अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते
(अपाः पूर्वेषां इतिमन्त्रेण होमस्य व्यवहारव्यवस्थापकत्वोक्तिः)
मूलम्
५२- मूलम्- ऋक्-अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आवृषस्व || २ ||
पूर्वान्सुतान् प्रातस्सवनगान्सोमानपाः । हरीनिन्द्रियाणि वर्तयतीति हरिभिर्वर्तत इति वा । इदं माध्यन्दिनसवनं ते केवलम् । अथो इत्यर्थान्तरम् । मधुमन्तं सोमं जठरे आवृषस्व आसिश्च ममद्धि च सत्रा अस्मत्त्राणेन सह । पीतशब्दवत् । अपूर्वपानत्वात्तदेव पानं मुख्यमिति पीतशब्दः । इन्द्रस्य केवलत्वात्केवलं माध्यन्दिनं सवनम् । ममंद्धीति तृतीयसवनम् । तत्र हि मदो विशेषतो भवति पूर्तेः । इति सवनत्रयरूपता षोळशिनः । वृषण्वत् वृष्णः इन्द्रस्य विशेषतः प्रियत्वात् । एवं चतूरूपता षोळशिनः । राध्नोति ऋद्धो भवति ॥
टीका
टीका- शस्त्रसमाप्त्यनन्तरं कर्तव्यमाह-अपा इत्यादि ब्राह्मणम् । इति एतचर्या | ताम् ऋचं व्याचष्टे पूर्वानिति ॥ पूर्वेषां सुतानामिति विभक्तिव्यत्ययेन पूर्वान् सुतानिति व्याख्याय प्रातस्सवनगान् सोमानिति विवरणं कृतम् । हरीनित्यादि वज्रिवशब्दव्याख्यानेन तुल्यम् । हरिवाः तस्य सम्बुद्धिर्हरिव इति शेषः । ते तस्मादेव केवलम् । ननु प्रातस्सवनस्य प्रकृतत्वादिदमिति तत्परामर्शः किं न स्यात् । उत्तरब्राह्मणबलान्नेति चेन्न । तस्यापि निर्निमित्तत्वादित्यत आह- अयो इति ॥ अयो इत्ययं शब्दो अर्थान्तरमेतदित्याहेत्यर्थः । अर्थान्तरं च सवनं क्रमप्राप्तं माध्यन्दिनमेवेति भावः । मधुवन्तं स्वादुरसवन्तम् । ममद्धि मदं कुरु । सत्रा सत्राणम् । ‘पिद्भिदादिभ्योऽङ्’ । सहस्य सः । क्रियाविशेषणम् । द्वितीयायाश्चकारः। तस्य तात्पर्यम्- अस्मत्त्राणेन सहेति ॥ अस्मत्त्राणं कुर्वन्नित्यर्थः । एतयर्चा यजमानस्य फलं वक्तुमुत्तब्राह्मणम् । तत्र प्रथमपादफलकथनार्थमुक्तं पीतवदिति । तद्व्याचष्टे-पीतशब्दवदिति ॥ सर्वोऽपि शब्दः शब्दपदार्थकोऽर्थपदार्थकश्च । अत्र पीतशब्दः शब्दपदार्थकोऽभिमत इत्यर्थः ।
ननु पीतशब्दस्य 'नपुंसके भावे क्तः' इति पानं बाह्योऽर्थः । स च सवनत्रयानुगत इति पीतशब्दोऽपि तथेति कथं 'पीतवद्वै प्रातस्सवनम्’ इत्युक्तमित्यत आह-अपूर्वेति ॥ न विद्यते पूर्वं यस्मादित्यपूर्वम् । तदेव प्रातस्सवनगतमेव इति हेतोः पीतशब्दः प्रातस्सवनस्य ज्ञापको भवतीति शेषः । मुख्येन हि व्यपदेशा भवन्ति । नन्वेवं तर्हि पानवदित्येव कस्मान्न व्याख्यातम्? अस्त्यत्राभिप्रायः । पानं हि सर्वत्राविशिष्टं न तथा माध्यन्दिनादाविति भूयांस्तद्व्यवहार एव चिह्नमिति तथैव व्याख्यातम् । ततश्च पीतवद्वै प्रातस्सवनं प्रथमपादश्यं पीतशब्दवान् । अतः प्रातस्सवनपरः । तत् तस्मात् प्रातस्सवनविषयपादेन होमानिमित्तात् प्रातस्सवनादेव तद्गताद्भगवद्रूपादेव । तत्प्रसादादेवैनं क्रतुं सन्निर्मिमीत इत्यर्थः ।
'अधो इदम्' इति द्वितीयपादानुवादपूर्वकं तत्फलकथनार्थमुक्तम्-माध्यन्दिनमिति ॥ तदुपपादयति-इन्द्रस्येति || ' अस्माकमस्तु केवलः ' इत्यादिप्रयोगादिन्द्रस्य केवलशब्दवाच्यत्वात्तदीयं माध्यन्दिनं सवनमुपचारेण केवलमुच्यत इत्यर्थः । अत्रापि माध्यन्दिनं सवनं केवलम् अयं पादस्तद्विषयः, तत् तस्मान्माध्यन्दिनविषयपादेन होमान्निमित्तात् । माध्यन्दिनादेव सवनात्तद्देवताप्रसादादेव एनं क्रतुं सन्निर्मिमीत इत्युक्तं भवति । ममद्धीति तृतीयपादमनूद्य तत्फलकथनार्थमुक्तम्-मद्वद्वा इति ॥ तस्य तात्पर्यमाह-ममद्धीति ॥ अनेन तृतीयपादेन तृतीयसवनं विषयीक्रियत इत्यर्थः । ततश्चायमर्थः-मद्वत् मदवद्वै तृतीयसवनम् । अयं च पादो मदं वदतीति (मदवानिति) तद्विषयः । तत् तस्मादित्यादि पूर्ववदिति । तत्र मदस्य सवनत्रयेऽपि साम्यात्कथं तृतीयसवनचिह्नतेत्यत आह-तत्र हीति ॥ कुतः ? पूर्तेः परिसमाप्तेः । प्रसिद्धोत्सवपरिसमाप्तौ तथा दर्शनात् । ‘प्रातस्सवनादेवैनम्' 'माध्यन्दिनसवनादेवैनम्' 'तृतीयसवनादेवैनम्' इत्यादिवाक्यत्रयस्य तात्पर्यमाह-इतीति ॥ इति सवनत्रयदेवताप्रतिपादकपादत्रयेण होमे सति षोडशिनः सवनत्रयरूपता । सवनत्रय देवताभी रूप्यते निर्मीयत इति सवनत्रयरूपः । तस्य भावस्तत्ता । अक्षरार्थस्त्वस्माभिर्विवृतः । सत्रेति चतुर्थपादानुवादेन तत्फलसूचनार्थमुक्तम्-वृषण्वद्वा इति ॥ तद्व्याचष्टे-वृषण्वदिति । विशेषतः प्रियत्वादिति मतुपस्तात्पर्यार्थः । तथाचायं पादो वृष्णः प्रतिपादकः । षोडशी च तस्य प्रियः । तस्मादनेन पादेन होमाद्वृष्णः प्रसादेन षोडशिनं सन्निर्मिमीत इत्युक्तं भवति 'सर्वेभ्यो वा एष सवनेभ्यः' इत्यादिकमुक्तसङ्कलनात्मकं वाक्यम्, 'तत्सर्वेभ्यो वा एप लोकेभ्यः' इतिवद्व्याख्येयम् । तच्चानुपपन्नम् । सवनेभ्यो वृष्णश्च पोडशिनिर्माणस्योक्तत्वात् । अतः सवनेभ्य इत्युपलक्षणमिति भावेनाह- एवमिति । उक्तप्रकारेण । षोडशिनः क्रतोः । चतूरूपता चतुर्भी रूप्यते निर्मीयत इति चतूरूपः ।तस्य भावस्तता । 'य एवं वेद' इत्युक्तमुक्तप्रकारेण भगवज्ज्ञानमेव, अन्यथा उक्तफलानुपपत्तेरित्याशयवान् राध्नोतीतिपदं व्याख्याति-राध्नोतीति ॥
भावदीपः
(रा.टि.) 'अपा: पूर्वेषां हरिवः सुतानामिति यजति' इति ब्राह्मणशेषमवतारयति-शस्त्रेति ।। एतेन पादमात्रेण यजतीति भ्रमो निरस्तो ध्येयः । तामृचमिति ।। ‘अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आवृषस्व' इत्यृचमित्यर्थः । तुल्यमिति ।। हरिशब्दे कर्मण्युपपदेऽन्तर्णीतण्यर्थात् 'वृतु वर्तने' इत्यस्माद् डस्प्रत्यये टिलोपे, तृतीयान्ते वा हरिशब्द उपपदे केवलाद् 'वृतु बर्तने' इत्यतो वा डस्प्रत्यये टिलोपः । भाष्ये आकाङ्क्षां पूरयति-हरिवा इत्यादि । ते तस्मादेवेत्यत्र ते तव त्वदीयमित्यर्थः । तद्धि हेतुगर्भमिति भावेनोक्तम्-तस्मादेवेति ।। त्वदीयत्वादेव केवलमिति भाष्यार्थ उक्तो भवति । सत्रेत्यस्य क्रियाविशेषणत्वे सत्रमिति स्यादित्यत आह-द्वितीयायाश्चेति ॥ 'सुपां सुलुक्पूर्वसवर्णाऽच्छे' इत्यादिसूत्रेणेति भावः । उत्तखाह्मणमिति || ‘पीतवद्वै प्रातस्सवनं प्रातस्सवनादेवैनं सत्सन्निर्मिमीते' इत्यादिना 'य एवं वेद' इत्यन्तं ब्राह्मणमित्यर्थः । शब्दपदार्थक इति || ' अग्नेर्दक्' इत्यादौ अन्यादिशब्दस्येव वर्णमालात्मकस्वरूपपदार्थक इत्यर्थः । अर्येति ॥ वर्णसमुदायात्मकप्रत्ययान्तस्य 'पा पाने' इत्येतद्रूपस्य पीतशब्दस्येति योज्यम् । बाह्य इति ॥ वर्णमालात्मकशब्दस्वरूपातिरिक्त इत्यर्थः । स चेति ॥ पानरूपोऽर्थः । पीतशब्दोऽपीति ॥ प्रथमसवनोक्तन्यायेनेति भावः । तथेति ॥ सवनत्रयानुगत इत्यर्थः । इत्युक्तमिति ।। ब्राह्मण इति योज्यम् । तदेवेत्यादिवाक्यं व्याचष्टे-तदेवेति । पानस्य प्रथमसवने मुख्यत्वेऽपि प्रथमसवनज्ञापकता तस्य कथम्? इत्यत आह-मुख्येन हीति । एवमिति । पानस्यैव मुख्यत्व इत्यर्थः । पानं न ज्ञापकं किन्तु तच्छब्द एवेति युक्त्या उपपादयति-अस्त्यत्रेति ॥ सर्वत्र सवनत्रये । चिह्नमितीति ।। इतिशब्दो हेत्वर्थः । खण्डवाक्यार्थमाह- ततश्चेति ।। पीतशब्दवदिति व्याख्याने सतीत्यर्थः । अस्य इत्यर्थं इत्यन्वयः । पीतशब्दवानिति । 'अपाः' इति पानवाचिशब्दवानित्यर्थः । फलितमाह-तत्प्रसादादेवेति ।। प्रात:सवनप्रसन्नभगवद्रूपप्रसादादेवेत्यर्थः ।
अस्माकमस्त्विति ।। ' इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः अस्माकमस्तु केवल:' इति प्रयोगादित्यर्थः । खण्डार्थमाह- अत्रापीति ॥ इत्युक्तं भवतीत्यन्वयः । न केवलं 'पीतवद्वै' इति पूर्ववाक्य इत्यपेरर्थः । अयं चेति ।। ‘अथो इदम्’ इति पादः केवलपदोपेतत्वान्माध्यन्दिनसवनविषय इत्यर्थः । ‘ममद्धि सोमं मधुमन्तमिन्द्रेति मद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्सन्निर्मिमीते' इति खण्डशेषस्योपयोगमाह-मद्वद्वा इति ।। शेषपूर्त्या भाष्यार्थमाह-अनेनेति ।। खण्डस्यार्थमाह-ततश्चेति । एवं तात्पर्ये भाष्येणोक्ते सतीत्यर्थः । मद्वदित्यनुवादः मदवदिति व्याख्या । तत्किमित्यत उक्तम्-तृतीयसवनमिति । अयं चेति || ममद्धीति पादः । मदं वदतीति || ममद्धीत्यनेन मदं हर्षं वदतीत्यर्थः । तद्विषयः । तृतीयसवनविषय इत्यर्थः । । । इत्यादीति ।। तृतीयसवनविषयेणानेन पादेन होमान्निमित्तात् तृतीयसवनादेव तद्देवताप्रसादादेवैनं क्रतुं सन्निर्मिमीत इत्यर्थ इति भावः । इति सवनत्रयेत्यादेस्तात्पर्यार्थत्वेऽक्षरार्थः कथमित्यतः प्रागुक्तं स्मारयति-अक्षरार्थस्त्विति । ‘सत्रा वृषं जठर आवृषस्वेति वृषण्वद्वै षोडशिनो रूपम्' इति खण्डशेषः किमर्थः ? इत्यत आह-सत्रेति । फलस्य साक्षादनुक्तेः सतीत्यर्थः । इत्युक्तं भवतीत्यन्वयः । ननु ‘सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत् षोडशी' इति वाक्यं प्रागुक्तार्थकं पुनः कस्मादुच्यत इत्यत आह-सर्वेभ्यो वा इति ॥ सङ्कलनेति ।। भिन्नभिन्नवाक्यैरुक्तस्य बुद्ध्यारोहाय मेलनात्मकं वाक्यमित्यर्थः। उपसंहाररूपमिति यावत् । इतिवद् व्याख्येयमिति ।। उपलक्षणमित्यग्रेऽभिधानात्तदपि ग्राह्यम् ।
तथाचैवं व्याख्या-पूर्वैः पुरुषैः सवनत्रयविषयया वृषशब्दितेन्द्रविषया च 'अपा: पूर्वेषाम्' इत्यृचा होमेन सवनेभ्यः सवनत्रयगतभगवद्रूपेभ्यः तत्प्रसादेनेति यावत् । वृष्णश्च वृषप्रसादेन चेति यावत् । एष सन्निर्मितः । एष क इत्यत उक्तम्-यत् षोळशीति यः पोळशी क्रतुः एष इति । एवं पूर्वेषामिवान्यस्यापि यस्य कस्यचिदनुष्टाने फुलं वक्तुं ब्राह्मणम्-'तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः सन्निर्मिमीते । सर्वेभ्यः सवनेभ्यः सन्निर्मितेन षोळशिना राध्नोति च एवं वेद' इति । तस्यार्थः-तत् तस्मादद्यापि यत् यदि 'अपाः पूर्वेषाम्' इत्यृचा यजति कश्चित्, तत् तर्हि सर्वेभ्यः सवनेभ्य एव तद्गतभगवद्रूपेभ्यः इति यावत् । वृष्णश्च, तेषां प्रसादेन सन्निर्मितेन षोळशिना राख्नोति । किं क्रतुनिर्माणमात्रेण राध्नोति? नेत्याह-य एवं वेद इति । उक्तप्रकारेणेति ।। सवनत्रयगतभगवत्प्रसादेन वृषप्रसादेन च निर्मितः क्रतुरित्युक्तप्रकारेणेत्यर्थः । इति अपाः पूर्वेषामिति मन्त्रेण होमव्यवहारव्यवस्थाफलयोरुक्तिः ।।
कर्मप्रकाशः
(स.टि.) ऋचं व्याचष्टे इति ॥ ' उद्यद्ब्रन्धस्य विष्टपं गृहमिन्द्रश्च गन्वहि। मध्वः पीत्वा स चे वहि त्रिस्सप्तसख्युः पदे' इति ऋचं व्याचष्ट इत्यर्थः । ताम् ऋचमिति || ' अपां पूर्वेषां हरिवस्तुतानामयो इन्द्रं सवनं केवलं ते । ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आवृषस्व' इति ऋचं व्याचष्ट इत्यर्थः ।
हरीनित्यादीति ।। हरीनित्यादिभाष्यं हरिवशब्दस्य साधनं वज्रिवरशब्दस्य साधनेन तुल्यमित्यस्यार्थस्य ज्ञापकमित्यर्थः । हरिशब्दे कर्मवाचिन्युपपदे वृतु वर्तन इत्यस्मात् उस्प्रत्यय इति भावः । उत्तखाह्मणबलादिति ।। ‘माध्यन्दिनं वै सवनं केवलं' इति ब्राह्मणबलादित्यर्थः । तस्यापीति ॥ इदं शब्दस्य माध्यन्दिनसवनपरतया ब्राह्मणव्याख्यानस्यापि निमित्ताप्रतीतेर्निमित्तं वाच्य- मित्यर्थः । सत्रापदमनूद्यार्थमाह- सत्रा सत्राणमिति ॥ सत्रेतिशब्द-निष्पत्तिमाह षद्भिदादिभ्य इति । यद्यपि भिदादिषु त्रैङ न पठ्यते तथापि भिदादिषु त्रैङ उपसंख्यानं कार्यमित्याशयेनैतत्सूत्रोदाहरणं कृतम् । सहशद्धपूर्वात् त्रैङो भावे अङप्रत्यये 'आदे च उपदेशे शिति' इत्यैकारस्याकारे आतो लोप इति चेत्याकारलोपे टापि सहस्य सम्भवे अभिमतस्य 'सुपां सुलुक्' इति अकारादेशे सत्रेतिरूपमिति भावः । भाववाचिनः द्वितीयान्तस्य सत्राशब्दस्य सोमविशेषणं न भवतीत्यत आह-क्रियाविशेषणमिति ॥ क्रियाद्वारा सोम विशेषणम् त्राणक्रियासाहित्यात् त्राणसाहित्यं सोमस्येति यावत् । अस्मत्त्राणं कुर्वन् सोमं जठरे आवृषस्वेति भावः । एतेन क्रियाविशेषणत्वे नपुंसकत्वं स्यात् । क्रियाव्ययविशेषणानां क्लीबन्तत्वमेकवचनान्तत्वं च वाच्यमिति वचनादिति निरस्तम् । क्रियाद्वारा सोमविशेषणत्वस्यैवाङ्गीकारात् ।
ननु यदि क्रियाद्वारा सोमविशेषणं तर्हि अस्मत्त्राणेन सहेति ऋग्भाष्यमनुपपन्नं स्यात् । प्राणं कुर्वन्निति भाव्यत्वादित्यत आह-तस्य तात्पर्यमिति ।। एतयर्चेति । एतया ऋचा होमे कृते यजमानस्य यत्फलं भवति तद्वक्तुं सर्वेभ्यो वा इत्यारभ्य य एवंवेदेत्यन्तं ब्राह्मणमित्यर्थः । ननु पीतवदित्यस्य पीतशब्दवदिति व्याख्यानं कथमित्यत आह-सर्वोऽपि शब्द इति ।। ब्राह्मणगतपीतशब्दः शब्दपदार्थकोऽभिमत इत्यर्थः । बाह्योऽर्थ इति ॥ शब्दस्वरूपातिरिक्तोऽर्थ इत्यर्थः । स चेति ॥ पीतशब्दप्रवृत्तिनिमित्तत्वे नाभिमतो बाह्योऽर्थः सवनत्रयेऽस्तीति पीतशब्दोऽपि सवनत्रय- साधारणोऽभ्युपगन्तव्यः । एवं च सति प्रातस्सवनस्यैव पीतशब्दवत्त्वं कथमभ्युपगन्तव्यमित्यर्थः । वृष्णश्चेति । अत्र वृणः परित्यागादिति शेषः ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) उत्तरब्राह्मणसङ्गतिमाह-शस्त्रसमाप्त्यनन्तरमिति ॥ इति एतयर्चा इति ।। अपाः पूर्वेषां हरिवः सुतानामिति यजतीति ब्राह्मण इति शब्दानन्तरं पादमात्रेण यागकर्तव्यत्वभ्रान्तिं वारयितुं एतयर्चेति पदद्वयाध्याहारः कर्तव्य इति भाव: । 'अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आवृषस्व' इति ऋचा इत्यर्थः ।
ननु श्रुतौ पूर्वेषां सुतानामिति विद्यमानयोः षष्ट्यन्तयोः पूर्वान् सुतानिति कथं व्याख्यानं प्रातःसवनगानिति च किमर्थमुक्तमित्यत आह-विभक्तिव्यत्ययेनेति ।। तथा चापा इत्यस्य 'पा पाने' इति धातोः लुङि मध्यमपुरुषे सिपि अडागमे च सिचः गतिस्थेति लुकि निष्पन्नस्य त्वं पीतवानसीति अर्थ उक्तो भवति । वज्रिवश्शब्देति ।। राये वाजाय वज्रिव' इति मन्त्रस्थनेत्यर्थः । ‘इन्दियाणि हयान्याहुः' इत्युक्तेः 'हरिर्वार्तार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वकपिभेकाहि' इति विश्वकोशोक्तअश्ववाचकहरिशब्दस्य इन्द्रिय- प्रतिपादकत्वात् तस्मिन्कर्मण्युपपदे अन्तर्णीतण्यर्थात् 'वृतु वर्तन’ इत्यस्मात् औणादिके असुन्प्रत्यये तस्य डित्वात् धातुटिलोपे हरिवा इति रूपं इति भावेनाह-हरिवा इतीति ॥
ननु तर्हि श्रुतौ हरिव इति कथमित्यत आह-तस्य सम्बुद्धिरिति ॥ ‘अत्वसन्तस्य चाधातोः’ इति सूत्रेण असम्बुद्धावित्यनुवृत्तेः सम्बुद्धौ दीर्घाभाव इति भावः । एवं हरिशब्दतृतीयान्ते उपपदे बृह् वृद्धाविति धातोः असुन्यपि ज्ञेयम् । शेष इति ।। मूले वाशब्दानन्तरं हरिवाः तस्य सम्बुद्धिः हे हरिव एतावानध्याहार इत्यर्थः । अथो इदमिति ऋद्वितीयपादं माध्यन्दिनसवनपरत्वेन मूले व्याख्यातम् । तत्र पूर्वपादार्थस्य हेतुत्वं प्रदर्शयितुं द्वितीयपादे अध्याहरति । ते तस्मादिति ।। तेन पूर्वपादे यस्मादित्यपि ज्ञेयम् । तेन हे हरिवः इन्द्र त्वं पूर्वेषां पूर्वान् सुतानां सोमान् अपाः पीतवानसि यस्मात् तस्मात् ते तव इदं केवलं सवनं माध्यन्दिनमित्यन्वय उक्तो भवति । प्रकृतत्वादिति ॥ अपाः पूर्वेषामिति पूर्वपादे पूर्वेषामित्यनेनेति शेषः । उत्तरब्राह्मणबलादिति ।। अथो इदं सवनं केवलं ते इति माध्यन्दिनं वै सवनं केवलमिति द्वितीयपादव्याख्यानरूपादित्यर्थः । एतदित्याहेत्यर्थ इति ॥ इदं केवलं सवनमिति वाक्यं पूर्वोक्तप्रातस्सवनापेक्षया अन्यमर्थमित्यर्थः अथशब्दस्य प्रातः सवनापेक्षया अनन्तरभाविसवनपरत्वादित्याशयः । मधुमन्तं स्वादुरसवन्तमिति । मधुक्षौद्रे जले क्षीरे' इति विश्वोक्तेः क्षौद्रादिवाचकमधुशब्देन लक्षणया तन्निष्ठस्वादुरसग्रहणादिति भावः ।
ममद्धीति ।। मदी हर्षे इति धातोः श्यपः करणस्य व्यत्ययेन शन् वि श्ली द्वित्वे लोटि सिपः हित्वे 'हु झलभ्यो हेर्धिः' इति धित्वमिति भावः । तस्यार्थः । मदं हर्षं कुर्विति । सत्रा अस्मत्त्राणेन सहेति व्याख्यानमुप- पादयितुमाह- सत्राणमिति ॥ ' षिद्भिदादिभ्योऽङ्' इत्यनेन सूत्रेण षितो भिदादिधातुभ्यश्च भावे अङ्प्रत्ययविधानात् ‘त्रैङ् पालने’ इत्यस्य भिदादिषूपसङ्ख्यानात् अङ्प्रत्यये ‘आदेच उपदेशेऽशिति' इत्यात्वे ‘आतो लोप इटि च’ इति धात्वकारलोपे टापि त्राशब्दस्य सहशब्देन तेन सहेति तुल्ययोगेति बहुव्रीहिसमासे वोपसर्जनस्येति सहशब्दस्य सादेशे सत्रेति रूपमिति भावः ।
ननु त्राणसाहित्यवाचिनः सत्राशब्दस्य कस्य विशेषणत्वमित्यत आह-क्रियाविशेषणमिति ।। ममद्धीति क्रियाविशेषणमेतदित्यर्थः । ननु क्रियाविशेषणानां क्लीबत्वमिति वार्तिकेन नपुंसकत्वात् ' ह्रस्वो नपुंसके' इति ह्रस्वत्वेन द्वितीयैकवचने अमिपूर्व इति पूर्वरूपत्वे सत्रमिति स्यादित्यत आह-द्वितीयायाश्चाकार इति । सुपां सुलुक् पूर्वसवर्णादित्यनेनेति शेषः । ननु श्रुतौ अस्मच्छब्दाभावात्कथं अस्मत्त्राणेन सहेति मूले उक्तमित्यत आह-तस्य तात्पर्यमिति ।। तद्व्याचष्टे-अस्मत्त्राणं कुर्वन्नित्यर्थ इति । उत्तरार्धस्याक्षरयोजना तु हे वृषन् 'वृष सेचने' इत्यतः कनिन्युनृषितक्षीति कनिन्प्रत्यये भक्ताभीष्टसेचक 'वासवो वृत्रहा वृषा' इत्यमरोक्तेश्च वृषन्-शब्दवाच्य हे इन्द्र मधुमन्तं सोमं जठरे त्वदुदरे आवृषस्व तेन त्वं सत्रा ममद्धि अस्माकं हर्षं कुर्वन्निति सूचिता । तेन सोमपानेन अस्माकं रक्षणसहितहर्षणजनकत्वेन रक्षणसाहित्यस्य साक्षादेव मदक्रियाविशेषणत्वमुक्तं भवति । ममद्धीत्यस्य विष्णुं प्रति सोमपानेन त्वं हर्षं प्राप्नुहीति प्रार्थनरूपार्थस्तु नोपपद्यते तस्य नित्यानन्दपूर्णत्वादिति भावः । एवं ऋचं व्याख्याय ऋक्पादचतुष्टयसम्बन्धिब्राह्मणं सङ्गमयति-एतयर्चेति । यजत इति ॥ पीतवद्वै प्रातः सवनमित्यादीति शेषः ।
ननु ब्राह्मणे पीतवदित्युक्तम् । पीतशब्दस्तु पा पाने इत्यस्मात् भावे क्तप्रत्यये निष्पन्नः । कथं पीतशब्दप्रतिपादकः भाष्ये उक्त इत्यत आह-सर्वोऽपि शब्द इति ।। इदं तु स्वरूपम् । शब्दस्येति सूत्रे महाभाष्ये प्रतिपादितम् । बाह्योऽर्थ इति ॥ शब्दातिरिक्तोऽर्थः । पीतशब्द इति ॥ पीतशब्दरूपान्तरङ्गार्थोऽपि तथा सवनत्रयानुगत इत्यर्थः । प्रातस्सवनगतमेवेति ।। माध्यन्दिनसवनादेः पूर्वं प्रातस्सवनगतपानस्य विद्यमानत्वात् नापूर्वमिति भावः । तथा च ब्राह्मणे पीतवदित्यस्य पीतश्शशब्दः अस्मिन् सवने देवादिभिः व्यवह्रियमाणोऽस्तीति पीतवत् प्रातस्सवनं तदस्यास्त्यस्मिन्निति सप्तम्यन्तात् मतुप् । मादुपधाया इति च त्वं देवादिभिः प्रातस्सवने सोमं पीत्वा अस्माभिः पीतं पीतमिति बहुशो व्यवह्नीयत इति भावः ।
ननु माध्यन्दिनसवनादावपि अस्माभिः पीतमिति देवादीनां क्वचित्कव्यवहारसम्भवात् कथं पीतशब्दव्यवहारः प्रातस्सवनस्य लक्षणमित्यत आह-मुख्येन हीति ।। मुख्येन निमित्तेन मुख्यमाश्रित्येति यावत् । तदेव विशदयितुं शङ्कते-नन्विति ॥ उत्तरमाह-अस्त्यत्राभिप्राय इति ॥ इदानीं ब्राह्मणं योजयति-ततश्चेति । ब्राह्मणे किञ्चिदध्याहरति प्रथमपादश्च पीतशब्दवानिति ।। पूर्वेषां सुतानां अपा इत्युक्त्या पीतशब्दवत्वं लक्ष्यते । इदानीं ब्राह्मणवाक्यं व्याख्याति तत्तस्मादिति ॥ प्रातस्सवनविषयपादेन अपाः पूर्वेषां हरिवः सुतानामिति पादेन सन्निर्मिमीत उत्पादयतीत्यर्थः ।
तत्फलकथनार्थमुक्तमिति ।। ब्राह्मणे इति शेषः । अस्यार्थः । माध्यन्दिनं सवनं केवलं वै केवलशब्दवाच्यम् । तत्र मूले प्रमाणमाह-इन्द्रस्य केवलत्वादिति । केवलशब्दवाच्यत्वात् तदीयमाध्यन्दिनसवनस्यापि केवलशब्दवाच्यत्वमित्यर्थः । इन्द्रस्य केवलशब्दवाच्यत्वे प्रयोगं दर्शयति- अस्माकमिति ।। ‘इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ' इत्यादि ऋक्ष्वित्यर्थः । ऋगर्थस्तु हे भक्ता इति शेषः । वो युष्मदर्थं विश्वतः जनेभ्यः परि सर्वेत्कृष्टत्वेन विद्यमानं इन्द्रं हवामहे वयं आह्वयामः । स इन्द्रः केवलः केवलशब्दवाच्यः अस्माकं अभीष्टदोऽस्त्विति ।
माध्यन्दिनं सवनमित्यादिब्राह्मणवाक्यं पूर्वोक्तरीत्या योजयति-अयं च पाद इत्यादिना ।। मद्वत् मदवदिति ।। तृतीयसवनं मदवत् मदधात्वर्थ-हर्षोपेतम् । ब्राह्मणे ममद्धीत्यस्य प्रकृतिभूतधातुमात्रं गृहीत्वा तदनुकरणमद-शब्दात् मतुप्प्रत्यय कृतः । टीकायां तु हर्षपर्यायमदशब्दात् मतुप्प्रत्यय इति विशेषः । अत्र ब्राह्मणे पूर्ववत् अपेक्षिताध्याहारपूर्वकं व्याख्यानप्रकारमाह-अयं च पादो मदमिति । पूर्ववदिति । तत्तस्मात् तृतीयसवनविषयपादेन होमान्निमित्तात् तृतीयसवनादेव तद्देवताप्रसादादेवैनं क्रतुं सन्निर्मिमीत इति । प्रसिद्धोत्सवेति ।। विवहादिपरिसमाप्तौ तृप्तिदर्शनादित्यर्थः ।
ननु मूले ' इति सवनत्रयरूपता षोळशिन' इत्यस्य वैय्यर्थ्यमित्यत आह-तात्पर्यमाहेति ।। मूले इतिशब्देन 'अपाः पूर्वेषां' इत्यादिपादत्रयहोमो गृह्यते । तेन समुदितेन षोळशिनः तन्नामकक्रतोः सवनत्रयरूपतेत्यत्र सवनत्रयशब्देन तद्देवतां गृहित्वा रूपताशब्देन रूपणं निरूपणं निर्माणं विवक्षित्वा षोळशिक्रतोः सवनत्रयदेवताजन्यत्वं मूलार्थ उक्तः ।
ननु ऋक्पादत्र्यार्थः तत्सम्बन्धब्राह्मणार्थश्च क इत्यत आह-अक्षरार्थस्त्विति ।। भाष्यकारैः टीकाकारैश्चेत्यर्थः । सत्रेति ब्राह्मणं सङ्गमयति-सत्रेति चतुर्थेति ।। तत्फलसूचनार्थमिति ।। तेन चतुर्थपादेन होमकरणेन यत्फलं तत्सूचनार्थमित्यर्थः ।
ननु वृष्णः इन्द्रस्य विशेषतः प्रियत्वादिति मूले विशेषतः प्रियत्वं कस्य व्याख्यानमित्यत आह-मतुपस्तात्पर्यार्थ इति || 'भूमनिन्दाप्रशंसासु नित्ययोगातिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुवादय ॥' इत्युक्तेः अतिशयप्रशंसाविवक्षयेति भावः । एतत्पादब्राह्मणं योजयति तथा चायं पाद इति ॥ वृष्णः अभीष्टसेचकस्य इन्द्रस्य षोळशी च क्रतुः तस्येन्द्रस्य प्रियः । अनेन वृषण्वद्वै पोळशिनो रूपमिति ब्राह्मणार्य उक्तः । तस्मादित्यादि-षोळशिनं सन्निर्मिमीत इत्यन्तपूर्वपादत्रयवत् अत्राप्यध्याहार्यमिति भावः ।
ननु सर्वेभ्यो वा एष सवनेभ्य इत्यादिकं किमर्थं सवनत्रयस्य चतुर्थ-पादब्राह्मणे फलकथनमित्यत आह- उक्तसङ्कलनात्मकमिति ॥ पादत्रयोक्तमेलनात्मकमित्यर्थः । कथमस्य ब्राह्मणस्यार्यः कार्य इत्यत आह- तत्सर्वेभ्यो वा एष लोकेभ्य इतिवदिति । " अयं वै लोक" इति प्रथममहानाम्नीत्यत्र प्रथमभागे विद्यमानसर्वेभ्यो वा एष लोकेभ्य इति वाक्यत्रयं यथा व्याख्यातं तथा इदमपि व्याख्येयमित्यर्थः । तत्प्रकारस्तु । यथा तत्र लोकान्तर्गतभगवद्रूपैः षोळशिनिर्माणं तथा अत्र सर्वेभ्यः सवनेभ्यः पूर्वैः पुरुषैः सर्वसवनयजनेन प्रसन्नेभ्यः सवनान्तर्गतभगवद्रूपेभ्यः अनिरुद्धादिभ्यः वृषन्नामकवासुदेवरूपेण च एषः सन्निर्मितो वै । यत् यः षोळशीक्रतुः तत् तस्मात् अद्यापि यद्यदि कश्चित् अपाः पूर्वेषामित्यादिऋचा यजति सोऽपि सर्वेभ्यः सवनेभ्यः वृष्णश्च तदन्तर्गतभगवद्रूपेभ्यः एनं षोळशिनं क्रतुं सन्निर्मिमीते । ततः किम् । उक्तेभ्यः सर्वेभ्यः सवनेभ्यः वृष्णश्च सनिर्मिमीते तेन षोळशिना राध्नोति । किं क्रतुनिर्माणमात्रेण न । किन्तु य एवं वेदेति । तच्चानुपपन्नमिति । प्रतिज्ञातं तत्कथमित्यतः पृथिव्यादिलोकत्रयजन्यत्ववत् षोळशिनः सवनत्रयमात्रजन्यत्वानुक्तेः चतुर्थपादोक्तवृष्णोऽपि जन्यत्वोक्तेः इति भावेनाह -सवनेभ्य इति ॥
ननु तर्हि सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत्षोळशी इत्यत्र तद्यदपाः पूर्वेषामिति पूवोक्तसवनत्रयानुवादेन षोळशीक्रतुनिर्मापकत्वं द्विवारं पूर्वत्रोत्तरत्र च कथं कथ्यत इत्यत आह-सवनेभ्य इत्युपलक्षणमिति ॥ ब्राह्मणे पूर्वत्र उत्तरत्रोक्तः सवनेभ्य इतिशब्दः वृष्णश्चोपलक्षणार्थं द्विवारमुक्त इत्यर्थः । तथा चतुर्भिरित्यस्य सवनत्रयवृषन्रूपैश्चतुर्भिरित्यर्थः। सर्वेभ्यः सवनेभ्यः सन्निर्मितेन षोळशिना राघ्नोति य एवं वेदेति वाक्यस्थं एवं शब्दं व्याचष्टे-य एवं वेदेतीति । उक्तप्रकारेणेति ।। प्रश्नत्रये विवक्षितं अविरुद्धादिप्रकारमित्यर्थः । अस्यार्थः यश्चान्यः ज्ञानी एवं उक्तप्रकारेण चतुर्भिः षोळशी उत्पन्ना इति जानाति । मूले रुद्धो भवतीत्यस्य मुक्तो भवतीत्यर्थो बोध्यः ।