महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु

(महानाम्नीनां उपसर्जनसंयोजनप्रदर्शकसूत्रकथनम्)

मूलम्

५४- मूलम्- महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु। एवाह्येवा अपाः पूर्वेषां हरिवस्सुतानाम् एवाहीन्द्रं अथो इदं सवनं केवलन्ते । एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशा हि शक्रः सत्रा वृञ्जठर आवृस्वेति ॥

टीका

टीका- 'अपाः पूर्वेषाम्' इत्यनया योग उक्तः । तन्नोपपद्यते । तस्यास्त्रिष्टुत्वेन पोळशिनि प्रवेशायोगादित्याशङ्कापरिहारार्थं ' महानाम्नीनां पञ्चाक्षरान्' इत्यादि ब्राह्मणम् । तदक्षरार्थः स्पष्ट एवेत्यतः तदनूद्य तदुक्त- मुपसर्जनसंयोजनप्रकारमेवाऽश्वलायनसूत्रेण दर्शयति-महानाम्नीनामिति ॥ 'सर्वेभ्या वो' इत्यादि पूर्ववदेव ॥

भावदीपः

(रा.टि.) खण्डशेमवतारयति-अपा इत्यादिना || 'अपाः पूर्वयां हरिवः सुतानामिति यजति' इति पूर्वब्राह्मणवाक्येनोक्त इत्यर्थः । इत्यादीति ॥ 'उपसर्गानुपसृजत्येकादशाक्षरेषु पाठेषु सर्वेभ्यो वा एपच्छन्दोभ्यः सन्निर्मिती यत्षोळशी तद्व्यन्महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यइछन्दोभ्यः सन्निर्मितेन पोळशिना रानोति य एवं वेद' इत्यादिपदार्थ: । तदुक्तमिति ॥ ब्राह्मणोक्तमित्यर्थः । पूर्ववदेवेति । 'सर्वेभ्यो वा एष लोकेभ्यः' इतिवदित्यर्थः । तथाहि-यत् यः षोळशी क्रतुः एष: पूर्वैः पुरुषैर्महानाम्युपसर्गसंयोजनेन प्रसन्नेभ्यः सर्वेभ्य एव छन्दोभ्यः सर्वच्छन्दोगतभगवद्रूपेभ्यः सन्निर्मितो वै तत् तस्मादद्यापि यद् यदि कचित् महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु, सोऽपि सर्वेभ्यवछन्दोभ्यः सन्निर्मितेन षोडशिना राध्नोति समृद्धो भवति ।।

गूढवाक्यार्थपञ्चिका

(छ. टि.) यत्तु महानाम्नीनामिति खण्डान्ते पञ्चाक्षरोपसर्गान् एकादशाक्षरेषु पादेषु संयोजयेदित्युच्यते तत्र एतद्विशेषसंयोजनज्ञापकआश्वलायनसूत्रं उदाहृतं तत्संगमयितुमाह-अपाः पूर्वेषामिति ॥ ननु सर्वेभ्यो वा एष इत्यादिवाक्ययोजना कथमित्यत आह-पूर्ववदेवेति ।। प्रथमभागस्यसर्वेभ्यो वा एष लोकेभ्यः इति वाक्यवदित्यर्थः । तथाहि । एकादशाक्षरेषु पादेषु पञ्चाक्षरोपसर्गसंयोजनं कृतवतः प्रशंसा क्रियते । सर्वेभ्यो वा इति ॥ पूर्वैः पुरुषैः सर्वच्छन्दोऽन्तर्गतानां सर्वछन्दः प्रतिपाद्यानां भगवद्रूपाणां प्रतिपादक- महानाम्युपसर्गसंयोजनेन प्रसन्नेभ्यः सर्वेभ्यः छन्दोभ्यः तदन्तर्गतेभ्यः तत्प्रतिपाद्येभ्यो वा भगवद्रूपेभ्यः एषः सनिर्मितो वै । कः । यत् यः षोळशीक्रतुः तत् तस्मात् । अद्यापि यत् । यदि महानाम्नीनां पञ्चाक्षरानुपसर्गानेकादशाक्षरेषु पादेषु उपसृजति कश्चित् । तत् तर्हि सोऽपि सर्वेभ्यश्छन्दोभ्यः तदन्तर्गतेभ्यः तत्प्रतिपाद्येभ्यो वा भगवद्रूपेभ्यः एव एनं षोळशिनं क्रतुं सन्निर्मिमीते । ततः किम् । उक्तेभ्यः छन्दोभ्यः सन्निर्मितेन षोळशिना राप्नोति । किं ऋतु-निर्माणमात्रेण मुक्तो भवति । न । किन्तु य एवं वेदेति । एवं क्रतुनिर्माता सन् भगवद्रूपेभ्य एव क्रतुर्निर्माणज्ञानवान् उपासनावान् चेत्तर्ह्येव राध्नोतीत्यर्थः ॥ छ ॥