अशेषमहानाम्न्यर्थसंस्मरणपरिज्ञानपूर्वकमुपसर्गसंयोजनं
(प्रशंसावाक्यस्यार्थोपवर्णनम् )
मूलम्
२८- मूलम्-अशेषमहानाम्न्यर्थसंस्मरणपरिज्ञानपूर्वकमुपसर्गसंयोजनं कर्तव्यमित्येदर्थत्वेन महानाम्नीप्रशंसा क्रियते । अन्यथा तावन्मात्रप्रशंसामृते अशेषमहानाम्नीप्रशंसाया व्यर्थत्वात् । तृचविभागेन 'विदा मघवन् ' 'तमूतये' 'नूनम्' इति वा तिस्रो महानाम्न्य: । 'प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः । द्वितीयाया आन्तरिक्ष्यस्तृतीयाया युगः प्रभुः ' इत्यृक्संहितायाम् ।।
टीका
टीका- एवं ‘महानाम्नीनामुपसर्गानुपसृजति' इति वाक्यं संक्षेपविस्तराभ्यां व्याख्यातम् । तत्र शङ्कायां परिहृतायां शस्त्रशेषो वक्तव्यः । ‘अयं वै लोकः' इत्यादिकं किमर्थं चोच्यते इत्याकाङ्क्षायामाह-अशेषेति ॥ अर्थो महागुणो भगवान् । आदौ परिज्ञानम् । पश्चात्संस्मरणम् । कुतोऽस्यैतत्प्रयोजनमित्यत आह-अन्यथेति ।। तावन्मात्रात् उपसर्गमात्रात् । शस्त्रकथने ह्यन्तराशङ्कायां प्राप्तायां तत्समाधानं विधाय प्रकृतमनुसन्धेयम् । संयोजनीयानामुपसर्गाणां प्रशंसा तेषामेव संयोजनसमर्थनाय विधेया । प्रसक्तानुप्रसक्ताशेषमहानाम्नीप्रशंसा त्वसङ्गतैव अत उक्तमेव प्रयोजनमिति । ननु तिसृणामेवात्र प्रशंसा क्रियते । न तु सर्वासाम् । तत्कयमशेषेत्युच्यत इत्यतः सर्वासां त्रित्वं प्रकारद्वयेनाह-तृचेति । 'विदा मघवन्' विदा रायः ' ' इन्द्रं धनस्य' इति तृचविभागः ।शिष्टमन्तेन सम्बध्यते । ननु लोकभिन्नानां महानाम्नीनां कथमभेद उच्यते । प्रशंसेत्युक्तत्वान्न दोष इति चेन्न । वेदेऽयथार्थप्रशंसाया अनङ्गीकारादित्यतो वाक्यं स्मृत्यैव व्याचष्टे-प्रथमेति ।। पृथिव्यां भावः पार्थिवः । 'अयं वै लोकः' इत्यादिभिस्ततो हरिरुच्यते । अभेदोक्तिः प्रतिपाद्यप्रतिपादकत्वसम्बन्धनिमित्तेत्यर्थः ॥
भावदीपः
(रा.टि.) इति वाक्यमिति । ब्राह्मणवाक्यम् । 'महानाम्नीनामृचाम्' इत्यादिना संक्षेपेण, 'ताश्च विदा मघवन् इत्याद्याः' इत्यादिना विस्तरेण व्याख्यातमित्यर्थः । तत्र शङ्कायामिति । पूर्वखण्डान्ते 'अतिच्छन्दसः शंसति' इति शस्त्रशासनविषये मध्येऽक्षरन्यूनत्वशङ्कायां प्राप्तायां तत्समाधानम् ‘महानाम्नीनामुपसर्गानुपसृजति’ इत्यनेन विधाय पुनः प्रकृतम् ‘प्रप्रव: ’ इत्यादि ‘प्रज्ञाताऽनुष्टुभः शंसति' इति वक्ष्यमाणशस्त्रशंसनविधानमेवानुसन्धेयमित्यर्थः । प्रशंसेति ।। विधेयेत्यन्वयः । कुत इत्यत उक्तम्- तेषामित्यादि ।। उक्तमेवेति ।। अशेषेत्यादिवाक्योक्तमेवेत्यर्थः । ननु ‘इन्द्रं धनस्य’ इति तृचानन्तरम् ‘एवाहि' इत्यादिवाक्यमस्तीत्यत आह- शिष्टमिति ।। अन्त्यतृचस्य मध्येऽन्तर्गतमित्यर्थः । भव इति ।। विद्यमान इत्यर्थः । ‘तत्र भवः' इत्यण्प्रत्यय इति भावः । इत्यादिभिरिति || अन्तरिक्षलोक असौ लोक इति गृह्यते । तद्गुणसंविज्ञानबहुव्रीहिः । तेन बहुवचनोपपत्तिः । वाक्यैरिति योज्यम् ।।
कर्मप्रकाशः
(स.टि.) ननु महानाम्नीनां प्रशंसा क्रियते इति स्पष्टमेवेति भाष्ये तत्कथनं व्यर्थमित्यत आह-एवं महानाम्नीनामिति ।। भाष्यकृता महानाम्नीनामुपसर्गानुपसृजतीति वाक्यम् एवं संक्षेपविस्तराभ्यां व्याख्यातम् । पूर्वखण्डे अथातश्छब्दांस्येव व्यतिषजतीत्यादिना शस्त्राण्युक्तानि । अन्ते च त्रिकद्रुके- ष्वित्यादि शस्त्रमुक्तम् । तत्राद्ये तृचे द्वितीयतृतीययोः ऋचो पादत्रयस्य षोळशाक्षरवत्वादेकस्य द्वादशाक्षरवत्वादेकेका ऋक् पोळशीद्वयं कर्तुं न शक्यते इत्यादिशङ्का प्राप्ता । सा च शङ्का महानाम्नीनामित्यदिवाक्येन परिहता। इतः परं प्रप्रवस्रिष्ठुभमिषमित्यादिशस्त्रशेषो ब्राह्मणेन वक्तव्यः । 'अयं वै लोक: प्रथमा महानाम्नी' इत्यादिकं न वक्तव्यमित्याशङ्कां परिहर्तुम् 'अयं वै लोक:' इत्यादि ब्राह्मणप्रयोजनमाहाचार्यो भाष्यकारः इत्यर्थः । शस्त्रकथने हीति ॥ पूर्वखण्डेन शस्त्रकथने कृते अन्तरा शङ्कायां प्राप्तायां पूर्वोक्तऋक्षु षोळशीत्वसम्पादनासम्भवशङ्कायां प्राप्तायां महानाम्नीनामुपसर्गानुपसृजतीत्यनेन तत्समाधानं विधाय प्रकृतशस्त्रनिरूपणमनुसन्धेयम् । एषामेवोपसर्गेण संयोजनं कुतः इति शङ्कोदये उपसर्गाणामेव प्रशंसा विधेया । न त्वशेषमहानाम्नीप्रशंसा विधेया । अतः उक्तमेव प्रयोजनमित्यर्थः ।
सर्वासां त्रित्वमिति ।। ‘अयं वै लोकः प्रथमा महानाम्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीयः' इति वाक्यप्रतिपाद्यत्वं प्रकारद्वयेनाहेत्यर्थः । एतेन सर्वांसामृचां प्रत्येकमेकैकत्वेन त्रित्वाभावात् त्रित्वमाहेत्यनुपपन्नमिति परास्तम् । मूले तृचविभागेनेत्युक्तम् । विभागः कः इत्यत आह-विदा मघवन्निति । विदा मघवन्नित्यारभ्य ऋक्त्रयं प्रथमस्तृचः । विदारयेत्यारभ्य ऋक्त्रयं द्वितीयस्तृचः । इन्द्रं धनस्येत्यारभ्य ऋक्त्रयं तृतीयस्तृचः । सप्त निगदाः आयोमन्यायेत्येका ऋक्वेत्येतत्सम्वन्धिन इति न तृचां विभागत्वहानिरिति भावः ।
गूढवाक्यार्थपञ्चिका
( छ.टि.) संक्षेपविस्तराभ्यामिति । महानाम्नीनामृचां उपसर्गा ये उपसर्गभूतास्तानुपसृजतीति संग्रहवाक्येन संक्षेपतो व्याख्यातम् । ततः परं महन्नाम यास्वित्यादिना एतावत्पर्यन्तं विद्यमानेन ग्रन्थसंदर्भेण विस्तरतोऽपि व्याख्यातमित्यर्थः । तत्र शङ्कायामिति । तत्र अथातः छन्दांस्येव व्यतिषजतीति पूर्वखण्डे शस्त्राण्युक्त्वा अन्ते त्रिकद्रुकेष्वित्यादिना शस्त्रमुक्त्वा तत्र आये तृचे द्वितीयतृतीययोस्तृचोः पदत्रयस्य षोडशाक्षरवत्वात् द्वयोर्द्वादशाक्षरवत्वात् केषांचित्पादानां अष्टाक्षरवत्वात् एकैका ऋक् षोडशीद्वयं कर्तुं न शक्यत इति प्राप्तशङ्कायां महानाम्नीमुपसर्गानुपसृजतीत्यनेन वाक्येन परिहतायामुपसृजतीत्यतःपरं प्रप्रवस्त्रिष्टुभमित्यादिशत्रशेषो ब्राह्मणेन वक्तव्यः । मध्ये 'अयं वै लोकः' इत्यादि किमर्थमुच्यत इत्याशङ्कां परिहर्तुमाहेत्यर्थः । मूले प्रशंसा क्रियते इत्यतःपरं ‘अयं वै लोक:' इति ब्राह्मणेनेति शेषः । अशेषमहानाम्य: विदा मघवन्नित्याद्याः विदा मघवन्विदोमित्यन्ताः तदर्थो विष्णुरेव न तु प्रसिद्धेन्द्रादिः ताभिः ऋग्भिरिन्द्रशक्रादिशब्देन परमैश्वर्यादिमहागुणप्रतिपादनादिति भावेनाह-अर्थो महागुणो भगवानिति । अनुभवाभावे स्मरणासम्भवादाह- आदौ परिज्ञानमिति ।। अस्यैतत्प्रयोजनमिति ।। महानाम्नीप्रशंसनस्य तदर्थज्ञानस्मरणरूपमित्यर्थः ।
ननु उपसर्गप्रशंसनार्थं महानाम्नीप्रशसनं किं न स्यात् । अन्यथा तेषामेव अत्र संयोजनासंभव इत्यतः प्राप्तं मूलं विशदयति-तावन्मात्रमिति ॥ अन्तराशङ्कायां अक्षरन्यूनतया षोडशीत्वासंभवशङ्कायाम् । तत्समाधानमुपसर्गसंयोजनेन षोडशीत्वसम्भवम् । प्रकृतं प्रप्रवेत्यादिशस्त्रकथनम् । तेषामेवेति ।। प्रचेतनेत्यादीनामेव न तु 'विदा मघवन्' इत्यादीनाम् । अशेषमहानाम्नीप्रशंसायाः वैय्यर्थ्योपपादनायोक्तम्-प्रसक्तानुप्रसक्ताशेषेति ॥ उपसर्गयुक्तं अभिष्ट्वमित्यादि चतसृणां ऋचां प्रसक्तानां उपसर्गरहितानां ‘विदा मघवन्' इत्याद्यप्रसक्तानां चेति अशेषमहानाम्नीप्रशंसेत्यर्थः । अत उक्तमेव प्रयोजनमिति । सर्वमहानाम्नीप्रशंसाकरणात् अशेषमहानाम्नी-प्रशंसायाः अशेषमहानाम्यर्थपरिज्ञानसंस्मरणपूर्वकमुपसर्गसंयोजनं कर्तव्यमिति ज्ञापनमेवेत्यर्थः । ननु तिसृणामिवेति ।। महानाम्नीनामिति शेषः । न सर्वासामिति ।। ‘विदा मघवन्' इत्यारभ्य 'विदा मघवन् विदोमि'त्यन्तमहानाम्नीनामित्यर्थः । भाष्ये तृचविभागेनेति एकः प्रकारः विदा मघवन्नित्यादिद्वितीयः प्रकारः । तत्र प्रथमप्रकारे तृचानां विभागस्थलं दर्शयति-विदा मघवन्नित्यादिना ||
ननु ऋत्रयं तृचशब्देनोच्यते तथा च तृचत्रय एवाहीवेवाह्यग्ग्रापीत्यतः पूर्व समाप्तम् । एवाहीत्यादेस्स्तु कथं महानाम्नीत्वमित्यत आह-शिष्टमिति अन्तेन नूनं तं नव्यमित्यनुवाक्येन शिष्टं एवा हीत्यादिकम् । अन्तेन तृचेति वा । भाष्योक्तद्वितीयप्रकारविवरणं त्वग्रे भविष्यति । कथमेतदुच्यत इति ऐक्यमित्यर्थः । प्रशंसेत्युक्तत्वादिति ॥ काव्यादिषु अयथार्थप्रशंसायाः दर्शनादिति भावः । अनङ्गीकारादिति । यथाचैतत्तथा वक्ष्यत इति भावः । पृथिव्यां भव इति । पृथिव्यां नियामकत्वेन स्थितो वराह इत्यर्थः । एवमन्तरिक्ष्यः । अन्तरिक्षस्थो नृसिंहः । द्युगः स्वर्गलोकस्थो वामन इत्यर्थः । तदुक्तमैतरेयभाष्ये-'पृथिविस्थो वराहस्तु संहिता देवतोदिता । दिविष्ठो वामनश्चैव संप्रोक्तः पददेवता । नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता ॥' इति । अयं वै लोक इत्यादिभिरिति ।। लक्षणयेति शेषः । ब्राह्मणस्थपदैरित्यर्थः । आदिशब्दादन्तरिक्षलोकः असौ लोक इत्युभयं गृह्यते । तत्रायं वै लोक इत्यनेन प्रत्यक्षसिद्धत्वात्पृथिवी लोकः असौ लोक इति शब्देन परोक्षत्वात् स्वर्गलोको गृह्यते । तद्गतः पृथिव्यादिगतः । तथा च मार्गाश्चलन्तीतिवत् ‘अयं वै लोकः' इत्यादिपदानि तत्तल्लोकस्थविष्णुप्रतिपादकानि । शक्यसम्बन्धस्तु लोकानां विष्णुरूपाणां आधाराधेयभाव इति भावेन तद्गत इत्युक्तम् । अभेदोक्तिश्चेति । महानाम्नीनां भगवद्रूपाणां च ब्राह्मणोक्तसामानाधिकरण्यप्राप्त्येत्यर्थः । तत्र मुख्याभेदासंभवाल्लाक्षणिकाभेदग्रहणे शक्यसम्बन्धं वक्तुमुक्तं तद्वाच्य इति तदभिप्रायमाह-प्रतिपाद्य-प्रतिपादकत्वसम्वन्धनिमित्तेत्यर्थ इति । तथा च 'अयं वै लोक:' इत्यस्य पृथिवीलोकस्थो वराहः प्रथममहानाम्नीवाच्यः द्वितीयमहानाम्नीवाच्यो नृसिंहः । तृतीयमहानाम्नीवाच्यस्तु वामन इत्यर्थः । इदमुक्तं भवति । मूलयोजना तु या प्रथममहानाम्नी या च द्वितीया या च तृतीया इति स्थलत्रयेऽपि तद्वाच्य इत्यनुवृत्या द्रष्टव्या ।