स य एषोऽन्तर्हृदय आकाशः ..

जीवनियामकतया परमात्मनः स्थितिप्रकारनिरूपणम्

तैत्तिरीयोपनिषत्

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो वि वर्तते । व्यपोह्य शीर्षकपाले ॥ १५ ॥

भाष्यम्

य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः ।

प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः ।।'

'व्याख्यः सुपर्णरूपत्वात् केशान्ते वर्तते तु यः ।

सङ्कर्षणः सुपर्णात्मा वासुदेवो व्यपः स्मृतः ॥'

यस्माद् व्यपगतस्थाता जगति प्रलये विभुः ।
अशीर्षककपालोऽसौ कपालादुपरि स्थितः ।। १५ ।।

भाष्यप्रकाशिका

अधुना प्रकारान्तरेण जीवनियामकतया परमात्मनः स्थितिप्रकारमाह- स य एषोऽन्तर्हृदय आकाश इति । अन्तर्हृदये प्रसिद्धः स एष आकाशोऽ- स्ति । मनोमयो ज्ञानमयः | हिरण्मयः हिनोति भजकमिति व्युत्पत्त्या हिरुक् सुखं, तन्मयः | अमृतः जीवमरणेऽपि मरणरहितः । अयमनिरुद्धः तस्मिन् हृदयाकाशे जीवप्रेरकतया तिष्ठति । तालुके उत्तराधरतालुके अन्तरेण मध्ये य एष धातुविशेषेण स्तन इवावलम्बते सा इन्द्रस्य इन्द्रनामकप्रद्युम्नस्य योनिः स्थानम् | भुक्तान्नस्योदरान्तः प्रेषणाय प्रद्युम्नस्तत्र तिष्ठतीति भावः । यत्र केशान्तः केशमूलप्रदेशः वर्तते तत्र विशब्दवाच्यपक्षिसदृशरूपवत्त्वात् विनामकसङ्कर्षणस्तिष्ठतीति । शिरसि व्याप्तकेशोज्जीवनाय स्वपक्षौ विस्तार्य पक्षिरूपेण तिष्ठतीति भावः । व्यपः विनामकपक्षिरूपत्वादपगतदोषत्वाच्च व्यपनामको वासुदेवः अशीर्षकपाले शीर्षभागकपालभिन्ने, तद्यत् कपालोपरिगतस्थानं तत्र पूर्ववत् सकलरक्षणाय तिष्ठतीत्यर्थः ।। १५ ।।

पदार्थदीपिका

अथ भाष्यार्थः ।। एवं भूरादिनामिनोऽनिरुद्धादेर्लोकादावुपास्तिमभिधाय देहे चोपास्तिमधिष्ठानकथनपूर्वकमाह - स य एषोन्तर्हृदय इत्यादिना ।। अत्र मनोमयेन्द्रयोनिविव्यपशब्दान् कोशादिपरताप्रतीतिवारणाय प्रमाणेनैव अनिरुद्धादिरूपचतुष्टयपरतया व्याचष्टे - य एष इत्यादिना || 'मनोमयः पुरुष:' इत्यस्यार्थोऽनिरुद्ध इति । 'अन्तरेण तालुके' इत्यादेरर्थःप्रद्युम्नइत्यादि 'तालुके अन्तरेण' इत्यस्यार्थः ' तालुमध्यस्थ' इति । य एषस्तन इवावलम्बतेइत्यस्यार्थोलम्बिन्याम्' इति । इन्द्रनामकः प्रद्युम्नः तालुमध्य- स्थः । किं तत्तालुमध्यमित्यत उक्तम् - लम्बिन्यामिति ।। अजागल- स्तनवल्लम्बमानाषां अणुजिह्वायामित्यर्थः । यत्रासौ केशान्तो वर्तते इत्येतद् व्याचष्टे - व्याख्य इति ॥ य इति श्रवणात्स इति लभ्यते । यः सङ्कर्षणः सुपर्णात्मा सुपर्णस्वरूपः । अतः सुपर्णरूपत्वादेव सः व्याख्यः वीति आख्या यस्यासौ तथोक्तः ।विःपक्षिपरमात्मनोः' इत्यभिधानात् विशब्दस्य विष्णुवाचित्वात् । सः केशान्ते केशानां मूलभागे वर्तत इत्यर्थः । अनेन केशान्त इति प्रथमा सप्तम्यर्थ इत्युक्तं भवति । 'व्यपो ह्यशीर्षकपाल' इत्यस्यार्थमाह- वासुदेव इति । हीत्यस्याभिप्रायः स्मृत' इति । वासुदेवस्य व्यपशब्दवाच्यत्वे निमित्तमाह- यस्मादिति ॥ विभुरपरिच्छिन्नो वासुदेवः प्रलयकाले जगति व्यपगते नष्टे सति यतः स्थाता तस्माद् वासुदेवो व्यपः स्मृत इत्यर्थः । अशीर्षकपाले इत्यत्र नञ्पर्युदासार्थः । तथा च शीर्षसम्बन्धिनीये कपाले उभयपार्श्वभागाविति यावत् ।। ताभ्यां भिन्ने स्थाने कपालादुपरिगतस्थान इति यावदित्यर्थमभिप्रेत्याह- अशीर्षकपाले असाविति || १५ ||