न च निर्विशेषं नाम किञ्चिदस्ति

पराभिमतश्रुतियुक्तीनां प्रत्यक्षादिप्रमाणत्रयविरोधोक्तिः

मूलम्

७-मूलम् न च निर्विशेषं नाम किञ्चिदस्ति । निर्विशेषत्वोक्तरे व्याहतत्वात् । निर्विशेत्वेन विशिष्टं न वेत्युक्ते यद्यविशिष्टं तर्हि न विशेषनिराकरणं विशेषवत्त्वमेव भवति । यदि तेन विशिष्टं स एव विशेष इति व्याहृतिः । न च निर्विशेत्वे किञ्चिन्मानम् । अशेषविशेष-चनानुभवयुक्तिविरोधश्च ।।

टीका

टीका-माभूदेतच्छ्रुतिविरोधोऽनुमानस्य । ब्रह्मा निर्गुणं पृथिव्याद्यतिरिक्तत्वात्, गुणादिवत्, इत्यनुमानविरोधस्तु भवेदेवेत्यत आह-न चेति ॥ अत्र हि गुणो नाम धर्मापरपर्यायो विशेषः प्रकृतो न तु वैशेषिकादि-परिभाषितो रूपादिधर्मविशेष: । ततो ब्रह्म निर्विशेमिति प्रतिज्ञार्थः स्यात् । अन्यथाऽसङ्गतेः । न च निर्विशेषं नाम किञ्चिदस्ति । तस्माद प्रसिद्ध‌विशेणता, दृष्टान्तस्य साध्यविकलता चेति । कुतो निर्विशेषं वस्तु नास्तीति चेत् । किं प्रश्नमात्रमेतद् उतेदं निर्विशेमस्तीति वक्तु-मुद्यतोऽसि । आद्येऽदर्शनादित्युत्तरम् । न द्वितीयः । कुत इत्यत आह-निर्विशेषत्वेति ।। एवशब्दस्य प्रमाणान्तरव्याहतिं विनेत्यर्थः । कथं व्याहतत्वमित्यत आह- निर्विशेषत्वेनेति ।। इदं निर्विशेषमिति वदन्तं त्वां प्रति, इदं विशेषाभावलक्षणेन निर्विशेषत्वेन विशिष्टं न वेत्यस्माभिरुक्ते पृष्टे, यद्यविशिष्टं वस्तु ब्रूयास्तर्हि तस्य न विशेषनिराकरणं त्वया कृतं स्यात् । कुतः ? यतो विशेषाभावाभावे विशेषवत्त्वमे भवति । अभावाभावस्य भावत्वात् । निर्विशेषत्वमुलक्षणमिति चेत्, तत्किं तत्सम्बन्धि न वा । आद्ये द्वितीयपक्षदोषः । द्वितीये तूपलक्षणमेव न भवतीति । यदि तेन निर्विशेषत्वेन विशिष्टं ब्रूयास्तदा स विशेषाभावरूप एव विशेषोऽङ्गीकृतः स्यादिति पक्षद्वयेऽपि स्वक्रियाव्याहतिः स्यादिति । एतेनानुमाने प्रतिज्ञावाक्यस्यापि व्याहृतिर्द्रष्टव्या ।

ननु मा भून्निर्गुणश्चेति श्रुतिस्तत्र मानम् । गुणशब्दस्यानेकार्थ-त्वेनार्थान्तरसम्भावात् । मा च भूदुक्तमनुमानम् । अप्रसिद्धविशेषण-त्वाद्यापातात् । 'एकधैवानुद्रष्टव्यम्' इत्याद्याश्रुतिः, विशेषवत्त्वं कुतश्चिद्व्यावृत्तं धर्मत्वाद्रूपवदित्याद्यनुमानं च ब्रह्मणो निर्विशेषत्वे मानं भविष्यति । अतस्तद्विरोधो भवदनुमानस्येत्येतदपि व्याहत्यैव परिहृतत्वान्नाशङ्कनीयमित्याह- न चेति ॥ व्याहतेरेवेति शेषः । श्रुतिस्तु विशेशत्क्त्याऽनेकरूपेऽपि ब्रह्मणि भेदाभावप्रतिपादनपरेति ज्ञातव्यम् । ब्रह्मणो निर्विशेषत्वे शङ्कयमानानां सर्वासामेव श्रुतीनामनुमानानां च दोषान्तरमाह-अशेषेति ।। अशेषाश्च ता विशेषप्रतिपादकवचनानुभवयुक्तयश्चेति विग्रहः । तद्विरोधश्च निर्विशेषश्रुत्यादेः । तत्र वचानान्युदाहृतानि । अनुभवो योगिनां हिरण्यगर्भादीनां प्रत्यक्षं सविशेषविषयं पुराणादिप्रसिद्धम् । युक्तिश्च लेशतो दर्शितै । निरवकाशत्वेन हुत्वेन च प्रलैः प्रत्यक्षानुमानागमैर्बाधिते श्रुत्यनुमाने न बाधकतया प्रतिपक्षतया वाऽभिधातुं शक्यते इति भावः ॥

भावदीपः

(रा.टि.) ननु ब्रह्म निर्गुणमिति प्रतिज्ञातेन 'न च निर्विशेषं नाम' इत्याद्युक्तिः कथं सङ्गतेत्यत आह अत्र हीति ।। अशेषगुणेति, अगुणं ब्रह्मेति निर्गुणं ब्रह्मेत्यत्रेत्यर्थः । अन्यथेति ।। धर्ममात्रे प्रस्तुते सति मतान्तराभिमतरूपादिगुणहीनमिति कथनेऽसङ्गतेः । निर्गुणपदस्य रूपादिगुणहीनार्थकत्वे 'न च निर्विशेषम्' इत्यादेरसङ्गतेरिति भावः । व्याहतिरित्यन्तं वाक्यं व्याचष्टे इदं निर्विशेषमित्यादिना व्याहतिः स्यादित्यन्तेन । उपलक्षण-पक्षम् स्वयं निराह निर्विशेषत्वमुपलक्षणं चेत्यादिना ।। द्वितीयेति ॥ विशिष्टपक्षीदोष इति भावः । एतेनेति ॥ निर्विशेषं वस्त्वज्ञाया निर्विशेषं ब्रह्मेत्यर्थ: स्यात्तत्र विशेषाभावविशिष्टमविशिष्टं वा ब्रह्म । आद्ये विशेषाभावरूपविशेष एवाङ्गीकृतः स्यात् । द्वितीये विशेषाभावाभावे विशेषवत्त्वमेव भवति । आधे विशेषाभावपक्षे तत्सम्बन्धित्वे विशेषवत्त्वमेव तदसम्बन्धित्वे तूपलक्षणमेव नेति पुनर्विशेषवत्त्वमेवेत्येवं व्याहतिर्द्रव्येत्यर्थः । इति पृथिव्याद्यतिरिक्तत्वहेतोः प्रतिज्ञाव्याहत्युक्तिः ।

कुतश्चिद्व्यावृत्तमिति ॥ यतो व्यावृत्तं तद्ब्रह्मेति भावः । भवदिति ॥ कार्यत्वानुमानस्येत्यर्थः । व्याहत्यैवेति ।। कुतश्चिदिति पञ्चमीनिर्दिष्टं हि ब्रह्माभिमतम् । तस्य व्यावृत्तं प्रति प्रतियोगित्वे प्रतियोगित्वरूपविशेषसिद्धिः । प्रतियोगित्वाभावे च ब्रह्मणो निर्विशेषत्वासिद्धिः । अशेषत्वस्य विशेषेष्वन्वयभ्रान्तिं निराह-अशेषाश्च ता इति । पुराणादिसिद्धमिति ।। 'त्वमेक एवास्य सतः प्रसूतिः स्थानं निधानम्' इत्यादि दशमे । 'त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहुः' इत्त्यादिरष्टमे । 'दृष्ट्वा तमपरे सर्वे' इत्युपक्रम्य 'भगवत्यपरिगणितगुणगण ईश्वरेऽनवगाह्यमाहात्म्ये' इत्यादिना षष्ठे च स्कन्धे स्मरणादिति भावः । अशेषपदस्य वचनादावन्वये लब्धमाह-निरकाशत्वेनेति ॥ प्रत्यक्षेति ।। प्रसिद्धक्रमानुस्मरणान्मूलक्रमोल्लङ्घनम् । श्रुत्यनुमाने इति पराभिमते इति योज्यम् । न बाधकतयेति ।। अस्मदीय-श्रुत्यनुमानयोरित्यर्थः । पराभिमतश्रुतियुक्तीनां प्रत्यक्षादिप्रमाणत्रयविरोधोक्तिः।।

विवरणम्

(श्री.टि.) पृथिव्यादीति ।। पृथिव्यादिनवकभिन्नत्वादित्यर्थः । प्रकृत इति ।। यद्यपि 'अशेषगुणपूर्तः' इति शुभधर्म एव प्रकृतो न धर्ममात्रम् । तथापि शुभधर्मपूर्त्यभावं कैमुत्येन साधयतां निर्धर्मकत्ववादिनां मायिनां विप्रतिपत्तेस्तत्र एक इत्यादिनोद्भावितत्वात्तान् प्रति श्रुत्यनुमानाभ्यां धर्ममात्रस्य साधितत्वाद्धर्मापरपर्यायो विशेष एव प्रकृत इत्यर्थः । अन्यथेति ।। एवं धर्ममात्रे प्रकृते सति गुणदृष्टान्तेन ब्रह्म निर्गुणमिति ब्रह्मणो रूपादिगुणाभावसाधनेऽनाकाकांक्षिताभिधानरूपत्वादसङ्गतिरित्यर्थः । निर्विशेषं निर्धर्मकम् । अप्रसिद्धविशेणतेति ।। पक्षस्येति शेषः । दृष्टान्तस्येति ।। गुणादौ गुणत्व-प्रमेयत्वादिगुणानां सत्त्वादिति भावः । कुत इति ।। येनाप्रसिद्धविशेषणता स्यादिति भावः । अदर्शनाद् निर्विशेषस्य वस्तुन इति शेषः । प्रमाणान्तरेति ।। सविशेषत्वप्रतिपादकेत्यर्थः ।

ननु निर्विशेषत्वेन विशिष्टं न भवतीत्यस्य निर्विशेषत्वमुपलक्षणमात्रं न विशेषणमित्येवार्थोऽतो निर्विशेषत्वेन विशिष्टं नेत्युक्ते विशेषवत्त्वमेव भवतीति दूषणमसङ्गतमित्याशयेन शङ्कते निर्विशेषत्वमिति ।। तद् उपलक्षणभूतं निर्विशेषत्वम् । तत्सम्बन्धि उपलक्ष्यब्रह्मसम्बन्धि । द्वितीयपक्षदोष इति ।। निर्विशेषत्वेन विशिष्टमिति पक्षे 'यदि तेन' इति यो दोषो वक्ष्यते स एव दोषो निर्विशेषत्वरूपमुपलक्षणं तत्सम्बन्धीति पक्षेऽपीत्यर्थः । यद्यपि निर्विशेषत्वेन विशिष्टमिति पक्षः प्रथमपक्ष एव । तथा च द्वितीयपक्षदोष इत्यनुपपन्नम् । तथापि निर्विशेषत्वेन विशिष्टं न वेति विकल्प्याविशिष्टपक्षस्य द्वितीयस्यापि प्रथमं दूषणाद्विशिष्टपक्षस्याद्यस्यापि पश्चाद्दूषणाद् द्वितीयत्वोक्तिरिति ध्येयम् । एकापेक्षयैकस्य द्वितीयत्वमिति परस्परं द्वितीयत्वमभिप्रेत्येत्यमुक्तमित्याहुः । न भवतीति ।। कदाचिद्गृहादिसम्बद्धस्यैव काकादेरुप-लक्षकत्वदर्शनादिति भावः । कदाचिद्वा ब्रह्मसम्बन्धोक्तौ पूर्वोक्तदोषानतिवृत्तिरिति ध्येयम् । एतेनेति ।। अप्रसिद्धविशेषणतापरिहारायेदं निर्विशेषं वस्त्वतीति परेणोक्ते सति तत्र स्वक्रियाव्याहतिप्रदानेनेत्यर्थः । प्रतिज्ञेति ॥ पक्षीभूते ब्रह्मणि साध्यभूतनिर्गुणत्वाख्यविशेषस्यैव प्राप्त्या ब्रह्म निर्गुणमिति प्रतिज्ञावाक्यं व्याहतमित्यर्थः । कुतश्चिदिति । यस्माद्व्यावृत्तं तदेव वस्तु निर्विशेषमित्यर्थः । धर्मत्वाद व्यतिरेकिधर्मत्वात् । भवदनुमानस्य सगुणत्व-साधकस्येत्यर्थः । निराकृतत्वादिति ।। विशेषवत्त्वं कुतश्चिव्यावृत्तमित्यस्य किञ्चिन्निष्ठन्यावृत्तिप्रतियोगीत्यर्थकतया तस्य किञ्चितः पदार्थस्य व्यावृत्तिरूप-विशेषवत्त्वस्यैव प्राप्त्या विशेषवत्त्वं कुतश्चिव्यावृत्तमिति प्रतिज्ञा व्याहतेति निराकृतप्रायेत्यर्थः । व्याहत्याऽनुमानविरोधाभावेऽपि श्रुतिविरोधस्तु स्यादित्यत आह-श्रुतिस्त्विति ॥ 'एकधैव' इत्यादिश्रुतिरित्यर्थः । अनेकरूपे अनेकधर्मवति । वचनादीनां बहुत्वप्रयुक्तप्राबल्यप्राप्त्यर्थम् । अशेषेत्ये तद्वचनादिविशेषणतया व्याचष्टे अशेषाश्च ता इति ॥ उदाहृतानि 'यस्सर्वज्ञः' इत्यादिनेति शेषः । परबुद्धेरप्रत्यक्षत्वादस्माकं कथं तत्सिद्धिरित्यत आह-पुराणादीति ॥ दर्शितैवेति ।। 'युक्तिश्च' इत्यादिनेति शेषः ।।

कर्मप्रकाशः

(स.टि) निर्विशेत्वेन विशिष्टं न वेति इति ।। विशेषाभावन्न वेत्यस्माभिः पृष्ट इत्यर्थः । अविशिष्टमिति ।। विशेषाभावो नास्तीति ब्रूयादित्यर्थः । ननु विशेषाभावः पृष्टार्थस्य यद्यपि न विशेषणं, तथापि न विशेषवत्ता भवति । विशेषणवत् उपलक्षणस्य अभावस्य प्रतियोगि-विरोधित्वादिति भावेन शङ्कते । निर्विशेणत्वमिति ।। तत्सम्बन्धि न वेतीति ।। तत्रास्ति न वेत्यर्थः । आद्य इति ।। अस्तीति पक्षे न विशेष-निराकरणमिति द्वितीयपक्षदोष इत्यर्थः । उपलक्षणमेवेति ।। तत्रावर्तमानस्य -तदुपलक्षणत्वायोगादिति भावः । पक्षद्वयेऽपीति ।। निर्विशेषत्वेन विशिष्टमिति पक्षे नेति पक्षेऽपि विशेषनिराकरणार्थकस्वप्रवृत्तिरूपक्रियाविरोध इत्यर्थः । एतेनानुमान इति ।। हेतुरूपविशेषप्रतिपादनपरेण हेतुवाक्येन ब्रह्म निर्विशेषमिति प्रतिज्ञायाः विरोध इत्यर्थः । अनेकरूपेऽपीति ॥ स्वाधीनविशेषशक्त्याऽनेकरूपेऽपि अनेकगुणात्मकेऽपि ब्रह्मणि गुणगुणिभावप्रयुक्तभेदभ्रमनिरासाय गुणभेदाभावप्रतिपादनपरेति ज्ञातव्यमित्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) ननु अनुमाने ब्रह्म निर्गुणमित्युक्ते निर्गुणत्वखण्डने कर्तव्ये आचार्यैनिर्विशेषत्वखण्डनं यत्क्रियते तदसङ्गतमित्यतस्तत्सङ्गमयितुमाह-अत्र हि गुणो नामेति || अन्यथाऽसङ्गतेरिति । गुणशब्देन रूपादिग्रहणे ब्रह्मणो निर्विशेषत्वरूपाखण्डत्वप्रतिपादनासङ्गतेरित्यर्थः । तथा पूर्वं महद्धि तत्परं ब्रह्मेति महत्वप्रतिपादनार्थं हेतूकृतस्य अशेषगुणपूर्तेरित्यस्य अभिप्रेतोऽर्थः । अशेषशुभधर्मपूर्तेरिति सङ्गतिरित्यर्थः । निर्गुणशब्देन निर्विशेषत्वग्रहणे अनुमानस्य किं दूषणमित्यत आह- न च निर्विशेषमिति || दृष्टान्तस्येति । गुणादेः गुणत्वादिधर्माणामङ्गीकारात् । अभावाभावे भावत्वं कथं स्यादित्यत आह-अभावाभावस्य भावत्वादिति ।। परस्परविरुद्धयोर्धर्मयोरन्यतरनिषेधस्य अन्यतरविध्यात्मकत्वात् । अन्यतरविधिनान्तरीयकत्वादिति भावः । आद्ये द्वितीयपक्षदोष इति ॥ आद्ये उपलक्षणस्य उपलक्ष्यसम्बन्धित्वपक्षे द्वितीय-पक्षोक्तः निर्विशेषणत्वस्यं ब्रह्मसम्बन्धित्वपक्षे उक्त: ब्रह्मणि विशेषनिराकरणं न सम्भवतीत्युक्तः । उपलक्षणस्यैव उपलक्ष्यसम्बन्धिविशेषत्वेन धर्मत्वात् । उपलक्षणस्य निर्विशेषत्वाभावादिति भावः । प्रतिज्ञावाक्यस्यापि व्याहतिरिति । ब्रह्म निर्गुणमिति प्रतिज्ञावाक्ये ब्रह्मण: पक्षत्वानङ्गीकारे साध्यवत्वानङ्गीकारे च निर्विशेषत्वस्य साधयितुमशक्यत्वात्, तदङ्गीकारे च सविशेषत्वप्राप्त्या निर्विशेषत्वसाध्यव्याहतिरिति भावः ।
अप्रसिद्धविशेषणत्वाद्यापातात् इति ॥ आदिशब्दात् प्रतिज्ञावाक्ये उक्तव्याहतिर्गृह्यते । एकधैव ब्रह्म एकधैव एकस्वरूपेणैव अनुद्रष्टव्यं ज्ञेयम् । न तु धर्मवत्वेनेति श्रुत्यर्थः । कुतश्चिद्व्यावृत्तमिति । कुत्रचिन्निष्टान्त्यन्ताभाव प्रतियोगीत्यर्थः । व्याहत्यैव परिहृत ( निराकृत) त्वादिति ।। श्रुतौ एकधेति ब्रह्मधर्माणां ब्रह्मस्वरूपत्वेनैव ज्ञेयत्वोक्तेः । निर्विशेषत्वरूपार्थप्रतीते: ! प्रत्यक्-ब्रह्मत्वज्ञेत्वादिधर्मवत्वप्रतीतेः निर्विशेषत्वरूपार्थङ्गीकारे श्रुतौ व्याहतिः । अनुमाने च साध्यपर्यवसानस्थले अत्यन्ताभावाधिकरणतया प्रतीतिविषयत्वादिधर्मप्राप्त्या निर्विशेषत्वाङ्गीकारे व्याहतिरिति व्याहत्यैव श्रुत्यनुमानयोर्निराकृतत्वान्नाशङ्कनीयत्वमिति भावः । विशेषशक्त्येति ॥ अभेदे भेदभेदककार्यकारिविशेषबलेन स्वरूपभेदाभावपरेत्यर्थः । अशेषविशेषवचनेति वाक्ये अशेषपदस्य वचनपदमात्रान्वयभ्रान्तिं वारयितुं अनुभवयुक्तयोरपि सम्बन्धं द्योतयितुं विग्रहमाह-अशेषाश्च ता इति ।। मूले ब्रह्माद्यनुभवस्य प्राबल्येऽपि तस्य वचनेनैव ज्ञेयत्वात् वचनस्यादितो ग्रहणम् । पुराण-प्रसिद्धमिति ॥ तथा च भागवते दशमस्कन्धे ब्रह्मदीनां गर्भस्तुतौ 'त्वमेक एवास्य सत: प्रसूति: नूनं विधानं (स्थानं निधानं) त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये' ।। विभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य । सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम्' ।। इत्यादिवाक्ये जगत्स्रष्टृत्वस्य पालकत्वरूपविधानस्य सदनुग्रहकारित्वादिविशेषणत्वोक्तेः । युक्तिश्च लेशतो दर्शितैवेति ॥ बुद्धिपूर्वसकलकर्तृत्वात्सर्वज्ञत्वादयो गुणाः युक्ता इत्यादिना मूलेनेति शेषः । लेशत इत्युक्त्या क्षित्यादिकं सकर्तृकं कार्यत्वादित्यादीश्वरसाधकानुमानानि च तद्ज्ञानेच्छादिगुणसूचकानि गृह्यन्ते ।
ननु नैकधेति श्रुतिः विशेषवत्वं कुतश्चिद्व्यावृत्तं इत्यनुमानं च वचनादीनां बाधकं किं न स्यादित्यत आहृ- निरवकाशत्वेन ( हुत्वेन च ) प्रलैरिति ॥ इदं वचनादीनां विशेषणभूतविशेषग्रहणस्य प्रयोजनम् । तद्विशेषणीभूताशेषग्रहणस्य तु बहुत्वेन प्रबलैरिति ।।