राये वाजाय वज्रिवश्शविष्ठ वज्रिन्नृञ्जसे
(राये वाजायेत्यृगर्थकथनम् )
मूलम्
१७-मूलम्- ऋक् राये वाजाय वज्रिवश्शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ट वज्रिन्नृञ्जस आयाहि पिब मत्स्व ॥ ३ ॥ राये वित्ताय वाजाय अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति वज्रिवाः नियामकत्वेन गच्छतीति वा, शविष्ट बलवत्तम सुखवत्तमेति वा, ऋअसे प्रेरयसि सर्वान् । मंहिष्ठ वज्रिन्नृञ्जस इत्यभ्यासस्तात्पर्यार्थः । मत्स्व मदं कुरु ॥ ३ ॥
टीका
टीका- राये ॥ वज्रिणमित्यनेन वज्रिशब्दे कर्मण्युपपदेऽन्तर्णितण्यर्थात् 'वृतु वर्तने' इत्यस्माद् उस्प्रत्यय इत्युक्तं भवति । वज्रिवेति क्वचित्पाठः । तंत्र सकारलोपश्छान्दसः । नियामकत्वेनेत्यनेन 'ब्रज गतौ' इत्यस्मादन्तर्णितण्यर्थाद्रिप्रत्ययः । ' वा गतिगन्धनयो:' इत्यस्मात् कस् । बज्रिर्गमको नियामकश्चासौ वाः गन्ता चेति वज्रिवा इत्युक्तं भवति । गच्छति प्रवर्तते । सर्वान् भक्तानिति शेषः । ‘वज्रिन्नृञ्जसे’ इत्यस्याम् ऋचि, 'मंहिष्ठ वज्रिन्नृञ्जसे' इत्युत्तरस्यामभ्यासः । पिब सोमम् । मत्स्व मदं कुर्वित्यनेन विकरणलोपश्छान्दस इत्युक्तम् ॥ ३ ॥
भावदीपः
(रा. टि. ) 'राये वाजाय वज्रिवश्शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आयाहि पित्र मत्स्व' । राय इति प्रतीकम् । एवमग्रेऽपि । डस्प्रत्यय इति ॥ औणादिके डस्प्रत्यये डित्वाट्टिलोपे ' अत्वसन्तस्य चाधातो:' इति दीर्घे वज्रिवा इति भवति । तस्य सम्बुद्धिर्वज्रिव इति भावः । क्वचित्पाठ इति ॥ भाष्ये इति योज्यम् । कसिति ।। औणादिके कस्प्रत्यये कित्वात् ‘अतो लोप इटि च' इत्याकारलोपे स्वाद्युत्पत्ती पूर्ववद्दिर्ये वज्रिवा इति भवतीति भावः । लब्धार्थमाह-वज्रिः गमको नियामक इति ॥ वा इत्यनुवादः, गन्तेत्यर्थोक्तिः । ऋञ्जते प्रेरयसीत्यत्र कर्माकाङ्क्षायां सर्वानित्युक्तं मूले । तद्योग्यसर्वपरमित्याह-भक्तानिति शेष इति । अस्यामृचीति | अभ्यास इत्याकृष्यते । ‘शविष्ठ वज्रिन्नृञ्जसे' इति 'मंहिष्ठ वज्रिन्नृञ्जसे ' इति वाक्यद्वये वज्रिन्नृञ्जसे इति द्विःश्रवणात्, तथा 'मंहिष्ट वज्रिन्नृञ्जसे' इत्यस्योत्तरस्यां च श्रवणादभ्यास इति फलितार्थः । पिबेत्यस्य कर्माकाङ्क्षायां स्वयमाह-पिब सोममिति ।। सोमरसमित्यर्थः । ' मदि हर्षे' इत्यस्य शव्विकरणत्वान्मन्दस्वेति वाच्यमित्यत आह-विकरणलोप इति ॥ हे वज्रिव इन्द्रप्रवर्तक, इन्द्रनियामकत्वेन वर्तमानेति वा । वज्रिन् राये वित्ताय वाजायान्नाय वित्ताद्यर्थमिति यावत् । सर्वान् भक्तान् ऋञ्जसे प्रेरयसि । हे मंहिष्ठ पूज्यतम वज्रिन् ऋञ्जसे प्राग्वत् । अभ्यासस्तात्पर्यार्थः । आयाहि, आगत्य च सोमं पिब, पीत्वा च मत्स्व मदं कुरु इति मन्त्रार्थसङ्ग्रहः ॥ ३ ॥
विवरणम्
(श्री. टि.) डस्प्रत्यय इति ।। तथा च वज्रिशब्द उपपदे वृत् अस्माद् डस्प्रत्यये ऋत् इत्यस्य टिभूतस्य लोपे डकारलोपे वज्रिव् अस् वज्रिवस् इति सकारान्तं प्रातिपदिकं निष्पन्नम् । पश्चात् ' अत्वसन्तस्य चाधातोः ' अत्वन्तस्यासन्तस्य चोपधायाः दीर्घः स्यादिति दीर्घे च सति वज्रिवास् इति स्थिते रुत्वे विसर्गे च सति वज्रिवा इति प्रथमैकवचनमेवाचार्यैर्व्यवहृतं भवति । तस्य सम्बुद्धिः हे वज्रिव इति भवतीति ध्येयम् । सकारलोप इति ।। तथा च वज्रिशब्दोपपदाद् वृत् इत्यस्माद् डप्रत्यये टिलोपे तत् स्थाकारे च मिलिते सति वज्रिवेत्यकारान्तं प्रातिपदिकं निष्पन्नम् । तत्र स्वाद्युत्पत्तौ वज्रिव इत्यकारान्तः शब्दः, तत्सम्बुद्धिर्हे वज्रिवेति भवतीति ध्येयम् । रिप्रत्यय इति ।। वज् अस्माद् रिप्रत्यये वज्रि इति भवति । एवं च वज्रिवा इति रूपं भवति । कस् इति ॥ कित्त्वाद्धात्वाकारलोप इति भावः । 'वज गतौ' इति धात्वनुसारेण गमक इत्युक्तम् । तदेव नियामक इति विवृतम् । नन्वभ्याराः कुत्रास्तीत्यत आह-वज्रिनिति ॥ ' वज्रिन्नृअसे' इत्येतावन्मात्रस्य 'राये वाजाय' इत्यस्यामृचि पूर्वोत्तरार्धयोः सत्त्वेनाभ्यासः । मंहिष्ठ वज्रिन्नृअरो' इत्येतावतः पादस्य 'राये' इत्यस्यामृचि विद्यमानस्य 'विदा रायः' इत्युत्तरस्पामृचि सत्त्वेन द्विरुक्त्वाऽभ्यासः प्राप्त इत्यर्थः । ननु 'मदि हर्षे' अस्मा-ल्लोटि मन्दस्वेतिरूपं स्यान्मत्स्वेति कथम् ? अत उक्तम् विकरणलोप इति ॥ शब्विकरणस्य लोप इत्यर्थः । उक्तं भवतीति शेषः ॥ ३ ॥
कर्मप्रकाशः
(स.टि) 'राये वाजाय वज्रिवः शविष्ठ वज्रिन्नुञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आपाहि पिब मत्स्व' इति ऋचं प्रतीकतयोपादत्ते-राय इति । ननु मदेः शनि शनामष्ठामिति सूत्रेण धातोर्टीर्धत्वे थासि तस्य से इत्यादेशे एकारस्य सवाभ्यां वामाविति वत्वे माद्यस्वेति भाव्यमित्यत आह-विकरणलोप इति ॥
गूढवाक्यार्थपञ्चिका
(छ.टि.) ‘राये वाजाय' इति तृतीयां ऋचं प्रतीको गृह्णाति-राय इति ।। मूले राये वित्तायेत्युक्तम् । रैशब्दस्य निघण्टौ धननामसु पाठात् । तथा वाजाय अन्नायेत्युक्तिरपि वाजशब्दस्य अन्नानामसु पाठादिति बोध्यम् । वज्रिव इति पदस्य व्याख्यानं मूले वज्रिणमित्यादि । तेन सूचितं विग्रहं दर्शयति-वज्रिणमित्यनेनेति ॥ डस्प्रत्यय इति ।। ' सर्वधातुभ्योऽसुन्' इति असुन्प्रत्यये टिलोपार्थं तस्य डित्वं 'उणादयो बहुलं' इति बहुलग्रहणात् ज्ञेयमिति भावः । क्वचित्पाठ इति ।। मूल इति शेषः । श्रुतौ ‘राये वाजाय वज्रिण: शविष्ट' इति सकारान्तवज्रिव: शब्दपाठबलात् असन्प्रत्ययान्तत्वाङ्गीकारस्य अवश्यकत्वात् वज्रिवस्शब्दात् प्रथमैकवचने 'अत्वसन्तस्य' इति दीर्घे, सो: हल्ङयादिलोपे ' व्यत्ययो बहुलं' इति प्रातिपदिकसकारलोप इति भावः । मन्त्रे तु सम्बुध्यन्तत्वेन असंबुद्धावित्यनुवृत्तेर्न दीर्घः । रिप्रत्यय इति ।। ‘वंक्यादयश्च' इति उणादिसूत्रपठितगणे वज्रशब्दस्यापि निपातादिति भावः । कसिति ।। औणादिकासुन्प्रत्यस्यैव बाहुलकं कित्वमित्यर्थः । तेन 'आतो लोप इटि च' इति बाधातोरकारलोप इति भावः । वज्रिर्गमक इति णिजन्तधात्वर्थमुक्त्वा नियामकत्वेनेति मूलानुसारेण नियामक इति तात्पर्योक्तिरिति ज्ञेयम् । इति वज्रिवाः इत्येतदनन्तरं तस्य सम्बुद्धिः हे वज्रिव इति श्रीतपदविग्रह इति शेषः ।
ननु नियामकस्य सदाविद्यमानत्वेन कथं गच्छतीत्युच्यते इत्यतस्तात्पर्यमाह- प्रवर्तत इति ।। ज्ञानादिदानार्थमिति शेषः । मूले शविष्ठपदं बलवत्तमसुखवत्तमेति द्वेधा व्याख्यातम् । तत्र शवशब्दस्य निघण्टौ शवस्तर इति बलनामसु पाठेन बलार्थकत्वात् तथा शिवशब्दस्य निघण्टौ शिवं शिवमिति सुखनामसु पठितस्य 'तृतीयोऽतिशय' इति सूत्रेण इकारस्थाने अकारादेशयुक्तस्य शवशब्दस्य अत्यन्तसुखवाचित्वात् तस्मात् अतिशायिने 'तमबिष्टनौ' इति इष्टन्प्रत्यये शविष्ठरूपसिद्धिरिति बोध्यम् । ऋजिधातुर्यद्यपि धातुपाठे भर्जनार्थको व्याख्यातः तथापि तस्यार्थस्य प्रकृते बाधितत्वात् ‘धातूनामनेकार्थत्वात्’ इत्युक्तेः मूले ऋञ्जस इत्यस्य प्रकृतोपयोग्यर्थ उक्तः। ऋञ्जसे प्रेरयसि सर्वानिति ।
ननु तर्हि अस्यां ऋचि मंहिष्ठ वज्रिन्नृञ्जस इत्युक्तेः पुनरुक्तिः स्यात् । तथा विदारायः सुवीर्यमित्युक्तेः अस्यामृच्यपि मंहिष्टवज्रिन्नृञ्जसे इत्युक्तेः पुनरुक्तिः स्यादित्यतो मूले मंहिष्ठ वज्रिन्नृञ्जस इत्यभ्यासस्तात्पर्यार्थ इत्युक्तम्। तदुभयशेषत्वेन योजयति-वज्रिन्नृञ्जस इत्यस्यामृचीति ।। अस्य ‘राये वाजाय' इत्यत्र उत्तरस्यां विदारयेत्यत्रेत्यर्थः । अभ्यासः उक्तस्य पुनरुक्तिः, तात्पर्यार्थः विवक्षातिशयद्योतनार्थमित्यर्थः । ' आयाहि पिब मत्स्त्व' इत्यनेन अत्र आयाहीत्युक्त्वा पिबेत्युक्तेः कर्माभावात् तदध्याहरतिपिब सोममिति || ' पा पाने' इति धातो: लोटि सिपः 'सेर्ह्यपिच्च' इति ह्यादेशे शपि पाप्रेति पिबादेशे 'अतो हे:' इति हिलोपः ।
ननु 'मदि हर्षे' इति धातो: लोटि धासि 'धास: से' इति से इत्यादेशे तदन्तस्य 'सवाभ्यां वामौ' इति वादेशे दिवादित्वात् श्यनि 'शमामष्टानां दीर्घः श्पनि' इति दीर्घे माद्यस्वेति भाव्यम् । तत्कथं मत्स्वेति शङ्कापरिहारसूचनं मूले नैव कृतमिति भावेनाह-मत्स्व मदं कुर्वित्यनेन विकरणलोपछान्दस इत्युक्तमिति । 'व्यत्ययो बहलं' इति श्यन्विकरणलोप इति भावः । तथा च मदधातोः अन्तर्णीतण्यर्थात् लोटि निष्पन्नमत्स्वेत्यस्य भक्तान् हर्षयस्वेत्पर्थ इत्युक्तं भवति । स्वहर्षस्य नित्यसिद्धत्वेन सोमपानेन अजननात् ।