वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते

(वेदवाक्यस्य वाचनिकार्थत्ववर्णनम्)

मूलम्

४५- मूलम्-वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते ॥

टीका

टीका- नन्वस्य न्यायस्य वेदेऽपि तुल्यत्वात् 'लौकिकवाक्येषु' इति किमर्थम् ? इत्यत आह-वेदेति ॥ वाचनिकार्थं मुख्यामुख्यवृत्तिलभ्यार्यम् । अन्यः प्रकारः पुरुषाशयानुमानरूपः । अयमभिप्रायः । वेदोऽपौरुषेय इत्यस्माकं परेषां च यद्यपि सम्मतम् । तथापीश्वरवाक्यत्वं समस्तस्यापि वेदस्य वयमङ्गीकुर्मः । न परे । अतोऽस्मन्मते पुरुषाशयानुमानसम्भवेऽपि परमते तु स प्रकारो नैव युज्यते । अतः परमतानुवादपरे 'यत्र वाचनिकार्थात्इति वाक्येलौकिकवाक्येषु' इत्युक्तमिति ।

वेदेऽमुख्यवृत्तिरेव नास्तीति व्याख्यानं तु न बुध्यामहे । तथा हि-किं वैदिकानि गौणलक्षणाभिधाशक्तिमन्त्येव न भवन्तीत्यभिप्रायः? उत गौणस्य लाक्षणिकस्य वाऽर्थस्य वेदवाक्यार्यान्वयो नास्तीति ? आद्ये लौकिकानां वैदिकानां च शब्दानां भेदाभावाद्वृत्तिभेदकया वृया स्यात् । न द्वितीयः ।हृद्यपेक्षया तु मनुष्याधिकारत्वात्' इति लक्षणायाः 'तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्' इति गौण्याश्च वृत्तेः 'अङ्गुष्ठमात्रः पुरुषः', 'तत्त्वमसि' इत्यादौ सूत्रकृताऽङ्गीकृतत्वात् । तथैव भगवत्पादैर्व्याख्यातत्वात् ।तदन्तस्थत्वापेक्षत्वान्न सुषिरश्रुतिविरोधः' इत्यादिभाष्यविरोधश्च । कथं च 'स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टतः ' ॥ इत्यादिकं व्याख्येयम् । न चैतत्सर्वं परमतरीत्योक्तमिति वाच्यम् । ज्ञापकाभावात् । अस्य तु वाक्यस्यान्यथा व्याख्यातत्वात् । किञ्च शास्त्रे सहस्रशो वाक्यानि गौणीं लक्षणां च वृत्तिमाश्रित्य प्रवृत्तानि । इदन्त्वेकम् । ततः 'त्यजेदेकं कुलस्यार्थे' इति तदेवान्यथयितव्यम् । किञ्च 'अस्माकं परमुख्यार्थः' इति स्वमतत्वेन 'गौणाद्यं तदयोगतः' इत्याद्यभिहितम् । न चैतत् पुराणादिविषयम् ।अजामेकाम्' इति श्रुतिविचारे पुराणादेरप्रसङ्गात् । 'अतो भेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥ इत्यादौ व्यक्तमेव वचनाच्च । अस्तु तर्हीश्वरे गौण्याद्यभावपरमेतदिति चेन्न । अङ्गुष्ठमात्रश्रुतेः सुषिरश्रुतेश्चेर एव लाक्षणिकत्वस्योक्तत्वात् । 'प्राज्ञवत्' इति सर्वं खल्विदं ब्रह्म' इति श्रुतेर्गौणत्वेन स्वीकृतत्वादित्यलम् । ननु तात्पर्यवृत्तेरभावे कथं कर्मकाण्डस्य ब्रह्मणि समन्वयः । न हि तत्रोक्तवृत्तिसम्भव इति चेन्न ।ज्योतिरुपक्रमात्इति पदसमन्वयस्योक्तत्वा । वाक्यान्वयपक्षेऽप्यन्विताभिधानस्योक्तत्वेन समाधानादिति संक्षेपः ॥

भावदीपः

(रा.टि.) गौणलक्षणाभिधेति ॥ गौणलक्षणाशब्दितेत्यर्थः । वृधा स्यादिति । वेदे तादृशार्थस्यान्वयाभावे लोकेऽपि तदन्वयाभावापातादि भावः । हृद्यपेक्षयेति ।।अङ्गष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानः' इति काठके ईशानशब्दितविष्णोरङ्गुष्ठमात्रपरिमाणत्वं कथमित्यत:हृद्यपेक्षया तु मनुष्याधिकारत्वात्' इति सूत्रे हद्देशस्थावकाशस्याङ्गुष्ठमात्रत्वातदपेक्षया तद्देशस्थविष्णोरपि तथात्वम् । स्थानैक्येनैक्योक्तिवदित्युक्तेर्लक्षणाया इत्युक्तम् । तद्गुणेति । 'तत्त्वमसि' इति वाक्ये भगवद्गुणज्ञानानन्दसदृशगुणस्वरूपत्वात्सिंहो माणवक इत्यादाविव गौणोऽभेदव्यपदेश:इत्युक्तेर्गौण्याश्चेत्युक्तम् । तदन्तस्थत्वेति ।। 'दहर उत्तरेभ्यः' इत्यधिकरणेयावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' इत्यादिना द्यावाभूम्यादिसर्वाधारत्वेन यावान्वायमिति वाक्योक्त आकाशः परमात्मेत्युक्तार्थे ' तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्टितम्' इति वाक्यान्तरे तस्येति पूर्वप्रकृतहृदयं परामृश्य तस्यान्ते सुषिरशब्दिताकाशस्य सर्वाधारत्वोक्तेस्तद्विरोध इति शङ्किते सुषिरान्तस्थभगवदपेक्षया सर्वं समाहितमित्युक्तेरिति भाष्योत्त्या सुषिरशब्दस्य सुषिरस्थे लक्षणोपगमेन तद्विरोधाच्चेत्यर्थः । स्वातन्त्र्ये चेति । इदं जिज्ञासाधिकरणीयमनुव्याख्यानम् । तत्र सप्तम्यो निमित्तार्थाः । सर्वं खल्विदं ब्रह्म' इत्यादिकं स्वातन्त्र्य-वैशिष्ट्यनिमित्तकम्, ‘यत्र त्वस्य' इत्यादिकं स्थानैक्यमत्यैक्यनिमित्तकं 'तत्त्वमसि' इत्यादि तु सादृश्यनिमित्तकमिति ज्ञेयम् । अत्र स्थानैक्यस्थले लक्षणा, मत्यैक्यस्थले लक्षितलक्षणा सादृइयस्थले गौणी वृत्तिरित्यङ्गीकारादिति भाव: । 'वाचनिकार्थं विना' इत्येतदेव वाक्यं ज्ञापकमित्यत आह-अस्यत्वि ति ॥ त्यजेदिति || ' त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्' ।। इति न्यायेनेत्यर्थः ।

अस्माकमिति । 'अस्माकं परमुख्यार्थो भगवानेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते । सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ' ॥ इत्यानुमानिकपादीयानुव्याख्याने 'अजामेकाम्' इति श्रुतेः तेजोवन्नादिपरत्वे परेणोक्ते, तन्निरासाय प्रधानपरत्वे सिद्धान्तिनाऽभिहिते, तर्हि ब्रह्मपरत्वहानिरिति शङ्कायां मुख्यवृत्त्या अन्यपरत्वेऽपि परममुख्यवृत्त्या भगवानर्थ इत्युक्त्वा, अन्यत्र मुख्यवृत्तेरयोगेगौणाद्यम्' इत्युक्तेरिति भावः । अतो भेदवदिति ।।पृथगुपदेशात्' इत्यधिकरणानुव्याख्याने व्यक्तमिति भावः । न हि तत्र उक्तवृत्तीति ।। योगादिवृत्तिचतुष्टयसम्भवो नेत्यर्थः । वाक्यान्वयेति॥वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादिवाक्यानां क्रियाकारकान्वयरूपस्वार्थबोधकानां सताम्, 'श्रोतव्यो मन्तव्य: ' ' तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' इत्यादि ब्रह्मपरवाक्यार्यान्वितस्वार्थ-प्रतिपादनस्यप्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः' इत्यादिसूत्रत्रयेण समाधानस्योक्तत्वादिति न तदर्थं तात्पर्यवृत्तिरुक्तचतुष्टयवृत्तितोऽन्याऽभ्युपेयेति भावः । यद्वा अन्विताभिधानाङ्गीकारेणेति भावः । प्रागुक्तदिशा अन्विताभिधानस्योक्तत्वात् नेत्यर्थः । इति तात्पर्यवृत्त्यभावोक्तिः ।।

कर्मप्रकाशः

(स.टि.) नन्वस्य न्यायस्येति ॥ योगरूढिलक्षणागौणीरूपवृत्त्यविषयस्य तात्पर्यस्य भाने अनुमानविधया शब्दो बोधकः न तु शब्दविधयेति न्यायस्यार्थः । ननु सर्वस्यापि वेदस्येश्वरवाक्यत्वात्पुरुषाशयानुमानं वेदेऽपि सम्भवत्येवेति लौकिकवाक्येष्विति न वक्तव्यमित्यत आह-अयमभिप्राय इति ।। हृद्यपेक्षया त्विति ॥ अङ्गुष्ठशब्दस्य हृदयस्थाकाशे लक्षणाया उक्तत्वादित्यर्थः । भाष्यविरोधश्चेति || भाष्यकृता वैदिकस्य सुपिरशब्दस्य सुषिरानतस्थे लक्षणायाः स्वीकृतत्वादिति भावः । ऐक्यवागिति ॥ "एको देव:' ‘अस्मिन्ग्रामे अयमेव ब्राह्मण: ' ' सायं गावो गोष्ठे एकीभवन्ति' 'राजान एकीभवन्ति’ ‘अग्निर्माणवकः' इत्याद्यैक्यवाक्यं सावकाशमित्यर्थः । अस्य तु वाक्यस्येति ।। वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यत इत्यस्य वाक्यस्य तु वेदे पुरुषाभावात्पुरुषाभिप्रायानुमानं न सम्भवतीत्यर्थपरतया व्याख्यातत्वादित्यर्थः ।

व्यक्तमेव वचनाच्चेति ।। ऐक्यपरतया प्रतीयमानवेदादिवाक्यानां गौणाभेदपरत्वस्य व्यक्तमुक्तत्वादित्यर्थः । अङ्गष्ठमात्रश्रुतेरिति || ‘अङ्गुष्ठमात्रः पुरुषःइति श्रुतेः सूत्रकृता हृद्यपेक्षयेति सर्वगतस्याप्यङ्गुष्ठसमपरिमाणप्रतिपादकतया व्याख्यानादङ्गुष्ठमात्र इति पदं बहुव्रीहिरिति लभ्यते । बहुव्रीहेश्चान्यपदार्थे लक्षणेति ईश्वरलाक्षणिकत्वं सूत्रकृता उक्तमिति बोध्यम् । सुषिरश्रुतेश्च भगवति लाक्षणिकत्वोक्तिः प्रसिद्धेति न व्युत्पादनापेक्षा । एतेनाङ्गुष्ठमात्रशब्दस्य अङ्गुष्ठपरिमाणसमपरिमाणवत्वमर्थः । तच्च भगवत्यस्त्येवेति तत्र शब्दस्य लाक्षणिकत्वाभिधानमयुक्तमिति परास्तम् । अस्यैवार्थस्य अङ्गुष्ठस्यैव मात्रं मितिः यस्येति बहुव्रीहिलभ्यत्वात् । कर्मकाण्डस्य समन्वयः कथमिति पृच्छति उत वाक्यसमन्वयः कथमिति विकल्पं मनसि निधायाद्यस्योत्तरमाह-ज्योतिरिति ।। द्वितीयस्योत्तरमाह-वाक्यान्वयपक्ष इति । अन्विताभिधानस्य ईश्वरेणान्वितस्य सम्बन्धस्य कर्मादेः ईश्वरार्थस्य कर्मादेः ईश्वरार्थस्य कर्मादेरिति यावत् । अभिधानस्य कर्मकाण्डेन प्रतिपादनं क्रियत इत्यर्थस्य 'अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेक' इत्यादिनोक्तत्वादित्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) वाचनिकार्थमिति मूले रूढियोगमात्रलभ्यार्थमिति प्रतीतिं वारयितुमाह-मुख्यामुख्यवृत्तिलभ्यार्थमिति । 'विष्णोर्नुकं' 'यः सर्वज्ञ' इत्यादौ रूढियोगाख्यमुख्यवृत्तिप्राप्तार्थं विष्णुं 'सर्वं पुरुष एवेदम्' इत्यत्र लक्षणया प्राप्तार्थं पुरुषाधीनमित्यर्थं तत्वमसीत्यत्र गौण्या वृत्या पाप्तं तच्छब्दस्य तत्सदृशत्वरूपार्थमित्यर्थः ।

ननु वेदापौरुषेयत्वस्य भाट्टमतस्मन्मतयोः सिद्धत्वात् वेदस्य वक्तृपुरुषाभावात् पुरुषाभिप्रायानुमानाप्रसङ्गात् मूले लौकिकवाक्येष्विति वचनं व्यर्थमित्याशङ्कायां कथमनेनोत्तरमित्यत आह-अयमभिप्राय इति । वेदवाक्यस्येति चनं भट्टमताभिप्रायेणोक्तम् । तेषां मते वक्तृपुरुषाभावेन पुरुषाभिप्रायानुमानासम्भवात् । अस्माकं मते तु अपौरुषेयस्यापि वेदस्य ईश्वरवाक्यत्वाङ्गीकारेण वेदवाक्यस्य ईश्वराभिप्रायानुमापकत्वसंभवात् भट्टमते एवं असंभवात् लौकिकवाक्येष्विति भट्टमताभिप्रायेणोक्तम् । सप्रकार इति ।। पुरुषाभिप्रायानुमापकत्वप्रकारः वेदे इति । वेदार्थनिश्चये गौण्यादिवृत्तिर्न ग्राह्येति वाचनिकार्थमिति पदस्य स्वयूथ्यानामेव केषाञ्चित् व्याख्यानं न बुद्ध्यामहे । तत्प्रतिपादने कारणादर्शनात् न जानीम इत्यर्थः ।

वृत्तिभेदकथेति ।। लौकिकपदेषु गौणी लक्षणावृत्तिरभिधावृत्तिश्च वर्तते । अतस्ताभिस्तत्रार्थनिष्कर्षः । वैदिकपदेषु तु रूढियोगाख्याभिधावृत्यैव अर्थनिष्कर्षः कर्तव्यः । न तु गौण्या लक्षणया वा इति वृत्तिभेदकथेत्यर्थः । हृद्यपेक्षयेति ।। शब्दादेव प्रमित:' इति सूत्रे अङ्गुष्ठमात्रः पुरुषः इति वाक्योक्तस्य अङ्गुष्ठमात्रस्य परब्रह्मोक्तौ शङ्कितं सर्वगतत्वस्य कथं अङ्गुष्ठमात्रत्वमिति । तत्समाधानार्थं हृद्यपेक्षयेति सूत्रम् । तस्यार्थः । हृदिस्थावकाशस्य अङ्गुष्ठपरिमितत्वेन तत्रत्य विष्णोः अङ्गुष्ठमात्र इति श्रुत्या अङ्गुष्ठपरिमित्वमुच्यते न तु स्वभावेन विष्णोः अङ्गुष्ठमात्रपरिमितत्वं तथा च पुरुषः अङ्गुष्ठमात्र इत्यस्य लक्षणया अङ्गुष्ठपरिमितावकाशात् हृत्स्थरूपवानित्यर्थ इतिभावेन हृद्यपेक्षया हृदिस्थावकाशापेक्षयेति हृदितिशब्देन हृदिस्थावकाशो लक्षणया सूत्रकारेण गृहीतः । तथा पृथगुपदेशादिति सूत्रे तत्वमसीति वाक्यस्य भेदपरत्वोक्तौ कथं जीवस्य विष्णोर्भेदी व्यवहार इत्याशङ्कायां तद्गुणसारत्वादिति समाहितम् । तत्सूत्रार्थस्तु जीवस्य तद्गुणसारत्वात्तस्य विष्णोः ये ज्ञानानन्दादयो गुणाः तत्सदृशज्ञानानन्दादिगुण. स्वरूपत्वात् तद्व्यपदेशः । तद्ब्रह्मेति व्यवहारवत् भेदात् । इति तत्वमस वाक्ये गौणीवृत्तिः सूत्रकारेण आश्रितेति भावः । तत्र ज्ञापकमाह-तथैवेति ॥ तथा भाष्यकारैरपि ' तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्' इति श्रुतिव्याख्यानावसरे तस्य पद्मस्यान्ते मध्ये यत् सूक्ष्मं सुषिरं छिद्रं तस्मिन् सर्वं जगत् प्रतिष्ठितं स्थितमित्युक्त्या कथं जगतः अल्पछिद्रस्थितत्वं संभवतीति शङ्कायां परिहृतम्-तदन्तस्थत्वापेक्षत्वादिति ।। तस्य सुषिरस्य अन्तस्थो विष्णुः तत्वापेक्षत्वात् सर्वं प्रतिष्ठितमिति वाक्यस्य लक्षणया सुषिरस्थविष्णुस्थितत्वोक्तेः अभ्युपगमादिति भावः ।

लक्षणाद्यनङ्गीकारे अनुव्याख्यानविरोधं च दर्शयितुमाह-कथं चेति ॥ यथा अस्मिन् राजगृहे अयमेव तत्सर्वमित्युक्ते स्वतन्त्र इति प्रतीयते । तथा अस्मिन् ग्रामे अयमेव ब्राह्मण इत्युक्ते विशिष्ठ इति । सायाह्ने गावः गोष्ठे एकीभवन्तीत्युक्ते एकस्थानस्थिता भवन्तीति । पूर्वं विरुद्धा राजानः इदानीम् एकीभूता इत्युक्ते ऐकमत्येन स्थिता इति । अग्निर्माणवक इति उक्ते अग्निसदृश इति प्रतीयते । इत्यादिवाक्यजातं लक्षणां गौणीं वा आश्रित्य प्रवृत्तमिति भावः ।

अस्य तु वाक्यस्येति ।। वेदवाक्यस्य वाचनिकार्थं विनेति मूलवाक्यस्य वाचनिकार्थं मुख्यामुख्यवृत्तिलभ्यार्थं विना अन्योऽर्थः वेदे पुरुषाभावात् पुरुषाभिप्रायानुमानं न संभवतीत्यर्थपरतया व्याख्यातत्वादित्यर्थः । सहस्रश इति ।। ' पुरुष एवेदं सर्वं' इति वाक्ये लक्षणया 'ब्रह्म वेदं ब्रह्मैव भवति' इति वाक्यं ब्रह्मसदृशो भवतीति गौण्या वृत्त्या प्रवृत्तमिति तत्र तत्र शास्त्रे प्रतिपादितमिति भावः । इदन्त्वेकमिति । वेदवाक्यस्य त्विति वाक्यमित्यर्थः ।त्यजेदेकमिति न्यायेनेति || ' त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥' इति न्यायेनेत्यर्थः । अस्यार्थः । एकादिनिमित्तकं कुलादिनाशप्राप्तौ एकादित्यागः कार्यः कुलादिसंरक्षणार्थमिति। अन्यथयितव्यमिति ।। अन्यथाकर्तव्यं बहुवाक्यानुरोधेन व्याख्येयमित्यर्थः । वेदवाक्येषु गौण्याद्यर्थाङ्गीकारः स्वमतेनैवेत्यत्र स्पष्टम् अनुव्याख्यान संमतिमाह-किञ्चेति ।।अस्माकं परमुख्यार्थो भगवान्नेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।। सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः' इत्यत्र सर्वेषां शब्दानां विष्णौ परममुख्यवृत्त्या प्रतिपादकत्वमङ्गी- कृत्य जगत्यपि रूढ्यादिना प्रतिपादकत्वमाश्रित्य रूढ्याद्यर्थासंभवे गौण- लाक्षणिकार्थत्वस्य च स्पष्टमुक्तेः । 'अजामेकां' इति श्रुतिविचार इति ॥ 'अजामेकामिति प्राह श्रुतिरेतां यदा तदा । को दोष: सर्वथैवास्ति परिणामि जडं यदि II' इत्यनुव्याख्याने प्रसक्तानामजामेकामिति श्रौतपदानां 'अस्माकं परममुख्यार्थः' इत्यनुव्याख्यानेन विष्णोः परममुख्यार्थत्वस्य प्रकृत्यादे रूढार्थत्वादिकस्य चोक्ते ज्ञापकान्तरं चाह-अतो भेदवदेवैता इति ॥ अस्यार्थः । एताः तत्वमस्यादिश्रुतयः पौराणानि च वाक्यानि अभेदवत् अभेदप्रतिपादकवाक्यवत् प्रवदन्ति हि यस्मात् अतस्तस्मात् सादृश्याख्याभेद- संश्रयादेव तानि योज्यानि । न तु मुख्याभेदार्थकत्वेनेति

अङ्गुष्ठमात्रश्रुतेरिति ॥ ईश्वरे सर्वगते अङ्गुष्ठमात्रत्वानुपपत्तेः अङ्गुष्ठमात्रः पुरुष इत्यस्य वाक्यस्य अङ्गुष्ठमात्रावकाशहृदयस्थितरूपार्थत्वस्य लक्षणयाऽङ्गीकृतत्वात् । एवं सुषिरश्रुतेरपि सुषिरावस्थितरूपार्थत्वस्य विष्णौ अङ्गीकारात् । प्राज्ञवदिति । तद्गुणसारत्वादित्यनेन तत्वमसीत्यत्र गौणार्थत्वे उक्ते प्राज्ञवदिति दृष्टान्त उक्तः । ' सर्वं खल्विदं ब्रह्म' इत्यत्र ब्रह्मणः सर्वसदृशसत्वादिगुणयोगेन सर्वमित्यभेदव्यवहारः । ननु अङ्गुष्ठमात्र इत्यादेः परमात्मनितत्तु समन्वयात्' इत्यनेनज्योतिरुपक्रमात्' इति न्यायेन च मुख्यार्थत्वोक्तेः कथं लक्षणादिकमित्यत आह- इत्यलमिति ॥ तन्मुख्यार्थत्वानुरोधेनैव अस्याप्यर्थस्य वाक्यान्वयादित्यादौ आश्रितत्वात् । पदसमन्वयपक्षे अङ्गुष्ठमात्रशब्दस्य सुषिरादिशब्दस्य च परमेश्वरे मुख्यार्थत्वेऽपि समन्वयपक्षे लक्षणादिना विना अनुपपत्तेरिति भावः । न हीति ॥ कर्मकाण्डस्य परमेश्वरे तात्पर्यवृत्त्यभावेऽपि रूढ्यादिना परमेश्वरप्रतिपादनं तु न सम्भवति । ज्येतिष्ठोमादिशब्दानां परमेश्वरे रूढ्यादेरभावादिति भावः ।

ननु ज्योतिष्टोमादिना ईश्वरप्रीत्यर्थत्वोक्तौ ईश्वरे प्रतिपादकत्वाभावात् वाक्यसमन्वयपक्षे कथमीश्वरपरत्वमित्यत आह- इति संक्षेप इति ।। एवमुक्त्या ईश्वरस्य प्राधान्यप्रतिपादनात् ईश्वरप्रतिपादनस्यैव सिद्धत्वादिति भावः ।