजीवावस्थित- त्वोक्त्या लब्धार्थप्रदर्शनं सर्वोत्तम इति । सम्पूर्णः अखिलैर्गुणैरिति वर्तते । सर्वरूपेष्वभेदादिरूपभगवन्माहात्म्यवेत्तुः मुक्तानन्दादितारतम्यवेत्तुश्च फलमुच्यते - स य एवं विदित्यादिना ॥ तद्व्याचष्टे - तमेवं वेदेति ॥ सर्वरूपाभिन्नत्वसृष्टिकर्तृत्वसृष्टपदार्थप्रवेष्टृत्वादिरूपोक्तमाहात्म्योपेतत्वेन तं विष्णुं वेदेत्यर्थः । जीवान्मनुष्योत्तमादिब्रह्मान्तान् तारतम्यस्थान् भगवत्प्रसा- दाविर्भूततरतमभावोपेतानन्दादिमत इति यावत् । यो वेद सः अस्माल्लोकात् चरमत्वेन प्रसिद्धाच्छरीरात् प्रेत्येति शेषः । पञ्चरूपिणं विष्णुं गच्छेदित्यर्थः । पञ्च च तानि रूपाणि च पञ्चरूपाणि तान्यस्य सन्तीति पञ्चरूपी तमिति कर्मधारयादिनिः। उपसङ्क्रामतीत्यस्यार्थो गच्छेदिति । अत्रान्नमयनामानिरुद्धो भूम्यस्थितः । प्राणमयनामा प्रद्युम्नोऽयादिस्थितः । मनोमयनामा सङ्कर्षणो मनआदि तत्त्वस्थितः । विज्ञानमयनामा वासुदेवो महत्तत्वस्थितः । आनन्दमयनामा नारायणोऽव्यक्ततत्वगत इति विशेषो द्रष्टव्यः । यथोक्तं द्वितीयस्कन्धतात्पर्ये - 'भूम्यगमन्ननामानं प्राणमग्न्यादिसंस्थितम् । मानसं मन आदिस्थं विज्ञानं महति स्थितम् । आनन्दमव्यक्तगतं क्रमशो यान्ति देवता:' इति । अनेन य एवं वित्सोऽस्माल्लोकात् प्रेत्यैतच्छरीर- रूपमन्नमयमात्मानं शरीररूपं कोशमुपसङ्क्रामति । अतिसङ्क्रामति अतिक्रम्य परित्यज्येति यावत् । गच्छतीत्येतदप- व्याख्यानमित्युक्तं भवति । श्रुतोपशब्दत्यागस्याश्रुतातिशब्दकल्पनस्य चापत्तेः । न चाव्ययानां अनेकार्थत्वात् उपशब्द एवातिक्रमार्थक इति वाच्यम् । अव्ययानामनेकार्थत्वेऽपि अन्तरित्यस्य कदाऽपि बहि-

रित्यर्थकत्वाभावात् । अन्नमयशब्दवाच्यशरीररूपकोशपरित्यागस्य अस्माल्लोकात् प्रेत्येति पूर्ववाक्येनैवोक्तत्वेन पुनरुक्तिश्च स्यादिति द्रष्टव्यम् । यथोक्तमनुव्याख्याने-
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।
अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ।
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ।
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।।' इति ।। २१ ।। (ब्र.सू. अनु. १.१.२९, श्लो. ११८)

Load More