यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते ..

(वचनवृत्त्यन्यतात्पर्यवृत्त्यभावोक्तिः)

मूलम्

४४- मूलम्- यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम् । वचनलिङ्गानुमा हि सा । विरोधादमुख्यवृत्तिर्वा । आप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न भवति ॥

टीका

टीका- ननु विषं भुङ्क्ष्व, गङ्गायां घोषः, अग्निर्माणवकः इत्यादेः प्रयोगान्निषिद्धान्नभोजनवर्जनादिरूपो वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते। किञ्च श्वेतो धावतीत्यादिवाक्यादनेकवाचनिकार्थप्रतीतावपि तात्पर्यार्थ एक एवाङ्गीक्रियते । तत्कथं वाचनिकार्थातिरिक्ततात्पयार्थे मानाभाव इत्यत आह-यत्रेति ॥ यत्रोदाहृतेषु लौकिकवाक्येषु वाचनिकार्यादन्यस्तात्पर्यार्थः प्रतीयत इति मन्यसे तत्र तस्यार्थस्य वचनं साक्षाच्छब्दप्रमाणतया बोधकं न भवति । किं तर्हि ? न त्वकारणिका प्रतीति- रुत्पद्यत इत्यत आह-वचनेति ॥ सा निषिद्धभोजनवर्जनादिविषया प्रतीतिर्वचनलिङ्गकानुमा अतो नाकारणिकेति । किमुक्तेषु सर्वेषूदाहरणेप्वेवमे? नेत्याह-विरोधादिति ॥ मुख्यार्थाङ्गीकारे प्रमाणविरोधात्तत्र लक्षणा गौणी बाऽमुख्या वृत्तिराश्रीयते । विरोधादिति पूर्वत्रापि सम्बध्यते। किमनुमितौ विरुद्धवचनमात्रं लिङ्गं तथा मुख्यार्थविरोधमात्रं किममुख्यवृत्त्याश्रयणे कारणमित्यत आह-आप्तत्वेति ॥ उभयमपि वक्तुरातत्वनिश्रये सति भवति । नोक्तकारणमात्रात् । किमाप्तत्वनिश्रयेनेत्यत आह-आप्तत्वानिश्रय इति । विरुद्धवचनमात्रस्य व्यभिचारित्वेन लिङ्गत्वं न भवति । तथा बिरोधमात्रस्य आन्त्यादिमूलत्वसम्भवेन तस्य वाक्यस्यामुख्यार्थप्रत्यायकत्वं न भवति । अत आप्तत्वनिश्चयोऽप्युपसङ्ख्येय इति ।

एतदुक्तं भवति । प्रथमोदाहरणे तावद्या निषिद्धभोजनवर्जनप्रतीतिरुपजायते सा शब्दजैव न भवति । कुतस्तत्र तात्पर्यवृत्तिकल्पना । किन्त्वयमिदानीं मह्यं क्रुद्धो वर्तते आप्तत्ये सति प्रमाणविरुद्धकर्तव्यतावादित्वात् । क्रोधश्चास्य सन्निहितान्निपिद्धभोजनादेव जातः । दृष्टकारणपरित्यागेनादृष्टकल्पनायोगात् । अतो मयेदं न कार्यमित्यस्याभिप्राय इति विशिष्टवचनलिङ्गेन वक्तुराशयोऽनुमीयत एव । एवं चतुर्योदाहरणेऽप्येकार्थनियमनं वचनसामर्थ्यजम् । तत्र कुतस्तात्पर्यवृत्तिःशब्दस्य कल्प्येत । किन्तु शब्दादर्थद्वयप्रतीतो वक्तुराप्तत्वे सत्येकस्मिन्नर्ये प्रमाणविरोधं च प्रतीत्य नायमस्य विवक्षित इत्यनुमाय परिशेषाद् द्वितीयोऽङ्गीक्रियते । द्वितीयोदाहरणे लक्षणाख्यवचनवृत्तिरेव । मुख्यार्थबाधादितद्वीजदर्शनात् । तृतीयोदाहरणे च गौणी वचनवृत्तिः । वाच्यार्यविरुद्धत्वादितन्निमित्तसद्भावात् । तदेवं यत्र शाब्दी प्रतीतिस्तत्रास्मदभिमतवृत्तिष्वन्यतमां व्युत्पादयामः । यत्र तदव्युत्पादनं तत्र शाब्दत्वं निराकुर्म इति न तात्पर्यवृत्तिरन्या सिद्ध्यतीति ॥

भावदीपः

(रा.टि.) वर्जनादीत्यादिना तीरघोषसम्बन्धः पावित्र्यादिश्व ग्राह्याः । अनेकेति || श्वा इतो धावतीति, श्वेतः शुभ्ररूपयुतोऽश्वो धावति गच्छतीति, श्वेत कुष्ठी धावति शुद्धं करोतीत्यनेकेत्यर्थः । पूर्वत्रापि सम्बध्यत इति ॥ 'वचनलिङ्गानुमा' इत्यत्रापीत्यर्थः । उभयमपीति ॥ लिङ्गताश्रयणम् अमुख्यताश्रयणं चेत्यर्थः । व्यभिचारित्वेनेति ॥ घंटो न घट इत्यनाप्तवाक्य इत्यर्थः । विरोधेति || मुख्यार्थ इति योज्यम् । प्रयोगप्रकारस्यास्फुटत्वादाह एतदुक्तं भवतीति ॥ सन्निहितादिति । सन्निहितादिति ॥ कर्तव्यतया बुद्धौ विपरिवर्तमानादित्यर्थः । अस्तु निमित्तान्तरादित्यत आह-दृष्टकारणेति । विशिष्टवचनेति || आप्तोक्तत्वप्रमाणविरुद्धत्वविशिष्टेत्यर्थः । 'वचनलिङ्गानुमा हि सा । विरोधात्' इत्यादिनैव श्वेत इत्यादेरपि गतिरुक्तेति भावेन तां व्यनक्ति-चतुर्थेति ।। अत एव क्रमव्यत्यासः । नायमिति ॥ विरुद्धार्थ इत्यर्थः । मुख्यार्थबाधादीति ॥ मुख्यार्थसम्बन्ध आदिपदार्थः । विरुद्धत्वादीति ॥ सादृश्यमादिपदार्थः । सिध्यतीतीतिशब्दस्य एतदुक्तं भवतीत्यनेनान्वयः ।।

कर्मप्रकाशः

(स.टि.) विषं भुङ्खेति शब्दस्य भोजननिषेधे लक्षणा । शक्यसम्बन्धानुपस्थितिवेलायां निषिद्धभोजननिषेधानुमानं वा । गङ्गायां घोष इत्यत्र गङ्गाशब्दस्य तीरे लक्षणा । अग्निर्माणवक इत्यत्र अग्निसदृशे गौणीति सिद्धान्तमजानन्दशङ्कते-ननु विमिति । वाचनिकार्थतात्पर्यार्थयोर्भेदाभावे ।। श्वेतो धावति इत्यादौ एक एव तात्पर्यार्थो न स्यात् । किन्तु वचनवृत्तिलभ्याः सर्वेऽपि तात्पर्यार्था भवेयुः । न चैवम् । तेन मन्यामहे तात्पर्यवृत्त्या लभ्योऽर्थस्तात्पर्यार्थो नान्य इति शङ्कते । किं च श्वेत इति ॥

ननुवचनलिङ्गानुमा हि से" त्ययुक्तम् । घटोsस्ति पदोऽस्तीत्यादिवाक्यानामपि लिङ्गतयैव बोधकत्वप्रसङ्गादित्यत आह-पूवत्रापीति ॥ मुख्यर्थाङ्गीकारे बाधकसद्भावे अर्थान्तरानुमापकत्वं वाक्यस्योक्तम् । न तु वाक्यमात्रस्येति नोक्तदोष इति भावः । प्रथमोदाहरणेति ।। विषशब्दस्य शक्यसम्बन्धाज्ञानात् निषिद्धे लक्षणामजानतः तथा भुति पदस्य विपरीत-लक्षणामजानतः पुंसः या मया निषिद्धभोजनं न कार्यमिति प्रतीतिरुत्पद्यते सा शब्दजैव न भवति, तेन तदर्थं तात्पर्यवृत्तिकल्पना स्यादिति भावः । आप्तत्वे सतीति । मदिष्टवादी सन्नपि इष्टसाधनमपहाय अनिष्टसाधनकार्यतावादित्वादित्यर्थः । एतेन आप्तत्वं प्रमाणविरुद्धं वादित्वं च विरुद्धमिति विशेषणविशेष्यभावेन तयोः कथनमयुक्तमिति परास्तम् । मदिष्टवादित्वस्वभाव परित्यज्य शत्रुवद्वादित्वादित्यत्र तात्पर्यात् । वाच्यार्यविरुद्धत्वादिति ॥ वाच्यार्थस्य विरुद्धधर्मादेः मुख्यार्थपरित्यागपूर्वकममुख्यार्थस्वीकारनिमित्तत्वदर्शनादित्यर्थः । तदैवमिति । या प्रतीतिः शाब्दत्वेन निचिता तत्र लक्षणादिवृत्तिष्वन्यतमवृत्तिजन्यत्वं व्युत्पादयामः । यस्मिन् ज्ञाने ज्ञातुः वृत्तिज्ञानाभावात् वृत्तिजन्यत्वं व्युत्पादयितुं न शक्यते तस्य ज्ञानस्य शाब्दत्वमेव निराकुर्मः । सति चैवं न तात्पर्यवृत्तिरभ्युपेयेति भावः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) निषिद्धान्नभोजनवर्जनादिरूप इति ॥ विषं भुङ्खेत्यत्र निषिद्धान्नभोजनवर्जनं प्रतीयते । आदिशब्दात् 'गङ्गायां घोष' इत्यत्र घोषस्य पावित्र्यंअग्निर्माणवक' इत्यत्र बालकस्य क्रूरत्वं गृह्यते । अनेकवाचनिकार्थप्रतीतावपीति ॥ शब्दं च शृण्वतः । खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीरिति वचनात् श्वेतरूपदर्शनेन हेषा श्वेतः श्वेतरूपवान् श्वा शुनकः इतः अस्मात् मार्गात् इत्यनेकवाचनिकार्यप्रतीतावपीत्यर्थः । तात्पर्यार्थ एक एवेति ॥ पश्यतः श्वेतिमा रूपं वाजिशब्दश्रवणेन खुरनिष्पेषशब्दश्रवणेन च श्वेतोऽश्वो शीघ्रं गच्छतीति एकस्यैव तात्पर्यार्थस्य प्रतीतेरिति भावः । द्वितीयतृतीयोदाहरणयोः स्पष्टम् । पावित्र्यक्रौर्या- प्रतीतेर्मन्यसे इत्युक्तम् । वचनलिङ्गकानुमेत्यादि विषं भुङ्खेत्यादिवचनमेव लिङ्गमित्यर्थः । अयमर्थः । विषं भुङ्खेत्यादि पित्राद्याप्तवाक्यं श्रुत्वा पुत्रादिरनुमिनोति । अयं मां प्रति मरणसाधनविषभोजनादिकं न वदिष्यति । किन्तु प्रकृतं विषतुल्यनिषिद्धभोजनवर्जनमेव वदिष्यतीति ।

ननु गङ्गायां घोष: अग्निर्माणवक इत्यनयोः कथं पावित्र्याद्यनुमितिरिति पृच्छति । किमुक्तेष्विति ॥ गङ्गायां घोष इत्यत्र गङ्गाप्रवाहस्य घोषाधारत्वे प्रत्यक्षबाधात् गङ्गाशब्देन गङ्गासम्बन्धितीरं लक्षणया गृह्यते । तथा अग्निर्माणवक इत्यत्र प्रत्यक्षबाधादेव अग्निशब्देन गौण्या वृत्या अग्निसादृश्यक्रौर्यादिकं गृह्यत इति भावेनाह- मुख्यार्थङ्गीकार इति ॥ ननु विषं भुङ्खेत्यत्रापि निषिद्धभोजनवर्जनानुमानं स्यादित्यत आह-पूर्वत्रापीति ॥ विषं भुङ्खत्युदाहरणेऽपि प्रमाणविरोधे सत्येव तथानुमानं न तु तदभाव इति भावः। विरुद्धवचनमात्रस्येति ॥ केनचिद्भान्त्या अंगुल्यवष्टंभादिना गङ्गाया: घोषाधारत्वं ज्ञात्वा प्रयुक्ते गङ्गायां घोष इति वाक्ये अमुख्यार्थप्रत्यायकत्वं नास्तीति भावः ।

एवं च कोपेन शान्तेऽपि माणवके अग्निर्माणवक इति प्रयुक्ते वाक्येऽपि अमुख्यार्थप्रत्यायकत्वं नास्तीति भावः । अनुमानादिप्रकारं स्फुटीकर्तुमाह-एतदुक्तं भवतीति ।। प्रथमोदाहरण इति ।। श्वेतो धावतीत्यत्र एकार्थनियमनं श्वेतो धावनरूपार्थनिश्चयः । अर्थद्वयप्रतीताविति || श्वेतरूपवान् इत्येको अर्ध इतः शुनक इति द्वितीयो अर्थ इत्यर्थद्वयप्रतीतौ सत्यां एकस्मिन्नर्थे इतः शुनक इत्यस्मिन्नर्थे प्रत्यक्षविरोधं प्रतीत्य निश्चित्य द्वितीय: श्वेताश्वो धावतीति परिशेषात् प्रसक्तमध्ये एकस्यानुपपत्तौ ह्रषाशब्दश्रवणाच्चेति शेषः । द्वितीयोदाहरण इति ।। गङ्गायां घोष इत्यत्र वचनवृत्तिरेव कस्मान्नाश्रियते । गंगापदस्य अमुख्यवृत्तिरेवाश्रीयते कुत इत्यत उक्तम्-मुख्यार्थबाधादितद्बीजदर्शनादिति ॥ मुख्यार्थानुपपत्तिः आदिशब्दात् मुख्यार्थसम्बन्धः प्रयोजनं रूढिर्वा गृह्यते । तद्वीजदर्शनात् लाक्षणिकशब्दप्रयोगकारणदर्शनादित्यर्थः । तृतीयोदाहरणे अग्निर्माणवक इत्यत्र अग्निगतगुणसदृशगुणसम्बन्धलक्षणा । तन्निमित्तसद्भावात् गौणीवृत्तिकारणसद्भावात् । उपसंहरति-तदेवमिति || अस्मदभिमतवृत्तिषु रूढियोगलक्षणागौणीष्वित्यर्थः ।