न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः

( अर्थवादानां प्रामाण्यस्य समर्थनम् )

मूलम्

४३- मूलम् -न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः । सिद्धार्थे प्रामाण्यस्य साधितत्वात् । अविरोधाच्च । न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम् । वचनेनैव प्रतीयमानत्वाद् अर्थस्य कल्पनाभावात् । न च वाचनिकार्थस्तात्पर्यार्थ इति विशेषः । तन्मानाभावात् ॥

टीका

टीका- एवमर्थवादानामपि स्वार्थे प्रामाण्यमङ्गीकृत्यैतानि वाक्यानि व्याख्यातानि । ये पुनर्मिमांसकाः 'वायुर्वै क्षेपिष्ठा देवता' इत्यादीन्यर्थवादवाक्यान्युदाहृत्य नैतानि स्वार्थे प्रामाण्यमश्नुवते किन्तु नियोगापरपर्यायकार्य एव इति निर्णीतवन्तः, तन्मतं दूपयति न चेति ॥ तथाहि-किं सिद्धेऽर्धे वाक्यस्य प्रामाण्याभावादर्थवादानां च स्वार्थाः सिद्धा एवेति तेषां तत्र प्रामाण्याभावः कल्प्यते ? किं वा 'नेच्छन्दसां कृच्छ्रादवपद्यै' इति व्यतिषक्तशंसनस्य पापहेतुत्वमुच्यते ।अथ यः पाप्मानमपजिघांसुः स्यात्इति पापनिवृत्तिहेतुत्वमुच्यते । एवमन्यत्रापीति परस्परं प्रमाणान्तरेण च ।विरोधात्? अथवा पराङ्गभूतत्वादेषां शंसनादिकर्तव्यतायां तात्पर्यं तादवश्यमङ्गीकार्यम् । स्वार्थेऽपि तात्पर्याङ्गीकारे कल्पनागौरवप्रसङ्गात् ? उताऽम्नायस्य पुरुषप्रयोजनार्थं प्रवृत्तस्य क्रियायामेवानुष्ठानयोग्यतायां बोधितायां प्रयोजनं भवति न सिद्धेऽर्थे इति क्रियार्थत्वादर्थवादानां चातदर्थानामानर्थक्यप्रसङ्गात् ? यद्वा क्रियायामेव प्रतिपादितायां वाक्यस्य पर्यवसानात्तद्रहितानामाकाङ्क्षितापूर्त्या वाक्याभासत्वापातात् ? अथवा वायु क्षेपिष्टत्वादीनां प्रमाणान्तरप्राप्तत्वेनानधिगतार्थत्वाभावात् ? आद्यं दूषयति-सिद्धार्थ इति ॥ द्वितीयमपाकरोति-अविरोधाच्चेति ॥ ' नेच्छन्दसाम्' इत्यादौ यथा न विरोधस्तथोक्तम् । एवमन्यत्रापि विरोधाभावो द्रष्टव्यः । तृतीयं प्रतिषेधति-न चेति । वह्नर्थेष्वित्यनेकत्वोपलक्षणम् । कुतो नेत्यत आह-वचनेनैवेति ।। कल्पनायां हि गौरवम् । न चानेकार्थत्वं कल्प्यते । किन्तु प्रमितमेव । शंसनादिकर्तव्यतार्थत्वं तावत्परेणाङ्गीकृतम् । स्वार्थश्च वचनेनैव प्रतीयते । न ह्यस्य शब्दस्यायमेवार्थ इत्यत्र प्रतीतिमपहाय प्रमाणान्तरमस्ति । शब्दानुशासनादीनां च सैव मूलम् । अत एवाहुः 'प्रयोगमूलं हि व्याकरणम्' इति । तदेवं स्वार्थस्य वचनेनैव शब्दशतव प्रतीयमानत्वेन कल्पनाभावाच कल्पनागौरवम् । अत्र सर्वत्र वचनशब्देन शब्दशक्तिमात्रमुच्यते । न तु मुख्या शक्तिरित्यवधेयम् ।

न्वसङ्गतमेतत् । न हि वयमर्थवादानां स्वार्थी वाचनिको न भवतीति ब्रूमः । किन्त्वेनेकत्र तात्पर्यकल्पने कल्पनागौरवप्रसङ्गात्तात्पर्याय न भवतीति । तत्र वचनेनैव प्रतीयमानत्वोक्तेः कोऽवसरः ? इत्यत आह-न चेति ।। स्यादेयम् । यदि शब्दशक्तिविपयादन्यस्तात्पर्यार्यो नाम स्यात् । न चैवम् । किन्तु तत्परमुद्देश्यं शब्दशक्तिगोचरो यस्य तत् तत्परं तस्य भावस्तात्पर्यं तस्य विषयस्तात्पर्यार्थ इति शब्दशक्तिगोचर एवोच्यते । कुत इत्यत आह- तदिति ॥ द्विविधा हि शब्दशक्तिः, मुख्यामुख्यभेदात् । मुख्या द्विविधा, योगरूढिभेदात् । तथाऽमुख्यापि लक्षणा गौणीति । एतद्वियो वाचनिक इत्युच्यते । एतव्यतिरिक्तायां तात्पर्यवृत्तौ तद्विषये च मानाभावात् । अन्विताभिधानाङ्गीकारेण वाक्यार्यप्रतीतेरलिङ्गत्वात् । अभिहितान्वयवादिभिरपि वाक्यार्थस्य लाक्षणिकत्वाङ्गीकारादिति ॥

भावदीपः

(रा.टि.) वायुरिति ॥ ' वायुर्वे क्षेपिष्टा देवता वायुमेव स्वेन भागधेयेनोपधावति स एनं भूतिं गमयति' इत्यादीनीत्यर्थः । कार्य एवेति ॥ लिङागर्थभूते स्वर्गादिसाधने यागादिक्रियाजन्येऽपूर्व एव प्रामाण्यमनुवत इत्यर्थः । पापहेतुत्वमुच्यत इति ॥ विहरणेनोत्पादितदेवतादुःखापादनादिति भावः । प्रमाणान्तरेण च विरोधादिति । 'प्रजापतिरात्मनो वपामुदखिदत्’ ‘अदितिर्द्यौरदितिरन्तरिक्षम्' इत्यादाविति भावः । एषामिति ॥ व्याप्तो गतश्रीरित्येवमाद्यर्थवादानां विधेः प्राशस्त्यपरतया तदङ्गभूतत्वादित्यर्थः । आदिपदेन यागादिपरिग्रहः । ' आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति जैमिनिसूत्रोक्तं विकल्पमाह-उताम्नायस्येति । क्रियार्थत्वादित्यत्रान्वयः । तदुपपादनम्-पुरुषेत्यादिना ।। सिद्धार्थ इति इतिशब्दो हेत्वर्थः । अतदर्थानां यागादिरूपक्रियार्थहीनानां सिद्धार्थबोधकानामिति यावत् । तद्रहितानां क्रियार्थत्वरहितानामर्थवादानामाकाङ्काया अपूर्त्या वाक्याभासत्वापातादित्यर्थः । भूतिं गमयतीत्यन्तेनार्थे प्रतीते, अतश्च किमित्युक्तसाधनाकाङ्क्षापूरकरय वायव्यश्वेतपश्वालम्भनं कार्यमित्येवमर्थकविधिवाक्यस्य क्रियाबोधनेन पर्यवसितस्यानेनान्वयादिति भावः ।। क्षेपिष्ठत्वेति ॥ इष्ठन्प्रत्ययान्तस्य क्षिप्रशब्दस्य रूपत्वात् क्षिप्रत्वमर्थः । तेन श्रुतिग्राह्यक्षिप्रगामित्वस्य वायौ प्रत्यक्षेण स्पर्शलिङ्गेन वा प्राप्तत्वेनेत्यर्थः । एवं विकल्पितान् पडपि पक्षान्निराचिकीर्षुस्तावदाद्यपक्षत्रयं क्रमेण मूलवाक्यैरेव निराह-आद्यं दूपयतीत्यादिना ॥ अवशिष्टपक्षत्रयनिरासोऽग्रे दूरे न च क्रियायामेव प्रयोजनम्' इत्यादौ ध्येयः । तथोक्तमिति ।। ' तथा चायमर्थ:' इति प्रतिज्ञाय 'यः पुरुष: स्वात्मानम्' इत्यादिनोक्तमित्यर्थः । एवमन्यत्रापीति । उदितानुदितहोमादावधिकारिभेदेन, ‘आदितिद्यौः' इत्यादावभेदस्य गौणत्वेनेत्येवमादिरूपेण विरोधाभावो द्रष्टव्य इत्यर्थः ।

अर्थद्वयवाक्यसङ्ग्रहायाह-अनेकत्वोपलक्षणमिति ॥ शब्दार्थनिर्णये प्रतीतिरेव प्रमाणमित्यत्र सम्मतिमाहशब्दानुशासनादीनामिति ॥ अर्थ-विशेषे प्रकृतिप्रत्ययव्युत्पादनं शब्दानामनुशासनम् । आदिपदेन निरुक्तनिघण्टवादिसङ्ग्रहः । अत एवेति || अनुशासनादेरर्थप्रतीतिमूलत्वादेव । प्रयोगमूलम्-अर्थप्रतीतिमूलमित्यर्थः । यद्वा प्रयोगः शब्दशक्तिः । मूल-वाक्यार्थमाह-वचनेनैवेति ।। ' पुरुष एवेदं सर्वम्' इत्यादौ वृत्यन्तरेण प्रतीतार्थस्याशाब्दत्वानिरासायाह- अत्रेति ॥ प्रकरणे, सर्वत्र वाक्येषु । शब्दशक्तिमात्रमिति ॥ मुख्यामुख्यशब्दसाधारणशब्दवृत्तिमात्रमित्यर्थः । शब्दशक्तिगोचर इति । शब्दवृत्तिविषय उद्देश्यो यस्येत्यर्थः । ननु पदानां पदार्थेष्वेवोक्तचतुर्विधवृत्तिमत्त्वेनान्वयरूपे वाक्यार्थे कापि वृत्तिर्नेति शब्दात्तत्प्रतीत्यन्यथानुपपत्त्या चतुर्विधवृत्त्यन्या काचित्स्वीकार्या । तथा च प्रयोगः-उक्तरूपचतुर्विधवृत्त्यविषयो वाक्यार्थः शब्दवृत्तिविषयः, शब्दजप्रतीतिविषयत्वात्, पदार्थवदिति चेत्तत्राह-अन्वितेति । यदि सामान्यतः शब्द- शक्तिविषयोऽपि वाक्यर्थो न स्यात्तदा स्यादेवम् । न चैवं प्रकृते । सिद्धेरुक्तप्रतीतेर्लिङ्गत्वाभावादित्यर्थः । पदैः पदार्थ एवाभिधीयन्ते नान्वय योग्येतरान्वितस्वार्थेषु शक्त्यादिरूपवृत्तेरङ्गीकारेणोक्तचतुर्विधवृत्त्यविषयत्वा-इति ते प्रागुक्तिरिति अनुसर्तव्येत्यत आह-अभिहितेति ॥ पदान्येव वचनवृत्त्या पदार्थानभिधाय लक्षणया तेषामन्वयं च बोधयन्तीत्यङ्गीकारादित्यर्थः ॥

कर्मप्रकाशः

(स.टि.) एवमर्थवादानामिति । स्वार्थे प्रामाण्यं सिद्धवत्कृत्य 'स यो व्याप्त' इत्यादीनि वाक्यानि व्याख्यातानि । इदानीमनेके मीमांसकाः प्रामण्यशब्दार्थमनेकधा कल्पयित्वा अर्थवादवाक्यानां तदभावमाचक्षते । तेषां मतमपाकरोतीत्यर्थः । मूले न चैवमादीति । परिकल्पितेषु अनेकेषु प्रामाण्य शब्दार्थेषु कस्याप्यभावो नेत्यर्थः । हेतुवाक्यानि सङ्गमयितुं प्रामाण्यशब्दार्यान् विवेचयति टीकायाम् । सिद्धेऽर्थे वक्यस्येति || बोधकत्वं प्रामाण्यशब्दार्थः । तस्य व्युत्पत्तिग्रहो हेतुः । तथा च वाक्यानां सिद्धार्थव्युत्पात्यभावेन कार्यान्वयं विना सिद्धमात्रबोधकत्वाभावात् । अर्थवादवाक्यानामपि कार्यान्वयवैधुर्येण स्वार्थबोधकत्वाभाव उच्यते' इत्यर्थः । किं वा नेमे छन्दसामिति ॥ याथार्थ्यमेव प्रामाण्यशब्दार्थः । अर्थवादवाक्यानामर्थस्तु प्रमाणान्तरेण च विरुद्ध इति नार्थवादवाक्यानां स्वार्थे प्रामाण्यमित्युच्यते वेत्यर्थः । अथवा पराङ्गेति ।। तात्पर्यं प्रामाण्यशब्दार्थः । वाक्यस्य यत्र तात्पर्यं पश्यन्ति, तस्मिन्नर्थे इदं वाक्यं प्रमाणमिति व्यवहरन्ति इति दर्शनात् । तथा चार्थवादवाक्यानां स्वार्थे तात्पर्यङ्गिकारे कल्पनागौरवलक्षणबाधकसद्भावात् तात्पर्यलक्षणं प्रामाण्यं नास्तीत्युच्यते वेत्यर्थः । एतेन गौरवसद्भावेऽपि बाधाभावे याथार्थ्यानपगमात् गौरवेण प्रामाण्यं नास्तीत्युक्तमिति परास्तम् । याथार्थ्यलक्षणवाक्यानां प्रामाण्यमनिषिध्य तात्पर्यलक्षणप्रामाण्यस्यैव निषेधात् । उतामायस्येति । सप्रयोजनत्वं प्रामाण्यशब्दार्थः । क्रियानुष्ठानेन च फलं भवति, न सिद्धार्थेन । अनुष्ठानायोग्यत्वात् । ततश्च क्रियाबोधेने वाक्यं सफलं भवति न सिद्धबोधने नास्तीति चोच्यते इत्यर्थः । शब्दक्रियायामेवेति ॥ निराकाङ्क्षत्वमेव वाक्य-इति क्रियान्वयं विना सिद्धप्रतिपत्तिजनकस्यार्थवादस्य सप्रयोजनत्वलक्षरप्रामाण्यं प्रामाण्यम् । निराकाङ्क्षत्वं च क्रियाप्रतिपादनेन भवति नान्यथेति अर्थवादविधिवाक्येनैकवाक्यताज्ञानाभावदशायां स्वार्थमात्रप्रतिपादनेन नैराकाङ्क्षयलक्षणप्रामाण्यं नास्तीत्युच्यते वेत्यर्थः । अथवेति । अनधिगतार्थत्वमेव प्रामाण्यशब्दार्थः । अर्थवादवाक्यार्थस्य प्रमाणान्तरगम्यत्वात् अर्थवादवाक्यानामनधिगतार्थत्वं प्रामाण्यं नास्तीत्युच्यते वेत्यर्तः । मूले सिद्धार्थ इति ।। सिद्धे व्युत्पत्त्यसम्भवस्याप्रामाणिकत्वात् विध्यैकवाक्यताज्ञानाभावदशायामर्थवादवाक्यानां बोधकत्वं नास्तीति न युक्तमिति भावः । एतेन इयं माता अयं पिता इत्यादिना सिद्धे व्युत्पत्तिसमर्थनेऽपि प्रामाण्यस्यासमर्थनात् प्रामाण्यस्य साधितत्वादित्यभिधानमयुक्तमिति परास्तम् । सिद्धे व्युत्पत्त्यभावात् नार्थवादवाक्यानां विध्यन्वयानुसन्धानाभावदशायां स्वार्थबोधकत्वमिति शङ्कानिरासाय सिद्धे व्युत्पत्तिः प्राक् समर्थितेत्यभिधाने तात्पर्यात् । यथा न विरोधस्तथोक्तमिति || नेच्छन्दसामित्यादौ नरकादिकं न प्राप्नुयामित्यर्थकत्वं निषिध्य गतशोभत्वं न प्राप्नुयामित्यर्थकथनेनेत्यर्थः । शक्तिमात्रमुच्यत इति !! शब्दवृत्तिमात्रमुच्यत इत्यर्थः । योगरूढिलक्षणागौणीरूपशब्दवृत्तिलभ्योऽर्थः वाचनिकार्थः । तात्पर्यवृत्त्या लभ्योऽर्थः तात्पर्यार्थः । अस्माभिस्तु अर्थवादानां स्वार्थः तात्पर्यलभ्यो न भवतीत्युक्तम् । तत्र वचनेनैव प्रतीयमानत्वोक्तेः कोऽवसर इति शङ्कते । नन्वसङ्गतमेतदिति ॥ स्यादेवमिति ॥ एवं वाचनिकार्थत्वकल्पनस्यासङ्गतत्वं त्वदुक्तप्रकारेण स्यात् । यदि वचनवृत्तिलभ्यादन्यस्तात्पर्यवृत्तिलभ्योऽर्थः स्यात् । न चैवमित्यर्थः । किन्त्विति ॥ शब्दशक्तिगोचर् इति तच्छब्दार्थनिरूपणम् । उद्देश्यमिति परशब्दार्थनिरूपणम् । ततश्च तत् परं यस्य इत्येव विग्रहः । एवं च तच्चन्द्रशक्तिगोचरः परम् उद्देश्यं यस्य शब्दस्य सः शब्दः तत्पर उच्यते । तस्य भावस्ताप्तर्यमिति वक्तुरुद्देश्यशब्दशक्तिविषयस्य तात्पर्यमिति लभ्यते । शब्दादनेकेष्वर्थेषु प्रतीयमानेष्वपि योऽर्थो वक्तरुद्देश्य: स एव तात्पर्यार्थः न तु तात्पर्यवृत्त्या लभ्योऽर्थस्तात्पर्यार्थ इति भावः ।

ननु वाक्यार्थः प्रतीयते । सा च न पदानां शक्त्योपपत्रा । पदशक्तेः पदार्थमान्नविषयत्वेनान्वयरूपवाक्यार्थाविषयत्वात् । अतो वाक्यार्थप्रतीतिरेव तात्पर्यं गमयतीत्यत आह-अन्वितेति ।। योग्येतरान्विते स्वार्थे शक्तिमद्भिः पदैरेवान्वयबोधसम्भवान्नान्यथोपपत्तिरिति भावः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) एवमर्थवादनामपीति ॥ अथ यः पाप्मानमित्यादिवाक्यानां स्वार्थे पापनाशनादावित्यर्थः । ये पुन: मीमांसका इति प्राभाकरा इत्यर्थः । आदिशब्देन 'वायुमेव स्वेन भागधेयेनोपधावति स एवैह भूतिं गमयति' इति तथा 'तद्रुद्रस्य रुद्रत्वं' इत्यादिवाक्यं गृह्यते । शावरभाष्ये रोदीदित्यस्यैव । प्रथमं गृहीतत्वेन जयतीर्थ्यां 'वायुर्वै क्षेपिष्ठा देवता' इत्यादीनीत्यत्र आदि-शब्दस्य षष्ठीतत्पुरुषस्याश्रयणात् । सोऽरोदीदित्यादीन्यर्थवाक्यानीत्यर्थो विवक्षितो ज्ञेयः ।

तत्र अर्थवादाधिकरणे अर्थवादवाक्यानां धर्मे प्रामाण्यमस्ति न वेति संशयं कृत्वाआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां' इति सूत्रे वेदस्य कर्मप्रतिपादनार्थं प्रवृत्तत्वात् 'वायुर्वे क्षेपिष्ठा' इत्यादौ वाय्वादेः क्षिप्रफल दातृत्वादिप्रतिपादनेन कर्मप्रतिपादनाभावात्तेषां आनर्थक्यमप्रामाण्यमिति पूर्वपक्षयित्वा विधिना त्वेकवाक्यत्वात् ' स्तुत्यर्थे विधीनां स्युः' इति सूत्रेण सिद्धान्तः कृतः । अर्थवादवाक्यानां विधिस्तावकत्वादिना एकवाक्यत्वात् कार्ये तात्पर्यात् प्रामाण्यम् । न तु स्वार्थे इति । अतः मीमांसाविरुद्धं स्वार्थे तात्पर्यं कथमुच्यत इत्यतः प्राभाकरैः जैमिन्यभिप्रेतस्वार्थे तात्पर्याभावस्योक्तत्वादिति भावेन 'न चैवमादि' इत्यादिमूलं प्रवृत्तम् । तद्विवृणोति-तन्मतमिति ॥ सिद्धार्थे इत्याद्युत्तरग्रन्थसंगमनार्थं तन्मते विकल्पमाह-किं सिद्धेऽर्थे वाक्यस्येति ।। बालव्युत्पत्तेः कार्ये जातत्वात् व्युत्पत्यनुसारेण च वाक्यार्थबोधात् अर्थवादवाक्येषु कार्यबोधकलिङाद्यभावात् सिद्धार्थरूपे स्वार्थे प्रामाण्यासंभवादिति भावः । किं वा नेच्छन्दसामिति । अत्र छन्दसां कृच्छ्रात् व्यतिषिक्तशंसनलक्षणकृच्छ्रात् अवपद्यै पापं न प्राप्नुयामित्युक्ते व्यतिषक्तशंसनस्य अर्थात् पापकारणत्वप्राप्ते तथा 'अथ यः पाप्मानमपजिघांसुः स्यात्' इत्युत्तरवाक्येन पापनिवृत्तिहेतुत्वोक्ते एतयोर्वाक्ययोः परस्परविरोधात् । एवमन्यत्रापीति ।।उदिते जुहोत्यनुदिते जुहोति' इत्यादौ परस्परविरोधात् ।आदित्यो वै यूपः' इत्यादौ प्रत्यक्षेण विरोधात् । श्रुत्यपेक्षया प्रमाणान्तरविरोधः । पराभूतत्वादेषामिति । एषां अर्थवाद- वाक्यानां पराङ्गतत्वात् विधेः प्ररोचनार्थं प्रवृत्तत्वेन विध्यैकवाक्यत्वादित्यर्थः । पुरुषप्रयोजनार्थमिति ।। वेदस्य अधिकारिप्रयोजनं बोधयितुं प्रवृत्तत्वेन कर्मबोधने कृते स्वर्गादिप्रयोजनसिद्धिः । सिद्धार्थबोधने कृते तु तदसिद्धिरिति । क्रियार्थत्वात् वेदस्य कर्मप्रतिपादनप्रयोजनकत्वात् । अतदर्थानां कर्माप्रतिपादकानां अर्थवादानां आनर्थक्यप्रसङ्गात् । स्वार्थे अप्रामाण्यप्राप्तेरित्यर्थः । यद्वेति ।। क्रियायां धातुवाच्यव्यापाररूपायां तिङ्लेडन्तादिपदैः प्रतिपादितायामेव वाक्यस्य तिङ्सुबन्तसमुदायरूपस्य पर्यवसानात्समाप्तेः । अर्थवादानां च तद्रहितत्वेन आकाङ्क्षारूपकत्वाभावात् अकाङ्क्षायोग्यतासंनिधिमत्पदकदम्बत्वरूपवाक्यलक्षणाभावेन वाक्याभासत्वादित्यर्थः ।

प्रमाणान्तरप्राप्तत्वेनेति ।। वायोः क्षेयपिष्ठत्वं नाम अतिशयेन शीघ्रगन्तृत्वम् । क्षिप्रशब्दात् शीघ्रगन्तृवाचकात् अतिशयार्थे इष्ठन्प्रत्यये सतिस्थूलदूरयुवह्नस्वक्षिप्रक्षुद्राणाम्' इति सूत्रेण यणादिपरलोपे पूर्वस्य इकारस्य गुणे च क्षेपिष्टशब्दस्य सिद्धत्वात् तस्य प्रत्यक्षेणैव सिद्धत्वादधिगतार्थत्वेन 'वायुर्वे क्षेपिष्ठा' इत्यस्य तत्र तात्पर्याभावादित्यर्थः । मूले सिद्धार्ये इत्यस्यार्थः अयं ते पिता इयं माता इत्यादाविति । यथा न विरोध इति ॥ च्छन्दसामित्यादी नरकादिकं न प्राप्नुयामित्यर्थकत्वं निषिध्य गतशोभत्वं न प्राप्नुयामित्यर्थकथनेनेत्यर्थः । एवमन्यत्रापीति ॥ उदितानुदिते होमादी शाखाभेदेन विरोधाभावः । आदित्यो वै यूप' इत्यत्र गौणार्यत्वमाश्रित्य प्रत्यक्षविरोधाभाव इत्यर्थः ।

ननु तृतीयपक्षे अर्थवादानां शस्रशंसनकर्तव्यतायां तात्पर्यमङ्गीकृत्य स्वार्थेऽपि तात्पर्याङ्गीकारे कल्पनागौरवोक्तेः बह्वर्येषु तात्पर्यकल्पनाभावात् द्वयोरेव कल्पनादौ कल्पनागौरवप्राप्तेरुक्तत्वेन कथं बह्वर्थेति मूले उक्तमित्यत आह- अनेकत्वोपलक्षणमिति । कल्पनायां हीति । अप्रामाणिककल्पनायां अप्रमाणिकार्थकरण इत्यर्थः । स्वार्थश्वेति ॥ वायुक्षेपिष्ठत्वादिकं वचनेनैव पदप्रयोगेणैवेत्यर्थः ननु व्याकरणाभिधानादिना अर्थप्रतीतेर्जायमानत्वात् कथं प्रमाणान्तरं नास्तीत्यत आह-शब्दानुशासनादीनां चेति ॥ सैव विशिष्टानां प्रतीतिरेव । शब्दशक्तिमात्रमिति ॥ रूढियोगलक्षणागौणीरूपमित्यर्थः । तत्परमुद्देश्यमिति ।। अपेक्षितमित्यर्थः । तद्विवृणोति-गोचर इति ।। ननु वाक्ये न तावद्वाक्यार्थः प्रतीयते सा च न पदशक्त्या उपपन्ना । पदशक्तेः पदार्थमात्रविषयत्वेन पदार्थमात्रबोधकत्वात् अन्वयरूपवाक्यार्थबोधकत्वात् । तथा च तात्पर्यवृत्या वाक्यार्थबोधोऽङ्गीकरणीय इत्यत आह-अन्विताभिधानेति ॥ योग्येतरान्वितस्वार्थे शक्तिमद्भिः पदैरेव अन्वयबोधसम्भवात् । अन्यथोपपत्तेः सुधादावुक्तत्वात् वाक्यार्थबोधस्य तात्पर्यवृत्तिं प्रति लिङ्गत्त्वाभावादिति भावः । इदं प्राभाकरमतेऽपि समम् । अयं तु विशेषः । अस्माकं मते सामान्यतः योग्येतरान्वितस्वार्थे पदानां शक्तिः । अतः कारणात् पूर्वं गामित्यादिपदश्रवणे केनचिदन्वितगोरूपार्थाः प्रतीयते । पश्चात् आनयेत्यादिपदश्रवणानन्तरं विशेषशत्तयाऽविर्भावेन विशेषान्वयबोधो भवति । प्राभाकरमते तु पूर्वमंत्र विशेषान्वयबोध इति । भाट्टमते त्वाहअभिहितान्वयवादिभिरपीति ॥ पदैरेव परस्परं पदार्थानां सामान्यतोऽन्वयसिद्धिरिति कृत्वा भाट्टा अभिहितान्वयवादिन इत्युच्यन्ते । तैरपि वाक्यार्थस्य विशेषान्वयरूपवाक्यार्थस्य लाक्षणिकत्वाङ्गीकारादिति ।