ताश्च विदा मघवन्नित्याद्याः
(विदा मघवन्निति श्रुत्यर्थविवरणम्)
मूलम्
१५- मूलम्-ताश्च विदा मघवन्नित्याद्याः । ऋक्-विदा मघवन् विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ १ ॥ हे मघवन् धनवन् यशस्विन् मखपत इति वा । 'तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विपः', ‘तेभिरिन्द्रं चोदय दातवे मघम्', 'तन्न आयातु मघाय । यशो वा मघम् । मघमनुप्रापत्सि’, ‘आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्' इत्यादिश्रुतिभ्यः । गातुं त्वां स्तोतुम् । विद वेदयेति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा तात्कालिकापेक्षितार्थं प्रार्थयति गातुं विदेति । त्वमेवानुशासिषो दिशः मार्गान् । आत्मनस्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः । पूर्वीणां भगवत्सम्प्रदायागतानां परमविद्यानामर्थे शिक्ष, शचीनां विद्यानां पते वाचां पते इति वा । पुरुवसो बहुवित्त बहुज्ञानेति वा बहुषु वसति बहूनामावास इति वा ॥
टीका
टीका-कास्ता महानाम्न्यो यासु महार्थं नामेत्यत आह-ताश्चेति ॥ यद्यपि स्वरूपप्रदर्शनानन्तरं नामनिर्वचनं कार्यम्, तथापि नामनिर्वचने स्वरूपबुभुत्सातिशयो भवतीत्यतः क्रमव्यत्यासः । कथं तासां विष्णुमहागुणपरत्वमित्यतस्ता व्याकुर्वन्नाद्यामृचं तावन्याचष्टे-हे मघवन्निति ॥ सम्बोध्य पश्चादुच्यत इत्यतोऽनादेरपि पदस्य प्रथमं व्याख्यानम् । एवमर्थक्रमानुसरणमन्यत्रापि ज्ञातव्यम् । सम्बन्ध विवरणम् । तृतीयोऽतिशय इत्यतः खकारस्य घकारः । मघवच्छब्दस्य मखवत्वार्यत्वे प्रमाणमाह-तमिति ॥ परोक्षेणाप्रसिद्धेन मघवानिति शब्देन । प्रत्यक्षं प्रसिद्धम् । मघशब्दस्य धनवाचित्वे प्रयोगं दर्शयति-तेभिरिति ।। हे सोम तेभिस्तैस्तैर्मदहेतुभिः रसैः पीतैरिन्द्रमस्मभ्यं मघं धनं दातवे दातुं चोदय प्रेरयेत्यर्थः । तस्य यशोवाचित्वे प्रमाणमाह-तन्न इति । तद्ब्रह्मास्मान् प्रत्यायातु मघं दातुम् । किं तन्मघम् ? यशो वै मघं त्वमपि मघमनुप्रापत्स्यस इत्यर्थः । तस्य धनवाचित्वे स्पष्टं प्रमाणमाह-आ मामिति । मामैत्विति सम्बन्धः । गातुमित्यस्य तात्पर्यमाह-गातुमिति ।। गै शब्दे । विदेतिपदं व्याकुर्वंस्तस्य द्विरुक्तौ प्रयोजनमाह-विदेति ॥ व्यत्ययेन शविकरणस्यान्तर्णीतण्यर्थस्य वेत्तेर्लोटि रूपमेतदित्यर्थः । उक्त्वा प्रार्थयित्वा । ' बहुलमेतन्निदर्शनम्' इतिवचनात्प्रार्थयतीति परस्मैपदं साधु । पूर्वेण सङ्गतिं सूचयन् अन्वित्यादिकमनूद्य तत्र दिश इति पदस्यार्थमाह-त्वमेवेति ॥ ' ऋत्विग्' इत्यादिना दिश्यत इति दिक् । तात्पर्यमाह-आत्मन इति ॥ शंसिप इति 'शंसु स्तुतौ' इत्यस्य 'शासु अनुशिष्टौ' इत्यस्य वा लेटि रूपम् । न केवलं वेदनेन पूर्यत इत्यर्थः । वाक्यद्वयार्थविवरणार्थमुत्तरार्धम् अत एव द्वेधा व्याचष्टे-पूर्वीणामिति ॥ पूर्वासामित्यर्थः । ज्ञानानामुत्पत्तिमत्त्वात्पूर्वत्वमयुक्तमित्यतो भगवदित्युक्तम् । शचीनामित्यस्य व्याख्यानं परमविद्यानामिति । अनेन पूर्वीणां शचीनामित्येतदुभयत्र सम्बध्यत इत्युक्तं भवति । वाक्यपक्षेऽप्यपौरुषेयाणां वाचामर्थे शिक्षेति ज्ञातव्यम् । वसुशब्दस्य वित्तवाचित्वाद्बहुवित्तेत्युक्तम् । ‘दैवं वित्तं ज्ञानम्' इत्यतो बहुज्ञानेति । 'वस निवासे' इत्यस्मात्कर्तर्यधिकरणे चोकारप्रत्ययमङ्गीकृत्यार्थद्रयमुक्तम् । इति वा पुरुवसुरिति शेषः । रूदेर्योगस्य चाश्रयणमेतदिति सूचनाय मध्ये इति वेति ॥ २ ॥
भावदीपः
(रा. टि.) स्वरूपेति ।। 'विदा मघवन्' इत्यादिऋक्स्वरूपप्रदर्शनानन्तरं तद्वाचिनो महानाम्नीति नाम्नः 'महन्नाम यास्वृक्षु' इति निर्वचनं कार्यमित्यर्थः । आद्यामृचमिति । 'विदा मघवन्विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो' इति ऋचि विदेति पदं हित्वा तदुत्तरपदव्याख्याने बीजमाह-सम्बोध्येति ।। लोके हि सम्बोधनेनाभिमुखीकृत्य वक्तव्यं यत्किञ्चित्पश्चादुच्यत इति हेतोरिहाप्यनादेरप्रथमस्यापि परस्य पश्चात्तनस्य सम्बुद्ध्यन्तस्येत्यर्थः । अन्यत्रापीति ॥ 'आभिः ' इत्युत्तरमन्त्रादौ प्रचेतनेत्यादिसम्बुद्ध्यन्तं प्रथमं संयोज्यमिति वा, शिक्षेत्युत्तरार्धेऽप्यर्थानुसारेण पश्चात्तनस्य पूर्वं व्याख्यानं ज्ञेयमिति वार्थः । एतेन गातुमित्यादिव्याख्यानमपि समाहितं ध्येयम् । प्रत्यक्षं प्रसिद्धमित्युक्त्या प्रसिद्धशब्दद्विष इति प्रत्यक्षद्विष इत्यस्यार्थः सूचितः । ‘तेभिः' इति मन्त्रे पूर्वत्र सोमेति श्रवणादाह-सोमेति ।। ‘ये ते मदाः' इत्युक्तस्य परामर्श इत्युपेत्याह-तेभिस्तैस्तैर्मदैरिति ।। भिस ऐसादेशाभावश्छान्दसः । दातवे दातुमिति ।। ‘तुमर्थे सेसेन’ इत्यादिना तवेप्रत्यय इति भावः । नः अस्मान् । मघाय मघं दातुम् । आङ : क्रियापदेनान्वयमाह-ऐत्विति सम्बन्ध इति ।। व्यत्ययेन शविकरणस्येति ॥ लुग्विकरणत्वात् 'विद ज्ञाने' इत्यस्य व्यत्ययेनेत्युक्तम् । प्रार्थयित्वेति ।। 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' इति नाश्रितम् । ‘अर्थ याञ्चायाम्' इत्यस्याऽत्मनेपदत्वात् प्रार्थयतीति कथमित्यत आह-बहुलमेतन्निदर्शनमिति ।। आत्मनेपदादि बहुलमन्यथापि दृश्यत इत्यर्थः । सङ्गतिं सूचयन्निति । यो विदेति प्रार्थितः स त्वमेव स्तुतिप्रकारानुपदिश, वेदनदानमात्रेण नालमिति सङ्गतेः सूचनादिति भावः । ऋत्विगिति ।। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' इति सूत्रेण 'दिश अतिसर्जने' इति धातोः कर्मणि क्किन्नन्तत्वेन निपातनादिति भावः । लेटीति ॥ ‘लिङथें लेट्' इति लेट्प्रत्यये तस्य मध्यमपुरुषसिवादेशे, तत्स्थले तस्य 'लेटोsडाटयै' इत्यडागमे 'सिब्बहुलं लेटि' इत्यडागमनात्पूर्वं विकरणे सिपि तस्य 'आर्द्धधातुकस्येड् वलादेः' इतीडागमे 'आदेशप्रत्यययोः' इति पत्वे 'इतश्च' इत्यन्तस्येकारस्य लोपे रुत्वविसर्गयो रूपमिति भावः ।
सङ्गतिं सूचपनित्युक्तसूचनं लेशेन दर्शयति-न केवलमिति || अपौनरुक्त्यायाह- वाक्यद्वयार्थेति || ' विदा गातुम्' इति, 'अनुशंसिषो दिश:' इति वाक्पद्वयेत्यर्थः । द्वेधा व्याचष्ट इति ॥ शचीनामित्यस्यार्थद्वयकथनात्तदनुसारेण विद्यानामर्थे शिक्षेतिवत् पूर्वीणां शचीनां वेदवाचामर्थे शिक्षेत्यपि योज्यत्वाद् द्वेधा व्याचष्ट इत्युक्तम् । वक्ष्यति च 'वाक्यपक्षे' इत्यादि । अनेनेति ।। परमविद्यानामर्थे शिक्ष इति, पूर्वीणां शचीनां विद्यानां पते इति कथनेनेत्यर्थः । उभयत्र-शिक्षेत्यत्र पत इत्यत्र चेत्यर्थः । द्वितीयार्थे योजनां स्वयमाह-वाक्यपक्ष इति ॥ पूर्वीणां शचीनामित्यस्यार्थोऽपौरुषेयाणां वाचामिति । एतेन यथाक्रमं वाक्यद्वयार्थविवरणमेतदर्थमिति स्पष्टीकरणं कृतं भवति । कर्तर्यधिकरणे चेति ।। वसतीति वसुः, वसत्यस्मिन्निति वसुरित्यभिप्रेत्य बहुषु वसति बहुनामावास इत्यर्थद्वयमुक्तं मूल इति भावः । इति वेत्यस्य साकाङ्क्षत्वादाह-इति वा पुरूवसुरिति शेष इति । पुरुषु वसुः, पुरूणां वसुरिति च विग्रह इति भावः । ननु इतिवेत्यन्तिमोक्त्यैव पुरुवसुशब्दस्य चतुधार्थोक्तिज्ञानसम्भवान्मध्ये इति वेत्युक्तिर्व्यर्था । इति वेति इति वेति विभागकरणे हेत्वभावादित्यत आह-रूढेरिति । पूर्वं वसुशब्दस्य रूढ्याश्रयेणार्थद्वयोक्तिः,योगाश्रयेणोत्तरार्थद्वयोक्तिरिति सूचनायेत्यर्थः।। २ ॥
विवरणम्
( श्री. टि. ) असङ्गतिपरिहारायाह-यास्विति ॥ ननु आदी विदा मघवन्नित्याद्या महानाम्न्य इति महानाम्नीस्वरूपं प्रदर्श्य 'विदा मघवन् ' इत्यादीनां महानाम्नीति नाम कुत इति शङ्कायाम् ' महन्नाम यासु’ इतिनामनिर्वचनं पश्चात्कार्यमिति हि क्रमः । एवमकृत्वा आदी नामनिर्वचनं कृत्वा पश्चात्स्वरूपं प्रदर्श्यत इति क्रमव्यत्यासे किं कारणमित्यत आह-यद्यपीत्यादिना ॥ बुभुत्सेति । एतादृनिर्वचनोपेतनामवाच्यं किमिति तत्स्वरूपं बोद्धुमिच्छातिशयो भवतीत्यर्थः ।
ननु विदेतिप्रथमपदं प्रथमतो व्याख्याय मघवन्नितिद्वितीयपदं पश्चाद्व्याख्येयम् । तद्विहाय द्वितीयपदमादी कस्माद्व्याख्यायत इत्यत आह-सम्बोध्येति ।। भगवत्सम्बोधनत्वेन प्राधान्यादित्यर्थः । उच्यते प्रार्थ्यते । इतीति ॥ इतिन्यायादित्यर्थः । अनादेरिति ।। न आदिरनादिस्तस्य अप्रथमस्येत्यर्थः । द्वितीयस्यापि पदस्येति यावत् । एवम् एवमादिरीत्या । अन्यत्रापि ‘विदा गातुम्’इत्यादावपीत्यर्थः । वेदनविषयप्रदर्शकत्वेन गातुमित्यस्य प्राधान्यमिति भावः । सम्बन्धसामान्यस्यैव मतुबर्थत्वान्मखपत इति कथं व्याचख्यावित्यत आह-पत इतीति ।। मघवन्नित्यनेन मखस्वामित्वरूपसम्बन्धस्य विवक्षितत्वेन तस्याविस्पष्टत्वाद्विवरणं क्रियत इति भावः ।
नन्वेवं तर्हि मखवन्नित्येव स्यान्न तु मघवन्नितीत्यत आह-तृतीय इति ।। खकारापेक्षया घकारस्य तृतीयत्वात्खकारस्य घकारादेशः । स च पतित्वस्वरूपातिशयार्थ इति ध्येयम् । अप्रसिद्धेनेति ॥ मघवच्छब्दस्य मखवत्यप्रसिद्धत्वादिति भावः । प्रसिद्धमिति ॥ स्पष्टार्थद्विष इत्यर्थः । स्पष्टोक्तौ दुष्टानामपि ज्ञानप्राप्तिः स्यात् । सा च ‘मा नः स्तेनेभ्यः' इति निषिद्धेति भावः । ' परि सोम प्रधन्वा स्वस्तये' इति पूर्ववाक्यात् सोमशब्दोऽनुवर्तत इति भावेन हे सोमेत्युक्तम् । ‘ये ते मदा आहनसो विहायस:' इति पूर्ववाक्ये यच्छब्दोक्तमदानां तेभिरित्यत्र तच्छब्देन परामर्शस्तत्रत्यत इत्यस्यानुवृत्तिश्चेत्याशयेनाह-तेभिरिति ।। ये ते इत्यत्रत्यस्य ते इत्यस्यानुवादः तं इति । ते तव मदैस्त्वत्सम्बन्धिभिर्मदैरित्यर्थः । मदशब्दार्थो रसैरिति ।। रसानां कथं मदत्वमित्यतस्तादर्थ्यात्ताच्छब्द्यमिति भावेन मदहेतुभिरित्युक्तम् । पीतैर्निमित्तैरित्यर्थः । मत्तो मधं प्राप्तुमिति प्रतीतिवारणाय मधायेत्यस्यार्थमाह-मघं दातुमिति ॥ त्वमपीति ॥ मम यशोदानेनेति शेषः । मघमिति ॥ एतादृशं यशो भक्ताय दत्तवानिति यशस्तवापि भविष्यतीत्यर्थः । स्पष्टमिति ॥ तेभिरिन्द्रम्' इत्यत्रत्यमघशब्दस्य यशोवाचित्वस्यापि सम्भवादिति भावः । ऐत्विति ॥ आ एतु इति स्थिते ऐकाररूपवृद्धौ ऐत्विति भवति । कुतोऽयं तात्पर्यार्थी वाच्यार्थ एव किं न स्यादित्यतस्तस्य शब्दसामान्यत्राचिनः स्तोत्रविशेषे लक्षणयैव तात्पर्यमित्याशयेन वाच्यार्थं गैधातोर्दर्शयति-गै शब्द इति ।। ऐकारस्य 'आदेच उपदेशेऽशिति' इत्या तुमुन्प्रत्यये च सति गातुमिति भवति ।
ननु विद अस्माल्लोटि सिपि तस्य 'सेर्ह्यपिच्च' लोट: सेर्हिः स्यात् सोऽपिच्च इति सकारस्य हिकारे 'हेर्धिः' इति हिकारस्य धिकारे विद्धि विद्धीति स्यात्, न तु विदेतीत्यत आह-व्यत्ययेनेति ।। 'व्यत्ययो बहुलम्' इति वचनाल्लुग्विकरणस्य व्यत्ययेन शविकरणमङ्गीक्रियत इत्यर्थः । ननु तथापि वेदयेति णिच् प्रतीयेतेत्यत उक्तम्अन्तर्णीतण्यर्थस्येति ॥ ननु 'आ गर्वादात्मनेपदम्' इति धातुसूत्रे 'पद गतौ' इत्यादीनाम् ‘गर्व माने’ इत्यन्तानां धातूनामात्मनेपदत्वोक्तेस्तन्मध्यपठितस्य 'अर्थ याञ्चायाम्' इत्यस्यापि धातोरात्मनेपदित्वादात्मनेपदिनि प्रार्थयते इति स्यात् प्रार्थयतीति कथं परस्मैपदप्रयोग इत्यत आह- बहुलमिति आह- बहुलमिति ॥ एतदात्मनेपद-परस्मैपदप्रदर्शनं बहुलं भवति, क्वचित् स्यात् क्वचिन्न स्यादित्यर्थः । अत एव ‘प्रार्थयन्ति शयनोत्थितं प्रियाः' इति काव्ये प्रार्थयन्तीति परस्मैपदप्रयोग इति ध्येयम् । सङ्गतिमिति ॥ त्वमेवेत्यस्य अपेक्षिताशेषवेदनविषयत्वेन पूर्वं प्रार्थितस्त्वमेवेत्यर्थकत्वेन तेन सङ्गतिस्सूचितेति ध्येयम् । ऋत्विगिति ॥ ‘ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' आद्याः पञ्च कर्मणि किन्नन्ता निपात्यन्त इति 'दिश अतिसर्जने' इतिधातोरपि कर्मणि विन्नन्तस्य निपातनादित्यवधेयम् । अत एव दिश्यत इति कर्मार्थः प्रदर्शितः । तात्पर्यमिति ॥ अनुशंसिषो दिश इत्यस्य तात्पर्यमाहेत्यर्थः । शंसु स्तुताविति ॥ शंसतेः स्तुत्यर्थकत्वेऽपि ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तत्र्या अनेकार्था हि धातवः' इति धातूनामनेकार्थत्वोक्तेरुपदिदेशेति व्याख्यानमुपपद्यत इति ध्येयम् । शासु अनुशिष्टाविति || अत्र शास् इत्यस्य व्यत्ययेन छान्दसः शंसादेश इति ध्येयम् । एवं च धातुद्वयेऽपि अनुपूर्वशंस्धातोः ‘सिब् बहुलं लेटि' इति सिपि इष् इत्यस्य लोपे 'आर्द्धधातुकस्येड् वलादेः' वलादेरार्धधातुकस्येडागमः स्यादिति सकारस्य वल्प्रत्याहारमध्यपतितत्वेन वलादित्वादिडागमे शंसिसेति जाते, ‘आदेशप्रत्यययोः’ इण्कवर्गाभ्यां परस्यादेशप्रत्यययोरपदान्तस्य सस्य मूर्धन्यादेशः स्यादिति इणः परस्य सस्य षत्वेऽनुशंसिष इति रूपम् ।
वाक्यद्वयार्थेति ।। यद्यपि ‘विदा मघवन् विदा गातुम्' इति वाक्यद्वयम्, तथापि वेदनप्रार्थनपरत्वादेकवाक्यतयाऽभिप्रेतम् । एवं च वेदनप्रार्थनं पूर्ववाक्यार्थः । स्तुतिप्रकारोपदेशप्रार्थनं द्वितीयवाक्यार्थः । उत्तरार्धम्-'शिक्षा शचीनाम्' इत्युत्तरार्धमित्यर्थः । अत एवेति ॥ वाक्यद्वयार्थविवरणरूपत्वादेवेत्यर्थः । वेदनं मां प्रति कस्मात्प्रार्थ्यत इत्यतः तत्र ज्ञानानां पतित्वादित्युक्त्या पूर्ववाक्यार्थस्य, स्तोत्रप्रकारोपदेशो मां प्रति कस्मात्प्रार्थ्यत इत्यतो याभिर्वाग्भिस्तोत्रं कार्यं तासां पतित्वात्तवेति द्वितीयवाक्यार्थस्य विवरणं द्रष्टव्यम् । द्वेधेति । शचीशब्दं धीवागुभयपरत्वेनेत्यर्थः । शचीशब्दस्य 'धी: शचीमाया' इति प्रज्ञानामसु 'अदितिः शचीवाग्' इति वाङ्नामसु पाठादिति भावः । ‘तृतीयोऽतिशये’ इत्याकारस्य ईकारः श्रुतावित्याशयेन पूर्वासामिति व्याख्यानमिति ध्येयम् । उभयत्रेति ।। शिक्षेत्यनेन पत इत्यनेन च सम्बध्यत इति भावः । ननु मूले शचीनामित्यस्य द्वेधा व्याख्यानेऽपि पूर्वीणामित्यस्य वाक्यपक्षे कथं व्याख्यानमित्यत आह- वाक्पक्षेऽपीति ॥ वित्तवाचित्वादिति ॥ वसु रायो धनम्' इति धननामसु पाठादिति भावः । दैवमिति ॥ 'अर्थस्तु द्विविधो ज्ञेयो देवो मानुष एव च । दैवो विद्या हिरण्यादिर्मानुषः परिकीर्तितः ॥' इति वचनादिति भावः । 'उरुपुरुवहु ' इति शब्दस्य बहुनामसु पाठाद्वह्निति पुरुषशब्दार्थ उक्तो मूल इति ज्ञेयम् । कर्तरीत्यादि ॥ पुरुशब्दोपपादनात् 'वस निवासे' इत्यस्मात्पुरुषु वसतीति कर्तरि पुरवो वसन्त्यस्मिन्नित्यधिकरणे चोकारप्रत्यये सकारस्थाकारस्य लोपे पुरुवस् उ पुरुषस्त्विति प्रातिपदिकं निष्पद्यते, पश्चात्स्वाद्युत्पत्तौ सम्बुद्धौ पुरुवसो इति भवतीति ध्येयम् ।
ननु पुरुषसुशब्दस्य प्रकारद्वयेन व्याख्यायमानत्वाद् द्वितीयव्याख्यानानन्तरमितिवेति स्थाने इति चेति वाच्यं मध्ये इति वेति कस्मादुक्तमित्यत आह-रूडेरिति ।। बहुवित्त बहुज्ञानेति रूढ्याश्रयणेन व्याख्यानद्वयम्, बहु बहुषु वसति बहूनामाश्रय इति योगाश्रयणेन व्याख्यानद्वयम् । तत्र रूढयाश्रयणेन व्याख्यानद्वयसमाप्तिद्योतनाय मध्ये इति वेत्युक्तमित्यर्थः । विदा शिक्षा पुरू इत्यादौ संहिताकाले दीर्घदर्शनेऽपि पदकालेऽदर्शनमुक्तार्थस्याधिक्यद्योतकम् । ‘संहितायां यत्र दैर्घ्यं पदे यत्र न दृश्यते । उक्तार्थस्य महाधिक्यम्' इति वचनादित्यवधेयम् ।। १ ।।
कर्मप्रकाशः
(स.टि) आद्यामृचमिति ।। ‘विदा मघवन् विदा गातुमनुशंशिषो दिशः। शिक्षा शचीनां पते पूर्वीणाम् पुरूवसो' इत्याद्यामृचमित्यर्थः । अनादेरपीति ॥ अप्रथमस्येत्यर्थः । मतुवर्थस्येति । मघवच्छब्दान्तर्गतस्य मतुबस्येत्यर्थः ॥
ननु मघवच्छब्दः कनिन्प्रत्ययान्तः, न तु मतुबन्तः । श्वन्ं उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्धन् मज्जन् अर्यमन् विश्वप्सन् परिज्मन् मातरिश्वन् मघवन्' इति कनिन्प्रत्ययान्तस्य मघवन्नित्यस्य निपातनात् । उक्तं च वृत्तिकारेण । महत्पूजायामित्यस्यात्कनिन्प्रत्ययो घकारश्चान्तादेशो उगागमश्च निपात्यत इति । अत एव मघवा बहुलमिति मघवच्छब्दस्य तु इत्यन्तादेशो विहितः । मतुबन्तत्वे हि विनापि तु इत्यन्तादेशं मववानिति रूपसिद्धेः सूत्रमिदमनर्थकं स्यात् । किं च अस्य मत्वन्तत्वे 'मतुवसो सम्बुद्धी छन्दरा: ' इति रुत्वेन भाव्यमिति चेन्न तदा मघवेत्यादिशब्देन पूज्यत्वं विवक्षितं तदा कनिन्प्रत्ययान्तो निपातितः । यदा तु धनादिमत्वं शब्दार्थतया विवक्षितं तदा धनवाचिनो मघशब्दात् तदस्यास्त्यस्मिन्निति मतुविति सूत्रविहितो मतुबित्यङ्गीकारात् । न हि मह पूजायामित्यस्मात् कनिन्प्रत्ययं वदन् सूत्रकारो मघशब्दात् मतुपो निषेधं कृतवान् येन मघवन्निति शब्दो मतुबन्तो न स्यात् । एवं मघवानित्यादिशब्देन पूज्यत्वार्थलाभाय कनिन्प्रत्ययान्तस्य मघवन्नित्यस्य इत्यन्तादेशो विहितः । कनिन्प्रत्ययान्तस्य वान्तादेशं विना मघवानिति रूपासिद्धेः सूत्रं सार्थकम् । न च मत्वन्तत्वे सम्बुद्धौ रुत्वप्रसङ्गः । भाषायामश्रूयमाणस्य रुत्वस्योपपत्त्यर्थमेव ' मतुवसो रु सम्बुद्धौ छन्दसि' इत्यस्य प्रवृत्तित्वेन रुत्वस्यावश्यम्भावनियमा । वात् । खकारस्य घकार इति ।। मघवन्निति शब्दस्येति शेषः । लोटि रूपमेतदिति ॥ वित्तेर्लुग्विकरणादन्तर्णीतण्यर्थाद् व्यत्ययेन शब्विकरणे शव्विकरणस्य ङित्वाद्गुणाभावे लोटि तस्य सिपि, सिपो हित्वे, अतो हेरिति हेलुकि विदेति रूपमिति भावः ।
नन्वर्थयतेरात्मनेपदित्वात्प्रार्थयतीति परस्मैपदप्रयोगः कथमित्यत आह-बहुलमेतदिति ।। परस्मैपदं प्रयुक्तमित्यर्थः । इत्यादिनेति । निपातनादिति शेषः । लेटि रूपमिति ॥ शंस स्तुतावित्यस्य लेटि तस्य सिपि इकारलोपे सिब्बहुलं लेटीति शिपि तस्येडागमे लेटोऽडाटाविति लेटः अडागमे षत्वे आदेशसिपो रुत्वविसर्गयोः शंशिषः इति रूपम् । तथा शास्तेर्लेटि तस्य सिपि सिब्बहुलं लेटीति सिपि इडागमे लेट: अडागमे धातोर्हस्वत्वेऽनुमागमे च शंशिष इति रूपम् ।
उभयत्रेति ।। पूर्वीणां शचीनां शिक्षेति पूर्वत्र पूर्वीणां शचीनां पतये इत्युत्तरत्रेत्युभयत्र सम्बन्ध इत्यर्थः । ननु बहुवित्तबहुज्ञानबहुषु वसति, बहुनामावस इति वेति व्याख्यानचतुष्टयान्तिमेन इति वेत्येकेन शब्देन पूर्तेर्व्याख्यानद्वपानन्तरं बहुज्ञानेति वेति इति वाशब्देन किं प्रयोजनमित्यत आह- रूढेरिति ॥ आद्यव्याख्यानद्वयं रूढिबलात् । तृतीयचतुर्थव्याख्यानं योगबलात् लभ्यते इति सूचयितुं मध्ये इति वेतिशब्द इति भावः ।
गूढवाक्यार्थपञ्चिका
( छ.टि.) श्रीनृसिंहं मध्वगुरुं जयतीर्थाद्यभीष्टदम् । वेङ्कटेशं हयग्रीवं नमामि पुरुषोत्तमम् ।। महार्थं नामेति ।। उत्तमार्थप्रतिपादकमित्यर्थः । ननु महानाम्नीसंज्ञकऋकूस्वरूपप्रदर्शनानन्तरं महानाम्नीशब्दनिर्वचनं कार्यं तत्कथं महन्नाम यासु ऋक्षु विद्यते ता महानाम्न्य इत्यनेन पूर्वं ताः निर्वचनं कृत्वा पश्चात् ताश्च ‘विदा मघवन्’ इत्याद्या इत्यनेन तत्प्रदर्शनं कृतमित्याशङ्क्य समाधत्ते-यद्यपीत्यादिना ।। अत्रायं विशेषः । ‘विदा मघवन्' इत्याद्यारभ्य ‘विदा मघवन्विदोमि’त्यन्तं महानाम्नीविद्यायाः ब्रह्मा ऋषिः विश्वामित्रश्च मूले एव तथाऽग्रे तयोरनया विद्यया विष्णोस्तुतिकर्तृत्वस्य वक्ष्यमाणत्वात् तेन विदेत्यादिमध्यमपुरुषप्रयोगात् 'ऊतये हवामह' इत्याद्युत्तमपुरुषप्रयोगश्चोपपन्न इति ज्ञेयम् । ताः व्याकुर्वन्निति ।। ताः ऋचः व्याकुर्वन् व्याकरिष्यन् ‘वर्तमानसामीप्ये वर्तमानव्यपदेश:' इत्युक्तेर्लट्प्रयोगः । लटः शत्रादेशोऽयं । आद्यं ऋचम् । ‘विदा मघवन् विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो' इति ऋचम् ।
ननु विदेतिपदस्य ऋचि आद्यत्वात् तद्व्याख्याय 'मघवन्' इति द्वितीय पदस्य पश्चाद्व्याख्यानमुचितम् । तत्कथं ' मघवन्' इत्यस्य प्रथमतो व्याख्यानमित्यत आह-सम्बोध्येति ॥ लोकेऽयं प्रति किंचित्कार्यमुच्यते तं प्रथमतः संबोध्य सन्मुखं कृत्वा पश्चात् तं प्रति कार्यमुच्यते इत्यतोऽनादेरपिपदस्य अप्रथमस्यापि मघवन्नितिपदस्य प्रथमं विदेति पदव्याख्यानात्पूर्वं व्याख्यानं कृतमित्यर्थः । मतुवर्थस्येति । मघवन्निति पदार्थान्तर्गतमतुपः योऽयमर्थः सम्बन्धः तस्य विवरणं स्वामित्वरूपविशेषेण स्थापनमित्यर्थः । तदस्यायस्मिन्निति मतुविति षष्ट्यर्थे सम्बन्धसामान्य मतुपो विधानात् । अत्र च स्वामित्वरूपग्रहणादिति भावः । यद्यपि 'श्वन् उक्षन्-पूपन्' इति उणादिसूत्रे मधवत्रितिशब्दः कनिन्प्रत्ययान्तो निपातितः । वृत्तिकार : महापूजायमित्यतः कनिनृप्रत्यये धातुहकारस्य घकारादेशे उगागमे मघवन्नितिरूपनिष्पत्तेरङ्गीकारात् । अत एव मघवन्तावित्यादिरूपसिद्ध्यर्थं 'मघवा बहुलम्' इति सूत्रे तृइत्यन्तादेशोऽङ्गीकृतः । तथापि उपेयप्रतिपत्यर्थमुपाया अव्यवस्थिता इत्युक्तेः श्रुत्यनुसारेण धनादिवाचकमखशब्दात् मतुप्प्रत्यये विदा मघवन्नित्यत्र रूपनिष्पत्तिरिति बोध्यम् । तथा च मघवन्शब्दस्य कनिन्प्रत्यये पक्षे पूजार्थत्वं च बोध्यम् । तर्हि भवत्पक्षे मुखवन्निति स्यादित्यत आह-तृतीयोऽतिशये इत्यत इति ।। महाव्याकरणसूत्रादिति शेषः । अतिशयार्थे स्वापेक्षया पूर्वभावितृतीयो वर्णः परभावी वा तृतीयो वर्णः आदेशः स्यादिति सूत्रार्थः । मघवन्नित्यत्र तु खकारस्य परभावितृतीयत्वात् घकारादेश इति भावः । तथा च ‘सप्ततन्तुर्मखः क्रतुः’ इत्यमरोक्तेः मघवन्नित्यस्य मखपतित्वं नाम यज्ञभोक्तृत्वमित्यर्थ उक्तो भवति । परोक्षेण अप्रसिद्धेनेति । अस्पष्टार्थकेन मघवानित्युक्तौ मखवत्वार्थस्य स्पष्टमप्रतीतेरिति भाव: । प्रत्यक्षं प्रसिद्धमिति । तथापि प्रत्यक्षद्विष इत्यस्य दैत्यादीनां मखवत्वरूपोत्तमार्थप्रतीतिर्मा भूदिति भावेन स्पष्टार्थशब्दप्रयोगं न कुर्वन्तीत्यर्थो बोध्यः ।
तेभिरिन्द्रमिति ।। ऋक्पदात्पूर्वं पठिते परिसोमप्रघन्वा स्वस्तये । नृभिः पुनानो अभिवासय शिरं । ते मदा आहसो विहायस:' इति वाक्ये प्रथमपदपठितसम्बुध्यन्तसोमशब्दस्य अत्र अनुव्यावृत्य अन्वयो बोध्यः । तथा एते मदा इत्युक्तमदानां तेभिरित्यनेन परामर्श इति भावेन व्याचष्टे-हे सोमेति ।। सोमलताभिमानिन् चन्द्र । तेभिः तच्छब्दात् 'त्यदादिनाम' इत्यकारादेशे ‘भिसः बहुलं छन्दसि' इति ऐसादेशाभावे बहुवचने झल्येदिति एत्वे निष्पन्न तेभिरित्यस्य प्रतिपदं तैरिति । तत्र वीप्साविवक्षया पुनरतैरिति द्वितीयवारमुक्त्वा तत्परामृष्टं मदैरित्यस्य लक्षणया मदहेतुभिः सुखहेतुभिः खैः सोमरसैरिति व्याख्यानपूर्वकं तत्र तृतीयाविभक्त्युक्तकरणत्वोपपादनार्थं पति- रित्यध्याहृतमति भावः । मघं धनमिति ।। मघरेकणेति वैदिकनिघण्टी धननामसु पाठात् । दातवे दातुमिति । 'तुमर्थे सेसेन' इति सूत्रेण डुदाञ् दाने इत्यतः तुमनोऽर्थे तचेनूप्रत्यय इति भाव: । अस्मभ्यमिति शेषः । वेदद्रष्टु ऋषेः सोमं प्रति इदं वचनम् । तन्न आयातु मवायेत्यतव्याचष्टे-तल अस्मानिति । न इत्येतत् अस्मच्छन्दस्य द्वितीया बहुवचने रूपम् । मषायेत्पत्र कियार्थोपपदस्य च 'कर्मणि स्थानिन:' इति सूत्रेण चतुर्थी । अस्यार्थः । क्रियार्थक्रियावाचकपदं उपपदं यस्य तस्य स्थनिनः अप्रयुज्यमानस्य क्रियावाचकस्य कर्मणि कारके चतुर्थी स्यादिति भावेनोक्तम्-मघं दातुमिति ।। मघं दानरूपक्रियार्थं विष्णोरागमनं तद्वाचके आयातुशब्दे उपपदे स॒ति प्रयुज्यमानदातुमिति शब्दस्य कर्मत्वात् मघशब्दात् चतुर्थीति भावः । त्वमपीति ॥ मघं यशः । अनुप्राङपूर्वात् पतधातोः श्यन्विकरणात् केबलात्मनेपदिना भविष्यदर्थे व्यत्ययेन लुग्विकरणं परस्मैपदलट्प्रत्यया इति भावेन अनुप्रापत्सीत्यस्यार्थमाह-अनुप्रापत्स्यस इत्यर्थ इति ।। त्वमपीति मध्यमपुरुषप्रयोगाल्लब्धमिति भावः । स्पष्टमिति ॥ तेभिरिन्द्रमित्यस्य यशोवाचित्वेऽपि सावकाशत्वात् 'आ मामे तु' इति श्रुतिद्वयमुपादाय अत्रोक्तमबशब्दस्य श्रुत्या धनार्थत्वोक्तेः इति भावः । मामेत्विति सन्वन्ध इति । मयं कर्तुं मां प्राप्नोत्वित्यर्थः । इण गतावित्यतः लोटि अदादित्वाच्पो लुकि गुणे रूपमेतदिति भावः । गातुमित्यस्य स्तोतुमिति तात्पर्यार्थ इत्येत्प्रकटयति-गैशब्दे इति । सामान्यार्थकशब्दस्य विशेषे तात्पर्यात् त्वमित्यध्याहारप्रतीतेश्च । अस्य धातो: गायने रूढत्वाच्चेति भावः । गैरित्यैकारस्य आदे च उपदेशेऽशितीत्यात्वामिति भाव: ।ननु विद् ज्ञाने' इत्यस्य लोटि सिवित्यादेशे अदादिगणपठितत्वेन 'अदिप्रभृतिभ्यः शपे:' इति शपो लुकि 'हुझलभ्यो हेर्धिः' इति धित्वे विद्धीति भाव्यम् । कथं विदेति रूपमित्यत आह- व्यत्ययेन शविकरणस्येति|| व्यत्ययो बहुलमिति सूत्रेण विदेः तुदादित्वाभावेऽपि 'तुदिभ्यः श’ इति विहितशप्रत्यये तस्य ङित्वेन लघुपधगुणाभावे ' अतो हे:' इति 'हेलुकिव्यचोतस्तिड : ' इति अन्तस्यातो दीर्घे सतीति भावः । शच्चिकरणस्येति पाठस्तु अपपाठः । तथात्वे उपधागुणे वेदेति स्यात् ।
ननु अत्र णिचोऽभावात् वेदयेति मूले कथं प्रतिपदमित्यत आह-अन्तर्णीतण्यर्थस्येति ।। अन्तः धात्वन्तः नीतः प्रापितः अङ्गीकृतः ण्यर्थः णिजर्थः प्रयोजकव्यापाररूपः यत्र तस्येति विग्रहः । ईश्वरं प्रति विदेति लोट: उपासकस्य विध्यर्थकत्वासंभवात् विदेः णिचि प्रेरणरूपत्वादिति भावेन उक्त्वेत्यस्य प्रकृते वचनार्थत्वासम्भवाच्च प्रकृतोपयोग्यार्थमाह- उक्त्वा प्रार्थयित्वेति || लोटि चेति सूत्रे विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेष्वित्यनुवृत्तेति भावः । मूले अपेक्षितेत्युक्तिस्तु अधिकारिण्यशेषवेदनस्य बाधितत्वात् ज्ञानध्यानसाधनवेदनमेव अपेक्षिताशेषवेदनम् । तात्कालिकापेक्षितं तु स्तोत्रोपयोगिगुणज्ञानमिति बोध्यम् । ननु चुरादिगणे 'आगर्वादात्मनेपदिन' इति सूत्रेण पदगतावित्यादीनां गर्वमाने इत्यन्तानां धातूनां आत्मनेपदित्वोक्तेः तन्मध्यस्थं अर्थउपायाञ्चायामिति धातोरपि आत्मनेपदित्वप्राप्तेः कथं मूले प्रार्थयतीति परस्मैपदप्रयोग इत्यत आह-बहुलमेतदिति ।। एतत् आत्मनेपदपरस्मैपदनिदर्शनं दशगणिधातुपाठनिदर्शनं वा बहुलं ज्ञेयमिति धातुपाठान्त्यसूत्रार्यः । पूर्वेण सङ्गतिमिति ॥ त्वमेवेत्यनेन सामान्यतो विशेषतश्च यो बाधकः स त्वमेव स्तुतिप्रकारप्रदर्शक इति वचनात् ज्ञानस्तोत्रकरणयोः कार्यकारणभावलक्षणा सङ्गतिः सूचिता ।
ननु दिश इत्यस्य कथं मार्गानिति व्याख्यानमित्यत आह-ऋत्विगित्यादिनेति ॥ सूत्रेणेति शेषः । अनेन 'ऋत्विग्दधृक्स्रग्दिगुणिग- युजिकुत्र्यां च' इति सूत्रं विवक्षितम् । अत्र प्रथमपञ्चसु किन्नन्तप्रातिपदिकेषु निपातनसामर्थ्यात् 'दिश अतिसर्जन' इति धातौ क्विनः कर्मार्थत्वग्रहणादयमर्थो लभ्यत इति भावः । अतिसर्जनं नाम उपदेशनम् । लेटि रूपमिति ॥ लिङ लेडित्युक्तेः अत्र प्रार्थनायां लेटि शंसेर्लेटि तु मध्यमपुरुषसिपि 'इतश्च लोपः परस्मैपदे तु' इति इकारलोपे 'लेटोऽडाटौ' इत्यडागमे 'शिब्बहुलं लेटि इति मध्ये सिप्प्रत्यये इकारपकारयोरित्संज्ञायां सिपि आर्धधातुकत्वादिडागमे ‘आदेशप्रत्ययो:’• इति षत्वे च अन्त्यशिपः रुत्वविसर्गयोः शंसिष इति रूपम् । एवं शासरुपधायाः ह्रस्वत्वं नुम्विशेषः लेडादिसर्वं समानम् । वाक्यद्वयेति || ‘विदा मघवन्' इत्याद्यनेकं वाक्यं अनुशंसिष इति द्वितीयम् । उत्तरार्धम्-‘शिक्षा शचीनां’ इत्येत् कथं पूर्वं विवरणार्थमित्यत आह- अत एवेति ॥ द्वेधा ज्ञानपरत्वेन वाक्यपरत्वेन चेत्यर्थः । पूर्वीणामित्यत्र ‘तृतीयोऽतिशय’ इति महाव्याकरणसूत्रेण आकारस्य ईकारादेश: श्रुतौ इति भावेनाह-पूर्वासामिति ॥ ङीपस्तु विधायकाभावादनुक्तिः । भगवदित्यनेन ज्ञानस्य अतिशयितत्वोक्तिश्च ज्ञेया । शचीनामित्यस्य व्याख्यानमिति 'धीः शचीमाया' इति प्रज्ञानामसु पाठादिति भावः । उभयत्रेति ॥ शिक्षेति पूर्वत्र पते इत्युत्तरत्र चेत्यर्थः । यद्यपि बह्वर्धकपुरुशब्दात् 'वोतो गुणवचनात्' इति ङीप्प्रत्यये यणादेशे 'हलि च' इति दीर्घे च सति पूर्वीणां बह्वीनामिति व्याख्याने व्यत्ययो नाश्रयणीयः । तथापि शचीनामिति बहुवचनेनैव बहुत्वसिद्धेः पूर्वीणामित्यस्य व्यर्थत्वप्राप्त्या पूर्वेतिप्रादिपदिकाश्रयणे भगवत्संप्रदायागतत्वरूपार्थस्य व्यत्ययाश्रयणे अर्थविशेषस्य च लाभात् स एवाश्रितः ।। अत एव मूले प्रवाहतोऽनादीनां विद्यानामित्यनुक्त्वा भगवत्संप्रदायागतानां परमविद्यानामित्युक्तमिति द्रष्टव्यम् । अनेन भगवत्संप्रदायागतत्वं पूर्वेतिप्रातिपदिकार्थः व्यत्ययार्थस्तु परमत्वं शचीशब्दार्थस्तु विद्येति ज्ञेय इत्युक्तं भवति ।
ननु शचीनामित्यस्य विद्यानां वाचामिति द्वेधा व्याख्यानं कृत्वा पते इत्यन्वयप्रर्दशनेऽपि पूर्वं शिक्षेत्यन्वयप्रदर्शनकाले परमविद्यानामर्थ इति एकस्यैव शचीशब्दस्यानुवादात् । वाग्रूपार्थस्य कथं शिक्षत्यनेनान्वय इत्यत आह-वाक्यपक्षे इति ।। अस्मद्वाक्यैर्निराकर्तुं योग्याः याः पौरुषेयत्वविषयाः दुर्वादिकर्तृकाः वाचः तासामर्थे तन्निराकरणार्थं अस्मान् शिक्षातन्निराकरणसमर्थवाक्ययुक्तान् कुर्विति यावत् । ज्ञेयं मूले उपलक्षत्वेन ज्ञेयमित्यर्थः । मूले परमविद्यानामर्थे शिक्षेत्यस्य तु परमविद्यासाधनप्रयुक्तान् कुर्वित्यर्थो बोध्यः । यद्यपि शचीशब्दस्य धीः शची शमी इति कर्मनामसु पाठात् शचीनां कर्मणामर्थे शिक्षेति शचीनां कर्मणां पते इति च व्याख्यातुं शक्यते तथापि स्फुटत्वात् शिष्यैरेव ज्ञातुं शक्यत्वेन आचार्यैर्नोक्तमिति बोध्यम् । वित्तवाचित्वादिति ।। वसु रायः राधः इति धननामसु पाठादिति भावः । ननु तर्हि बहुज्ञानेति व्याख्यानानन्तरं कथं अभिधानाभाव इत्यत आह-दैवं वित्तं ज्ञानमिति ।। भगवद्ज्ञानमेव देवसम्बन्धिधनमित्यर्थः । इतिशब्दानन्तरं व्याख्यानमिति शेषः । उकारप्रत्ययमिति । 'शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' इत्युणादिसूत्रेणेति शेष: । उणादिप्रत्ययानां कृत्प्रत्ययत्वात् ‘कर्तरि कृत्’ इति कर्तृर्थकत्वमात्रप्राप्तावपि 'उणादयो बहुलं' इति बहुलग्रहणादिति च शेषः । अर्थद्वयं वसतीति वसुरिति कर्तर्थकत्वमेकम् । आवास इत्यनेन अधिकरणार्थकत्वं द्वितीयमित्यर्थः । वसंत्यस्मिन्निति वसुरिति विग्रहः । आवासशब्दे घञ् 'अकर्तरिच कारके संज्ञायाम्' इत्यधिकरणेऽपि विधानादिति भावः । मूले इति वेत्यस्य अन्वयादर्थनादाह-पुरूवसुरिति शेष इति ।। पुरुशब्दस्य अन्येषामपि दृश्यत इति दीर्घे पुरूवसो इति रूपमिति भावः ।
ननु मूले बहुज्ञानेत्यनन्तरमुक्तं इति वेति व्यर्थं व्याख्यानभेदस्य अन्तिमेनेतिशब्देन चतुर्ष्वपि तेन ज्ञातुं शक्यत्वादित्यत आह- रूढेरिति ।।वसुशब्दस्य पूर्वव्याख्याद्वयं रूढयाश्रयेण । उत्तरव्याख्याद्वयं योगाश्रयणेति सूचनायेति भावः ।