य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः । रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः
कर्मनिर्णय
मङ्गलाचरणम्
मूलम्
ॐ॥ य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः ।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
टीका
श्रीजयतीर्थविरचिता टीका
ब्राह्मणोपनिषन्मन्त्रभेदा वेदगिरोऽखिलाः ।
यत्क्रीडाभूमयस्तस्मै परस्मै ब्रह्मणे नमः ॥
प्रणम्य श्रीमदानन्दतीर्थार्यपदपङ्कजे ।
गुरूणां च यथाबोधं व्याकुर्वे कर्मनिर्णयम् ॥
'महानाम्नीनाम्' इत्यादिखण्डव्याख्यानव्याजेन कर्मनिर्णयं कर्तुकामो भगवानाचार्यो विघ्नविघातादिहेतुं समुचितविशिष्टेष्टदेवताप्रणाममाचरति य इज्यत इति ।। सकलवाङ्गनसदेवता रमाऽप्यादौ वन्दनीयेत्यतो रमाप्रणयिन इत्युक्तम् । ननु यज्ञविद्याव्याख्यानावसरे कथं रमाप्रणयिनो वन्दनं समुचितम् ? तस्या अपि तस्मिन्नेव समन्वयात् । तत्कथमित्यत आह सर्वयज्ञभुज इति । एतदेव प्रपञ्चयति- य इज्यत इति ॥ प्रपञ्चनस्य प्रयोजनं मतान्तरनिरसनम् । केचिदाचक्षते न देवा ज्ञाने कर्मणि चाधिक्रियन्ते । अरागित्वादनुपनीतत्वादमनुष्यत्वाच्चेति । तदेतेन निराकृतं भवति । देवताधिकरणे चैतत्प्रतिपत्तव्यम् ।
ननु कर्मनिर्णयो जैमिनिना पूर्वमीमांसायामेव कृतः । तत्किमनेन ? सत्यम् । कर्मस्वरूपमात्रं जैमिनिना निर्णीतम् । न तु तदितिकर्तव्यता विषयवैराग्येश्वरज्ञानभक्तिसमर्पणादिलक्षणा । न च तदङ्गभूतानां मन्त्राणां भगवत्परत्वम् । नाप्यन्तःकरणशुद्धिद्धारकमीश्वरसाक्षात्काररूपं मुख्यं फलम् । अतस्तत्प्रदर्शनार्थेऽयमारम्भः । न चैतन्निर्मूलम् । उत्तरमीमांसासिद्धत्वात् । उक्तं हि 'अन्यार्थन्तु जैमिनि' इत्यादि । अत एव तद्विषयादिनैवास्य ग्रन्थस्य विषयादिमत्तेति ।
भावदीपः
श्रीराघवेन्द्रयतिविरचितो भावदीपः
लक्ष्मीनारायणं नत्वा पूर्णबोधादिकान् गुरून् ।
व्याख्यास्यामि यथाबोधं कर्मनिर्णयपन्चिकाम् ॥ १ ॥
ग्रन्थादौ मङ्गलमाचरति-ब्राह्मणेति ॥ मूले यज्ञभुज इत्याद्युक्त्या यज्ञाविद्यामात्रार्थत्वप्रतीतावपि तदुपलक्षणमिति भावेनोक्तं ब्राह्मणेत्यादि । त्रितचैकदेशस्याप्यत्र ब्रह्मपरत्वेनाग्रे व्याख्यानात् । ब्राह्मणेति उपनिषदिति मन्त्रेति भेदो विभागो यासां ता वेदरूपा गिरः । ब्राह्मणो नाम मन्त्राणां विनियोजकवाक्यसन्दर्भरूपो ग्रन्थः । उपनिषन्नाम आरण्यकम् । मन्त्रः संहिताभागो ऋगादिः । एकैकवेदार्थत्वनिरासायोक्तम्-अखिला इति ।। यस्य क्रीडाभूमयो विहाराश्रयाः प्रतिपादका इति यावत् । मूले रमाप्रणयिन इन्द्रादिमहार्थत्वघटनाय 'महद्धि तत्परं ब्रह्म' इत्युक्तम् । तदनुरोधेनोक्तम्-परस्मै ब्रह्मण इति ।। तेन रमाप्रणयी परं ब्रह्म चैकं वस्त्वित्युक्तं भवति ॥१॥
प्रतिपाद्यदेवतानत्यनन्तरं ग्रन्थकर्तृगुरुनतिपूर्वं चिकीर्षितं प्रतिजानीते-प्रणम्येति ॥ गुरूणां चाक्षोभ्यतीर्थप्रभृतीनां पदपङ्कज इत्यन्वयः । खण्डार्थव्याख्यानस्य नैफल्यनिरासायोक्तम्-कर्मनिर्णयं कर्तुकाम इति ॥ कर्मणो निर्णयो नाम श्रेयस्साधनीभूतं कर्मैतादृशं नान्यदित्येवंरूप इत्यर्थः । समुचितेति ।। एतच्चाग्रे व्यक्तम् । वैशिष्टयं विधीशादिकर्तृभिर्मखैर्यज्ञैः करणैरिज्यत्वोत्क्त्या, इष्टत्वं नम्यत्वोक्त्या ज्ञेयम् । इष्ट एव वस्तुनि नमनं नान्यत्रेति प्रसिद्धेः । नन्विति शङ्कितस्योत्तरमाह तस्या अपीति ।। यज्ञविद्याया अपि, तस्मिन् रमाप्रणयिनि, उपक्रमादिलिङ्गै: शक्तितात्पर्यावधारणादित्यर्थः । सर्वयज्ञभुज इतीति ।। यज्ञे देवतोद्देशेन दत्तमाज्यादि-हविर्देवततया यया भुज्यते सा हि यज्ञविद्याप्रतिपाद्या । हरिश्चेद्भोक्ता कथं न तद्विद्याप्रतिपाद्य इत्यर्थः । ननु यज्ञे अग्नीन्द्रादिदेवता हि भोक्त्री प्रसिद्धा कथं रमापतिर्भोक्तेत्यत उक्तम्-एतदेव प्रपञ्चयतीति ।। यज्ञे अग्नीन्द्रादिशब्दै-मुख्यवृत्या हरिरेव हविरादिदाने ब्रह्मादिभिरिज्यते सम्प्रदानीक्रियते, उद्दिश्यत इति यावत् । अतः स एव तत्र प्रतिपाद्यत इत्यर्थः । ज्ञाने कर्मणि चेति ।। प्रस्तावात् कर्मणीत्येव वाच्ये ज्ञान इत्युक्तिर्देवताधिकरणे ज्ञानाधिकार-समर्थनस्यैव प्रधानतया कर्माधिकारोक्तेः प्रासङ्गिकत्वाद्देवतेत्याद्यग्रेतनवाक्यघटनायेति ज्ञेयम् । अरागित्वादिति ।। 'अर्थी समर्थो विद्वानधिक्रियते' इति न्यायाद्देवानां च ज्ञानकर्मजन्यफलस्वरूपार्थरागित्वाभावात्, उपनयनाभावेन तत्साध्याध्ययनरूप विद्याभावेनाविद्वत्त्वादित्यर्थः । अमनुष्यत्वादिति ॥ मनुष्याणामेव सतां ज्ञानकर्मभ्यां देवत्वप्राप्तिरिति भावः । कथं तनिराकरणमित्यत आह- देवताधिकरण इति ।। एतद् देवानामधिकारित्वम् । तत्र हि स्वस्वपदवीविशिष्टानामनित्यत्वेन निवृत्तेरावश्यकत्वात् पुनर्ज्ञानकर्मानुष्टाने देवपदादप्यतिशयितफलसत्वाच्च तत्रार्थित्वसम्भवात्, ज्ञानकर्मानुष्टानोपयोगिनो वैदुष्यस्य देवेष्वसम्भावितत्वाभावात्, सामर्थ्यसत्त्वात्, अमनुष्यत्वस्य चाप्रयोजकत्वेन देवेष्वपर्युदस्तत्वे सत्यन्यस्यैषु सत्त्वादस्ति ज्ञानकर्मणोरधिकारो देवानाम् इत्युक्तत्वाद्देवताधिकरणे प्रतिपत्तव्यमित्युक्तम् ।
प्रयाजादीतिकर्तव्यतापि तत्र निर्णतित्यतो विवक्षितमाह विषयेत्यादिना ।। निर्णीतपदस्य यथायोगं विपरिणामेन वाक्यत्रयेऽप्यनुषङ्गः । न निर्णीता न च निर्णीतं फलं निर्णीतमिति च । ' स स्वर्गः सर्वान्प्रत्यविशिष्टत्वात्' इत्यादिसूत्रैरश्रुतफलकविश्वजिदादौ स्वर्गादिफलमपि निर्णीतमित्यत उक्तम्-मुख्यं फलमिति ॥ न चैतदिति ।। उक्तरूपेतिकर्तव्यताप्रदर्शनमित्यर्थः । अन्यार्थन्त्विति ।। प्रतिपादनं वेदेन क्रियमाणम् अन्यार्थन्तु भगवज्ज्ञानार्थमेवेति । तत्कथमित्याकाङ्गायाम् 'प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः' इति सूत्रे वैराग्यद्वारा भगवज्ज्ञानार्थत्वस्य, 'उत्क्रमिष्यत एवाम्भावात्' इति सूत्रे अन्तःकरणशुद्धिद्वारा ज्ञानार्थत्वस्य, मन्त्राणां भगवत्परत्वस्य 'ज्योतिश्चरणाभिधानात्' इत्यत्रोक्तेरिति भावः । अत एवेति ॥ तदुक्तस्यात्र प्रपञ्चनादेवेत्यर्थः । इतिशब्दः श्लोकव्याख्यासमाप्तौ ।
विवरणम्
श्रीनिवासतीर्थविरचितं विवरणम्
चक्राङ्किताङ्गं गोप्यादिमोददाङ्गमजादिभिः ।
सेविताङ्गमहं वन्दे श्यामाङ्गं रूप्यपीठगम् ॥ १ ॥
श्रीमदानन्दतीर्थार्यान् जयराजमुनीनपि ।
वन्दे रघूत्तममुनीन् वेदेशाभिधयोगिनः ॥ २ ॥
येभ्यः श्रीमध्वसिद्धान्तमहं सम्यगधीतवान् ।
तान् वन्दे यादवाचार्यगुरून् विज्ञानवारिधीन् ।। ३ ।।
अथैतत्कृपया श्रीमज्जयराजविनिर्मिताम् ।
कर्मनिर्णयसट्टीकां व्याख्यास्येऽहं स्वशक्तितः ।॥ ४ ॥
कर्मनिर्णयं व्याचिख्यासुर्भगवान् सर्वज्ञकल्पो जयतीर्थमुनिः शिष्टाचार-परिपालनाय विघ्नविघातादिहेतुतया शिष्टाचारपरम्परावगतमिष्टदेवताप्रणामरूपं मङ्गलं कृत्वा ग्रन्थादौ तदुपनिबध्नाति-ब्राह्मणेति ।। मायावाद्यभिमतनिर्गुण-प्राप्तिशङ्कापरिहाराय परस्मा इत्युक्तमिति केचित् । तन्न । गुणपूर्णत्वाभिधायकब्रह्मपदेनैव तन्निरासात् । परेण निर्गुणस्यैव परब्रह्मत्वेनाङ्गीकृतत्वेन तेनापि तत्प्राप्त्यनिवारणाच्च । अनिर्धारितवस्तुनो नमनायोगाद्वस्तुनिर्धारणस्य लक्षणप्रमाणाभ्यां विनाऽयोगाद्वन्द्यस्य वस्तुनो 'यतो वा इमानि भूतानि जायन्ते' 'जन्माद्यस्य यतः' इति श्रुतिसूत्रोक्तं जगज्जन्मादिकारणत्वरूपलक्षणं सूचयितुं ब्रह्मण इत्युक्तम् । तद्ब्रह्म चतुर्मुखाख्यं किं न स्यादिति शङ्कानिरासाय 'ब्रह्मशब्दश्च विष्णावेव' इत्यादिनोक्तयुक्तिं सूचयितुं परस्मा इत्युक्तम् । ब्रह्मण उक्तलक्षणवत्त्वे शास्त्रयोनिसूत्रोक्तं शास्र्तं प्रमाणत्वेनाह-ब्राह्मणेत्यादिना ।। ब्राह्मणादिभेदभिन्ना इत्यर्थः । शाखान्तरे अन्यथोक्ति-शङ्कावारणाय 'गतिसामान्यात्' इति सूत्रानुसारेण अखिला इत्युक्तम् । यत्क्रीडाभूमयो यस्य जगत्सर्जनादिरूपक्रीडाव्यक्तिस्थानानि । तथाहि 'यतो वा' इत्यादिभिर्वेदैर्जगत्सर्जनादिरूपा क्रीडा व्यक्तं ज्ञायते । जगत्सर्जनादेः क्रीडात्वोक्त्या न प्रयोजनापेक्षा तस्येति सूचितम् । 'लोकवत्तु लीलाकैवल्यम्' इत्यादेः ।
ननु वेदाराशावुपनिषदां प्राधान्यम् अनन्तरं मन्त्राणाम् अनन्तरं ब्राह्मणस्य । यथोक्तम्- 'विष्णुरुक्तः सर्ववेदैर्मन्त्रेषु तु विशेषतः । आरण्यके विशेषेण नैवान्यत्किञ्चिदुच्यते ।। कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया ।' इति । अतोऽत्र यद्युत्तमक्रमविवक्षा तदोपनिषन्मन्त्रब्राह्मणेति वक्तव्यम् । यदि च नीचक्रमविवक्षा तदा ब्राह्मणमन्त्रोपनिषदिति वाच्यम् । ब्राह्मणोप-निषन्मन्त्रेतिवचने किं निमित्तमिति चेदत्र केचित् । ब्राह्मणखण्डस्य अत्र व्याख्यास्यमानत्वात् तद्भाह्मणम् इति । तद्युक्तम् । 'विदा मधवन्' इत्युपनिषदः 'प्रप्रव' इत्यादिमन्त्राणामपि व्याख्यास्यमानत्वात् । उच्यते । ब्राह्मणखण्डस्यैवात्र मुख्यतो व्याख्यायमानत्वेन तस्यादौ ग्रहणम्, उपनिषन्मन्त्रयोस्तु ब्राह्मणेन गृहीतत्वादेव व्याख्यानं क्रियते । न प्राधान्येन । अतो ब्राह्मणानन्तरं तयोर्ग्रहणम् । नन्वस्तु ब्राह्मणस्यादौ ग्रहणम् । उपनिषन्मन्त्रयोर्मध्ये मन्त्रस्यादौ ग्रहणं कस्मान्न कृतं तथा सति नीचक्रमोऽप्यनुसृतस्स्यादिति चेन्न । ब्राह्मणेन महानाम्नीनाम् इति संयोजनीयतयाऽदावुपनिषदो गृहीतत्वात् । 'प्रप्रव' इति इत्यादिमन्त्राणां च शंसनीयतया पश्चाद् गृहीतत्वाद् ब्राह्मणानन्तरम् उपनिषदस्तदनन्तरं मन्त्रस्य ग्रहणम् उपपन्नमिति ।
देवतानतिसमनन्तरं व्याचिख्यासितमूलकर्तृत्वेन श्रीमदाचार्यान् गुरूंश्च नमति-प्रणम्येति ।। गुरूणां पद्मनाभतीर्थान् आरभ्य अक्षोभ्यतीर्थपर्यन्तानाम् । पदपङ्कजे इत्यस्य बुद्धया विविक्तस्यानुकर्षणार्थश्चकारः । कर्मनिर्णयं तदाख्यं प्रकरणम् । ननु 'य इज्यते' इत्याद्यपद्यं व्यर्थम् । न च कर्मनिर्णयकरणाय रमाप्रणविनः प्रणामरूपं मङ्गलाचरणं क्रियत इति तत् सार्थक्यमिति वाच्यम् । उत्तरत्र महानाम्नीनामितिखण्डस्यैव व्याख्यायमानत्वेन कर्मनिर्णयकरणादर्शनात् । किञ्च फलप्रमाणयोरभावात् प्रणामरूपमङ्गलाचरणस्यैव न कर्तव्यता । अस्तु वा कर्तव्यत्वम् । तथाप्युपनिबन्धो व्यर्थः । अस्तु वैतत्सर्वम् । तथापि नम्यत्वप्रयोजकसमुचितत्वादेस्तस्मिन्नभावान्नम्यत्वमेव तस्य अयुक्तमितीमाः शङ्काः परिहरन्नाद्यपद्यमवतारयति महानाम्नीनामित्यादिना । कर्मनिर्णयं कर्मणो निर्णयमित्यर्थः । विघ्न्नविघातादिहेतुं विघ्नविघातादिहेतुतया शिष्टाचारपरम्परावगतम् । आचरति आचरित्वाऽसन्निहितशिष्यशिक्षणाय निबध्नातीत्यर्थः ।
ननु नारयणो रमाप्रणयित्वादेवेष्टो विशिष्टश्चास्तु । तथापि न तद्वन्दनं यज्ञविद्यायाख्यानावसरे समुचितम् । इन्द्रादिदेवानामेव यज्ञभोक्तृतया तद्विद्याप्रतिपाद्यत्वेन समुचितत्वात् तेषामेव वन्दनीयता स्यान्न रमाप्रणयिन इत्याक्षिपति-नन्विति ॥ उत्तरमाह तस्या अपीति ।। यज्ञविद्याया अपीत्यर्थः । तस्मिन्नेव भगवत्येव । 'अहं हि सर्वयज्ञानां भोक्ता च' इति भगवत एव मुख्यतः सर्वयज्ञभोक्तृत्वेन यज्ञविद्याया अपि तस्मिन्नेव समन्वयेन तस्यामपि मुख्यतो भगवत एव प्रतिपाद्यत्वेन समुचितत्वाद्युक्तं तद्वन्दनम् इति भावः । तत्कथमिति ।। यज्ञभोक्तृत्वं विना यज्ञविद्याप्रतिपाद्यत्वानुपपत्तेस्तद्यज्ञ विद्याप्रतिपाद्यत्वोपयोगि यज्ञभोक्तृत्वं कथमित्यर्थः। एतदेव सर्वयज्ञभोक्तृत्वमेव ।
ननु सर्वयज्ञभुज इत्यनेन ब्रह्मादिकृतसर्वयज्ञभोक्तृत्वलाभात् प्रपञ्चओ व्यर्थ इत्यत आह- प्रपश्चनस्येति ।। ब्रह्मादीनां यज्ञकर्तृत्वाभावेऽपि तदितरसर्वयज्ञभोक्तृत्वेनापि विष्णोः सर्वयज्ञभोक्तृत्वसम्भवेन प्रपञ्चनाभावे देवानां यज्ञकर्तृत्वालाभेन न मतान्तरनिरास इति भावः । तदेव मतान्तरं दर्शयति केचिदिति ।। ज्ञाने कर्मणि च ज्ञानकर्मभेदेन यज्ञस्य द्विविधत्वादिति भावः । अरागित्वादिति ।। फलार्थित्वशून्यत्वाद् इत्यर्थः । यो यत्र रागशून्यः स तत्रानधिकारी । यथा विरक्तो वाणिज्ये । देवाश्चारागिणः ज्ञानादिरूपयज्ञफलस्य स्वपदस्य प्राप्तत्वात् । न हि फले प्राप्ते रागो युज्यते । यथोक्तम् 'मध्वादिष्व-सम्भवादनधिकारं जैमिनिः' इतीति भावः । अनुपनीतत्वात् स्त्रीवत्, अमनुष्यत्वात् पश्वादिवदिति तन्निराकरणं कथं लब्धमित्यत आह-देवतेति ।। तथाहि देवास्तावदपरोक्षज्ञानिनः । 'नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः' इति वचनात् । तत्कृतयज्ञादेस्तु फलं न यद्यपि तत्पदप्राप्तिः । तथापि मोक्षगतानन्दातिशयरूपफलान्तरमेव अस्ति । तत्र च रागस्सम्भवतीत्यरागित्वमसिद्धमिति 'भावन्तु बादरायणोऽस्ति हि' इति सूत्रे प्रतिपादितत्वात् । उदाहृतसूत्रविरोधस्य च 'तत्फलाय विधिस्सिद्धे चोपासाय निराकृतः । यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्ततः । विद्याधिराजस्य मतमविरोधस्तयोस्ततः' इत्यनुव्याख्याने 'उक्तफलानधिकारमात्रं जैमिनिमतम्' इति भाष्ये च परिहृतत्वात् । 'सपत्नीं मे पराधम' इत्यादौ शच्यादिस्त्रीणामप्यधिकारदर्शनेनानुपनीतत्वस्य व्यभिचारित्वात् । यदि च तासामपि 'स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा' इति वचनेनोपनयनप्रतिनिधिसत्त्वेनानुपनीतत्वहेतोरेवाभावान्न व्यभिचार इत्युच्यते, तदा मौनवदित्यत्र 'देवा एव ब्रह्मचारिणः' इति ब्रह्मचारित्वेनोपनीतत्वोत्क्त्यानुपनीतत्वस्यासिद्धिर्द्रष्टव्या । 'अयमग्ने जरिता' इत्यादिमन्त्रेषु जरितर्यादीनामप्यधिकारदर्शनेन अमनुष्यत्वहेतोरपि व्यभिचारित्वात् । तस्माद् विशिष्टबुद्ध्यादेवेवाधिकारप्रयोजकत्वात्तस्य च देवेष्वपि सत्त्वाद्युक्तोऽधिकार इति 'तदुपरि' इति सूत्रे प्रतिपादितमित्यवधेयम् ।
पूर्वमीमांसयाऽस्य गतार्थत्वमाशङ्कच परिहरति नन्विति ।। पूर्वमीमांसा कर्ममीमांसा । अनेन प्रकरणेन । तत्रापि स्वर्गफलस्य निर्णीतत्वादाह-अन्तःकरणेत्यादि ।। ननु यदि पूर्वमीमांसानुक्तार्थप्रतिपादनायेदं प्रकरणं तर्हि तन्मूलकत्वाभावान्निर्मूलमेतद् इत्याशङ्कच परिहरति न चेत्यादिना ॥ उत्तरमीमांसा ब्रह्ममीमांसा । अन्यार्थमिति ।। अत्र कर्मज्ञानस्य भगवत्साक्षात्कारार्थत्वस्योक्तत्वात् । इत्यादीति । 'उत्क्रमिष्यतः' इत्यत्र कर्मणो ज्ञानसाधनत्वस्य पुरुषार्थाधिकरणे ज्ञानेनैव सिध्यति स्वर्गे कर्मणोऽतिशयाधायकत्वस्योक्तत्वादित्यर्थः । ननु विषयाद्यनुबन्धचतुष्टयशून्यत्वादिदमनारम्भणीयमित्यत आह-अत एवेति ।। उत्तरमीमांसासिद्धत्वेन प्रकरणत्वादेवेत्यर्थः । तर्हि उत्तरमीमांसयैवालं किमनेनेति न वाच्यम् । प्रकरणस्य शास्त्रे विक्षिप्तसङ्ग्राहरूपत्वेन सार्थकत्वादन्यथा सर्वत्रापि शास्त्रेण गतार्थत्वापत्तेरिति ध्येयम् । तथा च नारायणो मुख्यो विषयः । कर्मादिरमुख्यो विषयः । तदुभयज्ञानं मुख्यामुख्यप्रयोजनम् । योग्यस्तदिच्छुरधिकारी । यथायोग्यं सम्बन्ध इति ध्येयम् ।
कर्मप्रकाशः
श्रीसत्यनाथकृतकर्मप्रकाशः
रामचन्द्रं गुणैः पूर्वं सर्वकर्मफलप्रदम् ।
ब्राह्मणोपनिषन्मन्त्रैर्वेद्यं वन्दे रमापतिम् ॥ १ ॥
प्रणम्य पादयुगलं गुरोस्सत्यनिधेर्मुनेः ।
कर्मनिर्णयटीकाया भावं वक्ष्यामि शक्तितः ॥ २ ॥
कर्मनिर्णयं व्याख्यातुकामष्टीकाकारो मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति-ब्राह्मणेति ।। गुरुप्रणामनिबन्धनपूर्वकं चिकीर्षितं प्रतिजातीते-प्रणम्येति ।। बुध्या विवेकेन पदपङ्कजे इत्यस्य गुरूणां चेत्यनेन सम्बन्धो बोद्ध्य: । महानाम्नीनामित्यादीति ।। महानाम्नीनामितिशब्दो यस्य खण्डस्यादौ वर्तते तस्यैकस्यैव खण्डस्य व्याख्यानव्याजेनेत्यर्थः । शङ्कते ननु यज्ञविद्येति ।। उत्तरमाह तस्या अपीति ।। उक्त हीति ।। कर्ममीमांसातिरिक्ते कर्मकाण्डव्याख्यानरूपे स्वग्रन्थे जैमिनिः कर्मणां भगवज्ज्ञानार्थत्वमाहेति बादरायणेनोक्तमित्यर्थः । तद्विषयादिनेति ।। ब्रह्ममीमांसाप्रकरणत्वात्तद्विषयादिनैवास्यापि विषयादिमत्वमित्यर्थः ।
गूढवाक्यार्थपञ्चिका
कर्मनिर्णयछलारीनरसिंहाचार्यविरचिता गूढवाक्यार्थपञ्चिका प्रारभ्यते
श्रीमनृसिंहं सुगुणं विदोषं श्रीवेङ्कटेशं परिपूर्णबोधम् ।
श्रीमज्जयार्यान् स्वपितृंश्च विद्याधीशादितीर्थान् स्वगुरून्नमामि ।। १ ।।
प्रणम्य संप्रदायज्ञान् जयतीर्थार्यनिर्मितां ।
कर्मनिर्णयसट्टीकां व्याख्यास्येऽहं यथामति ।। २॥
कर्मनिर्णयाख्यग्रन्थं दुर्गमार्थत्वात् व्याचिख्यासुः जयतीर्थमुनिः स्वचिकीर्षितग्रन्थस्य विघ्नविघाताद्यर्थं मङ्गलमाचरतिब्राह्मणोपनिषदिति ।। परस्मै ब्रह्मणे सर्वोत्कृष्टाय सर्वगुणपूर्णाय नारायणाय नमस्कार इत्यर्थः । 'नमः स्वस्ति स्वाहा' इति चथुर्थी । तस्य नम्यत्वोपपादकं विशिष्टत्वं अधिकृतत्वं च वक्तुं सर्ववेदप्रतिपाद्यत्वमुक्तम् । ब्राह्मणेति ।। यद्यपि ब्राह्मणं आपातप्रतीत्या कर्मपरं प्रतीयते । तथापि ब्राह्मणस्य वाक्यसमन्वयेन पदसमन्वयपक्षेण वा ब्रह्मपरत्वस्य वाक्यान्वयात् 'ज्योतिरुपक्रमात्' इत्यादौ ब्रह्ममीमांसायां निर्णीतत्वात् अखिला वेदगिर इत्युक्तम् । उपनिषदां साक्षात् ब्रह्मप्रतिपादकत्वात् मन्त्राणां च तत्तत्सूक्तादिगतेन्द्रादिदेवतानाममात्रसमन्वयेन सर्वस्य ब्राह्मणोपनिषत्संहितारूपस्य वेदस्य ब्रह्मपरत्वादिति भावः । ब्राह्मणं च उपनिषच्च मन्त्ररूपसंहिता च एते त्रयः भेदाः विभागाः यासां तास्तथोक्ता इति विग्रहः । एताः वेदगिरः वेदरूपवाचः । यत्क्रीडाभूमयः यस्य विष्णोः क्रीडास्थानानि प्रतिपादकानि । एवं च सकलवेदप्रतिपाद्यानन्दादिसकलगुणपूर्णत्वेन ब्रह्मशब्दवाच्यत्वात् वन्द्यत्वोपयोगि इष्टत्वं चोक्तं भवति ।
एवं देवतानमस्कारानन्तरं गुरुनमस्कारं कुर्वन् चिकीर्षितं प्रतिजानीते प्रणम्येति ॥ गुरुणां अक्षोभ्यतीर्थादीनाम् । ननु कर्मनिर्णयग्रन्थस्य किं प्रयोजनमित्यतस्तद्दर्शयन प्रथमश्लोकमवतारयति महानाम्नीनामित्यादीति ॥ कर्मनिर्णयं कर्तुकाम इति ॥ कर्मशब्देन कर्मविद्या गृह्यते । तस्याः विष्णुपरत्वप्रकारप्रदर्शनं कर्मनिर्णयः । तत्प्रतिपादकं ग्रन्थमित्यर्थः । समुचित-विशिष्टेति ॥ समुचिता योग्या विशिष्टा सर्वोत्कृष्टा नारायणरूपा तस्याः नमस्कारमित्यर्थः । यद्यपि सकलगुणपूर्णत्वनिर्दोषत्वादिना विष्णोर्वन्द्यत्वोपयोगि विशिष्टत्वं वक्तुं शक्यते । तथापि यत् आचार्यैः ब्रह्मादिकं तत्सर्वयज्ञभोक्तृत्वेन विशिष्टत्वमुक्तम् । तत्कर्मनिर्णयग्रन्थप्रतिपाद्यनारायणस्य योग्यत्वेनेति भावेन समुचितेत्युक्तम् । रमाप्रणयिन इति विशेषणकृत्यमाह-सकलबाङ्गनसदेवतेति । वाचश्च मनांसि चेति द्वन्द्वात् "अचतुरविचतुरसचतुरस्त्रीपुंसधेन्वनडुहरुक्सामवाङ्गनसाक्षी’"त्यादिसूत्रेण समासान्ते अच्प्रत्यये वाड्मनसानीति अकारान्तःशब्दः । तेषां वाङ्मनसानां देवतेति विग्रहः । कयं रमाप्रणयिन इति ।। यज्ञविद्यायाः कर्मप्रतिपादकत्वेन विष्णुप्रतिपादकत्वाभावात् महानाम्नीत्यादि खण्डव्याख्यानकाले विष्णुप्रणामस्यानुचितत्वादिति शङ्काभिप्रायः । अत्रोत्तरमाह-तस्या अपि तस्मिन्निति ।। यज्ञविद्यायाः अपि विष्णौ समन्वयात् उपपत्यादिलिङ्गैः प्रतिपादकत्वात् विष्णुविद्यात्वात् तत्र तस्य वन्दनमुचितमिति भावः । शङ्कते तत्कथमिति ।। यज्ञविद्यायाः ब्रह्मप्रतिपादकत्वं कथमित्यर्थः । एतदेव प्रपञ्चयतीति ।। सर्वयज्ञभोक्तृत्वमेव प्रपञ्चयतीत्यर्थः । ब्रह्मादिभिः सर्ववेदोक्तयज्ञकरणं इन्द्रादिसर्वनामवतो विष्णोरेव प्रीत्यर्थं । अतः यज्ञप्रतिपादकमन्त्रब्राह्मणादीनां विष्णुप्रीतिजनक-यज्ञप्रतिपादनात् विष्णुपरत्वमिति भावः । मतान्तरेति ।। भाट्टमतनिरसनमित्यर्थः । तदेव भाट्टमतमनुवदति केचिदिति ।। ज्ञाने कर्मणि चेति ॥ वेदविद्यायाः उपनिषदादिरूपायाः साक्षात् ज्ञानोपयोगित्वेन ब्राह्मणादिरूपायाः आपाततः कर्मोपयोगित्वेन चेति द्वैविध्याभिप्रायेण ज्ञानकर्मग्रहणं कृतम् ।
वस्तुतस्तु सर्वस्य ब्रह्मविद्यात्वेन ज्ञानार्थत्वेन ज्ञाने इत्येव वक्तव्यम् । अथवा ज्ञानपूर्वककर्मणः सफलत्वात् ज्ञानग्रहणम् । अरागित्यादिति ।। वेदोक्ते अश्वमेधाधौ तत्प्राप्येन्द्रपदलब्धत्वेन इच्छाभावात् । तथा मधुविद्याद्युपासनालभ्यदेवपदादेः देवैः प्राप्तत्वात् तद्ज्ञानेऽपि रागाभावात् हेत्वन्तरमाह-अनुपनीतत्वादिति ।। देवानामुपनयने प्रमाणाभावात् । अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीतेति उपनीतस्यैव वेदविद्याधिकारोक्तेरिति भावः । अमनुष्यत्वादिति ।। तृतीयो हेतुः । 'वेदः कृत्स्रोऽधिगंतव्यः सरहस्यो द्विजन्मना' इति । त्रैवर्णिकमनुष्याणामेव वेदाध्ययनविधानात् । तदनेनेति ।। ब्रह्मरुद्रादिभिर्वेदोक्तयज्ञकरणवचनेन देवानां वेदविद्यानधिकारमतमित्यर्थः ।
ननु अरागित्वादिहेतुभिः सिद्धस्य देवतानधिकारस्य कथं निराकरणमित्यत आह-देवताधिकरणे चैतत् प्रतिपत्तव्यमिति ।। तत्र अधिकारोपयोगि रागित्वादिकमुपपादितम् । मोक्षगतानन्दातिशयस्य अप्राप्तस्य फलस्य देवैः क्रियमाणकर्मज्ञानादिसाध्यस्य इच्छाविषयस्य सम्भवात् । 'मौनवदितरेषामप्युपदेशात्' इति सूत्रभाष्योदाहृतायाः 'देवा एव ब्रह्मचारिणः' इत्यादिश्रुतौ देवानामपि ब्रह्मचारित्वोक्तेः अनुपनीतत्वाभावात् । विशिष्टबुध्यादिमत्वस्यैव वेदविद्याधिकारोपयोगित्वेन अमनुष्यत्वस्य अप्रयोजकत्वोक्तेश्च ।
न तु तदितिकर्तव्यतेति ।। निर्णतिति शेषः । तस्य कर्मणः इतिकर्तव्यता-जननीये फले सहायभूता । यथा श्रुत्याद्युक्तं प्रयाजाद्यङ्गजातम् । सा केत्यतः तां श्रृङ्गिग्राहकतया दर्शयति-विषयवैराग्येति ।। विषयेषु आसक्त्यभावो विषयवैराग्यम् । ईश्वरस्य सर्वोक्तृष्टत्वादिज्ञानं ईश्वरे भक्तिः माहात्म्यज्ञान-पूर्वकसुदृढः सर्वतोऽधिकस्नेहः । ईश्वरे समर्पणम् इदं कृतं कर्म ईश्वरभक्ति-प्रसादादिजनकं भवत्वित्यपेक्षा । आदिशब्दात् हविर्यजमानान्यादिषु विष्ण्वधिष्ठानत्वम् । 'ब्रह्मार्पणं ब्रह्महविः' इत्यादौ उक्तं गृह्यते । इदं विषयवैराग्यादिलक्षणं स्वरूपं यस्याः सा तथोक्ता । मुख्यं फलमिति ।।
'कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति' इति श्रुतेस्तस्य मुख्यत्वम् । जैमिन्युक्तस्वर्गादेस्त्वमुख्यत्वमिति भावः । निर्मूलमिति ॥ निष्प्रमाणकमित्यर्थः । उत्तरमीमांसासिद्धत्वादिति ।। ब्रह्ममीमांसासिद्धत्वादित्यर्थः । उक्तं हीति ।। 'अन्यार्थं तु जैमिनिरित्यस्यायमर्थः कर्मखानादिकं अन्यार्थ विष्णपरोक्षज्ञानार्थं तु विशेषेणेति जैमिनिराचार्यो मन्यते' इत्युक्तेः । 'उत्क्रमिष्यत एवंभावादित्यौडलौमिः' इति सूत्रे उत्क्रमिष्यतो मुमुक्षोः ज्ञानसाधनत्वेन कर्मादेरवश्यंभाव्यत्वादित्युक्तेः । 'तथा अवस्थितेरिति काशकृत्स्रः' इति सूत्रेऽपि कर्मादिना अन्तःकरणशुद्धौ सत्यां मोक्षसाधनं भवतीति स्थिते तद्ज्ञानं कीदृशमित्याकाङ्गायां सर्वकर्मादीनां परमात्मन्यवस्थितेः परमात्मनः कर्माद्याधारत्वं ज्ञेयमित्युक्तेः । पुरुषार्थाद्यधिकरणेषु कर्मणो ज्ञानेतिकर्तव्यताकत्वादेरभिहितत्वादिति भावः । अत एवेति ॥ उतरमीमांसासिद्धार्थप्रतिपादकत्वात् । तद्विषयादिना विष्णुगुणपूर्णत्वादिना अस्य कर्मनिर्णयप्रकरणस्य विषयादिमत्ता सिध्यतीति शेषः।उत्तरमीमांसासिद्धस्याप्यस्यार्थस्य शिष्यानुग्रहाय एकदेशेन वक्तुं इदं प्रकरणमित्यदोषः ।