नूनं तन्नव्यं सन्यसे प्रभो जनस्य वृत्रहन्
(नूनं तन्नव्यमिति श्रुत्यर्थकथनम्)
मूलम्
२३- मूलम्- नूनं तन्नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु प्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ ९ ॥ तन्नव्यं स्तुत्यं ब्रह्म तत्सम्यक् हृदि सन्यसे जनस्योपदेशेन । त्वत्स्वरूपेषु त्वं चाहं च संवावहै । गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति । सुशेवः सुसुख: समाधिकरहितोऽद्वयः ॥ ९ ॥
टीका
टिका- नूनं तत् ॥ यत्तद्ब्रह्म तव स्वरूपम् । जनस्य हृदि । स्वतः सिद्धत्वात्कथं सन्न्यसनमित्यत उक्तम् उपदेशेनेति ॥ ज्ञातादन्येषु त्वत्स्वरूपेषु । यो भवान् । अद्वय इत्यनेन बहुवचनमेकवचनार्थमित्युक्तं भवति ॥ ९ ॥
भावदीपः
( रा. टि. ) ' नूनं तन्नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः' । भाष्ये द्विस्तच्छब्दयोगेन निर्देशः- यत्तदिति ॥ फले व्यवधानात्तच्छब्दार्थो ब्रह्मेति दर्शितम् । हे वृत्रहन् यद्ब्रह्म तज्जनानां हृदि संन्यस इत्युक्ते वृत्रहापेक्षया ब्रह्म अन्यदिति प्राप्त उक्तम्- तव स्वरूपमिति । जनस्येत्यस्य पूर्वेणान्वयो नोत्तरेणेति भावेनाह-जनहृदीति ।। अन्यत्वस्य साकाङ्क्षात्वादाह-ज्ञातादन्येषु त्वत्स्वरूपेष्विति ॥ य इत्यस्यार्थं स्वयमाह-यो भवनिति ।। तथा च गच्छतीति क्रिया युक्तेति भावः । अयमर्थः- हे प्रभो परमसमर्थ वृत्रहनू, शूरः सखिभूतः, शुशेवः सुसुख, अद्वयाः अद्वयः समाधिकरहितः । गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति । नव्यम् 'नु स्तुतौ' स्तुत्यं तत्तव स्वरूपं जनस्य हृदीति शेषः । उपदेशेन सम्यक् स्थापयामि । अन्येषु ज्ञातभगवद्रूपादन्यभगवद्रूपेषु विषये त्वं चाऽहञ्च नूनं निश्चितं यथा तथा सम्ब्रवावहै संवादं कुर्व इति ॥ ९ ॥
विवरणम्
(श्री.टि.) तन्नव्यमित्यत्र तच्छब्दस्य यच्छन्दसापेक्षत्वाद्यच्छब्दाध्याहारेण ब्रह्येत्यतद्योजयति-यदिति । यत्तव स्वरूपं ब्रह्मशब्दवाच्यं तत् नव्यं स्तुत्यम् । तत्स्त्ररूपमहं सम्यक् हृदि संन्यस इति मूलं योज्यम् । तन्नव्यमिति नपुंसकलिङ्गप्रयोगात् शूरोऽद्वय इत्यादिपुलिङ्गान्तशब्दयोजना कथमित्यतस्तत्सूचयति यो भवानिति ॥ तव स्वरूपमेव जनस्य हृदि कस्मादहं संन्यरो, ज्ञातादन्येषु त्वत्स्वरूपेष्वेवावां कस्मात्सम्ब्रवावहै इत्यतो यो भवान् शूराद्वयादिरूप इति योजना सूचिता । अथवा यो भवान् शूराद्रयादिरूपः यत्तव स्वरूपं ब्रह्म तत् नव्यम्, तज्जनस्य हृदि उपदेशेन सत्र्यसे सन्यस्यामीति योजना द्रष्टव्या । अद्वया इति बहुवचनं कथमित्यत उक्तम्-बहुवचनमिति ॥
कर्मप्रकाशः
(स.टि.) ‘नूनं तन्नत्र्यं सत्र्यसे प्रभो जनस्य वृत्रहन् । समन्येषु व्रवावह शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ।।' इत्यृचं प्रतीकतयोपादत्ते-नूनं तदिति ।। भाष्ये तन्नव्यमिति तच्छब्देन कस्य परामर्श इत्यत आह- यत्तदिति ।। अत्र यद्ब्रह्म तव स्वरूप इति शेषो दर्शितः । अनेन यत्तत् प्रसिद्धं ब्रह्म तत्स्वरूपम् । तन्नव्यं ब्रह्म जनस्य हृदि सन्यस इत्यन्वयः सूचितः। अनेन तच्छब्देन ब्रह्मात्मकस्य स्वरूपस्य परामर्श इति सूचितम्। अनेनोपदेश्योपदेशकयोर्भेदशङ्का परास्ता ।
गूढवाक्यार्थपञ्चिका
( छ.टि.) 'नूनं तन्नव्यं सन्यसे' इति नवमीं ऋचं प्रतिगृह्णाति-नूनमिति || ऋचि तन्नव्यमिति नपुंसकलिङ्गनिर्देशोपपत्यर्थं मूले ब्रह्मेत्यध्याहृतम् । तस्य यत्ते अद्रिव इत्यतः ते इत्यनुवर्त्य तेनान्वयं दर्शयितुं ऋक्स्थ-तदितिपदं गृहित्वा तत्परामृश्यमानं दर्शयन्नर्थमाह-तत् । यत्तद्ब्रह्म तव (तव ब्रह्म) स्वरूपमिति ।। तदिति ऋक्स्थपदस्य व्याख्यानम्- यत्तद्ब्रह्मेति ।। यत् ‘विदा मघवन्' इत्यादिना प्रतिपादितं इन्द्रशक्रादिशब्दवाच्यं नव्यं स्तुत्यं ब्रह्म ते तव स्वरूपं तत् जनस्य हृदि अहं सन्यसे नूनं स्थापयामीति योजनायां सिद्धायां मूले उपदेशेनेत्युक्तस्य सङ्गतिमाह-स्वतः सिद्धत्वादिति । हृदि परमेश्वरस्य सदाविद्यमानत्वेऽपि शिष्यजनस्य तद्ज्ञानाभावात् हे प्रभो हे वृत्रहन् त्वां उपदेशेन स्थापयामि जनं त्वद्ज्ञानवन्तं करोमीति भावः ।
नव्यमित्यत्र ‘नु स्तुतौ' इति धातो: 'अचो यत्' इति यत्प्रत्यये ‘सार्वधातुके' इति गुणे 'वान्तो यि प्रत्यये' इत्यवादेशः । सन्यस इत्यत्र 'संनिपूर्वकात् अस गतौ' इत्यतः लटि आत्मनेपदे उत्तमपुरुषे इटि 'टित आत्मनेपदानां इत्येत्वमिति भावः । ऋचि अन्येष्वित्यस्य प्रतियोग्यनुक्तेः विशेष्यानुक्तेश्च तावाह ज्ञातादन्येषु त्वत्स्वरूपेष्विति । पूर्वं हृदि उपदेशेन सन्यसे इत्यनेन बिम्बमूर्तिज्ञापनमुक्तं तस्मात् ज्ञातात् अन्येषु विवादास्पदेषु व्यासादित्वत्स्वरूपेष्वित्यर्थः । ऋचि 'सं व्रवावहै' इत्यस्य कर्त्रनुक्तेः तद्दतिमुक्तं मूले त्वं चाहं चेति ॥ संद्रवावहै इति 'ब्रूञ् व्यक्तायां वाचि' || इति धातोः लोडात्मनेपदद्विवचने वहिप्रत्यये 'आडुत्तमस्य पिच' इत्याडागमे अदादित्वात् ‘शपो लुकि' गुणावादेशयोः कृतयोः सिद्धेऽपि द्विवचनसामर्थ्यात् अस्मच्छब्दाद्विवचनस्यावामित्यस्य कर्तृत्वेनाध्याहार्यत्वेन प्राप्तस्यार्थः ' त्वं चाह च' इति कृतः । तथा च ' त्यदादीनि सर्वैर्नित्यं' इत्येकशेषसूत्रे शब्दपर-विप्रतिषेधेन त्यदादिगणे युष्मदस्मच्छब्दयोर्मध्ये अस्मच्छब्दस्य परत्वात् शेषे द्विवचनान्तस्य आवामित्यस्य संद्रवावहै इत्येतं प्रति कर्तृत्वं ज्ञेयमिति भावः । अयमाशयः । मम स्वल्पज्ञानित्वात् शिष्यान् प्रति बिम्बमात्रोपदेशो युक्तः । व्यासाद्युपदेशे तु मम सम्यक् तत्स्वरूपज्ञानाभावात् त्वत्सहायस्य अपेक्षितत्वात् त्वं चाहं च उभौ मिलित्वा व्यासादिस्वरूपं संव्रवावहै सम्यग्वदाव इति । शूरो यो गोष्विति पादे यच्छब्देन किं परामृश्यत इत्यत आह-यो भवानिति ॥ बिम्बबिम्वान्यस्वरूपेषु उपदिश्यमाना गुणा उक्ता शूर इत्यादिना । शूरः शत्रुभूतसर्वदोषपरिहारसमर्थ इत्यनेन सच्चिदानन्दादिचतुर्गुणेषु मध्ये निर्दोषत्वमेको गुण उक्तः । गोषु गच्छतीत्यनेन द्वितीयो ज्ञानप्राप्यत्व-लक्षण इति भावेन मूले उक्तम्-गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवतीति ।। तत्र गोशब्दः 'गमेर्ड : ' इति उणादिसूत्रेण गमधातोर्भावे डप्रत्यये निष्पन्नत्वात् गत्यर्थानां च ज्ञानार्थत्वात् ज्ञानार्थक इति भावः । गच्छतीत्यस्य प्राप्त्यर्थत्वमाश्रित्य विशिष्टस्य तात्पर्यार्थमाह मूले- ज्ञानविषय इति ॥ गोशब्दस्य भावप्रधानत्वे तु गोषु ज्ञानत्वेषु गच्छति प्राप्नोति ज्ञानस्वरूपो भवतीति यावत् । (सखा जीवसाहायेन विद्यमानः जीवनादियुक्त इति यावत् । ‘अथ मित्रं सखा गुहृत्' इत्यमरोक्तेः । अथवा खेन पूर्णत्वेन सहितः सख:, सखश्चासावश्च अकारवाच्यथेति सखा ।) सुशेवः सुशोभनं शेवं सुखं इति आनन्दाख्यस्तृतीयो गुण उक्तः । शेवं शिवं इति नियण्टी सुखनामसु पाठात् । व्यत्ययेन पुलिङ्गतेति भावेन मूले सुशेवः सुखस्वरूप इति व्याख्यातम् । अद्वयः द्वौ अवयवौ यस्य समुदायस्य तत् द्वयम् । द्विशब्दात् 'सङ्ख्याया अवयवे तयप्' इति तयप्प्रत्यये तस्य 'द्वित्रिभ्यां तयस्यायज्वा' इति तयपः अयजादेशे द्वयमिति रूपम् । न विद्यते द्वयं यस्येति बहुव्रीहिः । तत्र ईश्वरापेक्षया नीचस्य सत्वेन द्वयशब्देन तन्निषेधायोगात् द्वयशब्दस्य विवक्षितोऽर्थः मूले उक्तः-समाभ्यधिकेति ॥ अनेन आत्मशब्दोक्त-स्वामित्वाख्यचतुर्थगुण उपलक्ष्यते । चतुर्णां गुणानां 'भूम्नः क्रतुवज्जायस्त्वं’ इत्युक्तन्यायेन पूर्णत्वविशेषणस्य आवश्यकत्वात् । मध्ये सखेत्युक्त्या देहलीप्रदीपन्यायेन शूर इत्याद्युक्तचतुर्गुणेषु पूर्णत्वस्य सम्बन्धो ज्ञेयः ।
ननु ऋचि अद्वया इति दीर्घस्य विद्यमानत्वात् कथं मूले अद्वय इति ह्रस्वानुवाद इत्यत आह-अद्वय इत्यनेनेति । प्रथमैकवचनस्थले व्यत्ययेन प्रथमबहुवचनमिति भावः ।