न च कर्ममात्रे पर्यवसितिर्वेदस्य । सुखज्ञानस्यैव प्रयोजनत्वात्
(सिद्धस्यैव प्रयोजनत्वं वेदस्येति समर्थनम् )
मूलम्
४९- मूलम्-न च कर्ममात्रे पर्यवसितिर्वेदस्य । सुखज्ञानस्यैव प्रयोजनत्वात् । अतस्सिद्धस्यैव प्रयोजनत्वं सिद्धम् ॥
टीका
टीका- पञ्चममपाकरोति न चेति ॥ कर्मण्येव कर्तव्यतया प्रतिपादितेऽवसितिर्निराकाङ्क्षता भवति न सिद्धेऽर्थ इति च नेत्यर्थः । वेदस्येति प्रकृतापेक्षया । तत्र हेतुमाह-सुखेति ॥ अनिष्टनिवृत्तेरुपलक्षणमेतत् । सुखानुभवादिकमेव हि प्रयोजनम्, प्रयोजनसाधनलाभ एव चाकाङ्क्षानिवर्तकं प्रसिद्धम् । सिद्धविशेषज्ञानं च प्रयोजनसाधनमित्युक्तमिति भावः । शाब्दी त्वाकाङ्क्षा पितृजीवनादिवाक्ये विनापि कार्यं पर्यवस्यत्येवेति । पष्ठं दूपयति-अत इति । अत इत्युक्तप्रमाणैः । प्रयोजनत्वं प्रयोजनसाधनत्वम् । एतदुक्तं भवति नायं नियमः सर्वेऽप्यर्थवादाः प्रमाणान्तरप्राप्तार्या इति । येऽपि प्रमाणान्तरसिद्धार्थास्तेषामपि सिद्धज्ञानस्य प्रयोजनसाधनत्वेन पुत्रादिज्ञानस्यैव पुनः पुनरपेक्षितत्वान्नानधिगतार्थताऽभावो दोषायेति ॥
भावदीपः
(रा.टि.) प्रकृतापेक्षयेति । पितृजीवनादिवाक्ये पर्यवसिते दर्शनादिति भावः । सिद्धविशेपज्ञानमिति । इष्टसाधनरूपसिद्धविशेषज्ञानं च सुखप्राप्ति- दुःखनिवृत्तिरूपप्रयोजनसाधनमित्युक्तं पितृजीवनादिवाक्य इत्यर्थः । ननु फलाकाङ्क्षानिवृत्तावपि शब्दाकाङ्गापूर्तिर्नत्यत आह-शाब्दी त्विति ॥ पूर्वपदाकाङ्क्षापूरकत्वमुत्तरपदस्येत्येवंरूपा शाब्दयाकाङ्क्षा कार्यान्वयं विनाऽपि पर्यवस्यत्येव पितृजीवनादिवाक्य इत्यर्थः । उक्तेति ॥ 'द्वाविमौ ' इत्यादि प्रमाणैरित्यर्थः । प्रयोजनसाधनत्वं सुखप्राप्त्यादिसाधनत्वमित्यर्थः । सिद्धज्ञानस्येति ॥ प्रमाणान्तरज्ञातार्थज्ञानस्येत्यर्थः । प्रयोजनेति ॥ सुखप्राप्त्यादिरूपेत्यर्थः । इत्यर्थवादानां स्वार्थे प्रामाण्योक्तिः ।।
कर्मप्रकाशः
(स.टि.) पञ्चममिति । क्रियायामेव प्रतिपादितायां वाक्यार्थपर्यवसानातद्रहितानामाकाङ्क्षितापूर्त्या वक्याभासत्वापातादिति पञ्चमपक्षमपाकरोतीत्यर्थः। षष्ठमिति । अनधिगतार्थत्वाभावादिति षष्ठं दूषयतीत्यर्थः । दोषायेति ॥ प्रमाणशब्दव्यवहारविघाताय अनधिगतार्थगन्तृत्वाभावः प्रामाण्याभावो भवतीति यावत् ।
गूढवाक्यार्थपञ्चिका
( छ. टि. ) पञ्चममिति । क्रियायामेव प्रतिपादितायां वाक्यपर्यवसानात् । तद्रहितानामाकाङ्क्षितापूर्त्यां वाक्याभासत्वापत्तेरिति पञ्चमपक्षमित्यर्थः । कर्मण्येवेति ।। अत्र वाक्ये प्रवृत्तिनिवृत्युपयोगिकिंपदस्य विद्यमानत्वादिति भावः । ननु गामानयेति लौकिकवाक्येऽपि लिङादिप्रतिपादितपदार्थेनैव पर्यवसानात् वेदस्येति व्यर्थमित्यत आह-वेदस्येतीति ॥ ननु सिद्धबोधिते आकाङ्क्षानिवृत्तिर्न भवतीत्युक्तेऽर्थे किमायातमित्यतस्तात्पर्यमाह-प्रयोजन-साधनेति ।। इष्टप्राप्तिअनिष्टनिवृत्तिरूपप्रयोजनद्वयकारणत्वाप्राप्तिरेव । सिद्धविशेषज्ञानं चेति ॥ पित्रादिजीवनज्ञानं सुखजनकं दु:खनिवर्तकं चेत्यर्थः ।
ननु आकाङ्क्षा तावद्विविधा आर्थी शाब्दी चेति । तत्र श्रोतुरपेक्षिताभिप्रायरूपा सा श्रोत्राकाङ्गेत्युच्यते । द्वितीया तु पूर्वपदश्रवणसंजनिताकाङ्क्षापूर्वकत्वलक्षणा इयं शाब्दीत्युच्यते । तत्राद्यायाः श्रोत्राकाङ्क्षाप्रयोजनसाधनप्राप्तिमात्रेण पर्यवसानेऽपि द्वितीया कार्यवाचकपदं विना कथं पर्यवस्येदित्यत आह-शाब्दी त्विति || विनापि कार्यमिति ।। लिङादिप्रयोगं विनेत्यर्थः षष्ठमिति ।। अनधिगतार्थगन्तृत्वाभावादिति पक्षमित्यर्थः । मूले सिद्धस्येत्यस्य प्रमाणान्तरसिद्धज्ञानस्येत्यर्थः । प्रयोजनसाधनत्वमिति ।। इष्टप्राप्त्यनिष्टनिवृत्तिसाधनत्वमित्यर्थः ।
ननु अर्थवादानां अधिगतार्थगन्तृत्वेन प्रमाणलक्षणाभावेन अप्रामाण्यं स्यादित्यत आह-एतदुक्तं भवतीति । नायं नियम इति ॥ वायुर्वै क्षेपिष्टेत्यादौ प्रतियमानानां वायो: क्षिप्रफलदातृत्वादिरूपाणां अर्थानां प्रत्यक्षादिप्रमाणान्तरप्राप्त्यभावादिति भावः । नानधिगतार्थताऽभावो दोषायेतीति ।। प्रामाण्यविघटनायेत्यर्थः । अधिगतार्थत्वस्य प्रामाण्यं प्रत्यप्रयोजकत्वेन याथार्थ्यस्यैव प्रयोजकत्वात् ! अन्यथा प्रीतिविषयपुत्रादिदेशान्तरस्थतद्विषयवार्तायाः पुनः पुनः श्रवणादिकं न स्यात् किन्तु वाक्यस्य अनपेक्षितार्थबोधकत्वे अनुपादेयत्वमेव दोष इति भावः ।