नदं व ओदतीनान्नदं योयुवतीनाम्

(नदं व इति मन्त्रस्यार्थप्रपञ्चनम्)

मूलम्

३१- मूलम्- नदं व ओदतीनान्नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिपुध्यसि ॥ ३ ॥

ओदतीनाम् उन्दनकर्त्रीणां वः अपां भवदीयानां पतिं वः पुरुषं प्राणं नदं नदनकर्तारं प्रति इपुध्यसि पतिर्भवसि । सृष्टौ सृष्टौ यो यः प्राणस्तं तं प्रति पतिर्भवसीति नदमिति पुनर्वचनम् । योयुवतीनां गमनशीलानाम् आकाशे पोप्लूयमानानाम् अघ्न्यानां धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा । धेनूनां जगत्पोपकाणाम् । 'धिनु पुष्टौ ' इति धातोः । 'ता नदेन विहरति' इत्यादिश्रुतेः । पयसा सेचकानां देशाद्देशान्तरगमनशीलानाम् अघ्न्यानां हन्तुमयोग्यानां धेनूनां गवां पतिं वायुं प्रति इपुध्यसीति वा । 'वायुर्वाव गवां पतिः' इति श्रुतेः । धेनुशब्दाच्च ओदतीनां भक्त्या सेचकानां योयुवतीनाम् अतिशयेनात्मतत्वावगमकानाम् अघ्न्यानां नित्यानां धेनूनां धर्मार्थकामपोकाणां वाचां पतिं वायुं प्रति पतिर्भवसीति या । 'वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनास्स्वाहाकारो वषट्कारो हन्तकारस्स्वधाकार इति । तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारञ्च, हन्तकारं मनुष्यास्स्वधाकारं पितरः तस्याः प्राण ऋभो मनो बत्सः' इत्यादिश्रुतिभ्यः ॥ २ ॥

टीका

टीका- नदं वः । ओदतीनाम् । उन्दनं क्लेदनम् ।उन्दी क्लेदने। अत्रापि वो भवदीनामित्यादीश्वरं प्रति । पुरुषं भृत्यम् । ता नदेन विहरतीति खण्डद्वयेपुरुषो वै नदः' इत्येकत्र 'प्राणो नदः' इत्येकत्र श्रवणाद्यथाव्याख्यानमेव पदार्थादेरुक्तत्वादुक्तं युक्तमित्यर्थः । पयसेत्याद्यर्थान्तरमुपपादयति- वायुरिति ॥ ओदतीनामित्याद्यर्थान्तरम् । तस्योपपादनं वाचमिति ॥ २॥

भावदीपः

(रा.टि.) नदं व इति ॥ 'नदं व ओदतीनान्नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यति' । ओदतीनामिति भाष्यप्रतीकम् । उक्तार्थे धातुं पठति-उन्दी क्लेदन इति ।। क्लेदनमार्द्रीकरणम् । इत्यादीत्यादिपदेन वः पुरुषमिति । भाष्ये प्रतीकग्रहणमित्युपेत्यैतदुक्तेस्तात्पर्यार्थमाह- इति खण्डद्वय इति ।। यथाव्याख्यानमिति । ब्राह्मणकृतव्याख्यानानुसारेण प्राणादिश्रौतपदार्थवाक्यार्थतदुपपादनानामुक्तत्वादित्यर्थः । तथाहि - 'सर्वमन्नाद्यमुन्दति' इति श्रुतेः उन्दनकर्त्रीणामिति, 'आपो वा ओदत्यः' इति श्रुत्युक्तव्याख्यानुरोधाद् ओदतीनामित्यस्य अपामित्यर्थ उक्तः । ' पुरुषो वै नदः ' ' प्राणो वै नदः' इति व्याख्यानुरोधाद् वः पुरुषं प्राणमिति, 'तस्मात्प्राणो नदन् इत्युक्तस्यानुरोधान्नदनकर्तारमिति । 'द अव्यक्ते शब्दे' इति धातुः ।इषुध्यसीति यदाह पतिरसीत्येव तदाह' इति व्याख्यानुरोधाद् इषुध्यसीत्यस्य पतिर्भवसीति, ‘आपो वा योयुवत्य आपोऽन्तरिक्ष्यास्ता हि पोप्लयन्त इव' इति व्याख्यानुरोधात् आकाश पोप्लयमानानामितिआपो वा अघ्न्या या अग्नेर्धूमा जायन्ते' इत्युक्तेर्धूमरूपेणादाह्यानामिति, आर्द्रेन्धनादौ विद्यमानानामपां धूमरूपेण निर्गमनाददाह्यत्वमित्याहुः । ' आपोवा अघ्न्याः शिनः शिश्नादुपसृज्यन्ते' इत्युक्ते रेतोरूपेणाजराणामित्यर्थ उक्तः । 'आपो नवस्ता हीदं सर्वं धिन्वन्ति' इत्युक्तेर्धेनूनां जगत्पोपकाणामित्युक्तम् । | पयसेत्यादिकं किमित्यत आह-पयसेत्याद्यर्थान्तरमिति । तस्योपपादनं वाचमितीति ।। तृतीयार्थस्येत्यर्थः । तस्यां श्रुतौ वाचः सर्वोपजीव्यत्वमुक्त्वा तत्पतित्वं प्राणस्योच्यत इत्युपपादनमित्युक्तम् ।

अयमर्धसङ्ग्रहः- हे इन्द्र परमेश्वर ! योयुवतीनां गमनशीलानाम्, आकाशे पोप्लूयमानानां वाप्लुङ् गतौ' अन्यानां धूमरूपेणादह्यमानानां रेतोरूपेणाजराणां वा, धेनूनां जगत्पोषकाणां वो भवदीयानाम्, 'युष्मदि गुरावेकेषाम्' इति बहुवचनम्, ओदतीनाम् उन्दनकर्त्रीणामपां पतिं स्वामिनं वो भवदीयं तव भृत्यभूतं नदं नदनकर्तारं प्राणं प्रति इषुध्यसि पतिर्भवसीत्येकोऽर्थः ।

अन्यस्तु हे इन्द्र परमेश्वर ! ओदतीनां पयसा सेचकानां योयुवतीनां देशान्तरगमनशीलानाम् अघ्न्यानां हन्तुमयोग्यानां वो भवदीयानां धेनूनां गवां पतिं वः पुरुषं तव भृत्यभूतं नदं प्राणं प्रति इषुध्यसीति ।

अपरस्तु-हे इन्द्र ! ओदतीनां भक्त्या सेचकानां योयुवतीनाम् अतिशयनात्मतत्वावगमकानाम् । गत्यर्थस्य युधातोर्यडन्तस्यौणादिकातिप्रत्ययान्तस्य रूपत्वात् । अद्न्यानां नित्यानां धेनूनां धर्मार्थकाममोक्षपोषकाणां वो भवदीयानां वाचां पतिं वः पुरुषं भदद्धृत्यं नदं प्राणं प्रति इषुध्यसि इति ॥ २ ॥

कर्मप्रकाशः

(स.टि.) 'नदं व ओदतीनान्नदं योयुवतीनाम् । पतिं वो अघ्नानां धेनूनामिषुध्यसि' इत्यृचं प्रतीकतयोपादत्ते-नदं व इति ॥ उन्दनं क्लेदनमिति ।। धान्यानां विक्लितिरित्यर्थः । ननु भाष्ये प्राणस्येति सूददोह-शब्दस्य प्राण इति व्याख्यातत्वात् प्राणस्य परमेश्वरस्येत्येव व्यवहारः कर्तव्यः । न तु वायुस्थस्येति । प्रकृतप्राणशब्दपरित्यागेन वायुशब्दग्रहणे कारणाभावादित्यत आह-प्राणो वा इति । श्रुतौ सुददोहदान्दस्य प्राण इति व्याख्यानात् तदनुसारेण सूददोह इत्यस्य भाष्यकृता प्राणस्पति व्याख्यानं कृतम् । वायुस्थस्येति तु अभिप्रायकथनमात्रमिति व्याख्यानरूपश्रुतौ उच्चारितशब्द एव उच्चारणीय इति नियमाभावाद्वायुस्थस्येति शब्दः प्रयुक्त इति भावः ।

गूढवाक्यार्थपञ्चिका

( छ.टि.) नदं व इति ऋक्प्रतीकग्रहणं । 'नदं व ओदतीनां नदं योयुवतीनां । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि' इति तु ऋक् ज्ञेया । तत्र मूले ओदतीनामिति ऋक्पदमनूद्य उन्दनकर्त्रीणामिति व्याख्यातम् । टीकायां तु ओदतीनामिति मूलप्रतीकं उन्दनकर्त्रीणामिति व्याख्यानस्थोन्दनशब्दार्थी- प्रतीतेस्तद्व्याख्यानपूर्वकं तन्मूलधातुमप्याह-उन्दनं क्लेदनमिति || क्लेदनं तण्डुलादीनां पाकेन मृदुभावः । क्लेदने इति सप्तम्यन्तात्परमिति धातोरिति शेषः । ननु नदं व इत्यस्य ऋचि मूले व इत्येतद्भवदीयानामिति व्याख्यानं यत् तत्किं एतादृक्स्थषष्ट्यन्तपदप्रतिपाद्याप्सम्बोधनपक्षे वा विष्णु-सम्बोधनपक्षे वेत्याशङ्कायामाह-अत्रापीति ॥ व इत्यस्योदकविषयत्वे भृत्यवाचकपुरुषशब्देन मुख्यप्राणविशेष्यकेनान्वयासंभवात् मुख्यप्राणस्योदकाभिमानिवरुणभृत्यत्वाभावादिति भावः । आदिशब्दादृचि इषुध्यसीत्यस्य मूले भवसीत्यस्य च ग्रहणम् । तथा च व ओदतीनामिति व्यधिकरणे षष्ठी । हे इन्द्र वो भवदीयानां ओदतीनामपांपतिः वः पुरुषं वो भृत्यप्राणं प्रति इषुध्यसीति यदाह पतीयसीव तदाहेति श्रुतिबलात् पतिवाचकात् इषुधारण इत्यतः कण्ड्वादित्वाद्यकि निष्पन्नत्वात् इषुध्यसि पतिर्भवसि त्वमित्यर्थो लभ्यत इति भावः । श्रुत्यर्थस्तु इषुध्यसीति पादं यत्प्रमेयमाह तत्प्रमेयमेव पतीयसीति पदमप्याहेति । पतिशब्दाद्भवत्यर्थे 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्प्रत्यये ककारस्य इत्संज्ञायांअकृत्सार्वधातुकयोः' इति पतिशब्दस्य 'दीर्घे वा क्यष' इति परस्मैपदे लटि मध्यमपुरुषे शिपि निष्पन्नस्य पतीयसीतिशब्दस्य पतिर्भवसीत्यर्थकत्वात् ।

ननु नदं व ओदतीनामिति ऋक्पादं गृहीत्वा नदशब्दव्याख्यानमारण्यके 'ता नदेन विहरति पुरुषो वै नदः' इति खण्डे, 'ता नादेन विहरति प्राणो वै नदः' इति खण्डे च कृतं तत्र नदशब्दवाच्ययोः पुरुषप्राणयोर्भेदभ्रमवारणाय मूले पुरुषं प्राणमिति सामानाधिकरण्येन व्यवहृतम् । तत्र पुरुषशब्दार्थमाह-पुरुषं भृत्यमिति ॥ राजपुरुष इत्यादौ पुरुषशब्दस्य भृत्यार्थकत्वप्रतीतेरिति भावः ।

ननु मूले पुरुषं प्राणमिति कस्यायमनुवाद इति न ज्ञायते तथा ओदतीनां इषुध्यसीत्यादेः उन्दनकर्त्रीणामिति पतिर्भवसीत्यादिव्याख्यानं च कस्मात्प्राणादिति न ज्ञायत इत्यत आह-ता नदेन विहरतीत्यादि । श्रवणादित्यनन्तरं खण्डद्वपस्थं पुरुषं प्राणमिति पदद्वयं भेदशङ्कावारणाय मूले अनूदितमिति शेषः । यथा व्याख्यानमेव आचार्यकृतव्याख्यानानुसारेणैव पदार्थादिरुन्दतीनामित्यादिपदानां उन्दनकर्तृत्वादिरूपार्थस्य आदिशब्दात् वाक्यार्थस्य चोक्तत्वात्।ता नदेन विहरति पुरुषो वै नदः' इति खण्डे संपूर्णऋगर्थस्योक्तत्वादाचार्योक्तं पदार्थादिकं सर्वं युक्तमेवेति तात्पर्यार्थः । अथवा यथात्र्यारत्र्यानम् । खण्डोक्तऋग्व्याख्यानुसारेण आचार्यैः उन्दतीनामित्यादिपदार्थादिरुक्तत्वादाचार्योक्तं सर्वं युक्तमित्याचार्याणां अभिप्रेतोऽर्थः । मूले पुरुषप्राणविशेषस्य नदशब्दस्य नदनकर्तारमिति व्याख्यानं कृतम् । तत्र 'द अव्यक्ते शब्दे' इत्यतः कृत्वा कर्त्रर्थकपचाद्यचि निष्पन्ननदशब्दस्य वचनार्थकत्वं ज्ञेयम् । तस्मात्पुरुषो वदन् सर्वः संनदती वेति वचनार्थकत्वोक्तेः । एवमेव प्राणो नदन्नित्युत्तरखण्डेऽपि नदन्नित्यस्य वदन्नित्यर्थो बोद्धव्यः | अत्र स्पष्टमुक्तेः ।

तथा च नदं व ओदतीनामिति पादस्य खण्डद्वयोक्तोऽयमर्थः ।ता नदेन विहरति पुरुषो वै नदस्तस्मात्पुरुषो वदंत्सर्वः संन्नदतीव नदं व ओदतीनां ॐ, आपो वा ओदत्योया दिव्यास्ताहीदं सर्वमुदंत्यापो वा ओदत्यो यागुख्यास्ताहीदं सर्वमन्नाद्यमुदंतीति । ता नदेन विहरति प्राणो वे नदस्तस्मात्प्राणो नदंत्सर्वः सन्नदतीव नदंव ओदतीनामिती ३' इति खण्डद्वस्थवाक्यानां मिलित्वायमाशयः । ताः आपः कर्मणि द्वितीयान्तमेतत् नदेन पुरुषाख्यप्राणेन विहरति कथन अधिकारीति शेषः । क्रीडयति हरिपूजादिना आपः ज्ञानी स्वान्तस्थमुख्यप्राणेन अद्भिः हरिपूजादिकं करोति | मुख्यतः प्राण एव करोतीत्यनुसन्दधातीति यावत् ।

नदशब्दवाच्यार्थं वदन् योगमप्याह-पुरुषो वै नद इति ।। तस्मान्मुख्यपूजाकर्तृत्वात्पुरुषो मुख्यप्राणः वदन्मन्त्रादिकमिति शेषः । सर्वः सन्नदतीव सर्वं जगत्सम्यङ्नादयतीवेत्युच्यते तत्र ऋकूपादं प्रमाणयति-नदं व ओदतीनामितीति तं व्याचष्टे-अपो वा ओदत्य इति ।। आपो ओदत्य इति प्रतिज्ञातमर्थं दिव्यभौमविभागेन विद्यमानद्विविधास्वप्सु उपपादयति-या दिव्यास्ता हीन्द्रं सर्वमुदन्तीति । इदं सर्व दिव्याः स्वर्गस्थाः पर्जन्यरूपा आपः भूम्यादिकमुंदन्ति मृदुकुर्वन्ति । या मुख्या भूमौ नद्यादिस्थिताः सर्वमन्नाद्यं अन्नशाकादिकम् । एवं च उन्दी क्लेदने इत्यतः लटः शत्रादेशे उन्देर्नलोपश्चेति नकारलोपे 'पुगन्त' इत्युपधागुणेउगितश्च' इति ङीपि ओदतीशब्दनिष्पत्तिरिति भावः । ऋचि नदं योयुवतीनामिति पुनर्नदग्रहणस्य प्रयोजनं आचार्यैरुक्तम्-सृष्टौ सृष्टाविति ॥ नित्यवीप्सयोरिति सूत्रेण नदशब्दस्य वीप्सायां द्वित्वोक्तेः नदं नदं प्रति शुध्यसीत्यनेन अस्यार्थस्य प्रतीतेरिति भावः । ऋद्वितीयपादस्थं योयुवतीनामितिपदस्य व्याख्यानं मूले कृतम् । गमनशीलानां अकाशे पोप्लयमानानामिति । युमिश्रणामिश्रणयोरिति धातोः यङ्लुकि द्वित्वे अभ्यासगुणे लटः शत्रादेशे धातोरुवङादेशे ङीपि निष्पन्नो योयुवतीशब्द इति भावेन आचार्यैरयमर्थ उक्तः । यज्ञार्थः क्रियासमभिहारः शीलशब्देनानूदितः उपनिषदि तु आपो वाव योयुवत्यो या अन्तरिक्ष्यास्ताहि पोप्लूयत इति योयुवतीशब्दमनूद्य विशेष्यमुक्त्वा व्याख्यातम् ।तत्रान्तरिक्षशब्दः आकाशार्थकः । प्लङ् गतौ इत्यस्मात् 'पटुताल्लटि शानचादेशे आनेमुक्' इति मुगागमे पोप्लूयमानशब्दनिष्पत्ति: । उपनिषदि पोप्लयन्त इति लट्प्रत्ययान्तः प्रयुक्तः गमनेति प्लुङोर्थानुवादो मूले । तथा च योयुवत्यः आपो वाव । वाशब्दः निश्चियार्थः । कथं याः आपः अन्तरिक्ष्याः आकाशस्थाः ताः हि यस्मात् पोप्लयन्त इव गमनशीला इव भूमी पतनादिति उपनिषद्व्याख्यानमाचर्यवाक्यैः कृतं योयुवतीनामित्यस्योपनिषत्स्थं द्वितीय- व्याख्यानंआपो वा योयुवत्यो याः स्वेदते ता ही सरीसृप्यंत इव' इति ।

तस्यायमाशयः । याः आपः स्वेदते शरीरे धर्मरूपेण पुरुषो निःसारयति । ताः सरीसृप्यन्ते हि पुनः पुनः निर्गच्छन्ति हि । सृप गतावित्यतः यङन्ताट्टित्वेरीगृदुपधस्य च' इत्यभ्यासस्य रीगागमः । ऋक्स्थतृतीयपादमनूद्योपनिषदि व्याख्यातम् । पतिं वो अघ्न्यानामिति ।आपो वा अघ्न्या या अग्नेर्धूमा जायन्त' इति मूले तु ऋक्स्थमघ्न्यानामिति पदमनूद्योपनिषदुक्ततात्पर्यार्थस्य अग्रेधूंमाज्जायन्त इत्यस्य धूमरूपे दाह्यानामिति तात्पर्यार्थ उक्तः । उपनिषदक्षरार्थस्तु-याः आपः अघ्न्याः वाशब्दोऽवधारणार्थः ।नञ्पूर्वात् हन हिंसागत्योः' इत्यतः गमने हेत्युपधालोपेहोहंन्तेः' इति कृत्वेन हस्य घत्वे ध्याः हिंसितुं योग्याः न घ्या: अघ्न्याः अदाह्या इति तु तात्पर्यार्थः । तदुपपादनार्थं उपनिषदि अग्नेर्धूमाज्जायन्त इत्युक्तम् । अस्यार्थः। अग्नेः सम्बन्धात् आर्द्रेन्धनस्थाः आपः धूमात् धूमरूपेण जायन्ते बहिर्निःसरन्ति । न तु दह्यन्ते । अन्या इत्यस्य प्रकारान्तरेणोपपादनं शिश्नात्प्रसृज्यन्त इति । मूले अस्य तात्पर्यमुक्तम्-रेतोरूपेणाजराणामिति ।। तथा च पुरुषेण पीताः आपः शिश्नात् रेतोरूपेण प्रसृज्यन्ते उत्पद्यन्ते न तु सर्वाः उदरे जीर्यन्त इति भावः । उपनिषदि चतुर्थपादमनूद्य व्याख्यातम्- 'आपो वाव धेनवस्ता हीदं सर्वं धिन्वन्ति' इति आपः धेनवो वाव हि यस्मत्ताः आपः इदं सर्वं जगत् धिन्वन्ति पुष्टं कुर्वन्तीति योजना । मूले तु धेनुशब्दस्यावाचकत्वेऽवयवार्थाप्रतीतेस्तं वदन् तदपौक्षितकर्मधात्वादिकमप्याह-धेनूनां जगत्पोपकाणामिति । स्वोक्ते नदं व ओदतीनामिति ऋगर्थे आरण्यकखण्डद्वयं प्रमाणत्वेनाह- ता नदेन विहरतीत्यादिश्रुतेरिति ॥

मूले नदं व ओदतीनामिति ऋचः अर्थान्तरमाह-पयसेति || ओदतीना- मित्यस्य सेचनार्थकस्य गोरूपार्थकधेनुविशेषणस्य करणाकाङ्क्षायामाह-पयसेति ।। क्षीरेणेत्यर्थः । द्वितीयस्य धेनुविशेषणस्य योयुवतीनामित्यस्यार्थः- देशाद्देशान्तरगमनशीलानामिति ।। गृहादिभ्यश्च तु अरण्यादिगमनशीलानामित्यर्थः । तृतीया गोविशेषणस्य अघ्न्यानामित्यस्यार्थः- अघ्न्यानां हन्तुमयोग्यानामिति ।। गाः पूज्यत्वेन 'गौर्न पदा स्पृष्टव्या' इत्यादिश्रुतेरिति भावः । इषुध्यसीति वेति ।। पतिर्भवसीति पूर्वोक्त एवार्थ इति भावः ।

'वायुर्वा गवां पतिः' इति मूलस्य पूर्वग्रन्थसंगतिमाह-पयसेत्याद्यर्थान्तरमुपपादयतीति ।। पयसेत्यादिना मूलेन ऋचः उक्तमर्थान्तरं श्रुत्या वायोः गोपतित्वोक्त्या धेनुशब्दस्य गोवाचकत्वप्रसिद्धेश्वोपपादितमिति भावः 1 ओदतीनामित्याद्यर्थान्तरमिति । नदं वेति ऋचः तृतीयोऽर्थ इति भावः । भक्त्यादिसेचकानां भक्त्यादीनां दात्रीणां अर्थज्ञानेनेति शेष: । अतिशयेनेति ॥ गत्यर्थकयुधातोः अन्तर्णीतण्यर्थादतिशयार्थयङ्ताल्लटः शत्रादेशे निष्पन्नस्य योयुवतीशब्दस्य ज्ञापनार्थस्य उचितपरमात्मतत्वरूपाकाङ्क्षितेनान्वय इति भावः । नित्यानामिति ।। धेनुशब्दोक्तवेदवाचां नाशाभावादिति भावः । वेदे धेनुशब्दावयवार्थमाह-धर्मार्थकामेति । इषुध्यसीत्यस्यार्थानुवादः पतिर्भवसीति वेति ।। तस्योपपादनमिति । तस्य धेनुशब्दतृतीयार्थवाग्रूपस्य धेनुसाम्योपपादनं वाचमिति श्रुतिवाक्येन क्रियते । श्रुतिवाक्यस्यायमर्थः । वाचं वेदवाचम् । धेनुं कामधेनुमिति ध्यायीत । कथं ? वेदमध्ये विद्यमाना चत्वारः स्वाहेत्यादिशब्दाः वेदरूपवत्सतृप्तिकारित्वात्स्तनसदृशाः । तत्र यज्ञादौ देवतृप्त्यर्थं हविर्दानसमये स्वाहेति वौषडिति प्रयुज्यते । तथा अतिधीनामन्नदाने हन्तेति । पितॄणामन्नदाने स्वधेति । स्वाहेत्यादिपदार्थस्तु 'स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः' इत्यनुव्याख्यानात्स्वाहेति विष्णुसंबोधनपदेन स्वकीयाहरणं पूर्णत्वेन अकारपदवाच्यत्वं चोच्यते रित्युक्तेः वौ विष्णौ षड्गुणाः सन्ति इत्यर्थो ग्राह्यः । हन्तेत्यत्र हन्त स्वाश्चासावश्चेति स्वाहा इति विग्रहात् । वौषडित्यत्र विपक्षिपरमात्मनोहर्षेऽनुकंपयामिति विश्वोक्तेः सन्तोषार्थकत्वं ग्राह्यम् । स्वधेत्यनेन स्वं स्वतन्त्रं विष्णुं दधातीति स्वधा इत्यर्थो ग्राह्यः । तस्याः वाचः प्राणो ऋषभः पतिः मनः मनोभिमानी रुद्रादिः वत्सोऽपत्यमिति ।। छ ।