न च तत्कल्पकं किञ्चित्
(सिद्धार्थे वाक्यप्रामाण्यसमर्थनम्)
मूलम्
१४-मूलम्-न च तत्कल्पकं किञ्चित् । विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे । न चानुमा । अप्रसिद्धविशेषणत्वात् न चार्थापत्तिः । अनुपपत्त्यभावात् । कार्याभावादेव कार्यान्वयिनि (कार्यान्वयान्वयन वा) व्युत्पत्तिरित्यादि दूरतो निरस्तम् । कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम् ? अध्याहार इत्युक्ते लोप इत्युत्तरम्। अशेषसिद्धपदार्थलोपल्लिङाद्यर्थमात्र लोप एव गरीयान् । हससि हसामीत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः । प्रथमप्राप्तत्वान्न तत्त्यागे कारणम् । तथैव व्युत्पत्तिदर्शनाच्च । अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणत्वं विष्णोः ।।
टीका
टीका-नन्त्रनेकार्याः शब्दा बहुलमुपलभ्यन्ते । तथा लिङादिरपि किं न स्यात् ? स्याद्यदि तथाऽत्र कल्पकं स्यात् । न च तदस्तीत्याह-न चेति ।। अङ्गीकृत्येदं नियामकमुक्तम् । वस्तुतस्त्वस्मिन् प्रसङ्गे परेणेष्टसाधनत्वातिरिक्तकार्यभावे शब्दादन्यदेव मानं वक्तव्यम् । न तु शब्दः ।तस्यैतद्वाचित्वे विप्रतिपत्तेः । अन्यथा शब्दस्यातिरिक्तकार्यवाचित्वे सिद्धे तद्बलादतिरिक्तकार्यसिद्धिः । तत्सिद्धौ च तत्सिद्धिरिति इतरेतराश्रयताप्रसङ्गात् । तथैव प्रमेयस्य प्रस्तुतत्वादित्याशयवानाह विप्रतिपत्तौ चेति ॥ अस्तु तर्हि विमता प्रवृत्तिरिष्टसाधनत्वातिरिक्तकार्यताबोधपूर्विका स्वतन्त्रप्रवृत्तित्वादित्यनुमानमिष्टसाधनत्वातिरिक्तकार्यतासद्भावे मानमित्यत आह-न चेति ।। गवानयनादिप्रवृत्त्यन्यथानुपपत्तिप्रसूतार्थापत्तिरस्त्वत्र मानमित्यत आह-न चेति ।। कृतिसाध्यतैकार्थसमवेतेष्टसाधनताज्ञांनादेव प्रवृत्त्युपपत्तेरतिरिक्तकार्याभावेऽनुपपत्त्यभावादित्यर्थः | यदप्युक्तं कार्यपदस्य स्वार्थे व्युत्पत्त्यभावप्रसङ्गः । कार्यस्य कार्यान्वयित्वाभावात् । केवलस्यार्थे व्युत्पत्त्यङ्गीकारेऽपसिद्धान्तात् । कार्यपदानां सिद्धान्वयिनीत्युक्ते च कल्पनागौरवादिदोपं पश्यद्भिरपरैः कार्यान्वयान्त्रयिनि कार्यपरपदार्थान्वयिनि वा व्युत्पत्तिरित्युक्तम् । तत्सर्वं कार्यनिरासादेव निरस्तमित्याह-कार्येति । किञ्च कार्यान्विते स्वार्थे सकलपदानां व्युत्पत्तिरिति कुतः परेणाङ्गीकृतम् ? दर्शनबलादिति चेत्तर्हि कार्यान्वयमन्तरेणापि व्युत्पत्तिरङ्गीकार्या । दर्शनबलादेव । योग्यान्वयित्वेनैकप्रयोजकसम्भवाच्चेत्याह-कार्यान्वित इति ॥
ननु यत्र कार्यान्वयमन्तरेण व्युत्पत्तिर्दृश्यत इत्युच्यते तत्रापि द्वारं द्वारमित्यादाविवाध्याहारः कार्यपदस्य कार्य इति चेत्तर्हि यत्न कार्यान्विते व्युत्पत्तिर्दृश्यत इत्युच्यते, तत्र कार्यपदस्य लोपः इत्यपि शक्यते वक्तुमित्याह-अध्याहार इति ॥ न केवलमेतयोः पक्षयोः साम्यम् । किन्तु लोपपक्षः श्रेयानित्याह-अशेषेति ॥ कार्यवादिनो हि वाक्यभेदप्रसङ्गभीरवोऽर्थवादादीनां स्वार्थे प्रामाण्याभावमाचक्षते । न च तदर्थः प्रमाणान्तरगोचर इति तल्लोप एव तत्पक्ष इति प्रौढिवादोऽयम् । वस्तुतस्तु न लोपो नाध्याहार इति हृदयम् । अकार्यान्वितेऽपि व्युत्पत्तिर्द्दश्यत इत्युक्तम् । तदुदाहरणेन दर्शयति-हससीति ॥ दृष्टाऽपीयं न तथाङ्गीकार्येति चेत् कुतः ? किं कार्यव्युत्पत्तिपृष्ठभावित्वेन तदनुरोधित्वस्यावश्याश्रयणीयत्वात् उत व्युत्पद्यमानैः कार्याध्याहारस्य लक्षणाया वा क्रियमाणत्वात् । आद्यं दूषयति-प्रथमेति ॥ द्वितीयं दूषयति-तथैवेति । अध्याहारादिकमन्तरेणैवेत्यर्थः । वादार्थमुपसंहरति अत इति ॥ चशब्दः पूर्ववादोक्तोपपत्तिसमुच्चये । महानाम्नीभिरिति शेषः ।।
भावदीपः
(रा.टि.) इदं नियामकम्-गौरवाख्यनियामकमित्यर्थः । अस्मिन् प्रसङ्ग इति ॥ इष्टसाधनतातिरिक्तकार्यता नास्ति । सैव च लिङादिशब्दार्थ इति प्रसङ्ग इत्यर्थः । अन्यथेति ॥ लिङादिशब्दस्यैव कार्यतायां मानत्वोक्तावित्यर्थः । तत्सिद्धाविति ।। अतिरिक्तकार्यतासिद्धावेव लिङादिशब्दस्य तद्वाचित्वसिद्धिरिति कुत इत्यत आह-तथैवेति ।। इष्टसाधनत्वरूपसिद्धार्थातिरिक्तकार्याभावाल्लिङर्थस्त्विष्टसाधनत्वमेव, न तु कार्यमित्येव प्रमेयस्य प्रकृतत्वादित्यर्थः । कार्यस्य लिङर्थत्वनिरासेनेष्टसाधनत्वार्थकत्वोक्तिः ।
विमतेति ।। चैत्रस्य गवानयनादिप्रवृत्तिरित्यर्थः । विष्टिगृहीतप्रवृत्तावव्यभिचाराय स्वतन्त्रेति हेतुविशेषणम् । राजादिप्रवृत्तिवदिति भावः । गवानयनेति || चैत्रस्य गवानयनप्रवृत्तिः कार्यताबुद्धिपूर्वकत्वं विना नोपपद्यत इत्यन्यथानुपपत्तिः प्रस्तुतेत्यर्थः । कृतिसाध्यतेति ॥ कृतिसाध्यतया एकस्मिन्नर्थे समवेतेत्यर्थः । कृतिसाध्यतासमानाधिकरणेत्यर्थः । ‘न तु कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानं प्रवृत्तिहेतुकृतिसाध्यत्वविशेषणस्य व्यर्थत्वात्’ इति सुधोक्तिः । कृतिसाध्यतैकार्थेति विशेषणं च तक्षकचूडामण्याहरणादावपि प्रवृत्तिप्रसङ्गवारणाय । इष्टसाधनताज्ञानं च लिङादिनेति भावः । अतिरिक्तकार्याभावादित्युक्त्या वस्तुतः कृतिसाध्यतैकार्थेष्टसाधनतैव कार्यतेत्युक्तं भवति । ‘इष्टसाधनतायाः कार्यतापदपर्यायत्वात्' इति तत्वनिर्णयटीकोक्तेः कृतिसाध्ये विद्यमानेष्टसाधनताया इत्यर्थकत्वात् । अतिरिक्तकार्यसत्त्वेऽनुमानादिनिरासः ।
| 'न च सिद्धेऽर्थे' इत्येतदवतारिकायामिति भावः । यदप्युक्तमिति कायपदस्येति ॥ कार्यपरपदस्य यजेत भुञ्जीतेत्यादिपदस्येत्यर्थ: । कार्यान्वितान्वयिनीति यावत् । पदानामिति योज्यम् । कार्यान्वितः सिद्धार्थस्तदन्वयीत्यर्थः । कार्यान्वयमन्तरेणापीति । अम्बातातादीनङ्गुल्या निर्दिश्य इयमम्बा तातोऽयमयं भ्राताऽपूपानत्तीत्याद्युपदेशस्थल इत्यर्थ: । एकप्रयोजकेति || कार्याकार्यस्थल इत्यर्थः । इत्यादाविवेत्ति । पिधेहीति तत्राध्याहारो यथा तथाऽत्रापि भक्षयेत्यादिकार्यबोधकपदाध्याहारः कर्तव्य इत्यर्थः । कथमशेषसिद्धार्थपरिलोप इत्यतो व्यनक्ति-कार्यवादिनो हीति | 'वायव्यं श्वेतमालभेत भूतिकामः' इति वाक्यस्य कार्यबोधनेन पूर्णाकाङ्क्षत्वात् 'वायुर्वे क्षेपिष्ठा देवता । वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इत्याद्यर्थवादस्य वायव्ययागाङ्गमन्त्राणां सिद्धरूपस्वार्थप्रतिपादनेन निराकाङ्क्षत्वेन विध्यर्थवादादेरेकवाक्यताभावेन वाक्यभेदः स्यात् । तन्निरासाय लक्षणया विध्यपेक्षितप्राशस्त्यसमर्पकत्वेन हेतुसमर्पकत्वात् विध्येकवाक्यतासिद्धये स्वार्थेषु प्रमाण्याभावमाचक्षत इत्यर्थः । अर्थवादादीनामप्रामाण्ये तदर्थस्य मानान्तरासिद्धत्वादलोप एवेत्यत आह-न च तदर्थ इति ॥ ननु लोके द्वेधापि व्युत्पत्तेर्दर्शनात् कथं कार्यान्वितवाक्ये कार्यवाचिपदस्य लोपोऽङ्गीकृत इत्यत आह-प्रौढिवादोऽयमिति । लक्षणाया वेति ॥ कार्यस्येति योज्यम् । मूले अत इत्यस्य सिद्धार्थ एव प्रथमं व्युत्पत्तिदर्शनादित्यर्थस्य स्पष्टत्वाच्चशब्दसमुच्चेयमाह पूर्वोक्तेति ॥ ' ब्रह्मणो निर्विशेषत्वेऽशेषविशेषवचनयुक्त्यनुभवविरोधात्' इति पूर्ववादोक्तोपपत्तिसमुच्चय इत्यर्थः । अन्यथा महागुणत्वसिद्ध्ययोगादिति भावः । सिद्धार्थे प्रामाण्योक्तेः प्रकृतोपयोगायाह-महानाम्नीभिरिति शेष इति ॥ ' न च सिद्धार्थे' इत्येतदवतारिकायां तथैवाक्षेपादिति भावः । सिद्धार्थे वाक्यप्रामाण्योक्तिः ॥
विवरणम्
( श्री. टि. ) शब्दा अक्षादिशब्दाः । तथेति ॥ इष्टसाधनत्वतदतिरिक्तपराभिप्रेतकार्यत्वरूपानेकार्थत्वमित्यर्थः । तथात्रेति ॥ अक्षादिशब्दानामनेकार्थत्वकल्पकाभिधानादिरूपं नियामकमस्तीत्यर्थः । अङ्गीकृत्येति ॥ इष्टसाधनत्वातिरिक्तकृत्युद्देश्यत्वसद्भावे लिङादिशब्द एव प्रमाणमस्तीति कथं मानाभाव इति पराङ्कितं लिङादिशब्दस्यैव तत्र प्रामाण्यमङ्गीकृत्येत्यर्थः । नियामकं कल्पनागौरवम् । उक्तं 'लिङ्गादेः' इति वाक्येन । अस्मिन् प्रसङ्गे लिङादिशब्दवाच्यविचारप्रसङ्गे । तस्यैतदिति ॥ लिङादिशब्दस्येष्ट-साधनत्वातिरिक्तकार्यतावाचित्व इत्यर्थः ।
अन्यथा लिङादिशब्दस्यैव मानत्वोक्तौ । तद्बलात् तद्वाचिशब्दरूपप्रमाणबलात् । तत्सिद्धिः शब्दस्पातिरिक्तकार्यवाचकत्वसिद्धिः । ननु तत्सिद्धौ च तत्सिद्धिरित्यस्यानङ्गीकारान्नान्योन्याश्रय इत्यत आह- तथैवेति । 'लिङाद्यर्थस्तु' इति लिङादेरिष्टसाधनत्वार्थकत्वे, अतिरिक्तकार्यवाचिताभावे चोक्ते परेण चेष्टसाधनत्वातिरिक्तकार्यवाचित्वाभावस्योक्तत्वाद् अतिरिक्तकार्यसिद्धौ शब्दस्य तद्वाचकत्वसिद्धरिति प्रमेयस्यापि प्रस्तुतत्वात्स्यादेवान्योन्याश्रय इत्यर्थः । विष्टिगृहीतप्रवृत्तौ व्यभिचारवारणाय स्वतन्त्रपदम् । स्वेच्छाधीनप्रवृत्तित्वादित्यर्थः । अत्रातिरिक्तकार्यसद्भावे । चन्द्रमण्डलादौ प्रवृत्तिपरिहाराय समवेतेत्यन्तंम् । इष्टसाधनत्वमेव कार्यत्वं चन्द्रमण्डलादौ चेष्टसाधनत्वात्कार्यताबुद्धिर्भवति । प्रवृत्तिषु न भवति । लिङ्वाच्येष्टसाधनत्वरूपकार्यताभिन्नं यत्प्रवर्तकं कार्यं कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपमस्मदभिमतम्, तदभावादिति ध्येयम् । ‘कार्यान्विते व्युत्पत्तिरिति वदतः कार्यस्य कार्यान्वयाभावात् कल्पनागौरवम्' इति तत्वनिर्णयं मनसि कृत्वाऽऽह -अस्मिंश्च पक्ष इति ।। केवलस्वार्थे केवलकार्ये कार्यपदस्य व्युत्पत्त्यङ्गीकार इत्यर्थः । कल्पनेति ।। सिद्धपदानां कार्यान्वयिनि, कार्यपदानां च सिद्धान्वयिनीति प्रयोजकद्वयकल्पनादित्यर्थः । यथोक्तम्- 'गौरवं कल्पनेऽन्यथा' इति ।
कार्यान्वयिनीति || कार्येण साकं योऽन्वयः सम्बन्धस्तद्वत्त्वं कार्ये सिद्धे चास्ति । सम्बन्धस्य द्विष्टत्वादिति भाव: | मूलस्थादिपदार्थमाह-कार्यपरेति || कार्यपरत्वं नाम कार्य तात्पर्यम् । तत्र कार्यपदस्य सिद्धपदस्य च कार्य एव तात्पर्यसत्त्वात् कार्यपरं यत्पदं कार्यपदं तदर्थः कार्यं तदन्वयवत्त्वं सिद्धेऽर्थेऽस्ति । तथा कार्यपरं यत्पदं सिद्धपदं तदर्थः सिद्धरूपस्तदन्वयवत्त्वं कार्येऽस्तीत्येकं प्रयोजकमपरैरूक्तमित्यर्थः । दर्शनबलादिति || चैत्र जलमाहर इत्यादावपीत्यर्थः । अन्तरेणापीति । केवलसिद्धार्थ इति शेषः । दर्शनबलादेवेति ।। हसति हसामि इयं माता अयं पिता गुरूपोऽसि इत्यादावित्यर्थः । प्रयोजकद्वैविध्याकल्पनान्न त्वन्मत इव मन्मते कल्पनागौरवमित्याह-योग्येति ।। सामान्यतो योग्येतरान्विते स्वार्थे शक्त्यङ्गीकारात् कारकपदानां क्रियान्विते स्वार्थे क्रियापदानां च कारकान्विते स्वार्थे व्युत्पत्तिर्युज्यत इत्यवधेयम् । ननु योग्येतरान्विते शक्त्यङ्गीकारे आनयनान्विते स्वार्थे गोपदस्य गवान्विते स्वार्थे आनयनपदस्य शक्तेः सिद्धत्वात्पदान्तरसमभिव्याहारवैय्यर्थ्यमिति चेन्न । सामान्यतो योग्येतरान्विते शक्तिसद्भावेऽपि पदान्तरसमभिव्याहारेण विशेषान्विते शक्तिलाभात् ।
ननु शक्तिद्वयाङ्गीकाराद्भवत्पक्षेऽपि कल्पनागौरवमिति चेन्न । सामान्यान्विताभिधानशक्तिरेव पदान्तरसमभिव्याहाररूपसहकारिबलाद्विशेषान्वये पर्यवस्यतीत्यङ्गीकारेण शक्तिद्वयानङ्गीकारान्न कल्पनागौरवमिति 'शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते । अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।।' इत्यनुव्याख्यानावसरे सुधायामुपपादितमनुसन्धेयम् । अत्रापि पुनर्विरोधपरिहारादिकं सर्वमस्मद्गुरुचरणकृतसुधाटीकातोऽवगन्तव्यम् । विस्तरभयान्नेहोच्यते । इत्यादाविवेति । अत्र पिधेहीति पदमध्याह्रियत इत्यर्थः । कार्यपदस्येति । शब्दाध्याहारवादित्वादस्येति भावः । अशेषसिद्धपदानामर्थलोपादिति मूलमुपपादयति-कार्यवादिनो हीति ॥ स्वार्थे वायुक्षेपिष्ठत्वादौ । ' वायव्यं श्वेतमालभेत वायुश्च क्षेपिष्ठा देवता' इति वाक्यभेदप्रसङ्गान्नार्थवादवाक्यानां स्वार्थे तात्पर्यं किन्तु यतो वायुः शीघ्रकारिणी प्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यत्वेनैव प्रामाण्यं तैः स्वीकृतमिति भावः ।
ननु तत्पक्षे न तल्लोपः । अर्धवादवाक्यार्थस्यास्मद्वाक्यात्सिद्ध्यभावेऽपि प्रत्यक्षादिना तत्सिद्धिर्भविष्यतीत्यत आह न चेति ॥ वायुक्षपिष्ठत्वादेः ।प्रत्यक्षाद्यविषयत्वाद्वाक्यभेदप्रसङ्गभीत्याऽस्मादेव वाक्यात्सिद्धचनङ्गीकारातत्सिद्धिलोप एव वरीयानिति भावः । ननु कार्यपदलोपाङ्गीकारेऽपसिद्धान्त इत्यत आह-प्रौढीति ॥ वस्तुतस्त्विति ।। वक्ष्यमाणरीत्या केवल-सिद्धेऽप्याद्यव्युत्पत्तेर्दर्शनान्नाध्याहारः । परोक्तरीत्या कार्यान्वितेऽप्यानन्तरिकव्युत्पत्तेर्दर्शनान्न लोप इति भावः । कार्यव्युत्पत्तिपृष्ठेति । प्राथमिकी व्युत्पत्तिः कार्य एव पश्चाद्यावती सिद्धार्थपराद्वाक्याद्व्युत्पत्तिः सा सर्वापि कार्यन्युत्पत्त्यनन्तरभावित्वात्कार्यव्युत्पत्तिरेवेति भावः । व्युत्पद्यमानैः प्रयोज्यप्रयोजकवृद्धव्यतिरिक्तपार्श्वस्थैरित्यर्थः । कार्याध्याहारस्य कार्यपदाध्याहारस्य । लक्षणायाः कार्यपदस्येति शेष: । लक्षणा पदवृत्तिरध्याहारस्तु न तथेत्यध्याहारलक्षणयोर्भेदः । प्रथमेतीति । अनेन सिद्धार्थ एवाद्यव्युत्पत्तेरेव बालानामुक्तत्वेन सिद्धार्थ एव व्युत्पत्तेः प्रथमप्राप्तत्वादिति मूलार्थ: । कार्ये प्राथमिकी व्युत्पत्तिर्बालानां न सम्भवति । विदुषामपि दुरधिगमयाऽनया प्रक्रिपया बालस्य व्युत्पत्तिरित्यस्य परिहासास्पदत्वात् । सन्निहितादिष्टत्वाच्च हससि, इयं मातेत्यादिवाक्यान्मात्रादिरूपे सिद्धार्थ एव व्युत्पत्तिः प्राथमिकी युक्तेति ‘नानयेत्यादिवाक्यतः । इष्ट व्युत्पत्तिरिष्यते' इत्यनुव्याख्यानोक्तरीत्या द्रष्टव्यम् । पूर्ववादोक्तेति ।। श्रुतियुक्त्यादिरूपपूर्ववादोक्तानन्तगुणत्वे योपपत्तिस्तत्समुच्चयार्थ इत्यर्थः । सिद्धार्थे व्युत्पत्तिसमर्थनस्य साक्षाद्विष्णोर्महागुणत्वानुपपादकत्वादाह-महानाम्नीभिरितीति । तथा च सिद्धार्थे व्युत्पत्तिसिद्धया सिद्धार्थस्य विष्णोर्महानाम्नीप्रतिपाद्यत्वं प्राप्तं तेन च तस्य महागुणत्वं सिद्धमित्यर्थः । मूले विष्णोरित्यनन्तरं सिद्धार्थस्यापीति शेषः ।
कर्मप्रकाशः
(स.टि.) मूले विप्रतिपत्तौ चेति ॥ लिङ्गादिनिष्ठं साधुत्वं लिङ्गादेः कार्यतावाचित्वेन विनाऽनुपपन्नमित्यस्मिन्नर्थे विप्रतिपत्तौ तत्साधुत्वस्यान्यथोपपत्तिशङ्कायामिति यावत् । तदभावे लिङ्गादीनां कार्यवाचकत्वाभावे अन्यदेव मानम् उक्तार्थापत्तिव्यतिरिक्तं निगमनिरुक्तव्याकारणादिकं वक्तव्यमित्यर्थः । टीकायां विमता प्रवृत्तिरिति । प्रयोजकवृद्धशब्दजन्या प्रवृत्तिः इष्टसाधनत्वातिरिक्तकार्यताबोधपूर्विका । स्वतन्त्रप्रवृत्तित्वादित्यनुमानं लिङ्गादेः पराभिमतकार्यतावाचित्वे मानमस्तु । शब्दस्य वाच्यार्थज्ञानाद्वारा प्रवृत्तिजनकत्वात् । शब्दजन्यप्रवृत्तेः पराभिमतकार्यताबोधपूर्वकत्वं साध्यमानं शब्दस्य तद्वाचकत्वमन्तरानुपपद्यमानशब्दस्य तद्वाचकत्वं गमयतीति भावः । एतेनेष्टसाधनतातिरिक्तकार्यतायां विवादाभावात् कार्यतासद्भावे मानमस्त्विति कथनमयुक्तमिति परास्तम् । लिङ्गवाच्यतया कार्यतासद्भावे कार्यताया लिङ्गवाच्यत्व इति यावत् । अनुमानमित्यत्र तात्पर्यात् ।
मूले न चानुमेति ॥ लिङ्गादीनां कार्यतावाचित्वमन्तराऽनुपपद्यमानकार्यताबोधकत्वरूपम् साध्यसाधनद्वारा अनुमानम् लिङ्गादेः कार्यतावाचित्वे मानमिति च । अप्रसिद्धत्वविशेषणात् । अप्रयोजकत्वेन साध्यासाधकत्वादित्यर्थः । भवेदिदमनुमानं लिङ्गादेः कार्यतावाचित्वे मानम् । यदि स्वसाध्यं साधयेत् । तदेव नास्त्यप्रयोजकत्वादिति भावः । एतेन कृत्युद्देश्यत्वरूप-पराभिमतकार्यव्यवहारेष्टसाधनातिरिक्तकार्यताबोधपूर्वकत्वस्य प्रसिद्धत्वादप्रसिद्धविशेषणत्वाभिधानमयुक्तमिति परास्तम् । गवानयनादीति ।। गामानयेत्यादिशब्दजन्यगवानयनादिप्रवृत्तिः ज्ञानद्वारा स्वजनकशब्दस्य विप्रतिपन्नकार्यतावाचित्वमन्तरा अनुपपद्यमानलिङ्गादेः कार्यतावाचित्वे प्रमाणमित्यत आहेत्यर्थः । अतिरिक्तकार्याभाव इति ।। विप्रतिपन्नकार्यस्य लिङ्गवाच्यतायाः अभावे कार्यतावाचित्वाभावे इति यावत् । अनुपपत्त्यभावात् । इह साधनता ज्ञानादेव प्रवृत्त्युपपत्तेः अनुपपत्त्यभावादित्यर्थः ।
कार्याभावादेव कार्यान्वयिनीति मूलमवतरयितुं मतद्वयमनुवदति । यदव्यक्तमिति ॥ कार्यान्वयिनि पदानां व्युत्पत्तौ कार्यपरत्वमेव वाक्यानामिति यत्कैश्चिदुक्तं यदप्यस्मिन्पक्षे दोषं पश्यद्भिः कार्यान्वयान्वयिनि पदानां व्युत्पत्तिः कार्यपरपदार्थान्वयिनि वा व्युत्पत्तिः । ततश्च वाक्यस्य कार्यता परत्वमिति परैरुक्तम्, तत्सर्वं लिङ्गवाच्यकार्यतानिरासादेव निरस्तमित्यन्वयः । आद्यमतस्यातिहेयत्वज्ञापनाय परोक्तदोषोपन्यास इति बोध्यम् । कार्यतानिरासादेवेति ॥ लिङ्गवाच्यकार्यतानिरासादेव कार्यतायाः लिङ्गवाच्यत्वनिरासादेवेति यावत् । पदानां कार्यान्विते स्वार्थे व्युत्पत्तिः तथा कार्यान्वयिनि स्वार्थे, तथा कार्यपरपदार्थान्वयिनि स्वार्थे व्युत्पत्तिरिति परास्तमित्यर्थः एतेन कार्यतायाः प्रामाणिकत्वेन निरासायोगात्कार्यतानिरासादेवेत्ययुक्तमिति परास्तम् । कार्यतायाः लिङ्गवाच्यत्वनिरासे तात्पर्यात् । कार्यान्विते स्वार्थे सकलपदानां व्युत्पत्तिरिति पक्षेऽनुभवविरोधरूपं दोषान्तरं कार्यान्विते व्युत्पत्तिरिति वदत इति मूलेनोच्यते इति भावेनाह किञ्चेति ॥ मूले कार्यान्वित इति ॥ अनुभवमवष्ठभ्य कार्यान्विते स्वार्थे केषाञ्चित्पदानां व्युत्पत्तिरिति केनचिदुक्तेऽनुभवविरोधेऽभिहिते इति यावत् । कार्यान्विते व्युत्पत्तिरिति वदतः किमुत्तरं न किमपीत्यर्थः । परस्य च दुरुद्धरोऽनुभवविरोधरूपो दोष इति भावः । एतेन किमुक्तमिति प्रश्नमात्रस्य अदोषत्वादिदं मूलं व्यर्थमिति परास्तम् । अनुभवविरोधे तात्पर्यात् ।
अनुभवविरोधोऽसिद्ध इति शङ्कते । नन्विति ।। अनुभवकलहो न कार्य इति भावेन प्रतिबन्द्या समाधत्ते इत्यत आह - तर्हीति ॥ मूले अध्याहार इति ।। अनुभवविरोधमगणयित्वा इयं माता अयं पिता इत्यादिवाक्येषु पदस्य अध्याहार इति वदन् वादी गामानयेत्यादिशब्देषु आनयेति पदस्य लोपं कृत्वा बालो व्युत्पद्यते इति प्रतिबन्ध कृत्वा जेतव्य इति भावः । लोपपक्षः श्रेयानित्याहेति ।। लोपपक्षः श्रेयानित्युक्त्वाऽपि वादी जेतव्य इत्याहेत्यर्थः ।
पदार्थत्वलोपात् लिङ्गाद्यर्थमात्रस्य घटादिपदार्थत्वलोपो गरीयान् श्रेयानित्यर्थः । मूले अशेषेति ॥ अशेषसिद्धपदानां नीलादिपदानामर्थस्य घटादियोग्येतरान्विते स्वार्थे व्युत्पत्तिरिति पक्षे नीलादिपदार्थानां घटादिपदार्थत्वं भवति । योग्येतरान्विते पदानां व्युत्पत्तिः । कार्यान्विते स्वार्थे व्युत्पत्तिरिति पक्षे एकस्याः कार्यताया एव घटादिपदार्थत्वं भवति । तथा यत्र सिद्धान्विते व्युत्पत्तिर्भवति तत्रापि कार्यपदाध्याहारं कृत्वा योग्येतरान्विते स्वार्थे व्युत्पत्तिरिति पक्षस्य त्यागे बहुबाधो भवति । अनुभवसिद्धस्य बहूनां बहुपदार्थत्वस्य त्यागात् । यत्रापि कार्यान्विते व्युत्पत्तिर्भवति, तत्र कार्यपदस्य लोपो विधेयः इत्यङ्गीकृत्य कार्यान्वित इति पक्षस्य परित्यागे च अल्पबाध भवति इति लोपपक्ष एव स्वीकार्य इति भावः । एतन्मूलटीकायां श्रूयमाणं कार्यवादिनो हि वाक्यभेदप्रसङ्गभीरवः अर्थवादादीनां स्वार्थे प्रामाण्याभावमाचक्षते । न च तदर्थाः प्रमाणान्तरगोचरा इति तल्लोप एव तत्पक्ष इति वाक्यद्वयं प्रक्षिप्तं न टीकावाक्यम् । अस्मत्कृतव्याख्यानवद्व्याख्यानमासीत् तदुच्छिन्नम् । अवश्यं चैतदेवं विज्ञेयम् । वाक्यभेदप्रसङ्गभयप्रयुक्तसिद्धार्थलोपव्युत्पादनेऽवश्यव्युत्पादनीय कार्यान्वितंस्वार्थव्युत्पत्तिप्रयुक्तसिद्धपदार्थलोपव्युत्पादनात् । कार्यवादिना अर्थवाक्यानां स्वार्थे प्रामाण्यानङ्गीकारेऽपि यूपादिविधायकवाक्यान्तरबलेन केषाञ्चित् प्रमाणान्तरबलेन अर्थवादार्थसिद्धेरङ्गीकृतत्वेन अशेषसिद्धपदार्थलोपाभावाच्च । अन्यथा ' यत्किञ्चत्करणस्याऽपि यज्ञतैवान्यथा भवेत् ।
लिङ्गाद्यर्थलोपानुपपादनाच्च अध्याहार इत्यादिनोक्तं परमुखमुद्रणायैव न वास्तवमित्याह-प्रौढिवाद इति ॥ दृष्टाऽपीति ॥ अनुभवसिद्धत्वेनत्वयोपन्यस्तापि सिद्धान्विते व्युत्पत्तिः यथा कार्यान्विते व्युत्पत्तिरङ्गीकार्या, तथा नाङ्गीकार्येत्यर्थः । एतेन दृष्टा चेदङ्गीकार्यैव नाङ्गीकार्येत्यनुपपन्नम् । तथोति च व्यर्थमिति परास्तम् । किं कार्यव्युत्पत्तीति ॥ अस्माभिः सिद्धान्विते भवति । परन्तु सिद्धान्वितस्वार्थवाचित्वं तु नाङ्गीकार्यम् । प्रथमभाविकार्यान्वितस्वार्थवाचित्वविज्ञानेन बाधादित्युच्यते । अतः सिद्धान्विते व्युत्पत्तिर्न भवत्येव । हससीत्यादिस्थलेऽपि व्युत्पत्तीच्छुभिः कार्याध्याहारस्य लक्षणया वा क्रियमाणत्वादित्युच्यत इत्यर्थः ।
मूले प्रथमेति ॥ सिद्धान्विते व्युत्पत्तिः पृष्ठभाविन्येवेति नान्वयनियमः । येनोक्तदोषः स्यात् । किं नाम कार्यव्युत्पत्तेः पूर्वमपि भवतीति न कार्यव्युत्पत्त्यनुरोधात् शब्दानां सिद्धान्वितस्वार्थवाचित्वं त्याज्यमिति भावः । वादार्थमिति ।। कार्यतावादार्थमित्यर्थः
गूढवाक्यार्थपञ्चिका
(छ.टि.) नन्वनेकार्थाः शब्दाः बहुलमुपलभ्यन्ते इति ॥ तथा च श्रीमध्वविजये ‘गोभिस्तमांस्यपनयन् गतिदं प्रजानामर्थान्तरं स भगवान् प्रकटीचकार । आनन्दचिद्गुणगणं परिपूर्णसंवित् चन्द्रस्तु शब्दगुणमित्ययमेव भेदः' ।। इति । अस्यार्थः स भगवान् परिपूर्णसंवित् श्रीमध्वः गोभिः वाक्यै तमांसि अज्ञानानि अपनयन् निराकुर्वन् प्रजानां लोकानां गतिदं ज्ञानमोक्षादिदातारं अर्थान्तरं कृष्णाख्यं वस्त्वन्तरं प्रकटीचकार । स्पष्टं कृतवान् । चन्द्रोऽपि गोभिः किरणैः तमांसि अन्धकारान् अपनयन् प्रजानां गतिदं गमनानुकूलं अर्थान्तरं प्रकटीचकार । नन्वेवं तर्हि चन्द्रमध्वयोः साम्यं किमित्यतो नेत्यभिप्रायेणाह-आनन्देति ॥ परिपूर्णसंवित् मध्वः आनन्दचिद्गुणगणं आनन्दज्ञानबलादिगुणसमुदाययुक्तं विष्णुं प्रकटीचकार । चन्द्रस्तु शब्दाख्यविशेषगुणयुक्तमाकाशं प्रकटीचकार इति अयमेव भेदः । मध्वचन्द्रयोः अयमेव विशेषः इति ।
यदि तत्र तथाकल्पनं स्यादिति (यदि तथात्र कल्पकं स्यादिति मुद्रितः पाठः) ॥ तत्र लिङादिषु तथा गोभिस्तमांसीत्यादिवाक्यवत् कल्पकं अनेकार्थग्रहणज्ञापकं स्यादित्यर्थः । तथाहि । गोभिस्तमांसीत्यादिपूर्वार्धपदानां
रशम्यंधकाराद्यर्थान्तराग्रहणे चन्द्रः यथाऽर्थान्तरं प्रकटीचकारेति दृष्टान्तासङ्गतिः । चन्द्रमध्वपक्षोक्तानां गवादिपदार्थभूतवाक्यादीनामन्वयाभावात् । रश्माद्यर्थग्रहणे अन्वयात् । उत्तरार्धोक्तस्य मध्वचन्द्रयोर्विशेषस्य च सङ्गतेः । पूर्वोक्तस्य शब्दतः साम्ये सति हि विशेषोक्तिर्युज्यत इति भावः ।
ननु लिङादिशब्दस्य कृत्युद्देश्यतारूपकार्यार्थकत्वस्याप्यङ्गीकारकल्पकाभावमुक्त्वा इदानीं विप्रतिपत्तौ चेति मूलवाक्येन तादृशकार्यसद्भावे प्रामाण्यस्य वक्तव्यत्वोक्तेः पूर्वोत्तरविरोध इत्यतः पूर्वोत्तरविरोधं परिहर्तुमाह-अङ्गीकृत्येति ॥ लिङादेः कृत्युद्देश्यतार्थत्वमिति शेषः । इदं तथा कल्पकमित्यनेनोक्तम्-अस्मिन्प्रसङ्ग इति ॥ लिङादिशब्दस्य इष्टसाधनत्वातिरिक्तकार्यत्वप्रतिपादकत्वं नास्ति प्रमाणाभावादित्येवं प्रसक्तौ सत्यामित्यर्थः । परेण प्राभाकरेण कार्याभावे कार्यत्वे शब्दात् लिङादिशब्दात् अन्यत् अनुमानादिकमित्यर्थः ।
ननु लिङादिइष्टसाधनत्वातिरिक्तकार्यवाचित्वसिद्धौ तेन तादृशकार्यसिद्धिः । तत्सिद्धौ च लिङादेस्तादृशकार्यवाचकत्वसिद्धिरित्यन्योन्याश्रयः तदा स्यात् । यदिदं प्रमेयं पूर्वमुक्तं स्यात् इत्यत आह-तथैवेति ।। लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति मूलवाक्येन लिङादेरिष्टसाधनार्थत्वमुक्त्वा एवकारेण अतिरिक्तकार्यवाचकत्वाभावमुक्त्वा परेणेष्टसाधनत्वातिरिक्तकर्तव्यत्वरूपकार्यतावाचित्वे शङ्किते न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चिदित्यादिना· इष्टसाधनत्वातिरिक्तकर्तव्यत्वाभावेन लिङादेरिष्टसाधनत्वातिरिक्तकार्यत्ववाचित्वाभावस्योक्तत्वादिति भावः । मूले अप्रसिद्धविशेषणत्वादित्यस्यायमर्थः । इष्टसाधनत्वातिरिक्तकार्यबोधपूर्विकेति साध्यस्य क्वचिदप्यदर्शनादिति भावः । गवानयनादिप्रवृत्तीति । गामानयेत्यादिप्रयोजकवृद्धवाक्यश्रवणानन्तरं जायमानप्रयोज्यवृद्धस्य गवानयनादौ या प्रवृत्तिः तदन्यथानुपपत्या जाता अर्थापत्तिरिष्टसाधनतातिरिक्तकार्यताबोधसद्भावे इत्यर्थः । कृतिसाध्यतैकार्थसमवेतेति ॥ कृतिसाध्यतया प्रयत्नसाध्यत्वरूपकार्यतया एकस्मिन्नर्थे समवेता युक्ता या इष्टसाधनता तद्ज्ञानादेव प्रवृत्त्युपपत्तेरित्यर्थः । ज्योतिष्टोम ज्ञानानपेक्षणादिति भावः । कार्यपदस्येति ॥ कार्यवाचकलिङादेरित्यर्थः । गवानयनादिप्रवृत्तौ तथादर्शनात् । प्रत्येकं कृतिसाध्यत्वेष्टसाधनत्वयोर्प्रवृत्यर्थं स्वार्थे कार्यरूपेऽर्थे | कार्यस्येति । आत्माश्रयप्रसङ्गेन स्वस्य स्वेन सम्बन्धायोगादिति भावः । कार्यपदानामिति ॥ उपलक्षणं चैतत् । सिद्धपदानां कार्यान्वयिनीत्यपि ग्राह्यम् । कल्पनागौरवादीति । व्युत्पत्तौ एकप्रयोजकानुक्तेरिति भावः ।
ननु शब्दानां कार्यान्वयिनि शक्तिरित्युक्ते अन्वयशब्दवाच्यसम्बन्धस्य कार्यसिद्धोभयधर्मत्वात् लिङादिशब्दानां सिद्धान्वितकार्ये शक्तिः अन्येषां कार्यान्वितसिद्धे शक्तिरिति एकप्रयोजकलाभादिति भावेनकार्यान्वयान्वयिनीति मूले व्याख्यातम् । कार्यप्रतियोगिको योऽयमन्वय: तेन सम्बन्धेन युक्ते स्वार्थेककार्ये सिद्धे वा सर्वेषां पदानां शक्तिरित्यर्थः । टीकाकारैस्तु कार्यान्वयिनीत्येतत् प्रकारान्तरेण व्याख्यातं मूलोक्तादिपदाद्गृहीतं कार्यपदार्थान्वयिनी वेति । कार्यपरं यत्पदं लिङाद्यन्तं तस्यार्थः । कार्यं तदन्विते सिद्धे गवादिपदानां शक्तिः । अथवा कार्यपरो यः पदार्थः गवादिः तदन्विते कार्ये लिङ्गाद्यन्तानां पदानां शक्तिरिति एकप्रयोजकलाभात् कथं गौरवमिति भावेन कार्याभावादिति मूलं संयोजयति तत्सर्वमिति ॥ कार्यनिरासादेव कार्यस्य लिङ्वाच्यत्वनिरासादेवेत्यर्थः । सिद्धार्थेऽपि पदानां व्युत्पत्तिं प्रतिबन्ध्या साधयितुमाह- किंचेति ॥ दर्शनबलादिति चेति ॥ गामानयेत्यादाविति शेषः । दर्शनबलादेवेति ।। तव भ्राता अपूपान् भक्षयतीत्यादाविति शेषः ।
नन्वेवं तर्हि सिद्धान्विते कार्यान्विते च व्युत्पत्तिरिति व्युत्पत्तौ प्रयोजकद्वयं प्राप्नोतीत्यत आह- योग्यान्वयित्वेनेति । लिङादिकार्यपदानां गवादिसिद्धपदानां च स्वार्थान्वययोग्येतरपदार्थान्विते स्वार्थे कार्य सिद्धे च व्युत्पत्तिरिति एकप्रयोजकसम्भवादित्यर्थः । द्वारं द्वारमित्यादाविति । अत्र पिधेहीत्यध्याहारो दृयते । आदिशब्दात् 'पर्वते पर्वते राम' इत्यादौ अस्तीत्यध्याहार इत्यर्थः । कार्यपदस्य ‘तव भ्राता' इत्यादौ तत्वं पश्यति लडन्तपदस्येत्यर्थः । तत्र कार्यपदस्य लोप इति ।। गामानयेत्यादि वाक्ये आनयेत्यादिपदस्येत्यर्थः ।
नन्वनुभवविरुद्धमेतत् । बालकस्य आनयनादिपदलोपं विना गवादिपदानां आनयनाद्यन्वितगवाद्यर्थे व्युत्पत्यनुभवादिति चेत् तर्हि तव भ्रातेत्यादिवाक्ये अयं ते पिता, इयं माता त्वं सुरूपोऽसीत्यादौ लिङाद्यध्याहारेण विना व्युत्पत्यनुभवात् तवाप्यनुभवविरोध : समान इति भावः । लोपपक्षः श्रेयानित्याहेति ।। अशेषसिद्धपदानामिति ।। मूलवाक्यस्यायमर्थः । अशेषसिद्धपदानां गामानय शुक्लदण्डेनेत्यादिवाक्ये विद्यमानानां गवादिपदानां योग्येतरान्वितस्वार्थे व्युत्पत्तिरिति पक्षेण अनुभवतः सिद्धस्य शुक्लदण्डाद्यनेकान्वितगवादिस्वार्थस्य लोपमपेक्ष्य लिङाद्यर्थस्य कार्यतारूपस्य लोपः गवादिपदेषु प्रतीत्यभावो गरीयान् श्रेष्ठ इत्यर्थः ।
अयं भावः । गवादिपदेषु प्रयुक्तेषु योग्यैः बहुभिरितरपदार्थैः स्वार्थस्य अन्वयप्रतीतेः तदन्वितस्वार्थे व्युत्पत्तिसम्भवात् तत्त्यागे बह्वनुभवबाधात् । अयं ते पितेत्यादौ कार्यान्वितत्वात्प्रतीतेः क्वचित्कार्यान्वितप्रतीतावपि तल्लोपाङ्गीकारे खल्वबाधात् । अयं पितेत्यादौ कार्यपदाध्याहारेण सर्वत्र कार्यान्विते व्युत्पत्तिरित्यङ्गीकारे अनुभवविरोध इति ।
प्राभाकराणां मते एवं अस्मदुक्तरीत्या योग्येतरान्विते स्वार्थे व्युत्पत्तिमनङ्गीकृत्य कार्यान्वितस्वार्थे व्युत्पत्यभ्युपगमे अनुभवविरोधमभिधाय ते अनुभवविरुद्धं कथमङ्गीकरिष्यन्ति इत्याशङ्कायाः स्थलान्तरेऽपि अनुभवविरोधाङ्गीकारं दर्शयति-कार्यवादिन इति ॥ अर्थवादादीनां विध्यादि-स्तावकवाक्यादीनां 'वायुर्वै क्षेपिष्ठा देवता' इत्यादिवाक्यानां स्वार्थे वायोः क्षिप्रफलदातृत्वरूपे इत्यर्थः । तत्र हेतुः वाक्यभेदप्रसङ्गभीरव इति ॥ 'वायव्यं श्वेतमालभेत भूतिकामः' इति विधिवाक्येन अर्थवादवाक्यस्य भिन्नतात्पर्योपेतार्थान्तरवत्वरूपनिष्ठप्रसङ्गभीरुत्वादित्यर्थः । तदर्थ इति ॥
अर्थवादार्थः । वायोः क्षिप्रफलदातृत्वादिरूपोऽर्थः । तथा च यथार्थवादवाक्ये सिद्धार्थलोपः तथा कार्यान्वितस्वार्थे व्युत्पत्तिरिति पक्षेऽपि सिद्धार्थलोप इत्युक्तं भवति ।
ननु मूले अध्याहार इत्युक्ते लोप इत्युत्तरमिति यदुक्तं तदयुक्तम् । बालकेन अयं पितेत्यादिवाक्ये अध्याहाराज्ञानेन तत्र कार्यपदान्वयाभावात् । गामानयेत्यादौ कार्यपदलोपे गामित्यादीनां कारकमात्रप्रतिपादकानां क्रियाभावेनानन्वितत्वेन वाक्यार्थबोधकत्वप्रसङ्गाच्चेत्यत आह- प्रोढवादोऽयमिति ॥ प्रौढानां युक्तत्या यावत्परोक्तदूषणसमर्थानां इदं वचनमित्यर्थः प्राभाकरेणोक्तस्य अध्याहार इत्यस्य प्रतिबन्धित्वेनैव लोप इत्युक्तम् । न तु वस्तुतत्वं उभयोरप्यनुभयविरुद्धत्वादिति भावः । दृष्टा ॥ अकार्ये अन्वितेऽपि यद्यपि व्युत्पत्तिर्दृष्टा तथापि कार्यान्विते व्युत्पत्तिवत् नाङ्गीकार्या अनावश्यकत्वादिति भावः । एतेन दृष्टा चेदनङ्गीकार्यैव नाङ्गीकार्येत्यनुपपन्नमिति परास्तम् । तथेत्युक्त्या अनावश्यकत्वे तात्पर्यात् । कुत इति ॥ कस्मात्कारणात्सिद्धान्विते व्युत्पत्तिः नाङ्गीकार्येत्यर्थः । एतदेव विवृणोति-किं कार्यव्युत्पत्तिपृष्ठभावित्वेनेति । व्युत्पद्यमानस्य बालस्य प्रथमतः कार्यव्युत्पत्तेरेव जायमानत्वात् ततः पश्चात् जायमानत्वेन सिद्धार्थे व्युत्पत्तिः कार्यव्युत्पत्यनुसारिण्येवाङ्गीकरणीया । न स्वतन्त्रेत्यर्थः ।
कोट्यन्तरमाह-उतेति ॥ कार्याध्याहारस्य हससीत्यादौ त्वया तन्न कर्तव्यमित्यादिरूपस्य लक्षणायाः हससीत्यादिपदस्य हासो न कर्तव्य इत्याद्यर्थकत्वरूपाया इत्यर्थः । प्रथमप्राप्तत्वादिति मूले सिद्धार्थव्युत्पत्तेरिति शेष: । वादार्थमिति || कार्यतावादनिराकरणस्य प्रयोजनमित्यर्थः । पूर्ववादोक्ते (पूर्वोक्ते) ति | निर्गुणवादखण्डनोपपत्तिसमुच्चये इत्यर्थः । सिद्धमित्यत्र अपेक्षितं प्रमाणमध्याहरति महानाम्नीभिरिति शेष इति । तथा चायं मूलवाक्यार्थः । अतः निर्गुणत्वकार्यतावादयोरनुपपन्नत्वात् महानाम्नीनां ऋचां सिद्धार्थे प्रामाण्यसिद्धेः चशब्दात् विष्णोः निर्गुणत्वसम्भवेन च महानाम्नीभिरृग्भिः प्रतिपादितं महागुणत्वं अनन्तगुणपूर्णत्वं सिद्धमिति ।। छ ।।